पञ्चविंशब्राह्मणम्/अध्यायः ६
- सर्वप्रकृतिभूतो अग्निष्टोमो निरूप्यते
6.1
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतमग्निष्टोममपश्यत् तमाहरत् तेनेमाः प्रजा असृजत
एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतैकादशेन च मासा संव्वत्सरस्य ता द्वादशेन च स्तोत्रेणाग्निष्टोमस्य पर्यगृह्णाद्द्वादशेन च मासा संव्वत्सरस्य
तस्मात् प्रजा दशमासो गर्भं भृत्वैकादशमनु प्रजायन्ते तस्माद्द्वादशं नाभ्यतिहरन्ति द्वादशेन हि परिगृहीतास्तद्य एवंव्वेद परि जाताः प्रजा गृह्णाति प्र जाता जनयन्ति
तासां परिगृहीतानामश्वतर्यत्यक्रामत् तस्या अनुहाय रेत आदत्ता तद्वडवायां न्यमाड्यस्माद्वडवा द्विरेतास्तस्मादश्वतर्यप्रजा आत्तरेता हि
तस्माद्वदक्षिणीयाति हि सा यज्ञमरिच्यतातिरिक्तस्य दक्षिणा स्यात् सलोमत्वाय षोडशिनः स्तोत्रेदेयातिरिक्तो वै षोडश्यतिरिक्त एवातिरिक्तां ददाति
सोऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतमसृजत तं गायत्री च्छन्दोऽन्यसृज्यताग्निर्देवता ब्राह्मणो मनुष्यो वसन्त ऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं गायत्री च्छन्दसामग्निर्देवतानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनां तस्माद्ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः
करोति मुखेन वीर्यं य एवंव्वेद
स उरस्त एव बाहुभ्यां पञ्चदशमसृजत तं त्रिष्टुप्छन्दोऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतुस्तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप्छन्द इन्द्रो देवता ग्रीष्म ऋतुस्तस्मादु बाहुवीर्यो बाहुभ्यां हि सृष्टः
करोति बाहुभ्यां वीर्यं य एवंव्वेद
स मध्यत एव प्रजननात् सप्तदशमसृजत तं जगती च्छन्दोऽन्वसृज्यत विश्वे देवा देवता वैश्यो मनुष्यो वर्षा ऋतुस्तस्माद्वैश्योऽद्यमानो न क्षीयते प्रजननाद्धि सृष्टस्तस्मादु बहुपशुर्वैश्वदेवो हि जागतो वर्षा ह्यस्यर्तुस्तस्माद्ब्राह्मणस्य च राजन्यस्य चाद्योऽधरो हि सृष्टः
स पत्त एव प्रतिष्ठाया एकविंशमसृजत तमनुष्टुप्छन्दोऽन्वसृज्यत न का चन देवता शूद्रो मनुष्यस्तस्माच्छूद्र उत बहुपशुरयज्ञियो विदेवो हि न हि तं का चन देवताऽन्वसृज्यत तस्मात् पादावनेज्यं नाति वर्धते पत्तो हि सृष्टस्तस्मादेकविंशस्तोमानां प्रतिष्ठा प्रतिष्ठाया हि सृष्टस्तस्मादनुष्टुभं छन्दांसि नानु व्यूहन्ति
पापवसीयसो विधृत्यै
विधृतिः पापवसीयसो भवति य एवंव्वेद
6.2
यो वै स्तोमानुपदेशनवतो वेदोपदेशनवान् भवति
प्राणो वै त्रिवृदर्धमासः पञ्चदशः संव्वत्सरः सप्तदश आदित्य एकविंश एते वै स्तोमा उपदेशनवन्त उपदेशनवान् भवति य एवंव्वेद
इमे वै लोकास्त्रिणवस्त्रिणवस्य वै ब्राह्मणेनेमे लोकास्त्रिष्पुनर्नवा भवन्ति
एषु लोकेषु प्रतितिष्ठति य एवंव्वेद
देवता वाव त्रयस्त्रिंशोऽष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च त्रयस्त्रिंशौ
स देवेन यज्ञेन यजते य एवंव्वेद
यो वा अधिपतिं वेदाधिपतिर्भवति त्रयस्त्रिंशो वै स्तोमानमधिपतिः पुरुषः पशुमान्
तस्मान्न्यञ्चोऽन्ये पशवोऽदन्त्यूर्ध्वः पुरुषोऽधिपतिर्हि सः
अधिपतिः समानानां भवति य एवंव्वेद
6.3
एष वाव यज्ञो यदग्निष्टोमः
एकस्मा अन्यो यज्ञः कामायाह्रियते सर्वेभ्योऽग्निष्टोमः
द्वादश स्तोत्राण्यग्निष्टोमो द्वादशमासाः संव्वत्सरः संव्वत्सरं पशवोऽनु प्रजायन्ते तेन पशव्यः समृद्धः
द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संव्वत्सरः संव्वत्सरं पशवोऽनुप्रजायन्ते तेन पशव्यः समृद्धः
अग्नौ स्तोत्रमग्नौ शस्त्रं प्रतितिष्ठति तेन ब्रह्मवर्चसस्य
किं ज्योतिष्टोमस्य ज्योतिष्टोमत्वमित्याहुर्विराजं संस्तुतः संपद्यते विराड्वै च्छन्दसां ज्योतिः
ज्योतिः समानानां भवति य एवंव्वेद
ज्येष्ठयज्ञो वा एष यदग्निष्टोमः
प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स एतमग्निष्टोममपश्यत् तमाहरत् ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवंव्वेद
यत् त्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दोऽनुष्टुबिति
छन्दसां वा अन्ववलुप्तिं यजमानोऽन्ववलुप्यते
अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभमाप्नोति यजमानस्यानवलोपाय
यो वा अनुष्टुभं सर्वत्रापिं सवनान्यन्वायत्तां वेद सर्वत्रास्यापिर्भवत्येषा वा अनुष्टुप्सर्वत्रापिः सवनान्यन्वायत्ता तद्य एवं व्वेद सर्वत्रापिर्भवति
यद्वै राजानोऽध्वानं धावयन्ति येऽश्वानांव्वीर्यवत्तमास्तान् युञ्जते त्रिवृत् पञ्चदश एकविंश एते वै स्तोमानांव्वीर्यवत्तमास्तानेव युङ्क्ते स्वर्गस्य लोकस्य समष्ट्यै
चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्यै
6.4
प्रजापतिर्देवेभ्य ऊर्जं व्यभजत् तत उदुम्बरः समभवत् प्राजापत्यो वा उदुम्बरः प्राजापत्य उद्गाता यदुद्गातौदुम्बरीं प्रथमेन कर्मणान्वारभते स्वयैव तद्देवतयात्मानमार्त्विज्याय वृणीते
तामुच्छ्रयति द्युतानस्त्वा मारुत उच्छ्रयतूद्दिवं स्तभानान्तरिक्षं पृण दृंह पृथिवीम्
तामन्वारभत आयोष्ट्वा सदने सादयाम्यवतश्छायायां समुद्रस्य हृदय इति
यज्ञो वा आयुस्तस्य तत् सदनं क्रियते
यज्ञो वा अवति तस्य सा च्छाया क्रियते
मध्यतो वा आत्मनो हृदयं तस्मान्मध्ये सदस औदुम्बरी मीयते
नमः समुद्राय नमः समुद्रस्य चक्षुष इत्याह वाग्वै समुद्रो मनः समुद्रस्य चक्षुस्ताभ्यामेव तन्नमस्करोति
सामा यूनर्वाहासीदित्याह साम वै यूनर्वा साम्न एव तन्नमस्करोत्यार्त्विज्यं करिष्यन्
यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति न साम्नो हीयते नैनं सामापहते
य एनमनुव्याहरति स आर्तिमार्छति
ऊर्गस्यूर्जोदा ऊर्जं मे देह्यूर्जं मे धेह्यन्नं मे देह्यन्नं मे धेहि प्रजापतेर्वा एतदुदरं यत् सद ऊर्गुदुम्बरो यदौदुम्बरी मध्ये सदसो मीयते मध्यत एव तत् प्रजाभ्योऽन्नमूर्जं दधाति
तस्माद्यत्रैषा यातयामा क्रियते तत् प्रजा अशनायवो भवन्ति
साम देवानामन्नं सामन्येव तद्देवेभ्योऽन्न ऊर्हं दधाति स एव तदूर्जि श्रितः प्रजाभ्य ऊर्जं विभजति
उदङ्ङासीन उद्गायत्युदीचीं तादृशमूर्जा भाजयति प्रत्यङ्ङासीनः प्रस्तौति प्रतीचीं तादृशमूर्जा भाजयति दक्षिणासीनः प्रतिहरति दक्षिणां तादृशमूर्जा भाजयति प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति तस्मादेषा दिशां वीर्यवत्तमैतां हि भूयिष्ठाः प्रीणन्ति
ब्रह्मवादिनो वदन्ति कस्मात् सत्यात् प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्तीति विपरिक्रम्योद्गातार इति दिशामभीष्ट्यै दिशामभिप्रीत्या इति ब्रूयात् तस्मात् सर्वासु दिक्ष्वन्नंव्विद्यते सर्वा ह्यभीष्टाः प्रीताः
6.5
प्रजापतिरकामयत बहु स्यां प्रजायेयेति सोऽशोचत् तस्य शोचत आदित्यो मूर्ध्नोऽसृज्यत सोऽस्य मूर्धानमुदहन् स द्रोणकलशोऽभवत् तस्मिन् देवाः शुक्रमगृह्णत तां वै स आयुषार्तिमत्यजीवत्
आयुषार्तिमतिजीवति य एवंव्वेद ।
तं प्रोहेद्वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रमसीदमहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसायेति
यदाह वानस्पत्य इति सत्येनैवैनं तत् प्रोहति
यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानामुद्गाता तमेव तद्युनक्ति
यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया यद्द्रोणकलशो यदाह प्रजापतेर्मूर्धेति प्रजापतेर्ह्येष मूर्ध्न उदहन्यत
यदाहात्यायुपात्रमित्यति ह्येतदन्यानि पात्राणि यद्द्रोणकलशो देवपात्रं द्रोणकलशः
देवपात्री भवति य एवंव्वेद
ब्राह्मणं पात्रे न मीमांसेत यं ब्राह्मणमिव मन्यते प्र देवपात्रमाप्नोति न मनुष्यपात्राच्छिद्यते
वाग्वै देवेभ्योऽपक्रामत् सापः प्राविशत् तां देवाः पुनरयाचंस्ता अब्रुवन् यत् पुनर्दद्याम किं नस्ततः स्यादिति यत् कामयध्व इत्यब्रुवंस्ता अब्रुवन् यदेवास्मासु मनुष्या अपूतं प्रवेशयांस्तेनासंसृष्टा असामेति
शुद्धा अस्मा आपः पूता भवन्ति य एवंव्वेद
सा पुनर्तात्यक्रामत् सा वनस्पतीन् प्राविशत् तान् देवाः पुनरयाचंस्तां न पुनरददुस्तानशपन् स्वेन वः किष्कुणा वज्रेण वृश्चानिति तस्माद्वनस्पतीन् स्वेन किष्कुणा वज्रेण वृश्चन्ति देवशप्ता हि
तांव्वनस्पतयश्चतुर्धा वाचंव्विन्यदधुर्दुन्दुभौ वीणायामक्षे तूणवे तस्मादेषा वदिष्ठैषा वल्गुतमा वाग्वा वनस्पतीनां देवानां ह्येषा वागासीत्
अधोऽधोऽक्षं द्रोणकलशं प्रोहन्ति तस्या वाचोऽवरुध्या उपर्युपर्यक्षं पवित्रं प्रयच्छन्त्युभयत एव वाचं परिगृह्णन्ति
यस्य कामयेतासुर्यमस्य यज्ञं कुर्यांव्वाचंव्वृञ्जीयेति द्रोणकलशं प्रोहन् बाहुभ्यामक्षनुपस्पृशेदसुर्यमस्य यज्ञं करोति वाचंव्वृङ्क्ते योऽस्य प्रियः स्यादनुपस्पृशन्नक्षं प्रोहेत् प्राणा वै द्रोणकलशः प्राणानेवास्य कल्पयति
यन्न्वित्याहुर्वाचान्यानृत्विजो वृणते कस्मादुद्गातारो वृता आर्त्विज्यं कुर्वन्तीति
यद्द्रोणकलशमुपसीदन्ति तेनोद्गातारो वृताः
प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो द्रोणकलश एवैनामार्त्विज्याय वृणीते
प्राञ्च उपसीदन्ति प्राञ्चो यज्ञस्याग्रे करवामेति
अनभिजिता वा एषोद्गातॄणां दिग्यत् प्राची यद्द्रोणकलशं प्राञ्चं प्रोहन्ति दिशोऽभिजित्यै
यन्न्वित्याहुरन्तराश्वः प्रासेवौ युज्यतेऽन्तरा शम्य अनड्वान् क उद्गातॄणां योग इति यद्द्रोणकलशमुपसीदन्ति स एषां योगस्तस्माद्युक्तैरेवोपसद्यं न ह्ययुक्तो वहति
6.6
ग्राव्णः संसाद्य द्रोणकलशमध्यूहन्ति विड्वै ग्रावाणोऽन्नं सोमो राष्ट्रं द्रोणकलशो यद्ग्रावसु द्रोणकलशमध्यूहन्ति विश्येव तद्राष्ट्रमध्यूहन्ति
यं द्विष्याद्विमुखान् ग्राव्णः कृत्वेदमहममुममुष्यायणममुष्याः पुत्रममुष्या विशोऽमुष्मादन्नाद्यान्निरूहामीति निरूहेद्विश एवैनमन्नाद्यान्निरूहति
योऽस्य प्रियः स्यात् संमुखान् ग्राव्णः कृत्वेदमहममुष्यायणममुष्याः पुत्रममुष्यां विश्यमुषिन्नन्नाद्येऽध्यूहामीत्यध्यूहेद्विश्येवैनमन्नाद्येऽध्यूहति
अथो तदुभयमनादृत्येदमहं मां तेजसि ब्रह्मवर्चस्सेऽध्यूहामीत्यध्यूहेत् तेजस्येव ब्रह्मवर्चस आत्मानमध्यूहति
यः कामयेत विशा राष्ट्रं हन्यामिति व्यूह्य ग्राव्णोऽधो द्रोणकलशं सादयित्वोपांशुसवनमुपरिष्टादभिनिदध्यादिदमहममुया विशाऽदो राष्ट्रं हन्मीति विशैव तद्राष्ट्रं हन्ति
यो वै दैवानि पवित्राणि वेद पूतो यज्ञियो भवति च्छन्दांसि वै दैवानि पवित्राणि तैर्द्रोणकलशं पावयन्ति
वसवस्त्वा गायत्रेण च्छन्दसा पुनन्तु रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पुनन्त्वादित्यास्त्वा जागतेन च्छन्दसा पुनन्त्वेतानि वै दैवानि पवित्राणि पूतो यज्ञियो भवति य एवंव्वेद
स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् तं देवा न व्यजानंस्तेऽत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोऽपाहन् यत् प्रथममपाहन् सा कृष्णाविरभवद्यद्द्वितीयं सा रजता यत् तृतीयं सा लोहिनी यया वर्णमभ्यतृणत् सा शुक्लासीत्
तस्माच्छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय
यं द्विष्यात् तस्यैतेषां वर्णानामपि पवित्रे कुर्यात् पाप्मनैवैनं तमसा विध्यति कृष्णमिव हि तमो योऽस्य प्रियः स्यादासक्तिशुक्लं कुर्याज्ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन् दधाति
तस्मादात्रेयं चन्द्रेणेच्छन्त्यत्रिर्हि तस्य ज्योतिः
अभ्यतृणत् पवित्रंव्विगृह्णन्ति हस्तकार्यमेव तद्यज्ञस्य क्रियत एतद्वा उद्गातॄणां हस्तकार्यं यत् पवित्रस्य विग्रहणम्
न हस्तवेष्यान्निरृच्छति य एवंव्वेद
योऽपि न विगृह्णाति प्राणादेनमन्तर्यन्ति
तं ब्रूयाद्वेपमानः प्रमेष्यस इति वेपमान एव प्रमीयते
प्र शुक्रैतु देवी मनीषास्मद्रथः सुतष्टो न वाजीत्युद्गाता धारामनुमन्त्रयते
आयुषे मे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गायेत्याह मह्यं तेजसे ब्रह्मवर्चसायेति
एष वै सोमस्योद्गीथो यत् पवते सोमोद्गीथमेव साम गायति
आच्छिन्नं पावयन्ति यज्ञं चैव प्राणांश्च संतन्वन्ति संततं पावयन्ति यज्ञस्य संतत्यै
6.7
बृहस्पतिर्वै देवानामुदगायत् तं रक्षांस्यजिघांसन् स य एषां लोकानामधिपतयस्तान् भागधेयेनोपाधावत्
सूर्यो मा दिवाभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति
एते वा एषां लोकानामधिपतयस्तान् भागधेयेनोपासरत्
करोति वाचा वीर्यं न सदस्यामार्तिमार्च्छति य एवंव्वेद
वाग्वै देवेभ्योऽपाक्रामत् तां देवा अन्वमन्त्रयन्त साऽब्रवीदभागास्मि भागधेयं मेऽस्त्विति कस्ते भागधेयं कुर्यादित्युद्गातार इत्यब्रवीदुद्गातारो वै वाचे भागधेयं कुर्वन्ति
तस्यै जुहुयाद्बेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत् ते वाचो मधुमत् तस्मिन्मा धाः सरस्वत्यै स्वाहेति
वाह्वै सरस्वती तामेव तद्भागधेयेनारभते
यं द्विष्यात् तस्यैतामाहुतिं जुहुयाद्वाचं मनसा ध्यायेद्वाचमेवास्य वृङ्क्ते
बहिष्पवमानं सर्पन्ति स्वर्गमेव तल्लोकं सर्पन्ति
प्रक्वाणा इव सर्पन्ति प्रतिकूलमिव हीतः स्वर्गो लोकः त्सरन्त इव सर्पन्ति मृगधर्मो वै यज्ञो यज्ञस्य शान्त्या अप्रत्रासाय
वाचं यच्छन्ति यज्ञमेव तद्यच्छन्ति यद्व्यववदेयुर्यज्ञं निर्ब्रूयुस्तस्मान्न व्यववद्यम्
पञ्चर्त्विजः संरब्धाः सर्पन्ति पान्क्तो यज्ञो यावान् यज्ञस्तमेव संतन्वन्ति
यदि प्रस्तोतावच्छिद्यते यज्ञस्य शिरश्छिद्यते ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यश्छिन्नमेव तत् प्रतिदधाति
यद्युद्गातावच्छिद्यते यज्ञेन यजमानो व्यृध्यतेऽदक्षिणः स यज्ञक्रतुः संस्थाप्योऽथान्य आहृत्यस्तस्मिन् देयं यावद्दास्यन् स्यात्
यदि प्रतिहर्ताऽवच्छिद्यते पशुभिर्यजमानो व्यृध्यते पशवो वै प्रतिहर्ता सर्ववेदसं देयं यदि सर्ववेदसं न ददाति सर्वज्यानिं जीयते
अध्वर्युः प्रस्तरं हरति
यजमानो वै प्रस्तरो यजमानमेव तत् स्वर्गंल्लोकं हरति
यज्ञो वै देवेभ्योऽश्वो भूत्वापाक्रामत् तं देवाः प्रस्तरेणासमयंस्तस्मादश्वः प्रस्तरेण संमृज्यमान उपावरभते यदध्वर्युः प्रस्तरं हरति यज्ञस्य शान्त्या अप्रत्रासाय
प्रजापतिः पशुनसृजत तेऽस्मात् सृष्टा अशनायन्तोऽपाक्रामंस्तेभ्यः प्रस्तरमन्नं प्रायच्छत् एनमुपावर्तन्त तस्मादध्वर्युणा प्रस्तर ईषदिव विधूयो विधूतिमिव हि तृणं पशव उपावर्तन्ते
उपैनं पशव आवर्तन्ते य एवंव्वेद
प्रस्तरमासद्योद्गायेद्धविषोऽस्कन्दाय
यजमानं तु स्वर्गाल्लोका अवगृह्णाति
अष्ठीवतोपस्पृशतोद्गेयं तेनास्य हविरस्कन्नं भवति न यजमानं स्वर्गाल्लोकादवगृह्णाति
चात्वालमवेक्ष्य बहिष्पवमानं स्तुवन्त्यत्र वा असावादित्य आसीत् त देवा बहिष्पवमानेन स्वर्गंल्लोकमहरन् यच्चात्वालमवेक्ष्य बहिष्पवमानं स्तुवन्ति यजमानमेव तत् स्वर्गंल्लोकं हरन्ति
6.8
स तु वै यज्ञेन यजेतेत्याहुर्यस्य विराजं यज्ञमुखे दध्युरिति
नवभिः स्तुवन्ति हिङ्कारो दशमो दशाक्षरा विराड्विराजमेवास्य यज्ञमुखे दधाति
नवभिः स्तुवन्ति प्राणाः प्राणैरेवैनं समर्द्धयन्ति हिङ्कारो दशमस्तस्मान्नाभिरनवतृण्णा दशमी प्राणानाम्
नवभिः स्तुवन्ति नवाध्वर्युः प्रातःसवने ग्रहान् गृह्णाति तानेव तत् पावयन्ति तेषां प्राणानुत्सृजन्ति
प्रजापतिर्वै हिङ्कारस्त्रयो बहिष्पवमान्यो यद्धिङ्कृत्य प्रस्तौति मिथुनमेवास्या यज्ञमुखे दधाति प्रजननाय
एष वै स्तोमस्य योगो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति युक्तेनैव स्तोमेन प्रस्तौति
एष वै साम्नां रसो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति रसेनैवैता अभ्युद्य प्रस्तौति
आरण्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद्बहिष्पवमानमेकारूपाभिः स्तुवन्ति तस्मादेकरूपा आरण्याः पशवः
पराचीभिः स्तुवन्ति तस्मात् पराञ्चः प्रजायन्ते पराञ्चो वितिष्ठन्ते
अपरिश्रिते स्तुवन्ति तस्मादपरिगृहीता आरण्याः पशवः
बहिः स्तुवन्त्यन्तरनुशंसन्ति तस्माद्ग्राममाहृतैर्भुञ्जते
ग्रामेभ्यो वा एतत् पशुभ्यः स्तुवन्ति यदाज्यैर्नानारूपैः स्तुवन्ति तस्मान्नानारूपा ग्राम्याः पशवः
पुनरभ्यावर्तं स्तुवन्ति तस्मात् प्रेत्वर्यः प्रेत्य पुनरायन्ति
परिश्रिते स्तुवन्ति तस्मात् परिगृहीता ग्राम्याः पशवः
अमुष्मै वा एतल्लोकाय स्तुवन्ति यद्बहिष्पवमानं सकृद्धिङ्कृताभिः पराचीभिः स्तुवन्ति सकृद्धीतोऽसौ पराङ्लोकः
अस्मै वा एतल्लोकाय स्तुवन्ति यदाज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मादयंल्लोकः पुनःपुनः प्रजायते
पराञ्चो वा एतेषां प्राणा बह्वन्तीत्याहुर्ये पराचीभिर्बहिष्पवमानीभिः स्तुवत इत्यावतीमुत्तमां गायेत् प्राणानां धृत्यै
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये पराचीभिर्बहिष्पवमानीभिः स्तुवत इति रथन्तरवर्णमुत्तमां गायेदियं वै रथन्तरमस्यामेव प्रतितिष्ठति
6.9
उपास्मै गायत नर इति ग्रामकामायप्रतिपदं कुर्यात्
नरो वै देवानां ग्रामो ग्राममेवास्मा उपाकः
उप वा अन्नमन्नमेवास्मा उपाकः
उपोषु जातमप्तुरमिति प्रजाकामाय प्रतिपदं कुर्यात्
उप वै प्रजा तां जातमित्येवाजीजनत्
स नः पस्वस्य शं गव इति प्रतिपदं कुर्यात्
यां समां महादेवः पशून् हन्यात् स नः पवस्व शं गव इति चतुष्पदे भेषजं करोति
शं जनायेति द्विपदे शमर्वत इत्येकशफाय
विषेण वै तां समामोषधयोऽक्ता भवन्ति यां समां महादेवः पशून् हन्ति यच्छं राजन्नोषधीभ्य इत्याहौषधीरेवास्मै स्वदयत्युभय्योऽस्मै स्वदिताः पच्यन्तेऽकृष्टपच्याश्च कृष्टपच्याश्च
पवस्व वाचो अग्रिय इति प्रतिपदं कुर्याद्यं कामयेत समानानां शीरेष्ठः स्यादिति
पवस्व वाचो अग्रिय इत्यग्रमेवैनं परिणयति
श्रीर्वै वाचोऽग्रं श्रियमेवास्मिन् दधाति
एते असृग्रमिन्दव इति बहुभ्यः प्रतिपदं कुर्यात्
एत इति सर्वानेवैनानृद्ध्यै भूत्या अभिवदति
एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितॄंस्तिरः पवित्र इति ग्रहानाशव इति स्तोत्रंव्विश्वानीति शस्त्रमभि सौभगेत्यन्याः प्रजाः
यदेत इति तस्माद्यावन्त एवाग्रे देवास्तावन्त इदानीम्
सर्वान् वृद्धिमार्ध्नुवं स्थितेव ह्येषा व्याहृतिः
यदसृग्रमिति तस्मान्मनुष्याः श्वःश्वः सृज्यन्ते
यदिन्दव इतीन्दव इव हि पितरः
मन इव
यान्ताः प्रजाः सृष्टा ऋद्धिमार्ध्नुवंस्तामृध्नुवन्ति येषामेवंव्विद्वानेतां प्रतिपदं करोति
छन्दांसि वै सोममाहरंस्तं गन्धर्वो विश्वावसुः पर्यमुष्णात्. तेनापः प्राविशत् तं देवता अन्वैच्छंस्तं विष्णुरप्सु पर्यपश्यत् स व्यकाङ्क्षदयं नू३ ना३ इति तं पदा प्रास्फुरत् तस्मात् पृथगिन्दवोऽसृज्यन्त स देवताभ्योऽभितस्तिष्ठन्तीभ्य एते असृग्रमिन्दव इति प्राब्रवीद्बहिष्पवमानेन वै यज्ञः सृज्यते यदेते असृग्रमिन्दव इति प्रस्तौति यज्ञमेव तत् सृष्टं देवताभ्यः प्राह
व्यृद्धं वा एतदपशव्यं यत् प्रातःसवनमनिडं हि यदिडामस्मभ्यं संयतमित्याह प्रातःसवनमेव तदिडावत् पशुमत् करोति
दविद्यूतत्या रुचेति व्राताय प्रतिपदं कुर्यात्
दविद्यूतत्या रेचेति वै गायत्र्या रूपं परिष्टोभन्त्येति त्रिष्टुभः कृपेत्यनुष्टुभः सोमाः शुक्रा गवाशिर इति जगत्याः सर्वेषां वा एषा च्छन्दसां रूपं च्छन्दांसीव खलु वै व्रतोपदेषा प्रतिपद्भवति स्वेनैवैनांस्तद्रूपेण समर्धयति
वृद्धा वा एत इन्द्रियेण वीर्येण यद्व्रात इन्द्रियं वीर्यं छन्दांसीन्द्रियेणैवैनान् वीर्येण समर्धयति
6.10
अग्न आयूंषि पवस इति प्रतिपदं कुर्याद्येषां दीक्षितानां प्रमीयते
अपूता इव वा एते येषां दीक्षितानां प्रमीयते यद्येषाग्निपावमानी प्रतिपद्भवत्यग्निरेवैनान्निष्टपति पवमानः पुनाति
यदायूंषीत्याह य एव जीवन्ति तेष्वायुर्दधाति
आ नो मित्रावरुणेति ज्योगामयाविने प्रतिपदं कुर्यात्
अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानौ मित्रावरुणौ प्राणापानावेवास्मिन् दधाति
अपघ्नन् पवते मृधोऽप सोमो अराव्ण इत्यनृतमभिशस्यमानाय प्रतिपदं कुर्यात्
अरावाणो वा एते येऽनृतमभिशंसन्ति तानेवास्मादपहन्ति
गच्छन्निन्द्रस्य निष्कृतमिति पूतमेवैनं यज्ञियमिन्द्रस्य निष्कृतं गमयति
वृषा पवस्व धारयेति राजन्याय प्रतिपदं कुर्याद्वृषा वै राजन्यो वृषाणमेवैनं करोति
मरुत्वते च मत्सर इति मरुतो वै देवानां विशो विशमेवास्मा अनु नियुनक्त्यनपक्रामुकास्माद्विड्भवति
विश्वा दधान ओजसेत्योजसैवास्मै वीर्येण विशं पुरस्तात् परिगृह्णात्यनपक्रामुकास्माद्विड्भवति
पवस्वेन्दो वृषासुत इति प्रतिपदं कुर्याद्यः कामयेत जने म ऋध्येतेति
कृधी नो यशसो जन इति जनतायामेवास्मा ऋध्यते
युवं हि स्थः स्वः पती इति द्वाभ्यां प्रतिपदं कुर्यात् समावद्भाजावेवैनौ यज्ञस्य करोत्युभौ यज्ञयशसेनार्पयति
प्रास्य धारा अक्षरन्निति वृष्टिकामाय प्रतिपदं कुर्यात्
प्रास्य धारा अक्षरन्निति दिवो वृष्टिं च्यावयति वृष्णः सुतस्यौजस इत्यन्तरिक्षात्
देवां अनु प्रभूषत इत्यस्मिन् लोके प्रतिष्ठापयति
ओजसा वा एतद्वीर्येण प्रदीयते यदप्रत्तं भवति यद्वृष्णः सुतस्यौजस इत्याहौजसैवास्मै वीर्येण दिवो वृष्टिं प्रयच्छति
तया पवस्व धारया यया गाव इहागमञ्जन्यास उप्नो गृहमिति प्रतिपदं कुर्याद्यः कामयेतोप मा जन्या गावो नमेयुर्विन्देत मे जन्या गा राष्ट्रमिति यदेषा प्रतिपद्भवत्युपैनं जन्या गावो नमन्ति विन्दतेऽस्य जन्या गा राष्ट्रम्
- ६.१.१ अग्निष्टोमस्वरूपकथनं
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतं अग्निष्टोमं अपश्यत्तं आहरत्तेनेमाः प्रजा असृजत
- ६.१.२ प्रजासृष्टिप्रकारमाह
एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतैकादशेन च मासा संव्वत्सरस्य ता द्वादशेन च स्तोत्रेणाग्निष्टोमस्य पर्यगृह्णाद्द्वादशेन च मासा संव्वत्सरस्य
- ६.१.३ तस्य प्रशंसा
तस्मात्प्रजा दशमासो गर्भं भृत्वैकादशं अनु प्रजायन्ते तस्माद्द्वादशं नाभ्यतिहरन्ति द्वादशेन हि परिगृहीतास्तद्य एवंव्वेद परि जाताः प्रजा गृह्णाति प्र जाता जनयन्ति
- ६.१.४ प्रसङ्गागतं किञ्चिदाह ।
तासां परिगृहीतानां अश्वतर्यत्यक्रामत्तस्या अनुहाय रेत आदत्ता तद्वडवायां न्यमाड्यस्माद्वडवा द्विरेतास्तस्मादश्वतर्यप्रजा आत्तरेता हि
- ६.१.५ दक्षिणार्हतानर्हतादिकथनं
तस्माद्वदक्षिणीयाति हि सा यज्ञं अरिच्यतातिरिक्तस्य दक्षिणा स्यात्सलोमत्वाय षोडशिनः स्तोत्रेदेयातिरिक्तो वै षोडश्यतिरिक्त एवातिरिक्तां ददाति
- ६.१.६ त्रिवृद्गायत्र्यादिसम्पाद्या सृष्टिः
सोऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतं असृजत तं गायत्री च्छन्दोऽन्यसृज्यताग्निर्देवता ब्राह्मणो मनुष्यो वसन्त ऋतुस्तस्मात्त्रिवृत्स्तोमानां मुखं गायत्री च्छन्दसां अग्निर्देवतानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनां तस्माद्ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः
- ६.१.७ उक्तार्थविदुषः फलं
करोति मुखेन वीर्यं य एवंव्वेद
- ६.१.८ त्रिष्टुभादीनां सृष्टिः
स उरस्त एव बाहुभ्यां पञ्चदशं असृजत तं त्रिष्टुप्छन्दोऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतुस्तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप्छन्द इन्द्रो देवता ग्रीष्म ऋतुस्तस्मादु बाहुवीर्यो बाहुभ्यां हि सृष्टः
- ६.१.९ विदुषः फलं
करोति बाहुभ्यां वीर्यं य एवंव्वेद
- ६.१.१० सप्तदशादिसृष्टिः
स मध्यत एव प्रजननात्सप्तदशं असृजत तं जगती च्छन्दोऽन्वसृज्यत विश्वे देवा देवता वैश्यो मनुष्यो वर्षा ऋतुस्तस्माद्वैश्योऽद्यमानो न क्षीयते प्रजननाद्धि सृष्टस्तस्मादु बहुपशुर्वैश्वदेवो हि जागतो वर्षा ह्यस्यर्तुस्तस्माद्ब्राह्मणस्य च राजन्यस्य चाद्योऽधरो हि सृष्टः
- ६.१.११ एकविंशस्तोमादिसृष्टिः
स पत्त एव प्रतिष्ठाया एकविंशं असृजत तं अनुष्टुप्छन्दोऽन्वसृज्यत न का चन देवता शूद्रो मनुष्यस्तस्माच्छूद्र उत बहुपशुरयज्ञियो विदेवो हि न हि तं का चन देवताऽन्वसृज्यत तस्मात्पादावनेज्यं नाति वर्धते पत्तो हि सृष्टस्तस्मादेकविंशस्तोमानां प्रतिष्ठा प्रतिष्ठाया हि सृष्टस्तस्मादनुष्टुभं छन्दांसि नानु व्यूहन्ति
- ६.१.१२ तस्य कारणमाह
पापवसीयसो विधृत्यै
- ६.१.१३ वेदितुः फलं
विधृतिः पापवसीयसो भवति य एवंव्वेद
- ६.२.१ उपदेशज्ञानं
यो वै स्तोमानुपदेशनवतो वेदोपदेशनवान्भवति
- ६.२.२ उपदेशस्वरूपमाह
प्राणो वै त्रिवृदर्धमासः पञ्चदशः संव्वत्सरः सप्तदश आदित्य एकविंश एते वै स्तोमा उपदेशनवन्त उपदेशनवान्भवति य एवंव्वेद
- ६.२.३ त्रिणवादीनामुपदेशनं
इमे वै लोकास्त्रिणवस्त्रिणवस्य वै ब्राह्मणेनेमे लोकास्त्रिष्पुनर्नवा भवन्ति
- ६.२.४ उक्तार्थविदुषः फलं
एषु लोकेषु प्रतितिष्ठति य एवंव्वेद
- ६.२.५ त्रयस्त्रिंशस्योपदेशनं
देवता वाव त्रयस्त्रिंशोऽष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च त्रयस्त्रिंशौ
- ६.२.६ विदुषः फलं
स देवेन यज्ञेन यजते य एवंव्वेद
- ६.२.७ त्रयस्त्रिंशस्तुतिः
यो वा अधिपतिं वेदाधिपतिर्भवति त्रयस्त्रिंशो वै स्तोमानं अधिपतिः पुरुषः पशुमान्
- ६.२.८ पुरुषस्याधिपतित्वं
तस्मान्न्यञ्चोऽन्ये पशवोऽदन्त्यूर्ध्वः पुरुषोऽधिपतिर्हि सः
- ६.२.९ विदुषः फलं
अधिपतिः समानानां भवति य एवंव्वेद
- ६.३.१ बहुफलसाधनत्वेनाग्निष्टोमस्य प्रशंसा
एष वाव यज्ञो यदग्निष्टोमः
- ६.३.२ पुत्रस्तत्प्रशंसनं
एकस्मा अन्यो यज्ञः कामायाह्रियते सर्वेभ्योऽग्निष्टोमः
- ६.३.३ तस्य पशुफलसाधनत्वं
द्वादश स्तोत्राण्यग्निष्टोमो द्वादशमासाः संव्वत्सरः संव्वत्सरं पशवोऽनु प्रजायन्ते तेन पशव्यः समृद्धः
- ६.३.४ प्रकारान्तरेण पशव्यत्वं
द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संव्वत्सरः संव्वत्सरं पशवोऽनुप्रजायन्ते तेन पशव्यः समृद्धः
- ६.३.५ तस्य प्रशंसनं
अग्नौ स्तोत्रं अग्नौ शस्त्रं प्रतितिष्ठति तेन ब्रह्मवर्चसस्य
- ६.३.६ तत्र प्रश्नोत्तरमाह
किं ज्योतिष्टोमस्य ज्योतिष्टोमत्वं इत्याहुर्विराजं संस्तुतः संपद्यते विराड्वै च्छन्दसां ज्योतिः
- ६.३.७ विदुषः फलं
ज्योतिः समानानां भवति य एवंव्वेद
- ६.३.८ प्रकारान्तरेणाग्निष्टोमप्रशंसनं
ज्येष्ठयज्ञो वा एष यदग्निष्टोमः
- ६.३.९ पुनः प्रशंसनं
प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स एतं अग्निष्टोमं अपश्यत्तं आहरत्ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
- ६.३.१० विदुषः फलं
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवंव्वेद
- ६.३.११ ब्रह्मवादिनां शङ्का
यत्त्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दोऽनुष्टुबिति
- ६.३.१२ शङ्कायाः कारणं
छन्दसां वा अन्ववलुप्तिं यजमानोऽन्ववलुप्यते
- ६.३.१३ तस्योत्तरमाह
अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभं आप्नोति यजमानस्यानवलोपाय
- ६.३.१४ तस्य प्रशंसा
यो वा अनुष्टुभं सर्वत्रापिं सवनान्यन्वायत्तां वेद सर्वत्रास्यापिर्भवत्येषा वा अनुष्टुप्सर्वत्रापिः सवनान्यन्वायत्ता तद्य एवं व्वेद सर्वत्रापिर्भवति
- ६.३.१५ स्तोत्रप्रशंसनं
यद्वै राजानोऽध्वानं धावयन्ति येऽश्वानांव्वीर्यवत्तमास्तान्युञ्जते त्रिवृत्पञ्चदश एकविंश एते वै स्तोमानांव्वीर्यवत्तमास्तानेव युङ्क्ते स्वर्गस्य लोकस्य समष्ट्यै
- ६.३.१६ प्रतिष्ठासाधनत्वं
चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्यै
- ६.४.१ औदुम्बर्य्युत्पत्तिप्रकारकथनं
प्रजापतिर्देवेभ्य ऊर्जं व्यभजत्तत उदुम्बरः समभवत्प्राजापत्यो वा उदुम्बरः प्राजापत्य उद्गाता यदुद्गातौदुम्बरीं प्रथमेन कर्मणान्वारभते स्वयैव तद्देवतयात्मानं आर्त्विज्याय वृणीते
- ६.४.२ औदुम्बर्य्युच्छ्रयणविधानं
तां उच्छ्रयति द्युतानस्त्वा मारुत उच्छ्रयतूद्दिवं स्तभानान्तरिक्षं पृण दृंह पृथिवीम्
- ६.४.३ उद्गातुरन्वारम्भमन्त्रः
तां अन्वारभत आयोष्ट्वा सदने सादयाम्यवतश्छायायां समुद्रस्य हृदय इति
- ६.४.४ मन्त्रगतायुःशब्दव्याख्यानं
यज्ञो वा आयुस्तस्य तत्सदनं क्रियते
- ६.४.५ मन्त्रभागविशेषव्याख्या
यज्ञो वा अवति तस्य सा च्छाया क्रियते
- ६.४.६ मन्त्रभागविशेषस्य सदोरूपताप्रदर्शनं ।
मध्यतो वा आत्मनो हृदयं तस्मान्मध्ये सदस औदुम्बरी मीयते
- ६.४.७ मन्त्रगतवाक्यद्वयव्याख्यानं
नमः समुद्राय नमः समुद्रस्य चक्षुष इत्याह वाग्वै समुद्रो मनः समुद्रस्य चक्षुस्ताभ्यां एव तन्नमस्करोति
- ६.४.८ तद्भागविशेषव्याख्यानं
सामा यूनर्वाहासीदित्याह साम वै यूनर्वा साम्न एव तन्नमस्करोत्यार्त्विज्यं करिष्यन्
- ६.४.९ उद्गातुरार्त्विज्यकरणविवरणं
यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति न साम्नो हीयते नैनं सामापहते
- ६.४.१० तस्यान्यदीयनिन्दाभावः
य एनं अनुव्याहरति स आर्तिं आर्छति
- ६.४.११ मन्त्रभागविशेषस्य तात्पर्यकथनं
ऊर्गस्यूर्जोदा ऊर्जं मे देह्यूर्जं मे धेह्यन्नं मे देह्यन्नं मे धेहि प्रजापतेर्वा एतदुदरं यत्सद ऊर्गुदुम्बरो यदौदुम्बरी मध्ये सदसो मीयते मध्यत एव तत्प्रजाभ्योऽन्नं ऊर्जं दधाति
- ६.४.१२ अन्यदीयनिन्दापूर्व्वकं तस्य दृढीकरणं
तस्माद्यत्रैषा यातयामा क्रियते तत्प्रजा अशनायवो भवन्ति
- ६.४.१३ अन्ननिधाने प्रजानां तृप्तिसाधनं
साम देवानां अन्नं सामन्येव तद्देवेभ्योऽन्न ऊर्हं दधाति स एव तदूर्जि श्रितः प्रजाभ्य ऊर्जं विभजति
- ६.४.१४ उद्गातॄणां स्वस्वप्रयोगादिव्यवस्था
उदङ्ङासीन उद्गायत्युदीचीं तादृशं ऊर्जा भाजयति प्रत्यङ्ङासीनः प्रस्तौति प्रतीचीं तादृशं ऊर्जा भाजयति दक्षिणासीनः प्रतिहरति दक्षिणां तादृशं ऊर्जा भाजयति प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति तस्मादेषा दिशां वीर्यवत्तमैतां हि भूयिष्ठाः प्रीणन्ति
- ६.४.१५ उक्तविषये ब्रह्मवादिनां प्रश्नः
ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्तीति विपरिक्रम्योद्गातार इति दिशां अभीष्ट्यै दिशां अभिप्रीत्या इति ब्रूयात्तस्मात्सर्वासु दिक्ष्वन्नंव्विद्यते सर्वा ह्यभीष्टाः प्रीताः
- ६.५.१ द्रोणकलशस्योत्पत्तिकथनं
प्रजापतिरकामयत बहु स्यां प्रजायेयेति सोऽशोचत्तस्य शोचत आदित्यो मूर्ध्नोऽसृज्यत सोऽस्य मूर्धानं उदहन्स द्रोणकलशोऽभवत्तस्मिन्देवाः शुक्रं अगृह्णत तां वै स आयुषार्तिं अत्यजीवत्
- ६.५.२ उक्तार्थवेदनप्रशंसा
आयुषार्तिं अतिजीवति य एवंव्वेद ।
- ६.५.३ द्रोणकलशप्रोहणविधानं
तं प्रोहेद्वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रं असीदं अहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसायेति
- ६.५.४ तन्मन्त्र प्रथमभागव्याख्या
यदाह वानस्पत्य इति सत्येनैवैनं तत्प्रोहति
- ६.५.५ द्वितीयभागस्य तात्पर्य्यमाह
यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानां उद्गाता तं एव तद्युनक्ति
- ६.५.६ तृतीयचतुर्थभागस्य तात्पर्य्यकथनं
यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया यद्द्रोणकलशो यदाह प्रजापतेर्मूर्धेति प्रजापतेर्ह्येष मूर्ध्न उदहन्यत
- ६.५.७ पञ्चमस्य तात्पर्य्यकथनं
यदाहात्यायुपात्रं इत्यति ह्येतदन्यानि पात्राणि यद्द्रोणकलशो देवपात्रं द्रोणकलशः
- ६.५.८ विदुषः फलं
देवपात्री भवति य एवंव्वेद
- ६.५.९ प्रासङ्गिकमाह
ब्राह्मणं पात्रे न मीमांसेत यं ब्राह्मणं इव मन्यते प्र देवपात्रं आप्नोति न मनुष्यपात्राच्छिद्यते
- ६.५.१० वागक्षरसम्बन्धकथनायाख्यायिकामाह
वाग्वै देवेभ्योऽपक्रामत्सापः प्राविशत्तां देवाः पुनरयाचंस्ता अब्रुवन्यत्पुनर्दद्याम किं नस्ततः स्यादिति यत्कामयध्व इत्यब्रुवंस्ता अब्रुवन्यदेवास्मासु मनुष्या अपूतं प्रवेशयांस्तेनासंसृष्टा असामेति
- ६.५.११ उक्तार्थविदः फलं
शुद्धा अस्मा आपः पूता भवन्ति य एवंव्वेद
- ६.५.१२ वाचोवनस्पतिप्रवेशनमाह
सा पुनर्तात्यक्रामत्सा वनस्पतीन्प्राविशत्तान्देवाः पुनरयाचंस्तां न पुनरददुस्तानशपन्स्वेन वः किष्कुणा वज्रेण वृश्चानिति तस्माद्वनस्पतीन्स्वेन किष्कुणा वज्रेण वृश्चन्ति देवशप्ता हि
- ६.५.१३ वाचश्चतुर्द्धाविभागः
तांव्वनस्पतयश्चतुर्धा वाचंव्विन्यदधुर्दुन्दुभौ वीणायां अक्षे तूणवे तस्मादेषा वदिष्ठैषा वल्गुतमा वाग्वा वनस्पतीनां देवानां ह्येषा वागासीत्
- ६.५.१४ कलशप्रोहणदशापवित्रस्थापने च विधीयेते
अधो-ऽधोऽक्षं द्रोणकलशं प्रोहन्ति तस्या वाचोऽवरुध्या उपर्य्-उपर्यक्षं पवित्रं प्रयच्छन्त्युभयत एव वाचं परिगृह्णन्ति
- ६.५.१५ अक्षास्पर्शनविधानं
यस्य कामयेतासुर्यं अस्य यज्ञं कुर्यांव्वाचंव्वृञ्जीयेति द्रोणकलशं प्रोहन्बाहुभ्यां अक्षनुपस्पृशेदसुर्यं अस्य यज्ञं करोति वाचंव्वृङ्क्ते योऽस्य प्रियः स्यादनुपस्पृशन्नक्षं प्रोहेत्प्राणा वै द्रोणकलशः प्राणानेवास्य कल्पयति
- ६.५.१६ ब्रह्मवादिनः प्रश्नोत्थापनं
यन्न्वित्याहुर्वाचान्यानृत्विजो वृणते कस्मादुद्गातारो वृता आर्त्विज्यं कुर्वन्तीति
- ६.५.१७ तस्योत्तरमाह
यद्द्रोणकलशं उपसीदन्ति तेनोद्गातारो वृताः
- ६.५.१८ द्रोणकलशेनोद्गातॄणां वृत्तिः
प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो द्रोणकलश एवैनां आर्त्विज्याय वृणीते
- ६.५.१९ द्रोणकलशस्य प्राङ्मुखप्रोहणे आशयमाह
प्राञ्च उपसीदन्ति प्राञ्चो यज्ञस्याग्रे करवामेति
- ६.५.२० प्राच्यदिगभिजयाय प्राङ्मुखेनास्य प्रोहणं
अनभिजिता वा एषोद्गातॄणां दिग्यत्प्राची यद्द्रोणकलशं प्राञ्चं प्रोहन्ति दिशोऽभिजित्यै
- ६.५.२१ उद्गातॄणां यज्ञे योगकथनं
यन्न्वित्याहुरन्तराश्वः प्रासेवौ युज्यतेऽन्तरा शम्य अनड्वान्क उद्गातॄणां योग इति यद्द्रोणकलशं उपसीदन्ति स एषां योगस्तस्माद्युक्तैरेवोपसद्यं न ह्ययुक्तो वहति
- ६.६.१ ग्रावोपरि द्रोणकलशाध्यूहनविधानं
ग्राव्णः संसाद्य द्रोणकलशं अध्यूहन्ति विड्वै ग्रावाणोऽन्नं सोमो राष्ट्रं द्रोणकलशो यद्ग्रावसु द्रोणकलशं अध्यूहन्ति विश्येव तद्राष्ट्रं अध्यूहन्ति
- ६.६.२ यजमानस्य पापं कामयमान उद्गाता एवं कुर्य्यात्
यं द्विष्याद्विमुखान्ग्राव्णः कृत्वेदं अहं अमुं अमुष्यायणं अमुष्याः पुत्रं अमुष्या विशोऽमुष्मादन्नाद्यान्निरूहामीति निरूहेद्विश एवैनं अन्नाद्यान्निरूहति
- ६.६.३ तस्य भद्रं कामयमान एवं कुर्य्यात्
योऽस्य प्रियः स्यात्संमुखान्ग्राव्णः कृत्वेदं अहं अमुष्यायणं अमुष्याः पुत्रं अमुष्यां विश्यमुषिन्नन्नाद्येऽध्यूहामीत्यध्यूहेद्विश्येवैनं अन्नाद्येऽध्यूहति
- ६.६.४ आत्मनः श्रेयःकामयमान आह
अथो तदुभयं अनादृत्येदं अहं मां तेजसि ब्रह्मवर्चस्सेऽध्यूहामीत्यध्यूहेत्तेजस्येव ब्रह्मवर्चस आत्मानं अध्यूहति
- ६.६.५ द्वेष्यविषयकप्रयोगान्तरं
यः कामयेत विशा राष्ट्रं हन्यां इति व्यूह्य ग्राव्णोऽधो द्रोणकलशं सादयित्वोपांशुसवनं उपरिष्टादभिनिदध्यादिदं अहं अमुया विशाऽदो राष्ट्रं हन्मीति विशैव तद्राष्ट्रं हन्ति
- ६.६.६ गायत्र्यादिच्छन्दःसु वेदितव्यतामाह
यो वै दैवानि पवित्राणि वेद पूतो यज्ञियो भवति च्छन्दांसि वै दैवानि पवित्राणि तैर्द्रोणकलशं पावयन्ति
- ६.६.७ पावनसाधनमन्त्रानाह
वसवस्त्वा गायत्रेण च्छन्दसा पुनन्तु रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पुनन्त्वादित्यास्त्वा जागतेन च्छन्दसा पुनन्त्वेतानि वै दैवानि पवित्राणि पूतो यज्ञियो भवति य एवंव्वेद
- ६.६.८ दशापवित्रस्य शुक्लत्वं विधातुमाख्यायिका
स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत्तं देवा न व्यजानंस्तेऽत्रिं उपाधावंस्तस्यात्रिर्भासेन तमोऽपाहन्यत्प्रथमं अपाहन्सा कृष्णाविरभवद्यद्द्वितीयं सा रजता यत्तृतीयं सा लोहिनी यया वर्णं अभ्यतृणत्सा शुक्लासीत्
- ६.६.९ तस्य विधानं
तस्माच्छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय
- ६.६.१० तस्य दृढीकरणं
यं द्विष्यात्तस्यैतेषां वर्णानां अपि पवित्रे कुर्यात्पाप्मनैवैनं तमसा विध्यति कृष्णं इव हि तमो योऽस्य प्रियः स्यादासक्तिशुक्लं कुर्याज्ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन्दधाति
- ६.६.११ पवित्रस्य शुक्लत्वप्रसङ्गेन तत्पूर्व्वनिदानं
तस्मादात्रेयं चन्द्रेणेच्छन्त्यत्रिर्हि तस्य ज्योतिः
- ६.६.१२ तस्मादित्युक्तस्य विवरणं
अभ्यतृणत्पवित्रंव्विगृह्णन्ति हस्तकार्यं एव तद्यज्ञस्य क्रियत एतद्वा उद्गातॄणां हस्तकार्यं यत्पवित्रस्य विग्रहणम्
- ६.६.१३ उक्तार्थविदुषः फलं
न हस्तवेष्यान्निरृच्छति य एवंव्वेद
- ६.६.१४ उक्तार्थस्य दृढीकरणं
योऽपि न विगृह्णाति प्राणादेनं अन्तर्यन्ति
- ६.६.१५ पवित्रप्रसारणे वक्तव्यतामाह
तं ब्रूयाद्वेपमानः प्रमेष्यस इति वेपमान एव प्रमीयते
- ६.६.१६ धारानुमन्त्रणैकदेशोपादानं
प्र शुक्रैतु देवी मनीषास्मद्रथः सुतष्टो न वाजीत्युद्गाता धारां अनुमन्त्रयते
- ६.६.१७ अनुमन्त्रणमन्त्रशेषभागः
आयुषे मे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गायेत्याह मह्यं तेजसे ब्रह्मवर्चसायेति
- ६.६.१८ पवमानस्तोत्रं
एष वै सोमस्योद्गीथो यत्पवते सोमोद्गीथं एव साम गायति
- ६.६.१९ सोमशोधननियमः
आच्छिन्नं पावयन्ति यज्ञं चैव प्राणांश्च संतन्वन्ति संततं पावयन्ति यज्ञस्य संतत्यै
- ६.७.१ प्रवृत्तहोमस्य द्वितीयहोमविधातुमाख्यायिका
बृहस्पतिर्वै देवानां उदगायत्तं रक्षांस्यजिघांसन्स य एषां लोकानां अधिपतयस्तान्भागधेयेनोपाधावत्
- ६.७.२ होमविधानं
सूर्यो मा दिवाभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति
- ६.७.३ मन्त्रस्य तात्पर्य्यमाह
एते वा एषां लोकानां अधिपतयस्तान्भागधेयेनोपासरत्
- ६.७.४ वेदितुः फलमाह
करोति वाचा वीर्यं न सदस्यां आर्तिं आर्च्छति य एवंव्वेद
- ६.७.५ प्रवृत्तहोमविधातुमाख्यायिका
वाग्वै देवेभ्योऽपाक्रामत्तां देवा अन्वमन्त्रयन्त साऽब्रवीदभागास्मि भागधेयं मेऽस्त्विति कस्ते भागधेयं कुर्यादित्युद्गातार इत्यब्रवीदुद्गातारो वै वाचे भागधेयं कुर्वन्ति
- ६.७.६ समन्त्रकहोमविधानं
तस्यै जुहुयाद्बेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत्ते वाचो मधुमत्तस्मिन्मा धाः सरस्वत्यै स्वाहेति
- ६.७.७ वाक्सरस्वतीशब्दयोरैक्यार्थमाह
वाग्वै सरस्वती तां एव तद्भागधेयेनारभते
- ६.७.८ मन्त्रपाठस्य कर्त्तव्यतामाह
यं द्विष्यात्तस्यैतां आहुतिं जुहुयाद्वाचं मनसा ध्यायेद्वाचं एवास्य वृङ्क्ते
- ६.७.९ बहिष्पवमानार्थप्रसर्पणमाह
बहिष्पवमानं सर्पन्ति स्वर्गं एव तल्लोकं सर्पन्ति
- ६.७.१० प्रसर्पणे नियमद्वयमाह
प्रक्वाणा इव सर्पन्ति प्रतिकूलं इव हीतः स्वर्गो लोकः त्सरन्त इव सर्पन्ति मृगधर्मो वै यज्ञो यज्ञस्य शान्त्या अप्रत्रासाय
- ६.७.११ तत्र वाङ्नियमविधानं
वाचं यच्छन्ति यज्ञं एव तद्यच्छन्ति यद्व्यववदेयुर्यज्ञं निर्ब्रूयुस्तस्मान्न व्यववद्यम्
- ६.७.१२ तत्र पञ्चर्त्विजां समारम्भणमाह ।
पञ्चर्त्विजः संरब्धाः सर्पन्ति पा-न्क्तो यज्ञो यावान्यज्ञस्तं एव संतन्वन्ति
- ६.७.१३ प्रसर्पतां प्रस्तोत्रविच्छेदे प्रयोगकथनं
यदि प्रस्तोतावच्छिद्यते यज्ञस्य शिरश्छिद्यते ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यश्छिन्नं एव तत्प्रतिदधाति
- ६.७.१४ उद्गात्रविच्छेदे प्रयोगविधानं
यद्युद्गातावच्छिद्यते यज्ञेन यजमानो व्यृध्यतेऽदक्षिणः स यज्ञक्रतुः संस्थाप्योऽथान्य आहृत्यस्तस्मिन्देयं यावद्दास्यन्स्यात्
- ६.७.१५ प्रतिहर्त्रविच्छेदे प्रयोगविधानं
यदि प्रतिहर्ताऽवच्छिद्यते पशुभिर्यजमानो व्यृध्यते पशवो वै प्रतिहर्ता सर्ववेदसं देयं यदि सर्ववेदसं न ददाति सर्वज्यानिं जीयते
- ६.७.१६ प्रसर्पणे अध्वर्य्योः प्रस्तरप्रतिहरणं
अध्वर्युः प्रस्तरं हरति
- ६.७.१७ प्रस्तरप्रशंसा
यजमानो वै प्रस्तरो यजमानं एव तत्स्वर्गंल्लोकं हरति
- ६.७.१८ प्रकारान्तरेण प्रस्तरप्रशंसा
यज्ञो वै देवेभ्योऽश्वो भूत्वापाक्रामत्तं देवाः प्रस्तरेणासमयंस्तस्मादश्वः प्रस्तरेण संमृज्यमान उपावरभते यदध्वर्युः प्रस्तरं हरति यज्ञस्य शान्त्या अप्रत्रासाय
- ६.७.१९ पुनः प्रकारान्तरेण तत्प्रशंसनं
प्रजापतिः पशुनसृजत तेऽस्मात्सृष्टा अशनायन्तोऽपाक्रामंस्तेभ्यः प्रस्तरं अन्नं प्रायच्छतेनं उपावर्तन्त तस्मादध्वर्युणा प्रस्तर ईषदिव विधूयो विधूतिं इव हि तृणं पशव उपावर्तन्ते
- ६.७.२० विदुषः फलकथनं
उपैनं पशव आवर्तन्ते य एवंव्वेद
- ६.७.२१ प्रस्तरं भूमौ स्थापयित्वा गानं
प्रस्तरं आसद्योद्गायेद्धविषोऽस्कन्दाय
- ६.७.२२ गुणसद्भावेऽपि दोषमाह
यजमानं तु स्वर्गाल्लोका अवगृह्णाति
- ६.७.२३ प्रस्तरं भूमावासञ्जयन्नुपायकथनं
अष्ठीवतोपस्पृशतोद्गेयं तेनास्य हविरस्कन्नं भवति न यजमानं स्वर्गाल्लोकादवगृह्णाति
- ६.७.२४ बहिष्पवमानस्य सार्थवादं चात्त्वालसम्बन्धमाह
चात्वालं अवेक्ष्य बहिष्पवमानं स्तुवन्त्यत्र वा असावादित्य आसीत्त देवा बहिष्पवमानेन स्वर्गंल्लोकं अहरन्यच्चात्वालं अवेक्ष्य बहिष्पवमानं स्तुवन्ति यजमानं एव तत्स्वर्गंल्लोकं हरन्ति
- ६.८.१ बहिष्पवमाने नवभिः, हिंकारे दशमीभिः स्तोतव्यता
स तु वै यज्ञेन यजेतेत्याहुर्यस्य विराजं यज्ञमुखे दध्युरिति
- ६.८.२ विराट्प्रदर्शनद्वारेण तद्विधानं
नवभिः स्तुवन्ति हिङ्कारो दशमो दशाक्षरा विराड्विराजं एवास्य यज्ञमुखे दधाति
- ६.८.३ स्तोत्रीयाणां दशसंख्याप्रशंसा
नवभिः स्तुवन्ति प्राणाः प्राणैरेवैनं समर्द्धयन्ति हिङ्कारो दशमस्तस्मान्नाभिरनवतृण्णा दशमी प्राणानाम्
- ६.८.४ हिङ्कारवियोगेण स्तुतिः
नवभिः स्तुवन्ति नवाध्वर्युः प्रातःसवने ग्रहान्गृह्णाति तानेव तत्पावयन्ति तेषां प्राणानुत्सृजन्ति
- ६.८.५ प्रजननसाधनत्वेन बहिष्पवमानं स्तौति
प्रजापतिर्वै हिङ्कारस्त्रयो बहिष्पवमान्यो यद्धिङ्कृत्य प्रस्तौति मिथुनं एवास्या यज्ञमुखे दधाति प्रजननाय
- ६.८.६ हिङ्कारपूर्व्वकं बहिष्पवमानस्तोत्रं
एष वै स्तोमस्य योगो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति युक्तेनैव स्तोमेन प्रस्तौति
- ६.८.७ हिङ्कारप्रशंसनं
एष वै साम्नां रसो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति रसेनैवैता अभ्युद्य प्रस्तौति
- ६.८.८ बहिष्पवमानं स्तौति
आरण्येभ्यो वा एतत्पशुभ्यः स्तुवन्ति यद्बहिष्पवमानं एकारूपाभिः स्तुवन्ति तस्मादेकरूपा आरण्याः पशवः
- ६.८.९ स्तोत्रीयानावृत्तिं स्तौति
पराचीभिः स्तुवन्ति तस्मात्पराञ्चः प्रजायन्ते पराञ्चो वितिष्ठन्ते
- ६.८.१० बहिष्पवमानस्यापवृत्त्यभावं प्रशंसति
अपरिश्रिते स्तुवन्ति तस्मादपरिगृहीता आरण्याः पशवः
- ६.८.११ अन्तःशंसनद्वारेण बहिष्पवमानप्रशंसा
बहिः स्तुवन्त्यन्तरनुशंसन्ति तस्माद्ग्रामं आहृतैर्भुञ्जते
- ६.८.१२ आज्यस्तोत्रविषयकथनं
ग्रामेभ्यो वा एतत्पशुभ्यः स्तुवन्ति यदाज्यैर्नानारूपैः स्तुवन्ति तस्मान्नानारूपा ग्राम्याः पशवः
- ६.८.१३ आज्यस्तोत्रावृत्तिप्रशंसनं
पुनरभ्यावर्तं स्तुवन्ति तस्मात्प्रेत्वर्यः प्रेत्य पुनरायन्ति
- ६.८.१४ तस्य परिश्रितप्रदेशप्रशंसा
परिश्रिते स्तुवन्ति तस्मात्परिगृहीता ग्राम्याः पशवः
- ६.८.१५ बहिष्पवमानमुपक्रम्याह
अमुष्मै वा एतल्लोकाय स्तुवन्ति यद्बहिष्पवमानं सकृद्धिङ्कृताभिः पराचीभिः स्तुवन्ति सकृद्धीतोऽसौ पराङ्लोकः
- ६.८.१६ आज्येषूक्तवैपरीत्यं दर्शयति
अस्मै वा एतल्लोकाय स्तुवन्ति यदाज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मादयंल्लोकः पुनः-पुनः प्रजायते
- ६.८.१७ उत्तमायामाकार स्तोत्रं
पराञ्चो वा एतेषां प्राणा बह्वन्तीत्याहुर्ये पराचीभिर्बहिष्पवमानीभिः स्तुवत इत्यावतीं उत्तमां गायेत्प्राणानां धृत्यै
- ६.८.१८ रथन्तरवर्णगानस्य प्रयोजनकथनं
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये पराचीभिर्बहिष्पवमानीभिः स्तुवत इति रथन्तरवर्णं उत्तमां गायेदियं वै रथन्तरं अस्यां एव प्रतितिष्ठति
- ६.९.१ ग्रामकामस्य प्रतिपद्विधानं
उपास्मै गायत नर इति ग्रामकामायप्रतिपदं कुर्यात्
- ६.९.२ एषा ग्रामकामायोचिता
नरो वै देवानां ग्रामो ग्रामं एवास्मा उपाकः
- ६.९.३ प्रकारान्तरेण तत्कामस्यैषोचिता
उप वा अन्नम्-अन्नं एवास्मा उपाकः
- ६.९.४ प्रजाकामस्य प्रतिपदमाह ।
उपोषु जातं अप्तुरं इति प्रजाकामाय प्रतिपदं कुर्यात्
- ६.९.५ तत्र प्रजालिङ्गं दर्शयति
उप वै प्रजा तां जातं इत्येवाजीजनत्
- ६.९.६ पश्वादेर्भेषजकामस्य प्रतिपदमाह
स नः पस्वस्य शं गव इति प्रतिपदं कुर्यात्
- ६.९.७ पशुभेषजस्याद्यः पादउचितः
यां समां महादेवः पशून्हन्यात्स नः पवस्व शं गव इति चतुष्पदे भेषजं करोति
- ६.९.८ तस्य द्वितीयः पादः
शं जनायेति द्विपदे शं अर्वत इत्येकशफाय
- ६.९.९ तस्य तृतीयः पादः
विषेण वै तां समां ओषधयोऽक्ता भवन्ति यां समां महादेवः पशून्हन्ति यच्छं राजन्नोषधीभ्य इत्याहौषधीरेवास्मै स्वदयत्युभय्योऽस्मै स्वदिताः पच्यन्तेऽकृष्टपच्याश्च कृष्टपच्याश्च
- ६.९.१० श्रैष्ठकामस्य प्रतिपदमाह
पवस्व वाचो अग्रिय इति प्रतिपदं कुर्याद्यं कामयेत समानानां शीरेष्ठः स्यादिति
- ६.९.११ एषा तस्योचितेत्याह
पवस्व वाचो अग्रिय इत्यग्रं एवैनं परिणयति
- ६.९.१२ अग्रपरिणयने श्रियां सम्बन्धः
श्रीर्वै वाचोऽग्रं श्रियं एवास्मिन्दधाति
- ६.९.१३ बह्वर्थप्रयोगे प्रतिपदमाह
एते असृग्रं इन्दव इति बहुभ्यः प्रतिपदं कुर्यात्
- ६.९.१४ बह्वर्थप्रयोजनयोग्यता
एत इति सर्वानेवैनानृद्ध्यै भूत्या अभिवदति
- ६.९.१५ सृष्टिसाधनत्वेन प्रतिपदः प्राशस्त्यं
एत इति वै प्रजापतिर्देवानसृजतासृग्रं इति मनुष्यानिन्दव इति पितॄंस्तिरः पवित्र इति ग्रहानाशव इति स्तोत्रंव्विश्वानीति शस्त्रं अभि सौभगेत्यन्याः प्रजाः
- ६.९.१६ सृष्टौ पदसङ्गतिमाह
यदेत इति तस्माद्यावन्त एवाग्रे देवास्तावन्त इदानीम्
- ६.९.१७ तत्र वर्त्तमानभाविकालयोः सम्बन्धः
सर्वान्वृद्धिं आर्ध्नुवं स्थितेव ह्येषा व्याहृतिः
- ६.९.१८ असृग्रमिति पदं मनुष्यसृष्टौ सङ्गतं
यदसृग्रं इति तस्मान्मनुष्याः श्वः-श्वः सृज्यन्ते
- ६.९.१९ पितृसृष्टौ सङ्गतपदकथनं
यदिन्दव इतीन्दव इव हि पितरः
- ६.९.२० कथं तेषां सोमसाम्यं तत्राह ।
मन इव
- ६.९.२१ प्रतिपत्करणस्य समृद्धिसाधनत्वं
यान्ताः प्रजाः सृष्टा ऋद्धिं आर्ध्नुवंस्तां ऋध्नुवन्ति येषां एवंव्विद्वानेतां प्रतिपदं करोति
- ६.९.२२ ऋच आद्यपादप्रशंसनं
छन्दांसि वै सोमं आहरंस्तं गन्धर्वो विश्वावसुः पर्यमुष्णात्. तेनापः प्राविशत्तं देवता अन्वैच्छंस्तं विष्णुरप्सु पर्यपश्यत्स व्यकाङ्क्षदयं नू३ ना३ इति तं पदा प्रास्फुरत्तस्मात्पृथगिन्दवोऽसृज्यन्त स देवताभ्योऽभितस्तिष्ठन्तीभ्य एते असृग्रं इन्दव इति प्राब्रवीद्बहिष्पवमानेन वै यज्ञः सृज्यते यदेते असृग्रं इन्दव इति प्रस्तौति यज्ञं एव तत्सृष्टं देवताभ्यः प्राह
- ६.९.२३ तस्या अन्त्यपादप्रशंसनं
व्यृद्धं वा एतदपशव्यं यत्प्रातःसवनं अनिडं हि यदिडां अस्मभ्यं संयतं इत्याह प्रातःसवनं एव तदिडावत्पशुमत्करोति
- ६.९.२४ समूहार्थप्रतिपदमाह
दविद्यूतत्या रुचेति व्राताय प्रतिपदं कुर्यात्
- ६.९.२५ उक्तप्रतिपत्व्रातप्रयोगे सङ्गता इत्याह
दविद्यूतत्या रेचेति वै गायत्र्या रूपं परिष्टोभन्त्येति त्रिष्टुभः कृपेत्यनुष्टुभः सोमाः शुक्रा गवाशिर इति जगत्याः सर्वेषां वा एषा च्छन्दसां रूपं च्छन्दांसीव खलु वै व्रतोपदेषा प्रतिपद्भवति स्वेनैवैनांस्तद्रूपेण समर्धयति
- ६.९.२६ एषा समृद्धिसाधनत्वेन व्रातयोग्या
वृद्धा वा एत इन्द्रियेण वीर्येण यद्व्रात इन्द्रियं वीर्यं छन्दांसीन्द्रियेणैवैनान्वीर्येण समर्धयति
- ६.१०.१ मृतस्य दीक्षितस्य प्रयोगे प्रतिपदमाह ।
अग्न आयूंषि पवस इति प्रतिपदं कुर्याद्येषां दीक्षितानां प्रमीयते
- ६.१०.२ तस्य तद्योग्यताकथनं
अपूता इव वा एते येषां दीक्षितानां प्रमीयते यद्येषाग्निपावमानी प्रतिपद्भवत्यग्निरेवैनान्निष्टपति पवमानः पुनाति
- ६.१०.३ आयुःशब्दोऽपि तेषामुचित इत्याह
यदायूंषीत्याह य एव जीवन्ति तेष्वायुर्दधाति
- ६.१०.४ दीर्घरोगिनः प्रयोगे प्रतिपदमाह
आ नो मित्रावरुणेति ज्योगामयाविने प्रतिपदं कुर्यात्
- ६.१०.५ तस्यास्तद्योग्यतामाह
अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानौ मित्रावरुणौ प्राणापानावेवास्मिन्दधाति
- ६.१०.६ अनृताभिशस्तस्य प्रतिपदमाह
अपघ्नन्पवते मृधोऽप सोमो अराव्ण इत्यनृतं अभिशस्यमानाय प्रतिपदं कुर्यात्
- ६.१०.७ कथमभिशंसनमपहतं भवति
अरावाणो वा एते येऽनृतं अभिशंसन्ति तानेवास्मादपहन्ति
- ६.१०.८ तृतीयपादोऽपि तस्यानुगुणः
गच्छन्निन्द्रस्य निष्कृतं इति पूतं एवैनं यज्ञियं इन्द्रस्य निष्कृतं गमयति
- ६.१०.९ क्षत्रियस्य प्रयोगे प्रतिपदमाह
वृषा पवस्व धारयेति राजन्याय प्रतिपदं कुर्याद्वृषा वै राजन्यो वृषाणं एवैनं करोति
- ६.१०.१० द्वितीयपादस्यानुकूलत्वं
मरुत्वते च मत्सर इति मरुतो वै देवानां विशो विशं एवास्मा अनु नियुनक्त्यनपक्रामुकास्माद्विड्भवति
- ६.१०.११ तृतीयपादस्यानुकूलत्वं
विश्वा दधान ओजसेत्योजसैवास्मै वीर्येण विशं पुरस्तात्परिगृह्णात्यनपक्रामुकास्माद्विड्भवति
- ६.१०.१२ राष्ट्रकामयमानस्य प्रतिपदमाह
पवस्वेन्दो वृषासुत इति प्रतिपदं कुर्याद्यः कामयेत जने म ऋध्येतेति
- ६.१०.१३ तत्र लिङ्गकथनं
कृधी नो यशसो जन इति जनतायां एवास्मा ऋध्यते
- ६.१०.१४ द्वियजमानप्रयोगे प्रतिपदमाह
युवं हि स्थः स्वः पती इति द्वाभ्यां प्रतिपदं कुर्यात्समावद्भाजावेवैनौ यज्ञस्य करोत्युभौ यज्ञयशसेनार्पयति
- ६.१०.१५ वृष्टिकामस्य प्रतिपदमाह
प्रास्य धारा अक्षरन्निति वृष्टिकामाय प्रतिपदं कुर्यात्
- ६.१०.१६ वृष्टिलिङ्गकथनं
प्रास्य धारा अक्षरन्निति दिवो वृष्टिं च्यावयति वृष्णः सुतस्यौजस इत्यन्तरिक्षात्
- ६.१०.१७ तृतीयपादे स्थितिहेतुताकथनं
देवां अनु प्रभूषत इत्यस्मिन्लोके प्रतिष्ठापयति
- ६.१०.१८ ओजस इति पदं वृष्टिलिङ्गमित्याह
ओजसा वा एतद्वीर्येण प्रदीयते यदप्रत्तं भवति यद्वृष्णः सुतस्यौजस इत्याहौजसैवास्मै वीर्येण दिवो वृष्टिं प्रयच्छति
- ६.१०.१९ वैरिगोकामस्य प्रतिपदमाह
तया पवस्व धारया यया गाव इहागमञ्जन्यास उप्नो गृहं इति प्रतिपदं कुर्याद्यः कामयेतोप मा जन्या गावो नमेयुर्विन्देत मे जन्या गा राष्ट्रं इति यदेषा प्रतिपद्भवत्युपैनं जन्या गावो नमन्ति विन्दतेऽस्य जन्या गा राष्ट्रम्