त्रिणवादिस्तोमगतप्रतिष्ठितादिविष्टुतिविवरणं

3.1
नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृभिः
वज्रो वै त्रिणवो वज्रमेव तद्व्यूहति शान्त्यै
पञ्चभिर्विहितैका परिचरा पाङ्क्ताः पशवो यजमानः परिचरा यत् पञ्चभिर्विदधात्येका परिचरा भवति यजमानमेव तत् पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता त्रिणवस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
3.2
सप्तभ्यो हिङ्करोति स तिसृभिः स एकया नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिरुद्यती त्रिणवस्य विष्टुतिः
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
3.3
एकादशभ्यो हिङ्करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिङ्करोति स सप्तभिः स एकया स तिसृभिः
अन्तो वै त्रयस्त्रिंशः परमो वै त्रयस्त्रिंश स्तोमानां सप्तभिर्विहितैका परिचरा सप्त ग्राम्याः पशवो यजमानः परिचरा यत् सप्तभिर्विदधात्येका परिचरा भवति यजमानमेव तदन्ततः पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता त्रयस्त्रिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
3.4
एकादशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स तिसृभिरेकादशभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिर्नेदीयःसंक्रमा
अन्तो वै त्रयस्त्रिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति
पञ्चभिर्विहितास्तिस्रः परिचराः पाङ्क्ताः पशव एतावान् पुरुषो यदात्मा प्रजा जाया यत् पञ्चभिर्विदधाति तिस्रः परिचरा भवन्ति यजमानमेव तत् पशुषु प्रतिष्ठापयति पशुमान् भवति य एतया स्तुते
3.5
नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स सप्तभिस्त्रयोदशभ्यो हिङ्करोति स सप्तभिः स तिसृभिरुद्यती त्रयस्त्रिंशस्य विष्टुतिः
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽग्रादग्रं रोहत्यभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
3.6
त्रयोदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः प्रत्यवरोहिणीत्रयस्त्रिंशस्य विष्टुतिः
यथा महावृक्षस्याग्रं सृप्त्वा शाखायाः शाखामालम्भमुपावरोहेदेवमेतयेमं लोकमुपावरोहति प्रतिष्ठित्यै
त्रिवृता प्रैति त्रिवृतोदेति प्राणा वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति सर्वमायुरेति न पुरायुषः प्रमीयते य एतया स्तुते
तामेतां करद्विष उपासते तस्मात् ते सर्वमायुर्यन्ति
3.7
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः
यो वै त्रयस्त्रिंशमेकविंशे प्रतिष्ठितं वेद प्रतितिष्ठति प्रतिष्ठा वा एकविंशः स्तोमानां यदेताः सप्त त्रयस्त्रिंशस्योत्तमा भवन्ति सप्तविधैकविंशस्य विष्टुतिरेकविंश एव तत् त्रयस्त्रिंशं प्रतिष्ठापयति प्रतितिष्ठति य एतया स्तुते
3.8
अष्टाभ्यो हिङ्करोति स तिसृभिः स चतसृभिः स एकयाष्टाभ्यो हिङ्करोति स एकया स तिसृभिः स चतसृभिरष्टाभ्यो हिङ्करोति स चतसृभिः स एकया स तिसृभिः
पशवो वै छन्दोगा यदष्टाभ्योऽष्टाभ्यो हिङ्करोति अष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति
चतसृभिर्विहितैका परिचरा चतुष्पादाः पशवो यजमानः परिचरा यच्चतसृभिर्विदधात्येका परिचरा भवति यजमानमेव तत् पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता चतुर्विंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
3.9
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादशभिः स एकया चतुर्दशभ्यो हिङ्करोति स एकया स तिसृभिः स दशभिः पञ्चदशभ्यो हिङ्करोति स एकादशभिः स एकया स तिसृभिः
ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् पञ्चदशिन्यौ पूर्वे भवतश्चतुर्दशोत्तमा ब्रह्मणि चैव तत् क्षत्रे चौजो वीर्यं दधाति ब्रह्मणे चैव तत् क्षत्राय च विशमनुगां करोति क्षत्रस्येवास्य प्रकाशो भवति य एतया स्तुते
अस्तोमा वा एते यच्छन्दोगा अयुजो हि स्तोमा युग्मन्ति छन्दांसि यदेषा युजिनी चतुश्चत्वारिंशस्य विष्टुतिस्तेनास्तोमाः
एषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः प्रतितिष्ठैत् य एतया स्तुते
3.10
चतुर्दशभ्यो हिङ्करोति स तिसृभिः स दशभिः स एकया पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः स एकादशभिः पञ्चदशभ्यो हिङ्करोति स एकादशभिः स एकया स तिसृभिर्निर्मध्या
अस्तीव वा अयं लोकोऽस्तीवासौ छिद्रमिवेदमन्तरिक्षं यदेषा निर्मध्या भवतीमानेव लोकाननु प्रजायते प्र प्रजया प्र पशुभिर्जायते य एतया स्तुते
3.11
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादशभिः स एकया पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः स एकादशभिः चतुर्दशभ्यो हिङ्करोति स दशभिः स एकया स तिसृभिः
आज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीया
याज्यानां सा होतुर्या पृष्ठानां सा मैत्रावरुणस्य योक्थानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य या पृष्ठानां सहोतुर्योक्थानां सा मैत्रावरुणस्य याज्यानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य योक्थानां सा होतुर्याज्यानां सा मैत्रावरुणस्य या पृष्ठानां ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य सर्वा आज्येषु सर्वाः पृष्थेषु सर्वा उक्थेषु
पशवो वै समीषन्ती यदेषा सर्वाणि सवनान्यनुसंचरत्यनुसवनमेवैनं पशुभिः समर्धयति पशुमन् भवति य एतया स्तुते
3.12
षोडशभ्यो हिङ्करोति स तिसृभिः स द्वदशभिः स एकया षोडशभ्यो हिङ्करोति स एकया स तिसृभिः स द्वादशभिः षोडशभ्यो हिङ्करोति स द्वादशभिः स एकया स तिसृभिः
अन्तो वा अष्टाचत्वारिंशः पशवश्छन्दोगा यत् षोडशभ्यःषोडशभ्यो हिङ्करोति षोडशकलाः पशवः कलाशस्तत् पशूनाप्नोति
द्वादशभिर्विहितैका परिचरा द्वादशमासास्संव्वत्सरो यजमानः परिचरा यद्द्वादशभिर्विदधात्येका परिचरा भवति यजमानमेव तदन्ततस्संव्वत्सरे पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिताष्टाचत्वारिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
3.13
षोडशभ्यो हिङ्करोति स तिसृभिः स दशभिः स तिसृभिः षोडशभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स दशभिः षोडशभ्यो हिङ्करोति स दशभिः स तिसृभिः स तिसृभिर्नेदीयःसंक्रमा
अन्तो वा अष्टाचत्वारिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति
दशभिर्विहिता तिस्रः परिचरा दशाक्षरा विराडेतावान् पुरुषो यदात्मा प्रजा जाया यद्दशभिर्विदधात्त् तिस्रः परिचरा भवन्ति यजमानमेव तद्विराज्यन्नाद्येऽन्ततः प्रतिष्ठापयत्यन्नादो भवति य एतया स्तुते

३.१.१ प्रतिष्ठितां विष्टुतिं दर्शयति

नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृभिः

३.१.२ तस्याः प्रशंसार्थं उक्तव्यूहनं प्रशंसति

वज्रो वै त्रिणवो वज्रं एव तद्व्यूहति शान्त्यै

३.१.३ विहितपञ्चसंख्याप्रशंसनं

पञ्चभिर्विहितैका परिचरा पाङ्क्ताः पशवो यजमानः परिचरा यत्पञ्चभिर्विदधात्येका परिचरा भवति यजमानं एव तत्पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता त्रिणवस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.२.१ त्रिणवस्य उद्यत्याख्या द्वितीया विष्टुतिः

सप्तभ्यो हिङ्करोति स तिसृभिः स एकया नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिरुद्यती त्रिणवस्य विष्टुतिः

३.२.२ तस्याः प्रशंसनं

एतया वै देवाः स्वर्गं लोकं आयन्स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव

३.३.१ समत्रंशाख्या विष्टुतिः

एकादशभ्यो हिङ्करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिङ्करोति स सप्तभिः स एकया स तिसृभिः

३.३.२ तां स्तौति

अन्तो वै त्रयस्त्रिंशः परमो वै त्रयस्त्रिंश स्तोमानां सप्तभिर्विहितैका परिचरा सप्त ग्राम्याः पशवो यजमानः परिचरा यत्सप्तभिर्विदधात्येका परिचरा भवति यजमानं एव तदन्ततः पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता त्रयस्त्रिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.४.१ नेदीयः संक्रमाख्या विष्टुतिः

एकादशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स तिसृभिरेकादशभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिर्नेदीयःसंक्रमा

३.४.२ एषा त्रयस्त्रिंशेन संगता

अन्तो वै त्रयस्त्रिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात्संक्रामत्येवं एतन्नेदीयःसंक्रमया नेदीयःसंक्रमात्संक्रामति

३.४.३ प्रतिष्ठाहेतुत्वेन तस्याः प्रशंसा

पञ्चभिर्विहितास्तिस्रः परिचराः पाङ्क्ताः पशव एतावान्पुरुषो यदात्मा प्रजा जाया यत्पञ्चभिर्विदधाति तिस्रः परिचरा भवन्ति यजमानं एव तत्पशुषु प्रतिष्ठापयति पशुमान्भवति य एतया स्तुते

३.५.१ त्रिणवस्तोमस्य उद्यत्याख्या विष्टुतिः

नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स सप्तभिस्त्रयोदशभ्यो हिङ्करोति स सप्तभिः स तिसृभिरुद्यती त्रयस्त्रिंशस्य विष्टुतिः

३.५.२ स्वर्गकामस्यैषेति अस्याः प्रशंसा

एतया वै देवाः स्वर्गं लोकं आयन्स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽग्रादग्रं रोहत्यभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव

३.६.१ त्रिणवस्य विष्टुत्यन्तरमाह

त्रयोदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः प्रत्यवरोहिणीत्रयस्त्रिंशस्य विष्टुतिः

३.६.२ तस्याः सदृष्टान्तमुपपादनं

यथा महावृक्षस्याग्रं सृप्त्वा शाखायाः शाखां आलम्भं उपावरोहेदेवं एतयेमं लोकं उपावरोहति प्रतिष्ठित्यै

३.६.३ आयुर्हेतुत्वेनास्याः प्रशंसा

त्रिवृता प्रैति त्रिवृतोदेति प्राणा वै त्रिवृत्प्राणेनैव प्रैति प्राणं अभ्युदेति सर्वं आयुरेति न पुरायुषः प्रमीयते य एतया स्तुते

३.६.४ एषा केषाञ्चिन्नित्येत्याह

तां एतां करद्विष उपासते तस्मात्ते सर्वं आयुर्यन्ति

३.७.१ अन्त्या विष्टुतिः

पञ्चदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः

३.७.२ तस्याः प्रशंसा

यो वै त्रयस्त्रिंशं एकविंशे प्रतिष्ठितं वेद प्रतितिष्ठति प्रतिष्ठा वा एकविंशः स्तोमानां यदेताः सप्त त्रयस्त्रिंशस्योत्तमा भवन्ति सप्तविधैकविंशस्य विष्टुतिरेकविंश एव तत्त्रयस्त्रिंशं प्रतिष्ठापयति प्रतितिष्ठति य एतया स्तुते

३.८.१ छन्दोमानां प्रथमा विष्टुतिः

अष्टाभ्यो हिङ्करोति स तिसृभिः स चतसृभिः स एकयाष्टाभ्यो हिङ्करोति स एकया स तिसृभिः स चतसृभिरष्टाभ्यो हिङ्करोति स चतसृभिः स एकया स तिसृभिः

३.८.२ तस्याः प्रशंसा

पशवो वै छन्दोगा यदष्टाभ्यो-ऽष्टाभ्यो हिङ्करोति अष्टाशफाः पशवः शफशस्तत्पशूनाप्नोति

३.८.३ अथास्याः स्तुतिः

चतसृभिर्विहितैका परिचरा चतुष्पादाः पशवो यजमानः परिचरा यच्चतसृभिर्विदधात्येका परिचरा भवति यजमानं एव तत्पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता चतुर्विंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.९.१ चतुश्चत्वारिंशस्य प्रथमा विष्टुतिः

पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादशभिः स एकया चतुर्दशभ्यो हिङ्करोति स एकया स तिसृभिः स दशभिः पञ्चदशभ्यो हिङ्करोति स एकादशभिः स एकया स तिसृभिः

३.९.२ तस्याः प्रशंसा

ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत्पञ्चदशिन्यौ पूर्वे भवतश्चतुर्दशोत्तमा ब्रह्मणि चैव तत्क्षत्रे चौजो वीर्यं दधाति ब्रह्मणे चैव तत्क्षत्राय च विशं अनुगां करोति क्षत्रस्येवास्य प्रकाशो भवति य एतया स्तुते

३.९.३ तस्याः पुनः प्रशंसनं

अस्तोमा वा एते यच्छन्दोगा अयुजो हि स्तोमा युग्मन्ति छन्दांसि यदेषा युजिनी चतुश्चत्वारिंशस्य विष्टुतिस्तेनास्तोमाः

३.९.४ तां पुनः प्रशंसति

एषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः प्रतितिष्ठैत्य एतया स्तुते

३.१०.१ निर्म्मध्या विष्टुतिः

चतुर्दशभ्यो हिङ्करोति स तिसृभिः स दशभिः स एकया पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः स एकादशभिः पञ्चदशभ्यो हिङ्करोति स एकादशभिः स एकया स तिसृभिर्निर्मध्या

३.१०.२ तस्याः प्रशंसा

अस्तीव वा अयं लोकोऽस्तीवासौ छिद्रं इवेदं अन्तरिक्षं यदेषा निर्मध्या भवतीमानेव लोकाननु प्रजायते प्र प्रजया प्र पशुभिर्जायते य एतया स्तुते

३.११.१ तृतीया विष्टुतिः

पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादशभिः स एकया पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः स एकादशभिः चतुर्दशभ्यो हिङ्करोति स दशभिः स एकया स तिसृभिः

३.११.२ सवनत्रयभेदेन तिसॄणां प्रयोगव्यवस्था ।

आज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीया

३.११.३ प्रकारान्तरेणासां प्रयोगव्यवस्था

याज्यानां सा होतुर्या पृष्ठानां सा मैत्रावरुणस्य योक्थानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य या पृष्ठानां सहोतुर्योक्थानां सा मैत्रावरुणस्य याज्यानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य योक्थानां सा होतुर्याज्यानां सा मैत्रावरुणस्य या पृष्ठानां ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य सर्वा आज्येषु सर्वाः पृष्थेषु सर्वा उक्थेषु

३.११.४ उक्तव्यवस्थाप्रशंसनं

पशवो वै समीषन्ती यदेषा सर्वाणि सवनान्यनुसंचरत्यनुसवनं एवैनं पशुभिः समर्धयति पशुमन्भवति य एतया स्तुते

३.१२.१ अष्टाचत्वारिंशस्तोमस्य प्रथमा विष्टुतिः

षोडशभ्यो हिङ्करोति स तिसृभिः स द्वदशभिः स एकया षोडशभ्यो हिङ्करोति स एकया स तिसृभिः स द्वादशभिः षोडशभ्यो हिङ्करोति स द्वादशभिः स एकया स तिसृभिः

३.१२.२ तस्याः प्रशंसा

अन्तो वा अष्टाचत्वारिंशः पशवश्छन्दोगा यत्षोडशभ्यः-षोडशभ्यो हिङ्करोति षोडशकलाः पशवः कलाशस्तत्पशूनाप्नोति

३.१२.३ तां स्तौति

द्वादशभिर्विहितैका परिचरा द्वादशमासास्संव्वत्सरो यजमानः परिचरा यद्द्वादशभिर्विदधात्येका परिचरा भवति यजमानं एव तदन्ततस्संव्वत्सरे पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिताष्टाचत्वारिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.१३.१ अष्टाचत्वारिंशस्तोमस्य द्वितीया विष्टुतिः

षोडशभ्यो हिङ्करोति स तिसृभिः स दशभिः स तिसृभिः षोडशभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स दशभिः षोडशभ्यो हिङ्करोति स दशभिः स तिसृभिः स तिसृभिर्नेदीयःसंक्रमा

३.१३.२ तां स्तौति

अन्तो वा अष्टाचत्वारिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात्संक्रामत्येवं एतन्नेदीयःसंक्रमया नेदीयःसंक्रमात्संक्रामति

३.१३.३ प्रकारान्तरे तां स्तौति

दशभिर्विहिता तिस्रः परिचरा दशाक्षरा विराडेतावान्पुरुषो यदात्मा प्रजा जाया यद्दशभिर्विदधात्त्तिस्रः परिचरा भवन्ति यजमानं एव तद्विराज्यन्नाद्येऽन्ततः प्रतिष्ठापयत्यन्नादो भवति य एतया स्तुते