बहिष्पवमानादीनां सामानि स्तुतिप्रकाराश्च विधीयन्ते

7.1
इमे वै लोका गायत्रं त्र्यावृद्गेयं त्रयो हीमे लोका यत् त्र्यावृद्गायत्येभिरेवैनं लोकैः संमिमीते
द्विरवनर्देद्धिङ्कुर्यात् तृतीयम्
यत् त्रिरवनर्दत्यति तद्गायत्रं रेचयति
यो वै गायत्रेणाप्रतिहृतेनोद्गायत्यप्रतिष्ठानो भवति हिङ्कारो वै गायत्रस्य प्रतिहारः
स मनसा ध्येयः प्रतिहृतेन गायत्रेणोद्गायति प्रतितिष्ठति
यो वा एभ्यो लोकेभ्यो गायत्रं गायति नैभ्यो लोकेभ्य आवृश्च्यत इम एनं लोका ऊर्ज्जाभिसंवसते
मन्द्रमिवाग्र आददीताथ तारतरमथ तारतमं तदेभ्यो लोकेभ्योऽगासीत्
अनिरुक्तं गेयमेतद्वै गायत्रस्य क्रूरं यन्निरुक्तं यदनिरुक्तं गायति क्रूरमेवास्य परिवृणक्ति
प्राणो गायत्रं न व्यवान्यात् प्राणस्याविच्छेदाय यदि व्यवानिति प्रमायुको भवति यदि न व्यवानिति सर्वमायुरेति
यदि व्यवान्यान्मध्य ऋचो व्यवान्यात् प्राणो वै गायत्रं प्राणः स्वरः प्राणमेव तन्मध्यत आत्मन् दधाति स सर्वमायुरेति
इडां पशुकामाय निधनं कुर्यात् स्वः स्वर्गकामाय यशो ब्रह्मवर्चसकामायायुरामयाविने हंसीत्यभिचरते
एते वै गायत्रस्य दोहाः
ब्रह्मवर्चससी पशुमान् भवति य एवंव्वेद
7.2
प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत् तेऽन्योऽन्यस्मा अग्राय नातिष्ठन्त तानब्रवीदाजिमस्मिन्नितेति त आजिमायन् यदाजिमायंस्तदाज्यानामाज्यत्वम्
स इन्द्रोऽवेदग्निर्वा इदमग्र उज्ज्येष्यतीति सोऽब्रवीद्यतरो नाविदमग्र उज्जयत् तन्नौ सहेति सोऽग्निरग्र उदजयदथ मित्रावरुणावथेन्द्रोऽथैषैका होत्रानुज्जितासीत् स इन्द्रोऽग्निमब्रवीद्यत् सहावोचावही यन्नौ तदिति सैषैन्द्राग्न्यध्यर्धमग्ने स्तोत्रमध्यर्धमिन्द्रस्य
चत्वारि सन्ति षड्देवत्यानि
षड्धा विहितो यज्ञो यावान् यज्ञस्तमेवारभते
सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै
ग्राम्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यदाज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मात् पराञ्चः प्राज्यन्ते प्रत्यञ्चः प्रजायन्ते तस्मादु प्रेत्य पुनरायन्ति
7.3
एतावता वाव माध्यन्दिनं सवनं पुपुवे
त्रिभिश्च च्छन्दोभिः पञ्चभिश्च सामभिः
यन्माध्यन्दिनेन पवमानेन स्तुवन्ति माध्यन्दिनमेव तत् सवनं पावयन्ति
एतावन्ति वाव सर्वाणि सामानि यावन्ति माध्यन्दिने पवमाने
गायत्रं निधनवदनिधनमैडम्
यन्माध्यन्दिनेन पवमानेन स्तुवन्ति सर्वैरेव तत् सामभिः स्तुवन्ति
आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रं यद्गायत्र्यां गायत्रेण स्तुवन्ति मुखत एव तत् प्राणान् दधति
प्राणापाना वा एतानि च्छन्दांसि प्राणो गायत्री व्यानो बृहत्यपानस्त्रिष्टुब्यदेतैश्छन्दोभिः स्तुवन्ति प्राणापानानामविच्छेदाय
इमे वै लोका एतानि च्छन्दांस्ययमेव गायत्र्ययं मध्यमो बृहत्यसावुत्तमस्त्रिष्टुब्यदेतश्छन्दोभिः संहितैः स्तुवन्त्येषां लोकानामविच्छेदाय
यदन्यच्छन्दोऽन्तरा व्यवेयादिमांल्लोकान् विच्छिन्द्यात्
गायत्रेण स्तुत्वा निधनवता स्तुवन्तीयं वै गायत्र्यस्यामेव तदायतनं क्रियते
यदनिधनेनाग्रे स्तुयुरनायतनो यजमानः स्यात्
निधनवता स्तुवन्ति वीर्यं वै गायत्री वीर्यं निधनं वीर्येणैव तद्वीर्यं समर्धयति
ऐडेन बृहतीमारभन्ते
पशवो वा इडा पशवो बृहती पशुष्वेव तत् पशून् दधाति
बृहत्यां भूयिष्ठानि सामानि भवन्ति
तत्रापि त्रिणिधनम्
अबलिष्ठ इव वा अयं मध्यमो लोकस्तस्यैव तदायतनं क्रियते
त्रिणिधनं भवति त्रीणि सवनानां छिद्राणि तानि तेनापिधीयन्ते
त्रिणिधनं भवति त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
त्रिणिधनं भवत्येतेन वै माध्यन्दिनं सवनं प्रतिष्ठितं यत् त्रिणिधनं यत् त्रिणिधनं न स्यादप्रतिष्ठितं माध्यन्दिनं सवनं स्यात्
द्व्यक्षराणि निधनानि भवन्ति द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु प्रतिष्ठापयति
अनिधनमन्ततो भवति स्वर्गस्य लोकस्यानतिपादाय
यन्निधनवत् स्याद्यजमानं स्वर्गाल्लोकान्निर्हन्यात्
स्वारं भवति
स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्रयच्छति
गायत्रं पुरस्ताद्भवति स्वारमन्ततः
प्राणो वै गायत्रं प्राणः स्वरः प्राणानेवतदुभयतो दधाति तस्मादुभयतः प्राणाः पशवः
यद्गायत्रं पुरस्ताद्भवति स्वारमन्ततः प्राणैरेव प्रैत्यपाने प्रतितिष्ठति
7.4
एतद्वै यज्ञस्य स्वर्ग्यं यन्माध्यन्दिनं सवनं माध्यन्दिनस्य पवमानः पवमानस्य बृहती यद्बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्वर्गस्यैव तल्लोकस्यायतने दीयन्ते
देवा वै च्छन्दांस्यब्रुवन् युष्माभिः स्वर्ग्यंल्लोकमयामेति ते गायत्रीं प्रायुञ्जत तया न व्याप्नुवंस्त्रिष्टुभं प्रायुञ्जत तया न व्याप्नुवञ्जगतीं प्रायुञ्जत तया न व्याप्नुवन्ननुष्टुभं प्रायुञ्जत तयाल्पकादि न व्याप्नुवंस्त आसां दिशां रसान् प्रबृह्य चत्वार्यक्षराण्युपादधुः सा बृहत्यभवत् तयेमांल्लोकान् व्याप्नुवन्
बृहती मर्या ययेमांल्लोकान् व्यापामेति तद्बृहत्या बृहत्त्वम्
पशून् वा अस्यान्तानुपादधुः पशवो वै बृहती यद्बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्व एव तदायतने दीयन्ते
यन्न्वित्याहुरन्यानि च्छन्दांसि वर्षीयांसि कस्माद्बृहत्युच्यत एषा हीमांल्लोकान् व्याप्नोन्नान्यच्छन्दः किं चन यानि सप्त चतुरुत्तराणि च्छन्दांसि तानि बृहतीमभिसंपद्यन्ते तस्माद्बृहत्युच्यते
यन्न्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं कस्माद्बृहत्या मध्यन्दिने स्तुवन्तीति
बहिष्पवमानेन वै देवा आदित्यं स्वर्गंल्लोकमहरन् स नाध्रियत तं बृहत्या मध्यन्दिनेऽस्तभ्नुवंस्तस्माद्बृहत्या मध्यन्दिनं स्तुवन्त्यादित्यं ह्येषा मध्यन्दिने दाधार
यैरु कैश्च च्छन्दोभिर्मध्यन्दिने स्तुवन्ति तानि त्रिष्टुभमभि संपद्यन्ते तस्मात् त्रिष्टुभो नयन्ति माध्यन्दिनात् सवनात्
7.5
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स शोचन्नमहीयमानोऽतिष्ठत् स एतदामहीयवमपश्यत् तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त यदमहीयन्त तस्मादामहीयवम्
ता अस्मात् सृष्टा अपाक्रामंस्तासां दिवि सद्भूम्यादद इति प्राणानादत्त ता एनं प्राणेष्वात्तेषु पुनरुपावर्तन्त ताभ्य उग्रं शर्म महि श्रव इति पुनः प्राणान् प्रायच्छत् ता अस्मादुदेवायोधंस्तासां स्तौष इति मन्यूनवाशृणात् ततो वै तस्मै ताः श्रैष्ठ्यायातिष्ठन्त
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवंव्वेद
प्रजानां च वा एषा सृष्टिः पापवसीयश्च विधृतिर्यदामहीयवम्
विधृतिः पापवसीयसो भवति य एवंव्वेद
देवा वै यशस्कामाः सत्त्रमासताग्निरिन्द्रो वायुर्मखस्तेऽब्रुवन्न् यन्नो यश ऋच्छात् तन्नः सहासदिति तेषा मखं यश आर्च्छत् तदादायापाक्रामत् तदस्य प्रासहादित्सन्त तं पर्ययतन्त स्वधनुः प्रतिष्ठाभ्यातिष्ठत् तस्य धनुरार्त्निरूर्ध्वा पतित्वा शिरोऽच्छिनत् स प्रवर्ग्योऽभवद्यज्ञो वै मखो यत् प्रवर्ग्यं प्रवृञ्जन्ति यज्ञस्यैव तच्छिरः प्रतिदधति
तद्देवा यशो व्यभजन्त तस्याग्नी रौरवं प्राबृहत
तद्वै स पशुवीर्यं प्राबृहत पशवो वै रौरवम्
पशुमान् भवति य एवंव्वेद
अग्निर्वै रूरस्तस्यैतद्रौरवम्
असुरा वै देवान् पर्ययतन्त तत एतावग्नी रूरौ विष्वञ्चौ स्तोभावपश्यत् ताभ्यामेनान् प्रत्यौषत् ते प्रत्युष्यमाणा अरवन्त यदरवन्त तस्माद्रौरवम्
अथेन्द्रो यौधाजयं प्राबृहत तद्वै स वज्रं प्राबृहत वज्रो वै यौधाजयम्
वज्रं भ्रातृव्याय प्रहरति य एवंव्वेद
इन्द्रो वै युधाजित् तस्यैतद्यौधाजयम्
युधा मर्या अजैष्मेति तस्माद्यौधाजयम्
अथ वायुरौशनं प्राबृहत
तद्वै स प्राण्वीर्यं प्राबृहत प्राणा वा औशनम्
सर्वमायुरेति य एवंव्वेद
वायुर्वा उशनंस्तस्यैतदौशनम्
उशना वै काव्योऽसुराणां पुरोहित आसीत् तं देवाः कामदुघाभिरपामन्त्रयन्त तस्मा एतान्यौशनानि प्रायच्छन् कामदुघा वा औशनानि
कामदुघा एनमुपतिष्ठन्ते य एवंव्वेद
7.6
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स तूष्णीं मनसाध्यायत् तस्य यन्मनस्यासीत् तद्बृहत् समभवत्
स आदधीत गर्भो वै मेऽयमन्तर्हितस्तंव्वाचा प्रजनया इति
स वाचं व्यसृजत सा वाग्रथन्तरमन्वपद्यत
रथमर्याः क्षेप्लातारीदिति तद्रथन्तरस्य रथन्तरत्वम्
ततो बृहदनु प्राजायत बृहन्मर्या इदं स ज्योगन्तरभूदिति तद्बृहतो बृहत्त्वम्
यथा वै पुत्रो ज्येष्ठ एवं बृहत् प्रजापतेः
ज्येष्ठब्राह्मणं वा एतत्
प्र ज्यैष्ठ्यमाप्नोति य एवंव्वेद
यन्न्वित्याहुर्बृहत् पूर्वं प्रजापतौ समभवत् कस्माद्रथन्तरं पूर्वं योगमानश इति
बृहदेव पूर्वं समभवद्रथन्तरं तु पूर्वं सृष्ट्यासृजत तस्मात् पूर्वं योगमानशे
तयोः समानं निधनमासीत् तस्मिन्नातिष्ठेतां त आजिमैतां तयोर्हसिति बृहत् प्राणमुदजयदसिति रथन्तरमपानमभिसमवेष्टत
प्राणापानौ वै बृहद्रथन्तरे ज्योगामयाविन उभे कुर्यादपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानावेवास्मिन् दधाति
यन्न्वित्याहुरुभे बृहद्रथन्तरे बहिर्णिधने कस्माद्बृहद्बहिर्णिधनानि भजतेऽन्तर्णिधनानि रथन्तरमिति
प्राणो बृहत् तस्माद्बहिर्णिधनानि भजते बहिर्हि प्राणोऽपानो रथन्तरं तस्मादन्तर्णिधनानि भजतेऽन्तर्ह्यपानः
महावृक्षौ वै बृहद्रथन्तरे निधनेन समर्प्ये
यद्वै महावृक्षौ समृच्छेते बहु तत्र विभग्नं प्रभग्नं शेते
ऐरं वै बृहदैडं रथन्तरं मनो वै बृहद्वाग्रथन्तरं साम वै बृहदृग्रथन्तरं प्राणो वै बृहदपानो रथन्तरमसौ वै लोको बृहदयं रथन्तरमेतानि मनसान्वीक्ष्योद्गायेत् कॢप्ताभ्यामेवाभ्यामुद्गायति
7.7
पशवो वै बृहद्रथन्तरे अष्टाक्षरेण प्रथमाया (?) ऋचः प्रस्तौत्यष्टाशफांस्तत् पशूनवरुन्धे
द्व्यक्षरेणोत्तरयोरृचोः प्रस्तौति द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु प्रतिष्ठापयति
पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस्तत् पशूनवरुन्धे
चतुरक्षरेण बृहतः प्रतिहरति चतुष्पदस्तत् पशूनवरुन्धे
न वै बृहन्न रथन्तरमेकं छन्दोऽयच्छत् ततः ककुभावुत्तरे उपादधुस्तस्माद्बृहती प्रथमा ककुभावुत्तरे तस्माद्बृहद्रथन्तरे एकर्चेन कुर्वन्ति न हि ते एकं छन्दोऽयच्छत्
नव बृहतो रोहान् रोहति नव प्राणाः प्राणानेवावरुन्धे
त्रीन् प्रथमायां रोहति भूतं भवद्भविष्यत् तानेवावरुन्धे त्रीन्मध्यमायां रोहत्यात्मानं प्रजां पश्+ऊंस्तानेवावरुन्धे त्रीनुत्तमायां रोहति त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
सर्वान् कामानवरुन्धे य एवंव्विद्वान् बृहतो रोहान् रोहति
वज्रेण वा एतत् प्रस्तोतोद्गातारमभिप्रवर्तयति यद्रथन्तरं प्रस्तौति समुद्रमन्तर्धायोद्गायेद्वागित्यादेयंव्वाग्वै समुद्रः समुद्रमेवान्तर्दधात्यहिंसायै
बलवद्गेयं वज्रमेवं प्रवृत्तं प्रत्युद्गृह्णाति
बल्वला कुर्वता गेयमभिलोभयतेव वज्रमेवाभिलोभयति
क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्ट्यै
देवरथो वै रथन्तरमक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयमरेणारेण हि रथः प्रतितिष्ठति
यो वै देवरथमनन्वालभ्यातिष्ठत्यवास्मात् पद्यत इयं वै देवरथ इमामालभ्योद्गायेन्नास्मादवपद्यते
ईश्वरं वै रथन्तरमुद्गातुश्चक्षुः प्रमथितोः प्रस्तुयमाने संमीलेत् स्वर्दृशं प्रतिवीक्षेत नैनं चक्षुर्जहाति
प्रजननं वै रथन्तरं यत् तस्थुष इत्याहास्थायुकोद्गातुर्वाग्भवत्यपि प्रजननं हन्त्यस्थुष इति वक्तव्यं सुस्थुष इति वा स्थायुकोद्गातुर्वाग्भवति न प्रजननमपि हन्ति
पृष्ठानि वा असृज्यन्त तैर्देवाः स्वर्गंल्लोकमायंस्तेषां रथन्तरं महिम्ना नाशक्नोदुत्पतत्
तस्य वशिष्ठो महिम्नो विनिधाय तेन स्तुत्वा स्वर्गंल्लोकमैत् तान् संभृत्योद्गायेत्
यस्ते गोषु महिमा यस्ते अप्सु रथे वा ते स्तनयित्नौ य उ ते यस्ते अग्नौ महिमा तेन संभव रथन्तर द्रविणवन्न एधि
7.8
अपो वा ऋत्व्यमार्च्छत् तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम्
तत् परिगृह्णन्तावब्रूतामिदमविदावेदं नौ माभ्यर्तिढ्वमिति तत् प्रजापतिरब्रवीन्मद्वा एतद्ध्यजनि मम वा एतदिति तदग्निरब्रवीन्मां (?) वा एतदन्नमजनि मम वा एतदिति तदिन्द्रोऽब्रवीच्छ्रेष्ठस्था वा एतदहं वः श्रेष्ठोऽस्मि मम वा एतदिति तद्विश्वे देवा अब्रुवन्नस्मद्देवत्यं वा एतद्यदद्भ्योऽधि समभूदस्माकं वा एतदिति तत् प्रजापतिरब्रवीत् सर्वेषां न इदमस्तु सर्व इदमुपजीवामेति तत् पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम्
यत् कवतीषु तेन प्राजापत्यं को हि प्रजापतिर्यदनिरुक्तासु तेन प्राजापत्यमनिरुक्तो हि प्रजापतिः
यद्गायत्रीषु तेनाग्नेयं गायत्रच्छन्दा ह्यग्निः
यत् पृष्ठेषु न्यददधुस्तेनैन्द्रं सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि
यन्मैत्रावरुणोऽनुशंसति तेन मैत्रावरुणम्
यद्बहुदेवत्यमुत्तमं पदं तेन वैश्वदेवं सर्वेष्वेव रूपेषु प्रतितिष्ठति
प्रजापतिर्वा एतां गायत्रीं योनिमपश्यत् स आदीधीतास्माद्योनेः पृष्ठानि सृजा इति
स रथन्तरमसृजत तद्रथस्य घोषोऽन्वसृज्यत
स बृहदसृजत तत् स्तनयित्नोर्घोषोऽन्वसृज्यत स वैरूपमसृजत तद्वा तस्य घोषोऽन्वसृज्यत
स वैरूपमसृजत तदग्नेर्घोषोऽन्वसृज्यत
स शक्वरीरसृजत तदपां घोषोऽन्वसृज्यत
स रेवतीरसृजत तद्गवां घोषोऽन्वसृज्यत
एतैर्वा एतानि सह घोषैरसृज्यन्त
सर्वेऽस्मिन् घोषाः सर्वाः पुण्या वाचो वदन्ति य एवंव्वेद
7.9
पिता वै वामदेव्यं पुत्राः पृष्ठानि
एतस्माद्वा एतानि योनेरसृज्यन्त
तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्ति शान्त्यै
यद्धि पुत्रोऽशान्तं चरति पिता तच्छमयति
अयं वै लोको मध्यमो वामदेव्यमेतस्माद्वा इमौ लोकौ विष्वञ्चावसृज्येतां बृहच्च रथन्तरं च
यद्रथन्तरेण स्तुवन्ति ये रथन्तराः पशवोऽन्तरीक्षं त उपश्रयन्ति यद्बृहता स्तुवन्ति ये बार्हताः पशवोऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः
ध्रुव आसीनो वामदेव्येनोद्गायेत् पशूनामुपवृत्यै
उपैनं पशव आवर्तन्ते य एवंव्वेद
अन्तरिक्षं वै वामदेव्यमधून्वतेवोद्गेयमधूतमिवान्तरिक्षं पशवो वै वामदेव्यमहिंसतेवोद्गेयं पशूनामहिंसायै
कथमिव वामदेव्यं गेयमित्याहुः
यथाङ्कुली पुत्रान् संदश्यासंभिन्दन्ती हरति यथा वातोऽप्सु शनैर्वाति
स्वधूर्वामदेव्यं गेयम्
यो वै स्वधूर्वामदेव्यं गायति स्वधूर्भवति
यात्यस्यान्यो नियानेन नान्यस्य नियानेन याति
न बृहतो न रथन्तरस्यानुरूपं गेयं स्वेनैवायतनेन गेयमायतनवान् भवति
देवा वै पशून् व्यभजन्त ते रुद्रमन्तरायंस्तान् वामदेव्यस्य स्तोत्र उपेक्षते
अनिरुक्तं गेयम्
यन्निराह रुद्राय पशूनपिदधाति रुद्रस्तां समां पशून् धातुको भवति
रेवतीषु वामदेव्येन पशुकामः स्तुवीत
आपो वै रेवत्यः पशवो वामदेव्यमद्भ्य एवास्मै पशून् प्रजनयति
अनवर्तिः पशुतो भवति प्रजा स्वस्य मीलितेव भवति
कवतीभ्यो ह्येति प्रजापतेः
7.10
इमौ वै लोकौ सहास्तां तौ वियन्तावब्रूतांव्विवाहंव्विवहावहै सह नावस्त्विति
तयोरयममुष्मै श्यैतं प्रायच्छन्नौधसमसावस्मै
तत एनयोर्निधने विपर्यक्रामतां देवविवाहो वै श्यैतनौधसे
प्रवसीयांसं विवाहमाप्नोति य एवंव्वेद
इतो वा इमे लोका ऊर्ध्वाः कल्पमाना यन्त्यमुतोऽर्वाञ्चः कल्पमाना आयन्ति
यद्रथन्तरेण स्तुवन्तीमंल्लोकं तेन युनक्त्यन्तरिक्षंव्वामदेव्येन नौधसेनामुं यद्बृहता स्तुवन्त्यमुंल्लोकं तेन यनक्त्यन्तरिक्षंव्वामदेव्येन श्यैतेनेमम्
कॢप्तानिमाल्लोकानुपास्ते य एवंव्वेद
बृहद्रथन्तरे वै शैतनौधसे यद्रथन्तराय नौधसं प्रति प्रयुञ्जन्ति बृहदेवास्मै तत् प्रति प्रयुञ्जन्ति बृहद्ध्येतत् परोऽक्षं यन्नौधसं यद्बृहते श्यैतं प्रति प्रयुञ्जन्ति रथन्तरमेवास्मै तत् प्रति प्रयुञ्जन्ति रथन्तरं ह्येतत् परोऽक्षं यच्छ्यैतम्
उभभ्यां बृहद्रथन्तराभ्यां स्तुते य एवंव्वेद
देवा वै ब्रह्म व्यभजन्त तां नोधाः काक्षीवत आगच्छत् तेऽब्रुवन्नृषिर्न आगंस्तस्मै ब्रह्म ददामेति तस्मा एतत् साम प्रायच्छंस्तस्मान्नौधसं ब्रह्म वै नौधसम्
ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति
अथैतच्छ्यैतम्
प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानेतेन साम्नाभिव्याहरत् तेऽस्मा अतिष्ठन्त ते शेत्या अभवन् यच्छेत्या अभवंस्तस्माच्छ्यैतं पशवो वै श्यैतम्
पशुकाम एतेन स्तुवीत पशुमान् भवति
प्रजापतिः प्रजा असृजत ताः सृष्टा अशोचंस्ताः श्यैतेन हुंमा इत्यभ्यजिघ्रत् ततो वै ताः समैधन्त समेधन्ते तां समां प्रजा यत्रैवं विद्वाञ्छ्यैतेनोद्गायति
एष वै यजमानस्य प्रजापतिर्यदुद्गाता यच्छ्यैतेन हिङ्करोति प्रजापतिरेव भूत्वा प्रजा अभिजिह्ग्रति
वसुनिधनं भवति पशवो वै वसु पशुष्वेव प्रतितिष्ठति

७.१.१ गायत्रसाम्नः स्तुतिप्रकारकथनं

इमे वै लोका गायत्रं त्र्यावृद्गेयं त्रयो हीमे लोका यत्त्र्यावृद्गायत्येभिरेवैनं लोकैः संमिमीते

७.१.२ अवनर्दनविधानं

द्विरवनर्देद्धिङ्कुर्यात्तृतीयम्

७.१.३ मुख्यावनर्दत्रयकरणे दोषमाह

यत्त्रिरवनर्दत्यति तद्गायत्रं रेचयति

७.१.४ प्रतिहारस्थाने हिङ्कारकथनं

यो वै गायत्रेणाप्रतिहृतेनोद्गायत्यप्रतिष्ठानो भवति हिङ्कारो वै गायत्रस्य प्रतिहारः

७.१.५ हिङ्कारस्य मानसत्वमाह

स मनसा ध्येयः प्रतिहृतेन गायत्रेणोद्गायति प्रतितिष्ठति

७.१.६ प्रथमादयः श्वराः क्रमेण कर्त्तव्यः

यो वा एभ्यो लोकेभ्यो गायत्रं गायति नैभ्यो लोकेभ्य आवृश्च्यत इम एनं लोका ऊर्ज्जाभिसंवसते

७.१.७ गायत्रगानं कथं भवतीत्याह

मन्द्रं इवाग्र आददीताथ तारतरं अथ तारतमं तदेभ्यो लोकेभ्योऽगासीत्

७.१.८ अनिरुक्तगानविधानं

अनिरुक्तं गेयं एतद्वै गायत्रस्य क्रूरं यन्निरुक्तं यदनिरुक्तं गायति क्रूरं एवास्य परिवृणक्ति

७.१.९ अनवानव्यतिरेकेण दोषः

प्राणो गायत्रं न व्यवान्यात्प्राणस्याविच्छेदाय यदि व्यवानिति प्रमायुको भवति यदि न व्यवानिति सर्वं आयुरेति

७.१.१० निःश्वासेन विना गानसनापनाशक्तस्याह

यदि व्यवान्यान्मध्य ऋचो व्यवान्यात्प्राणो वै गायत्रं प्राणः स्वरः प्राणं एव तन्मध्यत आत्मन्दधाति स सर्वं आयुरेति

७.१.११ कामभेदे निधनकथनं

इडां पशुकामाय निधनं कुर्यात्स्वः स्वर्गकामाय यशो ब्रह्मवर्चसकामायायुरामयाविने हंसीत्यभिचरते

७.१.१२ अथैतानि स्तौति

एते वै गायत्रस्य दोहाः

७.१.१३ वेदितुः फलकथनं

ब्रह्मवर्चससी पशुमान्भवति य एवंव्वेद

७.२.१ आज्यस्तोत्राणां देवताकथनं

प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्तेऽन्योऽन्यस्मा अग्राय नातिष्ठन्त तानब्रवीदाजिं अस्मिन्नितेति त आजिं आयन्यदाजिं आयंस्तदाज्यानां आज्यत्वम्

७.२.२ आज्यस्तोत्राणां देवताकल्पनं

स इन्द्रोऽवेदग्निर्वा इदं अग्र उज्ज्येष्यतीति सोऽब्रवीद्यतरो नाविदं अग्र उज्जयत्तन्नौ सहेति सोऽग्निरग्र उदजयदथ मित्रावरुणावथेन्द्रोऽथैषैका होत्रानुज्जितासीत्स इन्द्रोऽग्निं अब्रवीद्यत्सहावोचावही यन्नौ तदिति सैषैन्द्राग्न्यध्यर्धं अग्ने स्तोत्रं अध्यर्धं इन्द्रस्य

७.२.३ उक्तविभागस्यानुवादः

चत्वारि सन्ति षड्देवत्यानि

७.२.४ षड्देवतात्वप्रशंसनं

षड्धा विहितो यज्ञो यावान्यज्ञस्तं एवारभते

७.२.५ देवतानानात्वस्तुति

सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै

७.२.६ अभ्यवृत्तगानस्तुतिः

ग्राम्येभ्यो वा एतत्पशुभ्यः स्तुवन्ति यदाज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मात्पराञ्चः प्राज्यन्ते प्रत्यञ्चः प्रजायन्ते तस्मादु प्रेत्य पुनरायन्ति

७.३.१ माध्यन्दिनपवमानस्तुतिः

एतावता वाव माध्यन्दिनं सवनं पुपुवे

७.३.२ उक्तस्य विषदीकरणं

त्रिभिश्च च्छन्दोभिः पञ्चभिश्च सामभिः

७.३.३ एतावता किं भवतीत्याह

यन्माध्यन्दिनेन पवमानेन स्तुवन्ति माध्यन्दिनं एव तत्सवनं पावयन्ति

७.३.४ पवमानसवनयोः साम्नात्मवैषम्यं

एतावन्ति वाव सर्वाणि सामानि यावन्ति माध्यन्दिने पवमाने

७.३.५ पवमानसामसु सवनान्तर्भावः

गायत्रं निधनवदनिधनं ऐडम्

७.३.६ होतुः पृष्ठादीनामुपसंहारः

यन्माध्यन्दिनेन पवमानेन स्तुवन्ति सर्वैरेव तत्सामभिः स्तुवन्ति

७.३.७ गायत्र्यां गायत्रसामविधानं

आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रं यद्गायत्र्यां गायत्रेण स्तुवन्ति मुखत एव तत्प्राणान्दधति

७.३.८ छन्दस्त्रयप्रशंसा

प्राणापाना वा एतानि च्छन्दांसि प्राणो गायत्री व्यानो बृहत्यपानस्त्रिष्टुब्यदेतैश्छन्दोभिः स्तुवन्ति प्राणापानानां अविच्छेदाय

७.३.९ तस्य प्रकारान्तरेण प्रशंसनं

इमे वै लोका एतानि च्छन्दांस्ययं एव गायत्र्ययं मध्यमो बृहत्यसावुत्तमस्त्रिष्टुब्यदेतश्छन्दोभिः संहितैः स्तुवन्त्येषां लोकानां अविच्छेदाय

७.३.१० संहितव्यतिरेके दोषमाह

यदन्यच्छन्दोऽन्तरा व्यवेयादिमांल्लोकान्विच्छिन्द्यात्

७.३.११ सामप्रशंसनं

गायत्रेण स्तुत्वा निधनवता स्तुवन्तीयं वै गायत्र्यस्यां एव तदायतनं क्रियते

७.३.१२ व्यतिरेकनिन्दया स्तौति

यदनिधनेनाग्रे स्तुयुरनायतनो यजमानः स्यात्

७.३.१३ तस्य पुनः प्रशंसा

निधनवता स्तुवन्ति वीर्यं वै गायत्री वीर्यं निधनं वीर्येणैव तद्वीर्यं समर्धयति

७.३.१४ पुनानः सोमेत्यादिषु रौरवविधानं

ऐडेन बृहतीं आरभन्ते

७.३.१५ तस्य प्रशंसनं

पशवो वा इडा पशवो बृहती पशुष्वेव तत्पशून्दधाति

७.३.१६ यौधाजयस्तुतिः

बृहत्यां भूयिष्ठानि सामानि भवन्ति

७.३.१७ बृहतीषु यौधाजयविधानं

तत्रापि त्रिणिधनम्

७.३.१८ तस्य प्रशंसनं

अबलिष्ठ इव वा अयं मध्यमि लोकस्तस्यैव तदायतनं क्रियते

७.३.१९ तस्य पुनः प्रशंसनं

त्रिणिधनं भवति त्रीणि सवनानां छिद्राणि तानि तेनापिधीयन्ते

७.३.२० प्रकारान्तरेणास्य प्रशंसा

त्रिणिधनं भवति त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति

७.३.२१ उक्तनिधनस्य प्रतिष्ठाहेतुत्वं

त्रिणिधनं भवत्येतेन वै माध्यन्दिनं सवनं प्रतिष्ठितं यत्त्रिणिधनं यत्त्रिणिधनं न स्यादप्रतिष्ठितं माध्यन्दिनं सवनं स्यात्

७.३.२२ अक्षरसंख्ययास्य स्तुतिः

द्व्यक्षराणि निधनानि भवन्ति द्विपाद्यजमानो यजमानं एव यज्ञे पशुषु प्रतिष्थापयति

७.३.२३ औशननिधनमाह

अनिधनं अन्ततो भवति स्वर्गस्य लोकस्यानतिपादाय

७.३.२४ व्यतिरेके वाधमाह

यन्निधनवत्स्याद्यजमानं स्वर्गाल्लोकान्निर्हन्यात्

७.३.२५ अनिधनमौशनस्यानुवादः

स्वारं भवति

७.३.२६ स्वरं प्रशंसति

स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्रयच्छति

७.३.२७ आद्यन्तसामानुवादः

गायत्रं पुरस्ताद्भवति स्वारं अन्ततः

७.३.२८ पुनस्तत्स्तुतिः

प्राणो वै गायत्रं प्राणः स्वरः प्राणानेवतदुभयतो दधाति तस्मादुभयतः प्राणाः पशवः

७.३.२९ पुनः प्रशंसनं

यद्गायत्रं पुरस्ताद्भवति स्वारं अन्ततः प्राणैरेव प्रैत्यपाने प्रतितिष्ठति

७.४.१ बृहत्याख्यं मध्यमं च्छन्दः स्तूयते तत्र दक्षिणा योज्या इति

एतद्वै यज्ञस्य स्वर्ग्यं यन्माध्यन्दिनं सवनं माध्यन्दिनस्य पवमानः पवमानस्य बृहती यद्बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्वर्गस्यैव तल्लोकस्यायतने दीयन्ते

७.४.२ प्रकारान्तरेण दक्षिणा प्रशंसा

देवा वै च्छन्दांस्यब्रुवन्युष्माभिः स्वर्ग्यंल्लोकं अयामेति ते गायत्रीं प्रायुञ्जत तया न व्याप्नुवंस्त्रिष्टुभं प्रायुञ्जत तया न व्याप्नुवञ्जगतीं प्रायुञ्जत तया न व्याप्नुवन्ननुष्टुभं प्रायुञ्जत तयाल्पकादि न व्याप्नुवंस्त आसां दिशां रसान्प्रबृह्य चत्वार्यक्षराण्युपादधुः सा बृहत्यभवत्तयेमांल्लोकान्व्याप्नुवन्

७.४.३ बृहत्याबृहत्त्वमाह

बृहती मर्या ययेमांल्लोकान्व्यापामेति तद्बृहत्या बृहत्त्वम्

७.४.४ बृहती स्वस्तोत्रे दक्षिणायोग्येत्याह ।

पशून्वा अस्यान्तानुपादधुः पशवो वै बृहती यद्बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्व एव तदायतने दीयन्ते

७.४.५ बृहतीत्वस्य प्रशंसनं

यन्न्वित्याहुरन्यानि च्छन्दांसि वर्षीयांसि कस्माद्बृहत्युच्यत एषा हीमांल्लोकान्व्याप्नोन्नान्यच्छन्दः किं चन यानि सप्त चतुरुत्तराणि च्छन्दांसि तानि बृहतीं अभिसंपद्यन्ते तस्माद्बृहत्युच्यते

७.४.६ बृहत्यस्तित्वविषये ब्रह्मवादिन आक्षेपः

यन्न्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं कस्माद्बृहत्या मध्यन्दिने स्तुवन्तीति

७.४.७ तस्योत्तरमाह

बहिष्पवमानेन वै देवा आदित्यं स्वर्गंल्लोकं अहरन्स नाध्रियत तं बृहत्या मध्यन्दिनेऽस्तभ्नुवंस्तस्माद्बृहत्या मध्यन्दिनं स्तुवन्त्यादित्यं ह्येषा मध्यन्दिने दाधार

७.४.८ माध्यन्दिनसवनस्य त्रैष्टुभत्वं

यैरु कैश्च च्छन्दोभिर्मध्यन्दिने स्तुवन्ति तानि त्रिष्टुभं अभि संपद्यन्ते तस्मात्त्रिष्टुभो नयन्ति माध्यन्दिनात्सवनात्

७.५.१ गायत्रव्यतिरिक्तानि चत्वारि सामानि स्तूयन्ते तत्र प्रथमं स्तौति

प्रजापतिरकामयत बहु स्यां प्रजायेयेति स शोचन्नमहीयमानोऽतिष्ठत्स एतदामहीयवं अपश्यत्तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त यदमहीयन्त तस्मादामहीयवम्

७.५.२ स्तौषे इति निधनस्य प्रशंसा

ता अस्मात्सृष्टा अपाक्रामंस्तासां दिवि सद्भूम्यादद इति प्राणानादत्त ता एनं प्राणेष्वात्तेषु पुनरुपावर्तन्त ताभ्य उग्रं शर्म महि श्रव इति पुनः प्राणान्प्रायच्छत्ता अस्मादुदेवायोधंस्तासां स्तौष इति मन्यूनवाशृणात्ततो वै तस्मै ताः श्रैष्ठ्यायातिष्ठन्त

७.५.३ विदुषः फलमाह

तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवंव्वेद

७.५.४ पुनस्तस्य प्रशंसा

प्रजानां च वा एषा सृष्टिः पापवसीयश्च विधृतिर्यदामहीयवम्

७.५.५ विदुषः फलं

विधृतिः पापवसीयसो भवति य एवंव्वेद

७.५.६ रौरवयौधाजयौशनानि प्रशंसितुमाख्यायिकामाह

देवा वै यशस्कामाः सत्त्रं आसताग्निरिन्द्रो वायुर्मखस्तेऽब्रुव्स्न्यन्नो यश ऋच्छात्तन्नः सहासदिति तेषा मखं यश आर्च्छत्तदादायापाक्रामत्तदस्य प्रासहादित्सन्त तं पर्ययतन्त स्वधनुः प्रतिष्ठाभ्यातिष्ठत्तस्य धनुरार्त्निरूर्ध्वा पतित्वा शिरोऽच्छिनत्स प्रवर्ग्योऽभवद्यज्ञो वै मखो यत्प्रवर्ग्यं प्रवृञ्जन्ति यज्ञस्यैव तच्छिरः प्रतिदधति

७.५.७ रौरवं स्तौति

तद्देवा यशो व्यभजन्त तस्याग्नी रौरवं प्राबृहत

७.५.८ तेन किं यशोलब्धमित्याह

तद्वै स पशुवीर्यं प्राबृहत पशवो वै रौरवम्

७.५.९ विदुषः स्तुतिः

पशुमान्भवति य एवंव्वेद

७.५.१० रौरवस्याग्निसम्बन्धं दर्शयति

अग्निर्वै रूरस्तस्यैतद्रौरवम्

७.५.११ रौरवसंज्ञां निर्ब्रुवन् स्तौति

असुरा वै देवान्पर्ययतन्त तत एतावग्नी रूरौ विष्वञ्चौ स्तोभावपश्यत्ताभ्यां एनान्प्रत्यौषत्ते प्रत्युष्यमाणा अरवन्त यदरवन्त तस्माद्रौरवम्

७.५.१२ इन्द्रस्य यौधाजयाख्यसम्बन्धकथनं

अथेन्द्रो यौधाजयं प्राबृहत तद्वै स वज्रं प्राबृहत वज्रो वै यौधाजयम्

७.५.१३ विदुषः फलमाह

वज्रं भ्रातृव्याय प्रहरति य एवंव्वेद

७.५.१४ निर्व्वचनद्वारा तस्य प्रशंसा

इन्द्रो वै युधाजित्तस्यैतद्यौधाजयम्

७.५.१५ निर्व्वचनान्तरप्रदर्शनेनास्य प्रशंसा

युधा मर्या अजैष्मेति तस्माद्यौधाजयम्

७.५.१६ वायोरौशनसम्बन्धमाह

अथ वायुरौशनं प्राबृहत

७.५.१७ औशनस्वीकारे वीर्य्यस्वीकार इत्याह

तद्वै स प्राण्वीर्यं प्राबृहत प्राणा वा औशनम्

७.५.१८ विदुषः स्तुतिः

सर्वं आयुरेति य एवंव्वेद

७.५.१९ औशनसंज्ञां निर्व्वक्ति

वायुर्वा उशनंस्तस्यैतदौशनम्

७.५.२० उशनसः सम्बन्धादौशनमित्याह

उशना वै काव्योऽसुराणां पुरोहित आसीत्तं देवाः कामदुघाभिरपामन्त्रयन्त तस्मा एतान्यौशनानि प्रायच्छन्कामदुघा वा औशनानि

७.५.२१ विदुषः स्तुतिः

कामदुघा एनं उपतिष्ठन्ते य एवंव्वेद

७.६.१ प्रजापतेर्म्मनसि बृहतः प्रादुर्भावमाह

प्रजापतिरकामयत बहु स्यां प्रजायेयेति स तूष्णीं मनसाध्यायत्तस्य यन्मनस्यासीत्तद्बृहत्समभवत्

७.६.२ प्रजापतेर्ध्यानमाह

स आदधीत गर्भो वै मेऽयं अन्तर्हितस्तंव्वाचा प्रजनया इति

७.६.३ वाक्सृष्टिकथनं

स वाचं व्यसृजत सा वाग्रथन्तरं अन्वपद्यत

७.६.४ वाक्सम्बन्धेन रथन्तरशब्दनिर्व्वचनं

रथं अर्याः क्षेप्लातारीदिति तद्रथन्तरस्य रथन्तरत्वम्

७.६.५ बृहतउत्पत्तिं तन्निर्व्वचनञ्च दर्शयति

ततो बृहदनु प्राजायत बृहन्मर्या इदं स ज्योगन्तरभूदिति तद्बृहतो बृहत्त्वम्

७.६.६ प्रजापतेर्ज्येष्ठपुत्रत्वेन बृहतः प्रशंसा

यथा वै पुत्रो ज्येष्ठ एवं बृहत्प्रजापतेः

७.६.७ कथं ज्येष्ठत्वमस्येति तत्राह

ज्येष्ठब्राह्मणं वा एतत्

७.६.८ विदुषः फलं

प्र ज्यैष्ठ्यं आप्नोति य एवंव्वेद

७.६.९ ब्रह्मवादिनां प्रश्नमवतारयति

यन्न्वित्याहुर्बृहत्पूर्वं प्रजापतौ समभवत्कस्माद्रथन्तरं पूर्वं योगं आनश इति

७.६.१० तत्परिहारमाह

बृहदेव पूर्वं समभवद्रथन्तरं तु पूर्वं सृष्ट्यासृजत तस्मात्पूर्वं योगं आनशे

७.६.११ ज्योगामयाविनः प्रयोगे उभे अपि कार्य्ये

तयोः समानं निधनं आसीत्तस्मिन्नातिष्ठेतां त आजिं ऐतां तयोर्हसिति बृहत्प्राणं उदजयदसिति रथन्तरं अपानं अभिसमवेष्टत

७.६.१२ ते उभे विदधाति

प्राणापानौ वै बृहद्रथन्तरे ज्योगामयाविन उभे कुर्यादपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानावेवास्मिन्दधाति

७.६.१३ तत्र प्रश्नमुत्थापयति

यन्न्वित्याहुरुभे बृहद्रथन्तरे बहिर्णिधने कस्माद्बृहद्बहिर्णिधनानि भजतेऽन्तर्णिधनानि रथन्तरं इति

७.६.१४ विरुद्धस्याक्षेपसमाधानं

प्राणो बृहत्तस्माद्बहिर्णिधनानि भजते बहिर्हि प्राणोऽपानो रथन्तरं तस्मादन्तर्णिधनानि भजतेऽन्तर्ह्यपानः

७.६.१५ निधनवैषम्ये हेत्वन्तरमाह

महावृक्षौ वै बृहद्रथन्तरे निधनेन समर्प्ये

७.६.१६ निधनसाम्ये दोषकथनं

यद्वै महावृक्षौ समृच्छेते बहु तत्र विभग्नं प्रभग्नं शेते

७.६.१७ बृहद्रथन्तरयोर्म्माहात्म्यकथनं

ऐरं वै बृहदैडं रथन्तरं मनो वै बृहद्वाग्रथन्तरं सां अ वै बृहदृग्रथन्तरं प्राणो वै बृहदपानो रथन्तरं असौ वै लोको बृहदयं रथन्तरं एतानि मनसान्वीक्ष्योद्गायेत्क्ळ्प्ताभ्यां एवाभ्यां उद्गायति

७.७.१ बृहद्रथन्तरयोः स्तुतिप्रकारसमुच्चयः

पशवो वै बृहद्रथन्तरे अष्टाक्षरेण प्रथमाया (?) ऋचः प्रस्तौत्यष्टाशफांस्तत्पशूनवरुन्धे

७.७.२ उत्तरयोः ऋचो
प्रस्तावभागः

द्व्यक्षरेणोत्तरयोरृचोः प्रस्तौति द्विपाद्यजमानो यजमानं एव यज्ञे पशुषु प्रतिष्ठापयति

७.७.३ रथन्तरस्य प्रतिहारभागः

पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस्तत्पशूनवरुन्धे

७.७.४ बृहतः प्रतिहारभागः

चतुरक्षरेण बृहतः प्रतिहरति चतुष्पदस्तत्पशूनवरुन्धे

७.७.५ तयोः ककुबुत्तरागानविधानं

न वै बृहन्न रथन्तरं एकं छन्दोऽयच्छत्ततः ककुभावुत्तरे उपादधुस्तस्माद्बृहती प्रथमा ककुभावुत्तरे तस्माद्बृहद्रथन्तरे एकर्चेन कुर्वन्ति न हि ते एकं छन्दोऽयच्छत्

७.७.६ बृहद्गाने विशेषः

नव बृहतो रोहान्रोहति नव प्राणाः प्राणानेवावरुन्धे

७.७.७ तृचे तान् विभज्य दर्शयति

त्रीन्प्रथमायां रोहति भूतं भवद्भविष्यत्तानेवावरुन्धे त्रीन्मध्यमायां रोहत्यात्मानं प्रजां पश्+ऊंस्तानेवावरुन्धे त्रीनुत्तमायां रोहति त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति

७.७.८ उक्तार्थवेदनपूर्व्वकारोहणफलकथनं

सर्वान्कामानवरुन्धे य एवंव्विद्वान्बृहतो रोहान्रोहति

७.७.९ उद्गातुर्व्यवधानविधानं

वज्रेण वा एतत्प्रस्तोतोद्गातारं अभिप्रवर्तयति यद्रथन्तरं प्रस्तौति समुद्रं अन्तर्धायोद्गायेद्वागित्यादेयंव्वाग्वै समुद्रः समुद्रं एवान्तर्दधात्यहिंसायै

७.७.१० तत्र किञ्चित् विशेषकथनं

बलवद्गेयं वज्रं एवं प्रवृत्तं प्रत्युद्गृह्णाति

७.७.११ तत्रैवोपायान्तरमाह

बल्वला कुर्वता गेयं अभिलोभयतेव वज्रं एवाभिलोभयति

७.७.१२ रथन्तरगाने नियमविशेषः

क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्ट्यै

७.७.१३ पुनर्नियमविशेषमाह

देवरथो वै रथन्तरं अक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयं अरेणारेण हि रथः प्रतितिष्ठति

७.७.१४ तस्य सम्पूर्णगानविधानं

यो वै देवरथं अनन्वालभ्यातिष्ठत्यवास्मात्पद्यत इयं वै देवरथ इमां आलभ्योद्गायेन्नास्मादवपद्यते

७.७.१५ तत्रैव किञ्चिन्नियमं पुनः कथयति

ईश्वरं वै रथन्तरं उद्गातुश्चक्षुः प्रमथितोः प्रस्तुयमाने संमीलेत्स्वर्दृशं प्रतिवीक्षेत नैनं चक्षुर्जहाति

७.७.१६ तस्थुषपदस्थ प्रकारान्तरेण पाठः

प्रजननं वै रथन्तरं यत्तस्थुष इत्याहास्थायुकोद्गातुर्वाग्भवत्यपि प्रजननं हन्त्यस्थुष इति वक्तव्यं सुस्थुष इति वा स्थायुकोद्गातुर्वाग्भवति न प्रजननं अपि हन्ति

७.७.१७ जप्तव्यमन्त्रकथनं

पृष्ठानि वा असृज्यन्त तैर्देवाः स्वर्गंल्लोकं आयंस्तेषां रथन्तरं महिम्ना नाशक्नोदुत्पतत्

७.७.१८ तस्य स्वर्गसाधनत्वं

तस्य वशिष्ठो महिम्नो विनिधाय तेन स्तुत्वा स्वर्गंल्लोकं ऐत्तान्संभृत्योद्गायेत्

७.७.१९ संभृतमहिमानं मन्त्रं दर्शयति

यस्ते गोषु महिमा यस्ते अप्सु रथे वा ते स्तनयित्नौ य उ ते यस्ते अग्नौ महिमा तेन संभव रथन्तर द्रविणवन्न एधि

७.८.१ वामदेव्यनिर्व्वचनद्वारा तत्प्रशंसनं

अपो वा ऋत्व्यं आर्च्छत्तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत्तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम्

७.८.२ सर्व्वदेवतासम्बन्धद्वारेण तत्प्रशंसा

तत्परिगृह्णन्तावब्रूतां इदं अविदावेदं नौ माभ्यर्तिढ्वं इति तत्प्रजापतिरब्रवीन्मद्वा एतद्ध्यजनि मम वा एतदिति तदग्निरब्रवीन्मां (?) वा एतदन्नं अजनि मम वा एतदिति तदिन्द्रोऽब्रवीच्छ्रेष्ठस्था वा एतदहं वः श्रेष्ठोऽस्मि मम वा एतदिति तद्विश्वे देवा अब्रुवन्नस्मद्देवत्यं वा एतद्यदद्भ्योऽधि समभूदस्माकं वा एतदिति तत्प्रजापतिरब्रवीत्सर्वेषां न इदं अस्तु सर्व इदं उपजीवामेति तत्पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम्

७.८.३ तत्र प्रजापतेर्भागं दर्शयति

यत्कवतीषु तेन प्राजापत्यं को हि प्रजापतिर्यदनिरुक्तासु तेन प्राजापत्यं अनिरुक्तो हि प्रजापतिः

७.८.४ अग्नेर्भागप्रदर्शनं

यद्गायत्रीषु तेनाग्नेयं गायत्रच्छन्दा ह्यग्निः

७.८.५ इन्द्रस्य भागं दर्शयति

यत्पृष्ठेषु न्यददधुस्तेनैन्द्रं सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि

७.८.६ मित्रावरुणयोर्भागमाह

यन्मैत्रावरुणोऽनुशंसति तेन मैत्रावरुणम्

७.८.७ एतस्य वैश्वदेवत्वकथनं

यद्बहुदेवत्यं उत्तमं पदं तेन वैश्वदेवं सर्वेष्वेव रूपेषु प्रतितिष्ठति

७.८.८ वामदेवयोनिभूतां गायत्रीमाह

प्रजापतिर्वा एतां गायत्रीं योनिं अपश्यत्स आदीधीतास्माद्योनेः पृष्ठानि सृजा इति

७.८.९ रथन्तरसृष्टिकथनं

स रथन्तरं असृजत तद्रथस्य घोषोऽन्वसृज्यत

७.८.१० बृहद्वैरूपयोः सृष्टिमाह

स बृहदसृजत तत्स्तनयित्नोर्घोषोऽन्वसृज्यत स वैरूपं असृजत तद्वा तस्य घोषोऽन्वसृज्यत

७.८.११ वैराजसृष्टिकथनं

स वैरूपं असृजत तदग्नेर्घोषोऽन्वसृज्यत

७.८.१२ शाक्करसृष्टिमाह

स शक्वरीरसृजत तदपां घोषोऽन्वसृज्यत

७.८.१३ रैवतोत्पत्तिमाह

स रेवतीरसृजत तद्गवां घोषोऽन्वसृज्यत

७.८.१४ उक्तमर्थं संग्रहेण दर्शयति

एतैर्वा एतानि सह घोषैरसृज्यन्त

७.८.१५ उक्तार्थवेदनफलमाह

सर्वेऽस्मिन्घोषाः सर्वाः पुण्या वाचो वदन्ति य एवंव्वेद

७.९.१ पृष्ठानां वामदेव्यपुत्रत्वेन प्रशंसनं

पिता वै वामदेव्यं पुत्राः पृष्ठानि

७.९.२ तस्योपपादनं

एतस्माद्वा एतानि योनेरसृज्यन्त

७.९.३ ततः किमित्याह

तस्मात्पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्ति शान्त्यै

७.९.४ शान्तिः कथमिति तत्राह

यद्धि पुत्रोऽशान्तं चरति पिता तच्छमयति

७.९.५ वामदेव्यस्यान्तरीक्षस्थानीयत्वमाह

अयं वै लोको मध्यमो वामदेव्यं एतस्माद्वा इमौ लोकौ विष्वञ्चावसृज्येतां बृहच्च रतन्तरं च

७.९.६ वामदेव्यस्तुतिप्रकारकथनं

यद्रथन्तरेण स्तुवन्ति ये रथन्तराः पशवोऽन्तरीक्षं त उपश्रयन्ति यद्बृहता स्तुवन्ति ये बार्हताः पशवोऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः

७.९.७ वामदेव्यगाननियमः

ध्रुव आसीनो वामदेव्येनोद्गायेत्पशूनां उपवृत्यै

७.९.८ वेदितुः फलं

उपैनं पशव आवर्तन्ते य एवंव्वेद

७.९.९ वाक्यद्वयेन उक्तनियमविस्तारः

अन्तरिक्षं वै वामदेव्यं अधून्वतेवोद्गेयं अधूतं इवान्तरिक्षं पशवो वै वामदेव्यं अहिंसतेवोद्गेयं पशूनां अहिंसायै

७.९.१० ब्रह्मवादिनां प्रश्नं तदुत्तरञ्चाह

कथं इव वामदेव्यं गेयं इत्याहुः

७.९.११ प्रकारान्तरविशेषप्रदर्शनं

यथाङ्कुली पुत्रान्संदश्यासंभिन्दन्ती हरति यथा वातोऽप्सु शनैर्वाति

७.९.१२ नियमान्तरकथनं

स्वधूर्वामदेव्यं गेयम्

७.९.१३ गानफलमाह

यो वै स्वधूर्वामदेव्यं गायति स्वधूर्भवति

७.९.१४ स्वधूरित्येतस्य विवरणं

यात्यस्यान्यो नियानेन नान्यस्य नियानेन याति

७.९.१५ स्वधूर्गानविवरणं

न बृहतो न रथन्तरस्यानुरूपं गेयं स्वेनैवायतनेन गेयं आयतनवान्भवति

७.९.१६ स्तोतुकामस्योक्तिकथनं

देवा वै पशून्व्यभजन्त ते रुद्रं अन्तरायंस्तान्वामदेव्यस्य स्तोत्र उपेक्षते

७.९.१७ उक्तदोषपरिहारायानिरुक्तताकथनं

अनिरुक्तं गेयम्

७.९.१८ उक्तवैपरीत्ये दोषकथनं

यन्निराह रुद्राय पशूनपिदधाति रुद्रस्तां समां पशून्धातुको भवति

७.९.१९ पशुकामस्य स्तोत्रियान्तरं

रेवतीषु वामदेव्येन पशुकामः स्तुवीत

७.९.२० तासां गोसम्बन्धमाह

आपो वै रेवत्यः पशवो वामदेव्यं अद्भ्य एवास्मै पशून्प्रजनयति

७.९.२१ उक्तप्रयोगे दोषकथनं

अनवर्तिः पशुतो भवति प्रजा स्वस्य मीलितेव भवति

७.९.२२ उक्तदोषपरिहारः

कवतीभ्यो ह्येति प्रजापतेः

७.१०.१ रथन्तरपृष्ठे नौधसं बृहत्पृष्ठे श्यैतमित्याह

इमौ वै लोकौ सहास्तां तौ वियन्तावब्रूतांव्विवाहंव्विवहावहै सह नावस्त्विति

७.१०.२ विवाहप्रकारकथनं

तयोरयं अमुष्मै श्यैतं प्रायच्छन्नौधसं असावस्मै

७.१०.३ ततः किमित्याह

तत एनयोर्निधने विपर्यक्रामतां देवविवाहो वै श्यैतनौधसे

७.१०.४ उक्तार्थवेदनफलकथनं

प्रवसीयांसं विवाहं आप्नोति य एवंव्वेद

७.१०.५ रथन्तरबृहतोः प्रयोगे क्लृप्तिमाह

इतो वा इमे लोका ऊर्ध्वाः कल्पमाना यन्त्यमुतोऽर्वाञ्चः कल्पमाना आयन्ति

७.१०.६ तयोः प्रयोगे क्लृप्तिं दर्शयति

यद्रथन्तरेण स्तुवन्तीमंल्लोकं तेन युनक्त्यन्तरिक्षंव्वामदेव्येन नौधसेनामुं यद्बृहता स्तुवन्त्यमुंल्लोकं तेन यनक्त्यन्तरिक्षंव्वामदेव्येन श्यैतेनेमम्

७.१०.७ उक्तार्थवेदनफलमाह

क्ळृप्तानिमाल्लोकानुपास्ते य एवंव्वेद

७.१०.८ नौधसेनामुं लोकं श्यैतेनेमं लोकं दर्शयति

बृहद्रथन्तरे वै शैतनौधसे यद्रथन्तराय नौधसं प्रति प्रयुञ्जन्ति बृहदेवास्मै तत्प्रति प्रयुञ्जन्ति बृहद्ध्येतत्परोऽक्षं यन्नौधसं यद्बृहते श्यैतं प्रति प्रयुञ्जन्ति रथन्तरं एवास्मै तत्प्रति प्रयुञ्जन्ति रथन्तरं ह्येतत्परोऽक्षं यच्छ्यैतम्

७.१०.९ उक्तार्थवेदनप्रयोगप्रशंसा

उभभ्यां बृहद्रथन्तराभ्यां स्तुते य एवंव्वेद

७.१०.१० नौधसस्य ब्रह्मवर्च्चसफलकथनं

देवा वै ब्रह्म व्यभजन्त तां नोधाः काक्षीवत आगच्छत्तेऽब्रुवन्नृषिर्न आगंस्तस्मै ब्रह्म ददामेति तस्मा एतत्साम प्रायच्छंस्तस्मान्नौधसं ब्रह्म वै नौधसम्

७.१०.११ ब्रह्मवर्च्चसायैतद्विधानं

ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति

७.१०.१२ श्यैतविधानप्रतिज्ञा

अथैतच्छ्यैतम्

७.१०.१३ तस्य पशुसम्बन्धप्रदर्शनं

प्रजापतिः पशूनसृजत तेऽस्मात्सृष्टा अपाक्रामंस्तानेतेन साम्नाभिव्याहरत्तेऽस्मा अतिष्ठन्त ते शेत्या अभवन्यच्छेत्या अभवंस्तस्माच्छ्यैतं पशवो वै श्यैतम्

७.१०.१४ पशुकामाय एतद्विधानं

पशुकाम एतेन स्तुवीत पशुमान्भवति

७.१०.१५ अस्य प्रजावृद्धिसाधनत्वं

प्रजापतिः प्रजा असृजत ताः सृष्टा अशोचंस्ताः श्यैतेन हुंमा इत्यभ्यजिघ्रत्ततो वै ताः समैधन्त समेधन्ते तां समां प्रजा यत्रैवं विद्वाञ्छ्यैतेनोद्गायति

७.१०.१६ अस्य प्रजासमृद्धिफलत्वं

एष वै यजमानस्य प्रजापतिर्यदुद्गाता यच्छ्यैतेन हिङ्करोति प्रजापतिरेव भूत्वा प्रजा अभिजिह्ग्रति

७.१०.१७ तत्रत्यवसुनिधनप्रशंसा

वसुनिधनं भवति पशवो वै वसु पशुष्वेव प्रतितिष्ठति