पञ्चविंशब्राह्मणम्/अध्यायः ५
- महाव्रतस्य शिरः पक्षौ पुच्छ आत्मेति होतुः पञ्चविधपृष्ठस्तोत्रकथनं
5.1
वामदेव्यं महाव्रतं[१] कार्यम्
त्रिवृच्छिरो भवति
त्रिवृद्ध्येव शिरो लोम त्वगस्थि
पाङ्क्त इतर आत्मा लोम त्वङ्मांसमस्थि मज्जा
सकृद्धिङ्कृतेन शिरसा पाराचा स्तुवते
तस्माच्छिरोऽङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्यनुकृश्यति
पुनरभ्यावर्तमितरेणात्मना स्तुवते तस्मादितर आत्मा मेद्यति च कृश्यति च
अर्कवतीषु[२] गायत्रीषु शिरो भवति
अन्नं वा अर्को ब्रह्मवर्चसं गायत्र्यन्नाद्यं चैवैभ्यो ब्रह्मवर्चसं च मुखतो दधाति
पञ्चदशसप्तदशौ पक्षौ भवतः पक्षाभ्यां वै यजमानो वयो भूत्वा स्वर्गं लोकमेति
तावाहुः समौ कार्यौ पञ्चदशौ वा सप्तदशौ वा सवीवधत्वाय
तद्वाहुर्यत् समौ भवत एकवीर्यौ तर्हि भवत इति पञ्चदशसप्तदशावेव कार्यौ साचीव वै वयः पक्षौ कृत्वापतीयः पतति
दक्षिणतो बृहत् कार्यं दक्षिणो वा अर्ध आत्मनो वीर्यवत्तरः
अथो खल्वाहुरुत्तरत एव कार्यं ब्राह्मणाच्छंसिनोऽर्धात् त्रैष्टुभं वै बृहत् त्रैष्टुभो वै ब्राह्मणाच्छंसी त्रैष्टुभः पञ्चदशस्तोमः
दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद्गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः
एकविंशं पुच्छं भवति
एकविंशो वै स्तोमानां प्रतिष्ठा तस्माद्वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति
यज्ञायज्ञीयं पुच्छं कार्यं यज्ञायज्ञीयं ह्येव महाव्रतस्य पुच्छम्
अथो खल्वाहुरतिशयं वै द्विपदां यज्ञायज्ञीयं भद्रं कार्यं समृद्ध्यै
5.2
वामदेव्यं महाव्रतं कार्यं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम्
यो वै महाव्रते सहस्रं प्रोतं वेद प्र सहस्रं पशूनाप्नोति
तस्य प्राची दिक्शिरस्तच्छन्दोभिः सहस्रमसावन्यतरः पक्षः सनक्षत्त्रैः साहस्रोऽयमन्यतरः पक्षः स ओषधिभिश्च वनस्पतिभिश्च साहस्रोऽन्तरिक्षमात्मा तद्वयोभिः साहस्रं प्रतीची दिक्पुच्छं तदग्निभिश्च रश्मिभिश्च साहस्रं प्र सहस्रं पशूनाप्नोति य एवंव्वेद
तदाहुरपृष्ठं वै वामदेव्यमनिधनं हीति
अनायतनं वा एतत् साम यदनिधनम्
राजनं महाव्रतं कार्यम्
एतद्वै साक्षादन्नं यद्राजनं पञ्चविधं भवति पाङ्क्तं ह्यन्नम्
हिङ्कारवद्भवति तेन वामदेव्यस्य रूपम्
निधनवद्भवति तेन पृष्ठस्य रूपम्
अतिच्छन्दःसु पञ्चनिधनं वामदेव्यं ब्रह्मसाम कार्यम्
अति वा एषान्यानि च्छन्दांसि यदतिच्छन्दा अत्येतदन्यान्यहान्यहर्यन्महाव्रतम्
ब्रह्मसाम्नैव तदन्यान्यहान्यतिमेदयति
पञ्चनिधनं भवति पाङ्क्तं ह्यन्नम्
5.3
इलान्दमग्निष्टोमसाम कार्यम्
एतद्वै साक्षादन्नं यदिलान्दमिरान्नं एतदिरायामेवान्नाद्येऽन्ततः प्रतितिष्ठन्ति
समुद्रो वा एतच्छन्दः सलिलं लोमशं समुद्र इव खलु वै स भवति सलिल इव लोमश इव यो भवति
तस्मादेतासु कार्यं समृद्ध्यै
व्रतमिति निधनं भवति महाव्रतस्यैव तद्रूपं क्रियते स्वरिति भवति स्वर्गस्य लोकस्य समष्ट्यै शकुन इति भवति शकुन इव वै यजमानो वयो भूत्वा स्वर्गंल्लोकमेति
यज्ञायज्ञीयमग्निष्टोमसाम कार्यम्
यद्वा अन्या वाङ्नातिवदेत् तदग्निष्टोमसाम कार्यं न वै वाग्वाचमतिवदति वाग्यज्ञायज्ञीयं वाच्येवान्ततः प्रतितिष्ठन्ति
वारवन्तीयमग्निष्टोमसाम कार्यम्
अग्निर्वा इदं वैश्वानरोऽदहन्नैतस्माद्देवा अबिभयुस्तं वरणशाखयावारयन्त यदवारयन्त तस्माद्वारवन्तीयम्
तस्माद्वरणो भिषज्य एतेन हि देवा आत्मानमत्रायन्त
तस्माद्ब्राह्मणो वारणेन न पिबेद्वैश्वानरं नेच्छमया इति
पशवो वै वारवन्तीयं शान्तिः पशवः शान्तादेव तत् संव्वत्सरादुत्तिष्ठन्ति
5.4
प्राणेन[३] पुरस्तादाहवनीयमुपतिष्ठन्ते प्राणमेव तज्जयन्ति
अपानेन[४] पश्चात् पुच्छमुपतिष्ठन्ते अपानमेव तज्जयन्ति
व्रतपक्षाभ्यां[५] पक्षावुपतिष्ठन्ते दिश एव तज्जयन्ति
प्रजापतेर्हृदयेन अपिकक्षमुपतिष्ठन्ते ज्यैष्ठ्यमेव तज्जयन्ति
वसिष्ठस्य निहवेन चात्वालमुपतिष्ठन्ते स्वर्गमेव तल्लोकमाप्त्वा श्रियं वदन्ते
वैश्वदेव्यामृचि भवति विश्वरूपं वै पशूनां रूपं पशूनेव तज्जयन्ति
सत्त्रस्यर्द्ध्याग्नीध्रमुपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति
चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्ति
आतमितोर्निधनमुपयन्त्यायुरेव सर्वमाप्नुवन्ति
श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिमेव तज्जयन्ति
यामेन मार्जालीयमुपतिष्ठन्ते पितृलोकमेव तज्जयन्ति
आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत् क्षत्रं च जयन्ति
ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठन्ते
इन्द्रं सर्वाणि भूतान्यस्तुवंस्तस्यर्श्य एकमङ्गमस्तुतमचायत् तदस्यैतेनास्तौत् तेनास्य प्रियं धामोपागच्छत् प्रियमेवास्यैतेन धामोपगच्छन्ति
यत् परोऽक्षं निधनमुपेयुर्ह्रीतमुखं प्रतिमुञ्चेरन् प्रत्यक्षमुपयन्ति ह्रीतमुखमेवापजयन्ति
5.5
आसन्दीमारुह्योद्गायति देवसाक्ष्य एव तदुपरिषद्यं जयति
औदुम्बरी भवत्यूर्गुदुम्बर ऊर्जमेवावरुन्द्धे
प्रादेशमात्री भवत्यस्य लोकस्यानुद्धानाय
छन्दोभिरारोहति स्वर्गमेव तल्लोकमारोहति
छन्दोभिरुपावरोहत्यस्मिं लोके प्रतितिष्ठति
सर्वेणात्मना समुद्धृत्योद्गेयमेषु लोकेषु नेद्व्याहितोऽसानीति
एकस्यां स्तोत्रीयायामस्तुतायां पादावुपाहरति
सह निधनेन प्रतिष्ठामुपयन्त्येषेष्वेव लोकेषु प्रतितिष्ठन्ते
प्रेङ्खामारुह्य होता शंसति महस एव तद्रूपं क्रियते
यदा वै प्रजा मह आविशति प्रेङ्खास्तर्ह्यारोहन्ति
फलकमारुह्याध्वर्युः प्रतिगृणाति
कूर्चानितरेऽध्यासत ऊर्ध्वा एव तदुत्क्रामन्तो यन्ति
अभिगरापगरौ भवतो निन्दत्येनानन्यः प्रान्यः शंसति य एनान्निन्दति पाप्मानमेषां सोऽपहन्ति यः प्रशंसति यदेवैषां सुष्टुतं सुशस्तं तत् सोऽभिगृणाति
शूद्रार्यौ चर्मणि व्यायच्छेते तयोरार्यं वर्णमुज्जापयन्ति
देवाश्च वा असुराश्चादित्ये व्यायच्छन्तस्तं देवा अभ्यजयंस्ततो देवा अभवन् । परासुरा अभवन्नात्मना परास्य भ्रातृव्यो भवति य एवंव्वेद
यदार्यं वर्णमुज्जापयन्त्यात्मानमेव तदुज्जापयन्ति
परिमण्डलं चर्म भवत्यादित्यस्यैव तद्रूपं क्रियते
सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या वनस्पतिषु वाक्तामेव तज्जयन्ति
भूमिदुन्दुभिर्भवति या पृथिव्यां वाक्तामेव तज्जयन्ति
सर्वा वाचो वदन्ति येषु लोकेषु वाक्तामेव तज्जयन्ति
संनद्धाः कवचिनः परियन्तीन्द्रियस्यैव तद्रूपं क्रियतेऽथो महाव्रतमेव महयन्ति
5.6
सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्
अध्वर्युः शिरसोद्गायन्मैत्रावरुणो दक्षिणेन पक्षेण ब्राह्मणाच्छंस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मना
तद्यद्येवं कुर्युरेकैकया स्तोत्रीययास्तुतयोद्गातारमभिसमेयुः
तिसृभिरुद्गातात्मन उद्गीयाथ या शिरसः स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ या दक्षिणस्य पक्षस्य स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ योत्तरस्य पक्षस्य स्तोत्रीया तां दध्यात् तिसृभिर्वैकया वा स्तुतं स्यादथ या पुच्छस्य स्तोत्रीया तां दध्यात्
आत्मन्येव तदङ्गानि प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
अथो खल्वाहुः कथमध्वर्युर्बह्वृचः साम गायेदित्युद्गातैव सर्वेणोद्गायेत् तदेव समृद्धं समृद्धावेव प्रतितिष्ठन्ति
हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस्ते दक्षिणेन धिष्ण्यान् परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरंस्त उदञ्चः संसर्पेयुर्जघनेन होतुर्धिष्ण्यं पश्चाद्ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरंस्ते येनैव प्रसर्पेयुस्तेन पुनर्निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद्गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरंस्ते येनैव निःसर्पेयुस्तेन पुनः प्रसृप्य यथायतनमुपविश्यासन्दीमारुह्योद्गातात्मनोद्गायति
तं पत्न्योऽपघाटिलाभिरुपगायन्त्यार्त्विज्यमेव तत् पत्न्यः कुर्वन्ति सह स्वर्गंल्लोकमयामेति
कुलेकुलेऽन्नं क्रियते तद्यत् पृच्छेयुः किमिदं कुर्वन्तीतीमे यजमाना अन्नमत्स्यन्तीति ब्रूयुः
यो वै दीक्षितानां पापं कीर्तयति तृतीयमेवांशं पाप्मनो हरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम्
परिमाद्भिश्चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य यत् परिमादस्त्वचं चैव तल्लोम च महाव्रतस्याप्त्वावरुन्धते
वाणं वितन्वन्त्यन्तो वै वाणोऽन्तो महाव्रतमन्तेनैव तदन्तमभिवादयन्ति
शततन्त्रीको भवति शतायुर्वै पुरुषः शतवीर्यः
तमुल्लिखेत् प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणापानव्यानानेव तदाप्त्वावरुन्धते
परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्विदं मध्विति सघोषा एव तद्वयो भूत्वा सह स्वर्गंल्लोकं यन्ति
5.7
देवा वै वाचं व्यभजन्त तस्या यो रसोऽत्यरिच्यत तद्गौरीवितमभवदनुष्टुभमनु परिप्लवते वागनुष्टुब्वाचो रसो गौरीवितम्
यद्गौरीवितेनान्वहंस्स्तुवते वाच्येव तद्वाचा रसं दधति
रसवद्वाचा वदति य एवंव्वेदेति
द्व्युदासं भवति स्वर्गस्य वा एतौ लोकस्यावसानदेशौ पूर्वेणैव पूर्वमहः संस्थापयन्त्युत्तरेणोत्तरमहरभ्यतिवदन्ति
एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितं यद्गौरीवितमनुसृजेयुरश्वस्तना अप्रजसः स्युः
सं वा अन्यो यज्ञस्तिष्ठत इत्याहुर्वागेव न संतिष्ठत इति यद्गौरीवितमन्वहं भवति वाचमेव तत् पुनः प्रयुञ्जते
स्वर्णिधनमन्वहं भवति
देवक्षेत्रं वा एतेऽभ्यारोहन्ति ये स्वर्णिधनमुपयन्ति स उ वै सत्त्रिणः सत्त्रमुपनयेदित्याहुर्य एनान् देवक्षेत्रमभ्यारोहेदिति न वै देवक्षेत्र आसीन आर्तिमार्छति यत् स्वर्णिधनमन्वहं भवति नैव कां चनार्तिमार्छन्ति
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये स्वर्णिधनमुपयन्तीति यदृचा स्वरूपं यन्त्यस्मिं लोके प्रतितिष्ठन्ति यदेकारोऽतरिक्षे यत् साम्नामुष्मिन्त् सर्वेषु लोकेषु प्रतितिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः
सुज्ञानं भवति
देवा वै स्वर्गंल्लोकं यन्तोऽज्ञातादबिभयुस्त एतत् संज्ञानमपश्यंस्तेन ज्ञात्रमगच्छन् यत् सुज्ञानमन्वहं भवति ज्ञात्रमेव गच्छन्ति
5.8
ये वै वाचमन्नमादयन्त्यन्नादा भवन्ति ये वितर्षयन्ति रुक्षा भवन्ति
गौरीवितं श्यावाश्वं निहव एतानि वै सामानि वाचोऽन्नमेतेषां वागन्नं यदेतानि न च्यवन्ते वाचमेव तदन्नमादयन्ति तेन सर्वेऽन्नादा भवन्ति
अभिक्रान्तापक्रान्तानि भवन्त्यभिक्रान्तापक्रान्तं वै वाचो रूपम्
प्लवोऽन्वहं भवति
समुद्रं वा एते प्रस्नान्ति ये संव्वत्सरमुपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत् प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुःशस्तं तदेतेन तरन्ति
ओकोनिधनं षडहमुखे भवति
परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं गच्छन्ति यदोकोनिधनं षडहमुखे भवति प्रज्ञात्यै
यदा वै पुरुषः स्वमोक आगच्छति सर्वं तर्हि प्रजानाति सर्वमस्मै दिवा भवति
5.9
एकाष्टकायां दीक्षेरन्
एषा वै संव्वत्सरस्य पत्नी यदेकाष्टकैतस्यां वा गतां रात्रिं वसति साक्षादेव तत् संव्वत्सरमारभ्य दीक्षन्ते
तस्य सानिर्या यदपोऽ नभिनन्दन्तोऽभ्यवयन्ति
विच्छिन्नं वा एते संव्वत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्तेऽन्तनामानावृतू भवेते
आर्तं वा एते संव्वत्सरस्याभिदीक्षन्ते येऽन्तनामानावृतू अभिदीक्षन्ते
तस्मादेकाष्टकायां न दीक्ष्यम्
फाल्गुने दीक्षेरन्
मुखं वा एतत् संव्वत्सरस्य यत् फाल्गुनो मुखत एव तत् संव्वत्सरमारभ्य दीक्षन्ते
तस्य सानिर्या यत् संमेघे विषुवान् संपद्यते
चित्रापूर्णमासे दीक्षेरन्
चक्षुर्वा एतत् संव्वत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मुखत एव तत् संव्वत्सरमारभ्य दीक्षन्ते तस्य न निर्यास्ति
चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन्
तेषामकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संबट्कुर्वन्ति
तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः पशव ओषधयोऽनूत्तिष्ठन्ति तान् कल्याणी वागभिवदर्यरात्सुरिमे सत्त्रिण इति ते राध्नुवन्ति
5.10
आ वा एते संव्वत्सरं प्याययन्ति य उत्सृजन्ति
यथा वै दृतिराध्मात एवं संव्वत्सरोऽनुत्सृष्टो यन्नोत्सृजेयुरमेहेन प्रमायुकाः स्युः
प्राणो वै संव्वत्सर उदाना मास[६]ा यदुत्सृजन्ति प्राण एवोदानान् दधति यो दीक्षितः प्रमीयते या संव्वत्सरस्यानुत्सृष्टस्य शुक्सा तमृच्छति
तदाहुरुत्सृज्या३ं नोत्सृज्या३ इति
यद्युत्सृजेयुरुक्थान्युत्सृजेयुस्तदेवोत्सृष्टं तदनुत्सृष्टम्
अथो खल्वाहुरेकत्रिकं कार्यं तदेव साक्षादुत्सृष्टमभ्युत्षुण्वन्ति
छिद्रो वा एतेषां संव्वत्सर इत्याहुर्ये स्तोममुत्सृजन्तीति
पशुमालभन्ते स्तोममेव तदालभन्ते स्तोमो हि पशुः
श्व उत्सृष्टाः स्म इति वत्सानपाकुर्वन्ति प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति ततस्सवनीयेनाष्टाकपालेन तत आग्नेयेनाष्टाकपालेन ततो दध्नैन्द्रेण ततश्चरुणा वैश्वदेवेन तत् प्रातःसवनं संतिष्ठन्ते
ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीयेनैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन ततश्चरुणैन्द्रेण तन्माध्यन्दिनं सवनं संतिष्ठन्ते
पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन ततो वैश्वदेवेन द्वादशकपालेन ततश्चरुणाग्निमारुतेन तत् तृतीयं सवनं संतिष्ठन्ते
पृषदाज्येन प्रचर्य पत्नीस्संयाजयन्ति
- ५.१.१ वामदेव्यमहाव्रतकर्त्तव्यता
वामदेव्यं महाव्रतं कार्यम्
- ५.१.२ शिरसस्त्रिवृत्स्तोमविधानं
त्रिवृच्छिरो भवति
- ५.१.३ स्तोमस्य शिरसा सहानुरूपत्वं ।
त्रिवृद्ध्येव शिरो लोम त्वगस्थि
- ५.१.४ व्यतिरेकेन शिरसस्त्रिवृत्त्वकथनं
पाङ्क्त इतर आत्मा लोम त्वङ्मांसं अस्थि मज्जा
- ५.१.५ शिरसा स्तोभकेन स्तोत्रविधानं
सकृद्धिङ्कृतेन शिरसा पाराचा स्तुवते
- ५.१.६ अनावृत्तस्तोत्रं
तस्माच्छिरोऽङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्यनुकृश्यति
- ५.१.७ इतरेषामषि वृद्धिकार्श्यप्रदर्शनं
पुनरभ्यावर्तं इतरेणात्मना स्तुवते तस्मादितर आत्मा मेद्यति च कृश्यति च
- ५.१.८ शिरसोगायत्रीसाम्नः स्तोत्रीयाविधानं
अर्कवतीषु गायत्रीषु शिरो भवति
- ५.१.९ स्तोत्रीयाणामर्कत्वं गायत्रत्वञ्च
अन्नं वा अर्को ब्रह्मवर्चसं गायत्र्यन्नाद्यं चैवैभ्यो ब्रह्मवर्चसं च मुखतो दधाति
- ५.१.१० स्तोभविशिष्टौ पक्षौ विधत्ते
पञ्चदशसप्तदशौ पक्षौ भवतः प्रक्षाभ्यां वै यजमानो वयो भूत्वा स्वर्गं लोकं एति
- ५.१.११ अन्यमतोपन्यासः
तावाहुः समौ कार्यौ पञ्चदशौ वा सप्तदशौ वा सवीवधत्वाय
- ५.१.१२ अन्यमतदूषणं
तद्वाहुर्यत्समौ भवत एकवीर्यौ तर्हि भवत इति पञ्चदशसप्तदशावेव कार्यौ साचीव वै वयः पक्षौ कृत्वापतीयः पतति
- ५.१.१३ बृहद्रथन्तरयोर्द्दक्षिणतः कार्य्यं
दक्षिणतो बृहत्कार्यं दक्षिणो वा अर्ध आत्मनो वीर्यवत्तरः
- ५.१.१४ उक्तपक्षस्य सिद्धान्तमाह
अथो खल्वाहुरुत्तरत एव कार्यं ब्राह्मणाच्छंसिनोऽर्धात्त्रैष्टुभं वै बृहत्त्रैष्टुभो वै ब्राह्मणाच्छंसी त्रैष्टुभः पञ्चदशस्तोमः
- ५.१.१५ दक्षिणपक्षे रथन्तरं कार्य्यं
दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद्गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः
- ५.१.१६ एकविंशात्मकं पुच्छं कार्य्यं
एकविंशं पुच्छं भवति
- ५.१.१७ तस्य प्रशंसनं
एकविंशो वै स्तोमानां प्रतिष्ठा तस्माद्वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति
- ५.१.१८ यज्ञायज्ञीयं पुच्छे कार्य्यं
यज्ञायज्ञीयं पुच्छं कार्यं यज्ञायज्ञीयं ह्येव महाव्रतस्य पुच्छम्
- ५.१.१९ पक्षान्तरकथनं
अथो खल्वाहुरतिशयं वै द्विपदां यज्ञायज्ञीयं भद्रं कार्यं समृद्ध्यै
- ५.२.१ महाव्रतस्यापरः कल्पः
वामदेव्यं महाव्रतं कार्यं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम्
- ५.२.२ पञ्चविधवेदनप्रशंसा
यो वै महाव्रते सहस्रं प्रोतं वेद प्र सहस्रं पशूनाप्नोति
- ५.२.३ पञ्चावयवस्वरूपकथनं
तस्य प्राची दिक्शिरस्तच्छन्दोभिः सहस्रं असावन्यतरः पक्षः सनक्षत्त्रैः साहस्रोऽयं अन्यतरः पक्षः स ओषधिभिश्च वनस्पतिभिश्च साहस्रोऽन्तरिक्षं आत्मा तद्वयोभिः साहस्रं प्रतीची दिक्पुच्छं तदग्निभिश्च रश्मिभिश्च साहस्रं प्र ससस्रं पशूनाप्नोति य एवंव्वेद
- ५.२.४ पूर्व्वोक्तपक्षनिराशः
तदाहुरपृष्ठं वै वामदेव्यं अनिधनं हीति
- ५.२.५ निधनत्वमपृष्ठत्वे हेतुः
अनायतनं वा एतत्साम यदनिधनम्
- ५.२.६ महाव्रतस्वरूपनिर्णयः
राजनं महाव्रतं कार्यम्
- ५.२.७ तस्य प्रशंसा
एतद्वै साक्षादन्नं यद्राजनं पञ्चविधं भवति पाङ्क्तं ह्यन्नम्
- ५.२.८ महाव्रतकरणफलकथनं
हिङ्कारवद्भवति तेन वामदेव्यस्य रूपम्
- ५.२.९ पृष्ठस्तोत्रे योग्यताकथनं
निधनवद्भवति तेन प्र्ष्ठस्य रूपम्
- ५.२.१० पृष्ठस्तोत्रनिवर्त्तकमेकं साम
अतिच्छन्दःसु पञ्चनिधनं वामदेव्यं ब्रह्मसाम कार्यम्
- ५.२.११ अतिच्छन्दोगानस्तुतिः
अति वा एषान्यानि च्छन्दांसि यदतिच्छन्दा अत्येतदन्यान्यहान्यहर्यन्महाव्रतम्
- ५.२.१२ विहितब्रह्मसामप्रशंसा
ब्रह्मसाम्नैव तदन्यान्यहान्यतिमेदयति
- ५.२.१३ निधनद्वारेण तत्प्रशंसनं
पञ्चनिधनं भवति पाङ्क्तं ह्यन्नम्
- ५.३.१ इलान्दमग्निष्टोमत्वेन कर्त्तव्यं
इलान्दं अग्निष्टोमसाम कार्यम्
- ५.३.२ तस्य प्रशंसनं
एतद्वै साक्षादन्नं यदिलान्दं इरान्नं एतदिरायां एवान्नाद्येऽन्ततः प्रतितिष्ठन्ति
- ५.३.३ ऋचां छन्दोविधानं
समुद्रो वा एतच्छन्दः सलिलं लोमशं समुद्र इव खलु वै स भवति सलिल इव लोमश इव यो भवति
- ५.३.४ तासां सामाधारत्वविधानं
तस्मादेतासु कार्यं समृद्ध्यै
- ५.३.५ अस्य निधनत्रयाणां प्रशंसा
व्रतं इति निधनं भवति महाव्रतस्यैव तद्रूपं क्रियते स्वरिति भवति स्वर्गस्य लोकस्य समष्ट्यै शकुन इति भवति शकुन इव वै यजमानो वयो भूत्वा स्वर्गंल्लोकं एति
- ५.३.६ यज्ञायज्ञीयकर्त्तव्यताविधानं
यज्ञायज्ञीयं अग्निष्टोमसाम कार्यम्
- ५.३.७ तस्य स्तुतिः
यद्वा अन्या वाङ्नातिवदेत्तदग्निष्टोमसाम कार्यं न वै वाग्वाचं अतिवदति वाग्यज्ञायज्ञीयं वाच्येवान्ततः प्रतितिष्ठन्ति
- ५.३.८ वारवन्तीयमग्निष्टोमसाम कार्य्यं
वारवन्तीयं अग्निष्टोमसाम कार्यम्
- ५.३.९ तस्य स्तुतिः
अग्निर्वा इदं वैश्वानरोऽदहन्नैतस्माद्देवा अबिभयुस्तं वरणशाखयावारयन्त यदवारयन्त तस्माद्वारवन्तीयम्
- ५.३.१० प्रसङ्गागतमन्यत् किञ्चिदाह
तस्माद्वरणो भिषज्य एतेन हि देवा आत्मानं अत्रायन्त
- ५.३.११ प्रासङ्गिकरूपविधानं
तस्माद्ब्राह्मणो वारणेन न पिबेद्वैश्वानरं नेच्छमया इति
- ५.३.१२ वारवन्तीय स्तुतिः
पशवो वै वारवन्तीयं शान्तिः पशवः शान्तादेव तत्संव्वत्सरादुत्तिष्ठन्ति
- ५.४.१ प्राणसाम्ना आहवनीयोपस्थानं
प्राणेन पुरस्तादाहवनीयं उपतिष्ठन्ते प्राणं एव तज्जयन्ति
- ५.४.२ अपानसाम्नोपस्थानं
अपानेन पश्चात्पुच्छं उपतिष्ठन्ते अपानं एव तज्जयन्ति
- ५.४.३ पक्षयोरुपस्थानं
व्रतपक्षाभ्यां पक्षावुपतिष्ठन्ते दिश एव तज्जयन्ति
- ५.४.४ अन्यदुपस्थानं
प्रजापतेर्हृदयेनापिकक्षं उपतिष्ठन्ते ज्यैष्ठ्यं एव तज्जयन्ति
- ५.४.५ चात्वालस्योपस्थानं
वसिष्ठस्य निहवेन चात्वालं उपतिष्ठन्ते स्वर्गं एव तल्लोकं आप्त्वा श्रियं वदन्ते
- ५.४.६ आधारभूतानामृचां विधानं
वैश्वदेव्यां ऋचि भवति विश्वरूपं वै पशूनां रूपं पशूनेव तज्जयन्ति
- ५.४.७ अथान्यदुपस्थानं
सत्त्रस्यर्द्ध्याग्नीध्रं उपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति
- ५.४.८ चतुरक्षरानुवादेन प्रशंसनं
चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्ति
- ५.४.९ प्राणविरामपर्य्यन्तं निधनावर्त्तनं
आतमितोर्निधनं उपयन्त्यायुरेव सर्वं आप्नुवन्ति
- ५.४.१० हविर्द्धानयोरुपस्थानं
श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिं एव तज्जयन्ति
- ५.४.११ अन्यदुपस्थानं
यामेन मार्जालीयं उपतिष्ठन्ते पितृलोकं एव तज्जयन्ति
- ५.४.१२ सदस उपस्थानं
आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत्क्षत्रं च जयन्ति
- ५.४.१३ गार्हपत्योपस्थानं
ऋश्यस्य साम्ना गार्हपत्यं उपतिष्ठन्ते
- ५.४.१४ अस्य स्तुतिः
इन्द्रं सर्वाणि भूतान्यस्तुवंस्तस्यर्श्य एकं अङ्गं अस्तुतं अचायत्तदस्यैतेनास्तौत्तेनास्य प्रियं धामोपागच्छत्प्रियं एवास्यैतेन धामोपगच्छन्ति
- ५.४.१५ निधनस्य प्रत्यक्षमुपेतव्यत्वं
यत्परोऽक्षं निधनं उपेयुर्ह्रीतमुखं प्रतिमुञ्चेरन्प्रत्यक्षं उपयन्ति ह्रीतमुखं एवापजयन्ति
- ५.५.१ उद्गातुरुद्गानकाले कञ्चिद्विशेषमाह
आसन्दीं आरुह्योद्गायति देवसाक्ष्य एव तदुपरिषद्यं जयति
- ५.५.२ आसन्द्या औदुम्बरीत्वं विधाय प्रशंसति
औदुम्बरी भवत्यूर्गुदुम्बर ऊर्जं एवावरुन्द्धे
- ५.५.३ एतदेव विधाय प्रशंसति
प्रादेशमात्री भवत्यस्य लोकस्यानुद्धानाय
- ५.५.४ तस्यारोहणं विधाय प्रशंसति
छन्दोभिरारोहति स्वर्गं एव तल्लोकं आरोहति
- ५.५.५ उपावरोहणविधानं
छन्दोभिरुपावरोहत्यस्मिं लोके प्रतितिष्ठति
- ५.५.६ उद्गानविधानं
सर्वेणात्मना समुद्धृत्योद्गेयं एषु लोकेषु नेद्व्याहितोऽसानीति
- ५.५.७ पादावरोहणविधानं
एकस्यां स्तोत्रीयायां अस्तुतायां पादावुपाहरति
- ५.५.८ पादयोर्भूमौ स्थापनकालविधानं
सह निधनेन प्रतिष्ठां उपयन्त्येषेष्वेव लोकेषु प्रतितिष्ठन्ते
- ५.५.९ होतुरासनविशेषप्रशंसा
प्रेङ्खां आरुह्य होता शंसति महस एव तद्रूपं क्रियते
- ५.५.१० प्रेङ्खारोहणेन महसोरूपं
यदा वै प्रजा मह आविशति प्रेङ्खास्तर्ह्यारोहन्ति
- ५.५.११ अध्वर्य्योराशंसनं
फलकं आरुह्याध्वर्युः प्रतिगृणाति
- ५.५.१२ अन्येषामासनविधानं
कूर्चानितरेऽध्यासत ऊर्ध्वा एव तदुत्क्रामन्तो यन्ति
- ५.५.१३ सत्रिणां प्रशंसननिन्दने विधीयेते
अभिगरापगरौ भवतो निन्दत्येनानन्यः प्रान्यः शंसति य एनान्निन्दति पाप्मानं एषां सोऽपहन्ति यः प्रशंसति यदेवैषां सुष्टुतं सुशस्तं तत्सोऽभिगृणाति
- ५.५.१४ ब्राह्मणशूद्रयोर्व्विवादः
शूद्रार्यौ चर्मणि व्यायच्छेते तयोरार्यं वर्णं उज्जापयन्ति
- ५.५.१५ तस्य स्तुतिः
देवाश्च वा असुराश्चादित्ये व्यायच्छन्तस्तं देवा अभ्यजयंस्ततो देवा अभवन् । परासुरा अभवन्नात्मना परास्य भ्रातृव्यो भवति य एवंव्वेद
- ५.५.१६ ब्राह्मणस्य जयप्रशंसा
यदार्यं वर्णं उज्जापयन्त्यात्मानं एव तदुज्जापयन्ति
- ५.५.१७ चर्म्मणोगुणं विधाय स्तौति
परिमण्डलं चर्म भवत्यादित्यस्यैव तद्रूपं क्रियते
- ५.५.१८ दुन्दुभिवादनविधानं
सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या वनस्पतिषु वाक्तां एव तज्जयन्ति
- ५.५.१९ भूमिदुन्दुभिवादनविधानं
भूमिदुन्दुभिर्भवति या पृथिव्यां वाक्तां एव तज्जयन्ति
- ५.५.२० वाचां प्रयोगविधानं
सर्वा वाचो वदन्ति येषु लोकेषु वाक्तां एव तज्जयन्ति
- ५.५.२१ देवयजनस्य पुरतो राजपुरुषस्य गमनविधानं
संनद्धाः कवचिनः परियन्तीन्द्रियस्यैव तद्रूपं क्रियतेऽथो महाव्रतं एव महयन्ति
- ५.६.१ युगपद्गानविधानं
सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्
- ५.६.२ अवयवगानमाह
अध्वर्युः शिरसोद्गायन्मैत्रावरुणो दक्षिणेन पक्षेण ब्राह्मणाच्छंस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मना
- ५.६.३ महाव्रतस्तोत्रे विशेषमाह
तद्यद्येवं कुर्युरेकैकया स्तोत्रीययास्तुतयोद्गातारं अभिसमेयुः
- ५.६.४ विनियोगप्रकारकथनं
तिसृभिरुद्गातात्मन उद्गीयाथ या शिरसः स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ या दक्षिणस्य पक्षस्य स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ योत्तरस्य पक्षस्य स्तोत्रीया तां दध्यात्तिसृभिर्वैकया वा स्तुतं स्यादथ या पुच्छस्य स्तोत्रीया तां दध्यात्
- ५.६.५ प्रतिधानस्योपपत्तिः
आत्मन्येव तदङ्गानि प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
- ५.६.६ युगपद्गानपक्षं निरश्य उद्गातृगानविधानं
अथो खल्वाहुः कथं अध्वर्युर्बह्वृचः साम गायेदित्युद्गातैव सर्वेणोद्गायेत्तदेव समृद्धं समृद्धावेव प्रतितिष्ठन्ति
- ५.६.७ अस्मिन् पक्षे स्तुतिप्रकारमाह ।
हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस्ते दक्षिणेन धिष्ण्यान्परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरंस्त उदञ्चः संसर्पेयुर्जघनेन होतुर्धिष्ण्यं पश्चाद्ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरंस्ते येनैव प्रसर्पेयुस्तेन पुनर्निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद्गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरंस्ते येनैव निःसर्पेयुस्तेन पुनः प्रसृप्य यथायतनं उपविश्यासन्दीं आरुह्योद्गातात्मनोद्गायति
- ५.६.८ वीणाविशेषैरुपगानविधानं
तं पत्न्योऽपघाटिलाभिरुपगायन्त्यार्त्विज्यं एव तत्पत्न्यः कुर्वन्ति सह स्वर्गंल्लोकं अयामेति
- ५.६.९ ब्राह्मणभोजनार्थं पाककर्त्तव्यताविधानं
कुले-कुलेऽन्नं क्रियते तद्यत्पृच्छेयुः किं इदं कुर्वन्तीतीमे यजमाना अन्नं अत्स्यन्तीति ब्रूयुः
- ५.६.१० तस्य प्रशंसनं
यो वै दीक्षितानां पापं कीर्तयति तृतीयं एवांशं पाप्मनो हरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम्
- ५.६.११ अन्नस्य परिमादप्रशंसा
परिमाद्भिश्चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य यत्परिमादस्त्वचं चैव तल्लोम च महाव्रतस्याप्त्वावरुन्धते
- ५.६.१२ वीणाविशेषवादनविधानं
वाणं वितन्वन्त्यन्तो वै वाणोऽन्तो महाव्रतं अन्तेनैव तदन्तं अभिवादयन्ति
- ५.६.१३ तन्त्रीसंख्याविधानं
शततन्त्रीको भवति शतायुर्वै पुरुषः शतवीर्यः
- ५.६.१४ वाणस्योल्लेखनविधानं
तं उल्लिखेत्प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणापानव्यानानेव तदाप्त्वावरुन्धते
- ५.६.१५ स्त्रीणामुदकुम्भधारणं
परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्विदं मध्विति सघोषा एव तद्वयो भूत्वा सह स्वर्गंल्लोकं यन्ति
- ५.७.१ गौरीवितसामविधानं
देवा वै वाचं व्यभजन्त तस्या यो रसोऽत्यरिच्यत तद्गौरीवितं अभवदनुष्टुभं अनु परिप्लवते वागनुष्टुब्वाचो रसो गौरीवितम्
- ५.७.२ तस्य प्रशंसा
यद्गौरीवितेनान्वहंस्स्तुवते वाच्येव तद्वाचा रसं दधति
- ५.७.३ तद्वेदनप्रशंसनं
रसवद्वाचा वदति य एवंव्वेदेति
- ५.७.४ तस्यानुवादेन प्रशंसा
द्व्युदासं भवति स्वर्गस्य वा एतौ लोकस्यावसानदेशौ पूर्वेणैव पूर्वं अहः संस्थापयन्त्युत्तरेणोत्तरं अहरभ्यतिवदन्ति
- ५.७.५ गौरीवितव्यदासमुपजीव्य व्यतिरेकोपन्यासेन प्रशंसा
एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितं यद्गौरीवितं अनुसृजेयुरश्वस्तना अप्रजसः स्युः
- ५.७.६ प्रकारान्तरेण प्रशंसनं
सं वा अन्यो यज्ञस्तिष्ठत इत्याहुर्वागेव न संतिष्ठत इति यद्गौरीवितं अन्वहं भवति वाचं एव तत्पुनः प्रयुञ्जते
- ५.७.७ सुज्ञानाख्यसाम्नो निधनविधानं
स्वर्णिधनं अन्वहं भवति
- ५.७.८ तस्य प्रशंसनं
देवक्षेत्रं वा एतेऽभ्यारोहन्ति ये स्वर्णिधनं उपयन्ति स उ वै सत्त्रिणः सत्त्रं उपनयेदित्याहुर्य एनान्देवक्षेत्रं अभ्यारोहेदिति न वै देवक्षेत्र आसीन आर्तिं आर्छति यत्स्वर्णिधनं अन्वहं भवति नैव कां चनार्तिं आर्छन्ति
- ५.७.९ तस्य दोषपरिहारः
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये स्वर्णिधनं उपयन्तीति यदृचा स्वरूपं यन्त्यस्मिं लोके प्रतितिष्ठन्ति यदेकारोऽतरिक्षे यत्साम्नामुष्मिन्त्सर्वेषु लोकेषु प्रतितिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः
- ५.७.१० सुज्ञानविधानं
सुज्ञानं भवति
- ५.७.११ अनेन सत्रिणामपि सुज्ञानप्राप्तिः
देवा वै स्वर्गंल्लोकं यन्तोऽज्ञातादबिभयुस्त एतत्संज्ञानं अपश्यंस्तेन ज्ञात्रं अगच्छन्यत्सुज्ञानं अन्वहं भवति ज्ञात्रं एव गच्छन्ति
- ५.८.१ श्यावाश्वनिहवसाम्नोर्विधानं
ये वै वाचं अन्नं आदयन्त्यन्नादा भवन्ति ये वितर्षयन्ति रुक्षा भवन्ति
- ५.८.२ वाचोऽन्नत्वप्रदर्शनं
गौरीवितं श्यावाश्वं निहव एतानि वै सामानि वाचोऽन्नं एतेषां वागन्नं यदेतानि न च्यवन्ते वाचं एव तदन्नं आदयन्ति तेन सर्वेऽन्नादा भवन्ति
- ५.८.३ तेषां प्रशंसनं
अभिक्रान्तापक्रान्तानि भवन्त्यभिक्रान्तापक्रान्तं वै वाचो रूपम्
- ५.८.४ बृहतीषु प्लवः कार्य्यः
प्लवोऽन्वहं भवति
- ५.८.५ लौकिकप्लवसाम्येनास्य स्तुतिः
समुद्रं वा एते प्रस्नान्ति ये संव्वत्सरं उपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत्प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
- ५.८.६ निधनप्रशंसनं
अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुःशस्तं तदेतेन तरन्ति
- ५.८.७ ओकोनिधनाख्यसामकर्त्तव्यता
ओकोनिधनं षडहमुखे भवति
- ५.८.८ तस्य स्तुतिः
परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं गच्छन्ति यदोकोनिधनं षडहमुखे भवति प्रज्ञात्यै
- ५.८.९ तत्र प्रज्ञातिविधानं
यदा वै पुरुषः स्वं ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वं अस्मै दिवा भवति
- ५.९.१ गवामयनस्य दीक्षाकालमाह
एकाष्टकायां दीक्षेरन्
- ५.९.२ संवत्सरसत्राय दीक्षा
एषा वै संव्वत्सरस्य पत्नी यदेकाष्टकैतस्यां वा गतां रात्रिं वसति साक्षादेव तत्संव्वत्सरं आरभ्य दीक्षन्ते
- ५.९.३ अस्मिन् पक्षे एको दोषः स्यात्
तस्य सानिर्या यदपोऽ नभिनन्दन्तोऽभ्यवयन्ति
- ५.९.४ अस्मिन् अपरो दोषः
विच्छिन्नं वा एते संव्वत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्तेऽन्तनामानावृतू भवेते
- ५.९.५ अस्मिन् संवत्सरे सत्रारम्भः
आर्तं वा एते संव्वत्सरस्याभिदीक्षन्ते येऽन्तनामानावृतू अभिदीक्षन्ते
- ५.९.६ दूष्यपक्षवर्ज्जनं
तस्मादेकाष्टकायां न दीक्ष्यम्
- ५.९.७ पक्षान्तरमाह
फाल्गुने दीक्षेरन्
- ५.९.८ तस्य गुणकथनेन प्रशंसा
मुखं वा एतत्संव्वत्सरस्य यत्फाल्गुनो मुखत एव तत्संव्वत्सरं आरभ्य दीक्षन्ते
- ५.९.९ तत्रापि दोषो विद्यत इत्याह
तस्य सानिर्या यत्संमेघे विषुवान्संपद्यते
- ५.९.१० सर्व्वदोषविनिर्मुक्तो दीक्षाकालः
चित्रापूर्णमासे दीक्षेरन्
- ५.९.११ तस्य स्तुतिः
चक्षुर्वा एतत्संव्वत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मुखत एव तत्संव्वत्सरं आरभ्य दीक्षन्ते तस्य न निर्यास्ति
- ५.९.१२ तत्र शुक्लैकादश्यां दीक्षितव्यः
चतुरहे पुरस्तात्पौर्णमास्या दीक्षेरन्
- ५.९.१३ एवं दीक्षणस्य गुणमाह
तेषां अकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संबट्कुर्वन्ति
- ५.९.१४ अन्येऽपि गुणाः तस्मिन् पक्षे सन्ति
तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः पशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवदर्यरात्सुरिमे सत्त्रिण इति ते राध्नुवन्ति
- ५.१०.१ गवामयने मासि मासि एकाहरुत्सर्गः
आ वा एते संव्वत्सरं प्याययन्ति य उत्सृजन्ति
- ५.१०.२ अनुत्सर्गे वाधमाह
यथा वै दृतिराध्मात एवं संव्वत्सरोऽनुत्सृष्टो यन्नोत्सृजेयुरमेहेन प्रमायुकाः स्युः
- ५.१०.३ एतस्य प्रशंसा
प्राणो वै संव्वत्सर उदाना मासा यदुत्सृजन्ति प्राण एवोदानान्दधति यो दीक्षितः प्रमीयते या संव्वत्सरस्यानुत्सृष्टस्य शुक्सा तं ऋच्छति
- ५.१०.४ ब्रह्मवादिनां विचारः
तदाहुरुत्सृज्या३ं नोत्सृज्या३ं इति
- ५.१०.५ पूर्व्वपक्षमवलम्ब्य कथनं
यद्युत्सृजेयुरुक्थान्युत्सृजेयुस्तदेवोत्सृष्टं तदनुत्सृष्टम्
- ५.१०.६ उत्सर्जननानुत्सर्जनप्रकारः
अथो खल्वाहुरेकत्रिकं कार्यं तदेव साक्षादुत्सृष्टं अभ्युत्षुण्वन्ति
- ५.१०.७ एतस्य पक्षस्य दूषणं
छिद्रो वा एतेषां संव्वत्सर इत्याहुर्ये स्तोमं उत्सृजन्तीति
- ५.१०.८ व्यस्मिन् रक्षे सम्पूर्णप्रयोगमाह
पशुं आलभन्ते स्तोमं एव तदालभन्ते स्तोमो हि पशुः
- ५.१०.९ प्रातःसवनयोगः
श्व उत्सृष्टाः स्म इति वत्सानपाकुर्वन्ति प्रातः पशुं आलभन्ते तस्य वपया प्रचरन्ति ततस्सवनीयेनाष्टाकपालेन तत आग्नेयेनाष्टाकपालेन ततो दध्नैन्द्रेण ततश्चरुणा वैश्वदेवेन तत्प्रातःसवनं संतिष्ठन्ते
- ५.१०.१० माध्यन्दिनसवनस्य प्रयोगः
ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीयेनैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन ततश्चरुणैन्द्रेण तन्माध्यन्दिनं सवनं संतिष्ठन्ते
- ५.१०.११ तृतीयसवनकृत्यं
पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन ततो वैश्वदेवेन द्वादशकपालेन ततश्चरुणाग्निमारुतेन तत्तृतीयं सवनं संतिष्ठन्ते
- ५.१०.१२ सायंकाले कर्त्तव्यता
पृषदाज्येन प्रचर्य पत्नीस्संयाजयन्ति
- ↑ आर्षेयकल्पः अध्यायः २, पृष्ठ १४०
- ↑ इन्द्रमिद्गाथिनो बृहत् (साम ७९६-८), इन्द्रो दधीचो अस्थभिर् (साम ९१३-५), उद्घेदभि श्रुतामघम् (साम १४५०-२)
- ↑ आरण्यकगानम् ५८.१
- ↑ आरण्यकगानम् ५८.२
- ↑ आरण्यकगानम् ५८.५
- ↑ मासोपरि टिप्पणी