मोहान्धकारनिवहं विनिहन्तुमीडे
मृकात्मनामपि महाकवितावदान्यान् ।
|
श्रीकाञ्चिदेशशिशिरीकृतिजागरूका-
ने[२] एकाम्रनाथकामनाथतरुणीकरुणावलोकान् ॥ १॥
मातर्जयन्ति ममताग्रहमोक्षणानि
माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २ ॥
आनङ्तन्त्रविधिदर्शितकौशलाना-
मानन्दमन्द[३] परिघूर्णनमन्थराणाम् ।
तारल्यमम्ब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३॥
कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन ।
मामञ्चितेन तव किंचन कुञ्चितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥
साहाय्यकं गतवती मुहुर[४]र्जुनस्य
मन्दस्मितेन परितोषितभी[५] मचेता
कामाक्षि पाण्डवचभूरिव तावकीना
कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥
अस्तं क्षणानयतु में परितापसूर्य-
मान[६]न्दचन्द्रमसमानयतां प्रकाशम् ।
|
कालान्धकारसुषमां [७] कलयन्दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमते ॥६॥
ताटङ्गमौक्तिकरुगङ्कुरदन्तकान्तिः
[८] कारुण्यहस्तिपशिखामणिनाधिरूढः
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७॥
छायाभरेण जगतां परितापहारी
ताटङ्करत्नमणिपल्लवतल्लजश्री
कारुण्यनाम विकिरन्मकरन्दजालं
कामाक्षि राजति कटाक्षद्रुमस्ते ॥ ८॥
[९] सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-
लौहित्यकोकनदाकाननमाननीया ।
यान्ती तव स्मरहराननकान्तिसिन्धुं
कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९॥
प्राप्नोति यं सुकृतिनं तव पक्षपाता-
त्कामाक्षि वीक्षणविलासकलापुरंध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १० ॥
यान्ती सदैव [१०]मस्तामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरङ्गितनील[११]
कण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥
|
गङ्गाम्भसि स्मितमये तपनात्मजेव
गङ्गाधरोरसि नवोत्पलमालिकेव
वक्रप्रभासरसि शैवलमण्डलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥
संस्कारतः किमपि कन्दलितान्रसज्ञ-
केदारसीनि सुधियामु[१२] पभोगभाम्यान्
कल्याणसूक्तिलहरीकलमाङ्कुरान्न
कामाक्षि कन्दलयतु स्वदपाङ्गमेधः ॥ १३ ॥
चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रुतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चि[१३]त्रमपि ते करुणाकटाक्षः ॥ १४ ॥
संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य
सस्तम्भने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥
नीलोऽपि रागमधिकं जनयन्पुरारे-
र्लोलोऽपि भक्तिमधिका द्रढयन्नराणाम् ।
वक्रोऽपि देवि नमतां समतां वितन्व-
न्कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥
कामद्रुहो हृदयुयन्मणजागरूका
कामाक्षि चञ्चलमञ्चलमेखला ते ।
|
आश्चर्यमम्ब भजतां झटिति स्वकीय-
संपर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥
कुण्ठीकरोतु विपदं मम कुञ्चित-
चापाञ्चितः श्रितविदेह[१४]भवानुरागः
[१५]रक्षोपकारमनिशं जनयञ्जगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥
श्रीकामकोटिशिवलोचनशोषितस्य
शृङ्गारबीजविभवस्य पुनः प्ररोहे।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥
माहात्म्यशेवधिरसौ तव दुर्बिलङ्घ्य
संसारविन्ध्यगिरि कुण्डनकेलिचुञ्चु:।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोतिः
कामाक्षि वीक्षणविजृ न्मणकु[१६]म्भजन्मा ॥२०॥
पीयूषवर्षशिशिरा स्फुरदुल्लसच्छी-
मैत्री निसर्गमधुरा कृततारकाप्ति:।
कामाक्षि संश्रितवती वपुर[१७]ष्टमूर्ते-
र्ज्योत्स्त्रायते भगवति त्वदपाङ्गमाला ॥ २१ ॥
अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ-
मम्भोजकाननमिवाञ्चितकण्टकाभम्
भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥
|
केशप्रभाषटलनीलवितानजाले
'कामाक्षि कुण्डलमणिच्छत्रिदीपशोभे
कम्रे कटाक्षरुचिरङ्गतले कृपाख्या
शै[१८] लूषकी नटति शंकरवल्लमे ते ॥ २३ ॥
अत्यन्तशीतलमतन्द्रयतु क्षणार्ध-
मस्तोकविभ्रममनङ्गविलासकन्दम् ।
अल्पस्मितादृतमपारकृपाप्रवाह-
मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥
मन्दाक्षराग[१९] तरलीकृतिपारतन्त्र्या-
त्कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् ।
आरुह्य म[२०]न्दमतिकौतुकशालि चक्षु-
रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥
त्रै[२१]यम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-
रङ्ग विहार[२२]सरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥
वागीश्वरी सहचरी नियमेन लक्ष्मी-
र्भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमम्ब तेषां
कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७ ॥
माहेश्वरं झटिति मानसमीनमम्ब
कामाक्षि धैर्यजलघौ नितरां निमग्नम् ।
|
जालेन शृङ्खलयति त्वदपाङ्गनाम्ना ।
विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥
उन्मथ्य बोधकमलाकरमम्ब जाड्य-
स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥
उद्वेल्लितस्तबकितैर्ललितैर्विलासै-
रुत्थाय देवि तव गाढकटाक्षुकुञ्जात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥
स्नेहाहृतां विदलितोत्पलकान्तिचोरां
जे[२३] तारमेव जगदीश्वर जेतुकाम: ।
भानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥
श्रौतीं वजन्नपि सदा सरणिं मुनीनां
कामाक्षि संततमापि स्मृतिमार्गगामी ।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥
नित्यं श्रुतेः परिचितौ यतमानमेव
नीलोत्पलं निज्रसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशि[२४]केन्द्रः
कामाक्षि किं [२५]नु तव कालिमसंप्रदायम् ॥ ३३ ॥
|
भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्ररुचिसंचयवारिराशौ ।
आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी-
रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥
[२६]श्यामा तव त्रिपुरसुन्दारि लोचनश्रीः
कामाक्षि कन्दलितमेदुरतारकान्तिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥
कालाञ्जनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कान्त्या ।
निःशेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्रिनेत्रसुलभं तुहिनाद्विकन्ये ॥ ३६॥
धूमाङ्कुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यन्तमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ॥
आरम्भलेशसमये तद वीक्षणस्य
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्ति[२७]स्वयंवरणमाल्यवती वृणीते ॥ ३८ ॥
कालाम्बुवाह इव ते परितापहारी
कामाक्षि [२८]
पुष्करमधः कुरुते कटाक्षः ।
|
पूर्वः परं क्ष[२९]णरुचा समुपैति मैत्री-
मन्यस्तु संतता प्रकटीकरोति ॥ ३९ ॥
सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-
साहाय्यकेन विचरनपवर्गमार्गे ।
संसारपकनिचये न पतत्यमुं, ते
कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४०॥
कामाक्षि संततमसौ हरिनीलरत्न -
स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः
बद्धोऽपि भक्तिनिगडैर्मम चित्तहस्ती
स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१ ॥
कामाक्षि कार्षण्यमपि संततमञ्जनं च
बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।
वैमल्यमन्वहमनञ्जनतां च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२ ॥
मन्दसितस्तबकितं मणिकुण्डलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुत्वे: कदम्ब-
मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३ ॥
कामाक्षि तावककटाक्षमहेन्द्रनील-
सिंहासनं श्रितवतो. मकरध्वजस्य
साम्राज्यमङ्गलविधौ मणिकुण्डलश्री-
र्नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥
|
मातः क्षणं स्नपय मां तव वीक्षितेन
[३०]मन्दाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करमास्करेण
श्रेयस्करण मधुपद्युतितस्करेण ॥ ४५ ॥
प्रेमापगापयसि मजनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६ ॥
कैवल्यदाय करुणारसकिंकरायः
कामाक्षि कन्दलितविम्रमशंकराय ।
आलोकनाय तव भक्तशिवशंकराय
मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७ ॥
साम्राज्यमङ्गलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे
कामेश्वरि प्र[३१]चलदुत्पलवैजयन्ती-
चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥
मार्गेण मञ्जुकचकान्ति[३२]तमोवृतेन
मन्दायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेव ॥ ४९ ॥
व्रीडानुवृत्तिरमणीकृतिसाहचर्या
शैवालिलां गलरुचा शशिशेखरस्य ।
|
कामाक्षि कान्तिसरसौं त्वदपाङ्गलक्ष्मी-
र्मन्दं समाश्रयति मजनखेलनायः ॥ ५० ॥
काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१ ॥
पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लानतां कुवलयं प्रकटीकरोति ।
नैमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्या: ॥ ५२ ॥
शृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेत-
त्कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३ ॥
नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दति यदन्वहमिन्दुपादा-
न्पाथोरुहेण यदसौ कलहायते च ॥ ५४ ॥
ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥
|
मन्दसितैर्धवलिता मणिकुण्डलांशु-
संपर्कलोहितरुचिस्त्वदपाङ्गधारा ।
कामाक्षि मल्लिकुसुमैनवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६ ॥
कामाक्षि शीतलकृपारसनिर्झराभ्य:-
संपर्कपक्ष्मलरुचिस्वदपाङ्गमाला ।
गोभि:[३३]: सदा पुररिपोर[३४]मिलप्यमाणा
दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७ ॥
हृत्पङ्कजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषङ्गजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥
चक्षुर्विमोदयति चन्द्रविभूषणस्य
कामाक्षि तावककटाक्षतमः प्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९ ॥
कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम्।
आगत्य तत्परिसरं श्रवणावतंस-
व्याजेन नून[३५] मभयार्थनमातनोति ॥ ६० ॥
आश्चर्यमम्ब क्दनाभ्युदयावलम्बी
कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।
|
धैर्यं विधूय तनुते हृदि रागबन्धं
शंभोस्तदेव विपरीतया मुनीनाम् ॥ ६१॥
जन्तोः सकृत्मणमतो ज[३६]गदीड्यतां च
तेजस्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि [३७]माक्षिकझरीमिक वैस्वरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२ ॥
कादम्बिनी किमयते न जलानुषङ्गं
भृङ्गावली किमुररीकुरुते न पद्मम् ।
किं वा कलिन्दतनया सहते च गङ्गां
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥
का[३८]कोलपावकतृणीकरणेऽपि [३९]दक्षः
कामाक्षि [४०]बालकसुधाकरशेखरस्य ।
अत्यन्तशीतलतमोऽप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥
कार्पण्यपूररसवर्धितमम्ब मोह-
कन्दोद्गतं भवमयं विषपादपं मे ।
तुझं छिनत्तु तुहिनाद्रिसुते भवत्याः
काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥
कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात्
तत्रापि देवि लभते सुकृती कदाचि-
दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥
|
कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो
नानातपोनियमनाशितपाशबन्धाः ।
चासालयं तव कटाक्षममुं, महान्तो
लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ॥
साकूतसल्लपितगर्भितमुग्धहासं
व्रीडानुरागसहचारिविलोकननं ते ।
कामाक्षि कामपरिपन्थिनि मारवीर-
साम्राज्यविभ्रमदशा सफलीकरोति ॥ ६८ ॥
कामाक्षि विनमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनता तब निनाय शशाङ्कमौले-
रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥
कामाङ्कुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां [४१]प्रददाति कामान् ।
[४२]रागान्वितः खयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥
कालाम्बुवाहनिवहै। कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोकण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ॥
कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहान्धकारजलदागमनेन नृत्यन् ।
|
दुष्कर्मकञ्चुकिकुलं कवलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२: ॥
कामाक्षि मन्मथरिपोरवलोकनेषु
कान्तं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिचवन्मुकुलीकरोति ॥ ७३ ॥
मूको विरिञ्चति परं पुरुषः कुरूपः
कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
ली[४३]लातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥
नीलालका मधुकरन्ति मनोज्ञनासा-
मुक्तारुचः प्रकटरूदचिसाङ्कुरन्ति
कारुण्यमम्ब मकरन्दति कामकोटि-
र्मन्ये ततः कमलमेव विलोकनं ते ॥ ७५ ॥
आकाशयमाणफलदानविचक्षणायाः
कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमम्ब विमुक्तपाश-
बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥
संसारधर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति.
मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥
|
प्रेमाम्बुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि
संधुक्षयन्ति मुहुरिन्धनराशिरीत्या
मारद्रुहो मनसि [४४]मन्मथचित्रभानुम् ॥ ७८ ॥
कालाञ्जनप्रतिभटं कमनीयकान्त्या
कंदर्पतन्त्रकलया कलितानुभावम् ।
काञ्चीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९ ॥
क्रन्तेन मन्मथमदेन विमोद्यमान-
स्वान्तेन [४५]चूततरुमूलगतस्य पुंसः ।
कान्तेन किंचिदवलोकय लोचनस्य
प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥
कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे
कण्ठेन कन्दलितकालिमसंप्रदायाः
उत्तंसकल्पितचकोरकुटुम्बपोषा
न[४६]क्तंदिवप्रसवभूनयना [४७]भवन्ति ॥ ८१ ॥
नीलोत्पलप्रसवकान्तिनिदर्शनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः [४८]कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥
अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
झंकारभङ्गिरहिता किमु भृङ्गमाला ।
|
धूमाङ्कुरः किमु हुताशनसङ्गहीन:
कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥
कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय ।
कंदर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥
दर्पाङ्कुरो मकरकेतनविभ्रमाणां
निन्दाकुरो विदलितोत्पलचातुरीणाम् ।
दीपाङ्कुरो भवततिस्रकदम्बकानां
कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५ ॥
कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपय: कृतमज्जनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥
अल्पीय एव नवमुत्पलमम्ब हीना
मीनस्य सा सरणिरम्बुरुहां च किं वा ।
दूरे मृगी तदसमञ्जसमञ्जनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥
मिश्रीभवद्गरलपङ्किलशांकरोरः-
सीमाङ्गणे किमपि रिवणमादधानः ।
हेलावधूतललितश्रवणोत्पलोऽसौ
कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८ ॥
|
प्रौढीकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासबसन्तलक्ष्मी: ॥ ८९ ॥
कूलंकषं वितनुते करुणाम्बुवर्षी
सारस्वतं सुकृतिन: सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनाम्बुतरङ्गमङ्की
कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९० ॥
जागर्ति देवि करुणा [४९]शुकसुन्दरी ते
ताटङ्करत्नरुचिदाडिमखण्डशोणे
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-
माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥
कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किं च स्फुटं कुटिलतां प्रकटीकरोति
भूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥
एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शङ्के करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि युदसौ शिशिरांशुमौलै: ॥ ९३ ॥
बाणेन पुष्पश्चनुष: परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण।
|
कोणेन कोमलदृशस्तव कामकोटि
शोणेन सोमया शिडे सम शोकसिसृम् ॥ ९४
मारद्रुहो मुकुटसीमनि लाल्यमाने
मन्दाकिनीपयसि ते कुटिकं तरिष्णुः ।
कामाक्षि कोपरमसाद्वलमानमीन-
संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥
कामाक्षि संवलितमौक्तिककुण्डलांशु-
चञ्चसित[५०]श्रवणचामरचातुरीकः ।
स्तम्भे निरन्तरपाङ्गमये भवत्या
बद्धश्चकास्ति मकरव्वजमतहस्ती ॥ ९६ ॥
यावत्कटाक्षरजनीसमथानमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीघितिविम्बमम्ब-
[५१]सविन्मयं हृदयपूर्वगिरीन्द्र श्रृङ्गे ॥ ९७ ॥
कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सु: समस्तविभवं नसतां नराणाम् ।
भृङ्गस्य नीलनलिनस्य च कान्तिसंय-
सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥
अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्वन्तगर्वनवीनसमस्त शास्वम् ।
अप्राप्तसत्यमसमीपगतं च मुक्ते:
कामाक्षि नैव तव क्राङ्घति दृष्टिपात: ॥ ९९ ॥
|
अत्यन्तशीतलमनगलकर्मपाक-
काकोलहारि सुलभ सुमनोभिरेतत् ।
पीयूषमेव तद वीक्षणमम्ब कि तु
कामाक्षि नीलसिमित्ययमेव भेदः ॥ १०० ॥
|
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम्
बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या धनसारपुञ्जरजसे कामगृहश्चक्षुषां:
मन्दारतबकप्रभामदजुषे मन्दस्मितज्योतिषे ॥ १ ॥
सं[५२]ध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विधे ।
स्वर्धुन्या सहयुध्वने हिमरुचेरर्घोसनाध्यासिने
कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥
कर्पूरद्युतिचातुरीमतितरामल्यीयसी कुर्वती
दौर्भाग्योदयमेव संविधती दोषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरानफुल्लानपि व्यञ्जती
कामाक्ष्या मृदुलस्मितांशुलहरी काममसूरस्तु मे ॥ ३॥
या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते ।
या सौन्दर्यधुनीतरङ्गलतिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा में स्मितप्राचुरी ॥ ४ ॥
|
येषां गच्छति पूर्वपक्षसरणिं कौमु[५३]द्वतः श्वेतिमा
येषां संततमारुरुक्षति तुलाकक्षां शरश्चन्द्रमाः
येषामिच्छति कम्वुरप्यसुलभामन्तेवसत्प्रक्रियां
कामाक्ष्या ममतां हरन्तु मम ते हासात्विषामङ्कुराः ॥ ५ ॥
आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता संकुतुके कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मन्दसितज्योतिषाम् ॥ ६ ॥
आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कंदर्पस्य विभोर्जगत्रयजयप्राकट्यमुद्रानिधेः
यस्याश्चामरचातुरी कलयते रमिच्छटाचञ्चला
सा मन्दसितमञ्जरी भवतु नः कामाय कामाक्षि ते[५४] ॥ ७ ॥
शंभोर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि-
र्गैर्वाणीव तरङ्गिणी कृतमृदुस्यान्दां कलिन्दात्मजाम् ।
कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं
कामाक्ष्याः सितकन्दली भवतु सा कल्याणसंदोहिनी ॥ ८ ॥
जेतु हारलतामिव स्तनतटीं संजम्मुषी संततं
गन्तुं निर्मलतामिव द्विगुणितां ममा कृपास्रोतसि
वक्तुं विस्मयनीयतामिव हरै रागाकुलं कुर्वती
मनुस्ते स्मितमञ्जरी भवभयं मनातु कामाक्षि मे[५५] ॥ ९ ॥
श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा ।
|
स्वाभाव्यादधराक्षितापि[५६]नमतामुच्चैर्दिशन्ती गतिं
कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्सन्दहासप्रभा ॥ १० ॥
वक्रश्रीसरसीजले तद्दलितभ्रूवल्लिकल्लोलिते
कालिम्ना दधतीं कटाक्षजनुषा माधुवतीं व्यापृतिम्
निर्निद्रामलपुण्डरीककु[५७] हनापाण्डित्यमाबिभ्रती
कामाक्ष्याः स्मितचातुरी ममें मनःकातर्थमुन्मूलयेत् ॥ ११ ॥
नित्यं बाधितबन्धुजीवनधरं मैत्रीनुषं पल्लवैः[५८]
शुद्धस्य द्वि[५९] तमण्डलस्य च तिरस्कर्तारमप्याश्रिता
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हदय[६०] प्रसादयतु मे सा मन्दहासप्रभा ॥ १२ ॥
द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रतीं
यान्ता चन्द्रकिशोरशेखरवपुःसौघाङ्गणे प्रेङ्क्षणम्
ज्ञानाम्भोनिधिवीचिकां सुमनसाां कुलवा कुर्वती
कामा स्मितकौमुदी हरतु मे संसारपोदयम् ॥ १३ ॥
काश्मीरद्रवधानुकर्दमरुचा कल्मायता बिभ्रती
हंसीबिदिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
माया मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥
कम्बोवंशपरम्परा हैव, कृपासंतानवल्लीभुवः
सफलतबका इन्च असारा अली सादर इव ।
|
वाक्पीयूषकणा इव त्रिपथगा पर्यायभेदा इव
भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५॥
वक्षोजे धनसारपत्ररचनाभङ्गीसपलायिता
कर्णे बन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्क्ष्त्सूनायिता
कामाक्षि स्फुरता मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥
येषां बिन्दुरिवोपरि प्रचलितो नासाप्रमुक्तामणि-
र्येषां दीन इवाधिकण्ठमयते हारः करालम्बनम्
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं
कामाक्ष्याः अभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७ ॥
या जाड्याम्बुनिधि क्षिणोति भजता वैरागते कैरवै-
र्नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
कामाक्षि सितमञ्जरी तव कथं ज्योत्स्नात्यसौ कीर्त्यते ॥ १८ ॥
आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्कमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम्
ओष्ठं बेपयति भ्रूवौ कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्रेन्दोस्तव चन्द्रिका स्थितरुचिर्वल्गु स्फुरन्ती सतां
स्याच्चेद्युतमिदं चकोरमनसां कामांक्षि कौतूहलम्
एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते
बिम्बोष्ठद्युमणिप्रभास्वपि च यद्हिभोकमालम्बते ॥ २० ॥
|
साहाय्यं कलशाम्बुधेर्वहति ते कामाक्षिः मन्दस्मितं
शोभामोष्ठरुचा च विद्रुमभवामेतद्भिदां ब्रूमहे ।
एतस्मादुदितां पुरा किल पपौ शर्वः पुराणः पुमा-
नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥
उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥
क्षीरं दूरत एवं तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः
किं चेयं तु भिदास्ति दोहनवशामेतत्तु संजायते।
कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोंदुह्यते ॥ २३ ॥
कर्पूरैरमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातपै-
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनै-
स्तत्तादृङ् मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥
मध्ये गर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥
बिम्बोष्ठद्युतिपुञ्जरजितरुचिस्त्वन्मन्दहासच्छटा
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकाञ्चीश्चरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६ ॥
|
बिभ्राणां शरदभ्रविन्नमदशां विद्योतमानाष्यसौं
कामाक्षि सितमञ्जरी किरति ते कारुण्यधारारसम्
आश्चर्यं शिशिरीकरोति जगतीमालोक्य चैनामही
कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥
पेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
वक्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् ।
नैरन्तर्यविजम्भितस्तनतटे नैचोलपट्टायितं
कल्माषं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥
पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापि प्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मन्दारस्य कथालवं न सहते मन्थाति मन्दाकिनी
मिन्दुं निन्दति कीर्तिते च कलशीपा[६१]थोधिमीर्ष्यायते ॥ २९ ॥
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम्
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातको
नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः
संसारख्यसरोरुहाकरख[६२]लीकारे तुषारोत्करा:
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥
कमौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये
त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमकरानङ्कुरान् ।
|
ये वक्र शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह-
द्वेषोद्धोषण चातुरीमिव तिरस्कर्तु[६३] परिष्कुर्वते ॥ ३२ ॥
कुर्युर्नः कुलशैलराजतनये कूलंकचं मङ्गलं
कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः
ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्त्यान्तरं
कर्पूरप्रकरा इव प्रसृभराः पुंसामसाधारणाः ॥ ३३ ॥
क्रमेण स्नपयस्व कर्मकुहनाचोरेण माशगम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चुना
कारूण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥
त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे
बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः।
किं च क्षीरपयोनिधि प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्लोकोऽपि विडम्ब एव कुहना माहीमतल्लीरूचः ॥ ३५ ॥
दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्तं मिल
त्पङ्क शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये
अम्ब त्वन्मृदुलस्मितामृतरसे मद्क्त्वा विधूय व्यञ्चा-
मानन्दोदयसौधशुङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६ ॥
नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वस्या विपत्प्रशमने कारूण्यधाराः किरन्
आगच्छन्तमनुग्रहं प्रकटयक्षीनन्दवीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७ ॥
|
कामाक्षि प्रभाविधमनिषिः कंदर्पदर्पघ्रसू-
र्मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्विषम् ।
यं द्रष्टुं विहिते करग्रह उभे शंभुस्रपामीलितः
स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८॥
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि मानाजनैः
कर्मप्रन्थिनियञ्चित्तौरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुषो
मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९॥
ज्योत्स्नाकान्तिभिरेव निर्मलक्षत्तरं नैशाकरं मण्डलं
हंसैरेय शरद्विकासलमये व्यायोचमम्भोरूहम् ।
स्वच्छरेव विकास गणैः कामाक्षि विस्व[६४] दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति सोमाभरम् ॥ ४० ॥
मानग्रन्थिविर्धुतुदेन रभसादास्याद्यमाने नव-
प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचन्द्रिकां मुहुर्रिमामुन्मीलनं जग्मुषी
चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥
कामाक्षि स्मितमञ्जरी तव भजे यस्यास्त्विषामङ्कुस-
नापीनस्तनपानलालसलका निशङ्कमङ्केशयः
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरस्रनुद्दासया शुण्डया
सूनुस्ते विसशङ्कयाशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥
गाढाश्लेषविमर्दसनमवशादुद्दानमुक्त्तागण-
प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषौ वक्षसि
|
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा में खेलतुः कामकोटि हृदथे [६५]स्वच्छा स्मितांशुच्छटा ॥ ४३ ॥
मन्दारे तव मन्थरस्मितरूचो मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते ।
चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वे[६६]षाङ्कुरो दृश्यते
शुद्धानो कथमीदशी गिरिसुतेऽशुद्धा दशा कथ्यताम् ॥ ४४ ॥
पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा [६७]तस्मादियं तादृशी
कामाक्षि सितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ ४५ ॥
आशङ्के तव मन्दहासलहरीमन्यादृशी चन्द्रिका-
मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे ।
व[६८]क्षोजाम्बुरुहे न तें रहयतः कांचिद्दशां कौड्मली-
मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम् ॥ ४६॥
आस्तीणाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी
कामद्रोहिणि मांसलस्मरसशरज्वालावलिं व्यञ्जती
निन्दन्ती धनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७ ॥
सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम:-
संदोहं नमतां निजस्मरणतो दोषा[६९]करद्वेषिणी ।
|
निर्यान्ती बदनारविन्दकुहरान्निर्धूतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥ ४८ ॥
कुण्ठीकुर्युरमी कुबोधषटनामस्मन्म[७०]नोमाथिनी
श्रीकामाक्षि शिवकरास्तव शिवे श्रीमन्दहासाङ्कुराः
ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी-
कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ॥
प्रेङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता
मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलाम्भोधरनैपुणीं तत इतो निर्निद्रवन्त्यञ्जसा ॥ ५० ॥
व्यापारं चतुराननैकविहतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं करेण सततं वागूर्मिकल्लोलिता
उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ।।
कर्पूरद्युतितिरस्करेंण महसा कल्माषवत्याननं
श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते।
आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति
प्रौढ़ं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥ ५२ ॥
वैशयेन च विश्वतापहरणक्रीडापटीयस्तया :
पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने
कामाक्षि सितकन्दलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥ ५३॥
|
लावण्याम्बुजिनीमृणालवलवैः श्रृगारगर्जद्विप-
भाभण्यः श्रुतिचामरैस्तरूणिमस्वाराज्यबीजाङ्कुरैः ।
आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥ ५४ ॥
उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती ।
या वैदुग्ध्यमुपैति शंकरजटाकान्तारवाटीपत-
त्खर्वापी[७१]पयसः स्मितद्युतिरसौ कामानि ते मञ्जुला ॥ ५५ ॥
सन्नामैकजुषा जनेन सुलभं संसूचबन्ती शन्नै
रुतुङ्गस्य चिरादनुमहतरोरुत्पत्स्यमानं फलम्
प्राथम्येन विकस्वरा कुसुमबत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तब मम क्षेमंकरी कल्पताम् ॥ ५६ ॥
धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया निभलो
लीलालोकशिलीमुरवं नववयःसाम्राज्यलक्ष्मीषः-
जेतुं मन्मथमर्दिनं जननि ते मन्दस्मिप्रक्रमो
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥
यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्
म्लान्या वषि रूषितानलशिखे रूद्रस्य तत्तादृशम् ।
चेतो यत्प्र[७२]सभं स्मरज्वरशिखिज्वालेन लेलिखने
तत्कामाक्षि न च स्मितांशुकणिकाहेलाभवं प्राभवम् ॥ ५८ ॥
संभिन्नेव सुपर्वसोकतटिनी वीचीचयैर्यासुनैः
संमिश्रेव मशशाङ्कदीप्तिलहरी नीलैर्हानीरदैः ।
|
कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिता
कालिम्न कचरोचिषां व्यतिकरे कांचिदृशामश्नुते ॥ ५९ ॥
जानीमो जगदीश्वरि प्रममतां त्वन्मन्दहासप्रभां
श्रीकामाक्षि कुमुद्वतीमभिनयामेषा यतः सर्वदा ।
आस्येन्दोवलोकने पशुपतेरभ्येति सफुल्लतां
तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६० ॥
यान्ती लोहितिमानमनभ्रतटिनी धातुर्छटाकर्दमै
र्मान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी।
बिम्बोष्ठयुतिपुञ्जचुम्बनकला शोष्णायमानेन ते
कामाक्षि स्मि[७३]तरोचिषा समदासारोढुसाकाङ्क्षति ॥ ६१ ॥
श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं
नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम्
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
श्वेतं किं च तथा यथा मलिनतां धत्ते च भुक्तामणिः ॥६२॥
त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं
सन्तः संततमामनन्त्यमलता तल्लक्षणं लक्ष्यते
येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस
ध्वान्तं तत्खलु दुःखिनो वयममी के नेति जानीमहे ॥ ६३ ॥
नम्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो-
र्मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बन्धूकप्रसवश्रियं जितवतो महीय[७४]सी तां रुचिं
बिम्बोष्ठस्य रूचिर्निरस्य हसितज्योत्स्ना वयस्वायते ॥ ६४ ॥
|
मुक्तानां परिमोचनं विदधतस्तत्प्रतिनिष्पादिनी
भूयो दूरत एव धूतमनसतत्पालनं तन्वती।
उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥ ६५ ॥
श्रीकामाक्षि तब मितचुतिझरीवैदग्ध्यलीलायितं ।
पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मन्दाक्षं चि[७५]रमस्तु वस्तुविभवो मन्दारचन्द्रादयः ॥ ६६ ॥
क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च
श्रीकामाक्षि बलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे ।
'एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥६७॥
श्रीकाञ्चीपुररत्नदीपकलिके [७६]नान्यानि विश्वान्तरे
चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे
कम्पातीरकुटुम्बचङ्कमकलाचुञ्चूनि चञ्चूपुटै
र्नित्यं यानि तर स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८ ॥
शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनय-
न्रागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन्
लीलालापपुरःसरोऽपि सततं वाचंयमान्प्रीणय-
न्कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्य॑ते ॥ ६९ ॥
श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं
भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् ।
|
यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयत्यञ्जसा
श्रीकामाक्षि तव स्मितायः सततं तस्मै नमस्कुर्महे ॥ ७० ॥
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्परोहे तव
स्फीतश्चेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका
गङ्गा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१ ॥
'ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति बिना
त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना
संतापोऽपि निवार्यते नववचःप्राचुर्यमङ्कूर्यते
सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥
वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधु[७७]क्षते
ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संप[७८]द्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥ ७३ ॥
प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः
श्रीकामाक्षिं मम क्षिणोतु ममतावैचक्षणीमक्षयान् ।
यद्भीत्येव नि[७९]लीयते हिमकरो मेघोदरे शुक्तिका-
गर्भे मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥ ७४॥
हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्कूस्य-
न्मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयन् ।
आनम्रेषु जनेषु पूर्णकरुणावेदाध्यमुत्तालय-
न्कामाक्षि सितमञ्जरी तव कथंकार मया कथ्यते ॥ ७५ ॥
|
संक्रुद्विजराजकोऽध्यविरतं कुर्वन्द्विजैः संगमं
वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्यं वहन् ।
अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् ॥ ७६ ॥
श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरपक्रमं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मन्दहाससुषमा मातः कथं मानितां
उन्मूना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७ ॥
ये माधुर्यविहारमण्डपभुवों ये शैत्यमुद्राकरा
ये वैशद्यदशानिशेषसुभगास्ते मन्दहासाङ्कुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुम्फल्डम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥
कामाक्ष्या मृदुलस्मिताशुनिकरा दा[८०]क्षान्तके वीक्षणे
मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः
दाक्ष्यं पक्ष्मलयन्तु माक्षिकगु[८१]डद्राक्षाभवं [८२]वाक्षु में
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥
जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते
गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपङ्कपरम्परामलिनतामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८० ॥
अश्रान्तं परतश्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः
श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे ।
|
इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवै-
र्वैकुण्ठैरवगुष्ठनं च कुरुते धूलीचयैर्भास्मनैः ॥ ८१ ॥
श्रीकाञ्चीपुरदेवते मूदुवचःसौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् ।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
श्लक्षणे कुड्मलति प्ररुढपुलके चाश्लेषणे फुल्लति ॥ ८२ ॥
किं त्रैःस्त्रोतसमम्बिके परिणतं स्त्रोतश्चतुर्थं नवं.
पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः
किंस्विन्नैकटिक गिरो मधुरिमाभ्यासाय नव्यं पयः
श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥
भूषा वक्रसरोरुहस्य सहजा वाचां सखी शाश्वती
[८३] नीची विश्रमसंततेः पशुपतेः सौधी दशां पारणा
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता,
श्रीकामाक्षि गिरामभूमिनयते हासप्रभामञ्जरी ॥ ८४ ॥
सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपायोनिधेः
बाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५ ॥
उत्तुङ्गस्तनमण्डलस्य विलसलावण्यलीलानटीं-
रङ्गस्य स्फुटमू[८४]र्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी
श्रीकामाक्षि तव स्मितद्युतिततिबिम्बोष्ठकान्त्यङ्कुरै-
श्चित्रां विद्रुममुद्रिका वितनुते मौ[८५] क्तीं वितानश्रियम् ॥ ८६ ॥
|
जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः.
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा-
दालोकेन नि[८६]हन्युरन्धत्तमसस्तोमस्य मे सं[८७]ततिम् ॥ ८७ ॥
स्वाभाव्यात्तव वक्रमेव ललित संतोषसंपादनं
शंभोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम्
अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भाजते ॥ ८८ ॥
पुंभिर्निर्मलमानसैर्विदधते मैत्रीरसं निर्मलं
कर्तुं कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् ।
सूक्तिं पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका-
स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥ ८९ ॥
आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय
न्निन्दुं किं च विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसन्संसृतिडम्बरं तव शिवे हासाइवयो मान्त्रिक
श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम् ॥ ९० ॥
क्षेपीयः क्षपयन्तु कल्मषमयान्यस्माकमल्पस्मित-
ज्योतिर्मण्डलचङ्कमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मधर्मसमयच्यापारतापानल-
श्रीपता नवहर्षवर्षणसुधास्तोतस्विनीशीकराः ॥ ९१ ॥
श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिस्फूर्जति
प्रोढ्यं[८८] वारिधिचातुरीं कलयते भक्तात्मनां प्रांतिभम् ।
|
दौर्गत्याप्रसरास्तमःपटालिकासाधर्म्यमाबिम्नते
किं किं कैरवसाह[८९]चर्यपदवीरीत्यां न धत्ते पदम् ॥ १२ ॥
मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कत्तया विशङ्कय बहुशो वैशद्यमुद्रागुणः
श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ ९३ ॥
इन्धाने भवचीतिहोत्रनिवहे कर्मौघचण्डानिल-
प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम् ।
मातर्मां परिषिञ्च किंंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशि[९०]र्यलीलाकरैः ॥ ९४॥
भाषायाः [९१]रसनाग्रखेलनजुषः शृङ्गारमुद्रासखीं
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे
श्रीकामाक्षि सुधामयीन शिशिरा स्रोतस्विनी तावकी
गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥
संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरन्तर्यमुपेत्य मन्मथ[९२]मरूल्लोलेषु येषु स्फुटं
प्रेमेन्दुः प्रतिविम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥
चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल-
क्षोभे[९३]व्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् ।
|
स्वादं स्वादमुदीतकौतुकरसं नेत्रत्रयी शांकरी
श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ १७ ॥
आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल-
प्रेडखन्मारूतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः ।
काचिद्धीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षिं कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥ ९८॥
सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहु-
र्माधुर्यागमसंप्रदायमथवा सूक्तेस्तु मन्दस्मितम् ।
इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमीं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥ ९९ ॥
क्रीडालोलकृपासरोरुहमुखीसौघाङ्गणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १०० ॥
|
इति श्रीमूककविसार्वभौम कृतौ पञ्जशत्यां मन्दसितशतकं द्वितीयम् ।
महिम्नः पन्थानं म[९४]दनपरिपन्थिप्रायिनि
प्रभुर्निणेतुं ते भवति यतमानोऽपि कतमः
तथापि श्रीकाञ्चीविह्वतिरसिके कोऽपि मनसो
विपाकस्त्वत्पादस्तुतिविधिषु ज[९५]ल्पाकयति माम् ॥ १ ॥}}
|
[९६]गलग्राही [९७] पौरंदरपुरवनीपल्लवरुचां
[९८] धृतप्राथम्यानामरुणमहसामादिमगुरुः
स[९९]मिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि
प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥
मरालीना यांनाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३ ॥
वहन्ती सैन्दूरीं सरणिमवनभ्रामरपुरी-
पुरंध्रीसीमन्ते कविकमलबालार्कसुषमा
त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटीं
विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४॥
प्रणम्रीभूतस्य प्रणयकलवस्तमनसः
[१००]स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सांध्यां कान्तिं वहति सुषमाभिश्चरणयो-
स्तयोर्में कामाक्ष्या हृदयमवतन्द्रं विहरताम् ॥ ५ ॥
ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
ययोः सौधायन्ते स्वयमुदयभाजो मणितयः
ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो-
स्तयोर्मे कामाक्ष्या दिनमनु वरीवर्तुं हृदयम् ॥ ६ ॥
नयन्ती संकोचं सरसिजरुचं दिक्परिसरे
सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।
|
कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरन्ती, कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥ ७ ॥
बिरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं.
पुरस्तादानम्रे पुरविजयिनि स्मेरवदने
वयस्येव प्रौढा शिथिलयत्ति या प्रेमकलह-
प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८ ॥
सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः
भृतं कान्त्यम्भोभिर्विसृमरमरन्दैः सरसिजै-
र्विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥ ९ ॥
रजःसंसर्गेऽपि स्थितमजरसामेव हृदये
पर रक्तत्वेन स्थितभपि विरक्तैकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥
जटाला मञ्जीरस्फुरदरूणरत्नांशुनिकरै-
र्निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
परित्राणं कर्तु जननि मम कामाक्षि नियतं
तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥ ११ ॥
तुलाकोटिद्वन्द्वकणितभणिताभीतिवचसो-
र्विनम्रं कामाक्ष्या विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥
|
भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ.
ययोर्लाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा-
कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३ ॥
पवित्रीकुर्युर्नः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणास्तव शिवे ।
कणं लब्धं येषां निजशिरसि कामाक्षि नियतं
बलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥
बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालाम्बुदकुले
स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद-
स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥१५॥
सरागः सद्वेषः प्रसृमररजस्कः प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपद्मस्तव सतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥
जपालक्ष्मीशीणो जननि परमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा
मनःपूर्वाद्रिं नस्तिलकयतु कामाक्षि तरसा
तमस्काण्डद्रोही तव [१०१]चरणपाथोजरमणः ॥ १७ ॥
नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोपलमहः-
पयोधौ रिद्धद्भिर्नखकिरणफेनैवलिते ।
|
स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥ १८ ॥
शिवे पाशायेत्तामलघुनि तमःकूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने
नभोमासायेतां सरसकवितारीतिसरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९ ॥
निष[१०२] क्त्तं श्रुत्यन्ते नयनामिव सद्धृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे.
त्वदीयं कामाक्षि पणतशरणं नौमि चरणम् ॥ २० ॥
नमस्यासंसज्जन्न[१०३]मुचिपरिपन्थिप्रणयिनी-
निसर्गप्रेङ्खोल[१०४] त्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रकटयति पादाब्जसुषमा ॥ २१ ॥
कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
महान्तं संतापं मदनपरिपन्थिप्रियतने
[१०५]क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्से पदकमलसेवामृतरसम् ॥ २२ ॥
ययोः सांध्यं रोचिः सत्ततमरुणिम्ने स्पृहयते
ययोश्चान्द्री कान्तिः परितपति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥
|
जगन्नेदं, नेदं परमिति परित्यज्य यतिमिः
कुशाग्रीवस्वान्तैः कुशलधिषणैः शास्त्रसरणौ
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदंपर्यं तव चरणमाहात्म्यगरिमा ॥ २४ ॥
कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वेशद्यं कलितरसमानन्दमुधया
अलंकार भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥२५॥
मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु-
र्दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणः
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
क्षणार्धं सांनिध्यं चरणमणिदीपो जननि ते॥२६॥
कवीनां चेतोदन[१०६] स्वररुचिसंपर्कि विबुध-
स्रवन्तीस्रोतोवत्पटुमुखरितं हंस[१०७]करवैः
दिनारम्मश्रीवन्नियतमरुपच्छायसुभगं
मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरूहयुगम् ॥ २७ ॥
सदा किं सं[१०८]पर्क प्रकृतिकठिनैर्नाकिमुकुटै-
स्तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
[१०९] विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा-
मदृश्यं कामाक्षि प्रकटयति ते [११०]पादयुगलम् ॥ २८ ॥
|
पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥
मरालीनां पादाहतिमदनिशं हंसनिवहै-
र्नमस्यं निर्जाड्यं नियतजलमध्यैकशरणम्
अदोषच्यासङ्गं सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३०॥
सुराणामानन्दप्रवलनतया म[१११] ण्डनतया
नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया
पयोजश्रीद्वेषव्रतस्ततया त्वच्चरणयो-
र्विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥
सितिम्ना कान्तीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने
लभन्ते मन्दारग्रथितनवबन्धूककुसुम-
स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२॥
नखश्रीसंनद्धस्तबकनिचितः स्वैश्च किरणैः
पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शङ्के सकलफलदाता सुरतरु-
स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥
स्फुरन्मध्ये शुद्ध नखकिरणदुग्धाब्धिपयसां
बहन्नब्जं चक्रं दरमपि व ले[११२]खात्मकतया ।
|
श्रितो मात्स्य रूपं श्रियमपि दधानो निरुपमां
त्रि [११३] धामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४॥
वषट्कुर्वन्माञ्जीरजकलकलैः कर्मलहरी-
हवींषि प्रोद्दण्ड ज्वलति परमज्ञानदहने
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा मम सदा. ॥ ३५ ॥
महामन्त्रं काञ्चीमणिकटकनादैरिव जय-
न्क्षिपन्दिक्षु स्नच्छं नखरूचिमयं भास्मनरजः
नतानां कामाक्षि प्रकृतिपटुरुचाट्य ममता-
पिशाचीं पादोऽयं प्रकटयति ते मात्रिकदशाम् ॥ ३६॥
उदीते बोधेन्दौ तमसि नितरां जग्मषि दशा
दरिद्रां कामाक्षि प्रकटमनुरागं विद[११४]धती
सितेनाच्छाधाङ्गं नखरुचिपटेनाङ्घ्रियुगली-
पुरंध्री ते मातः स्वयमभि[११५]सरत्येव हृदयम् ॥ ३७॥
दिनारम्भः सध्यङ्गलिनविपिनानामभिनवो
विकासो वासन्तः सुकविपिकलोकस्य नियतम् ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
श्वकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥
धृतच्छायं नित्यं सरसिरूहमैत्री[११६]परिचितं
निधानं दीप्तीनां निखिलजगतां बोधजनकम्
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
पद ते पातङ्गीं परिकल्यते पर्वतसुते ॥ ३९ ॥
|
शनैरतीर्त्वा मोहाम्बुधिमथ स[११७]मारोढुमनसः
श्रमात्कैवल्याख्यां सु[११८]कृतिसुलभां सौधवलभीम्
लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४० ॥
[११९]प्रचण्डार्तिक्षोभाप्रमथनकृते प्रातिभसरि-
त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढ़े भवतमसि कामाक्षि चरणं-
प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते॥४१॥
मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता.
सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्मञ्जीरजकलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति सा पादयुगली ॥ ४२ ॥
जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा
सुरार्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ ४३ ॥
गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग-
त्परित्राणौ शोणौ मुनिहृदयनीडैकनिपुणौ
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥ ४४ ॥
अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रग्यमनजुषां पङ्कमखिलम् ।
|
तुलाकोटिद्वन्द्वं दधदपि व गच्छन्नतुलतां
गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥ ४५ ॥
प्रवालं सव्री़डं विपिनविवरे वेपयति या
स्फुरल्लीलं बालातपमधिकवालं द[१२०]घति या
रूचिं सांध्यां बन्ध्यां विरचयति या वर्धयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६ ॥
किऱञ्ज्योत्स्नारीतिं नखमणिरुचा हंसमनसां
वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रीतिं शशिशकलचूडप्रियतमे ॥ ४७ ॥
नखाङ्कूरस्मेरद्यतिविमलगङ्गाम्भसि सुखं
कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदञ्चमाञ्जीरस्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥ ४८ ॥
भवाम्भोधौ नौका जडिमविपिने पावकशिखां
प्रणम्रेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापज्योत्स्नामकृतकवचःपञ्जरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ॥
परात्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां
मनोज्ञस्ते पादो मणिमुकुरमुद्रां कलयते
यदीयां कामाक्षि प्रकृतिमधुरां शोभनादशां
विधातुं चेष्टन्ते ब[१२१]लरिपुवधूटीकुचभराः ॥ ५० ॥
|
अविश्रान्तं तिष्ठनकृतकवचः कंदरपुटी-
कुटीरान्तः प्रौढां नवरुचिसटाली प्रकटयन् ।
प्रचण्डं खण्डत्वं नयतुः मम कामाक्षि तरसा
[१२२] तमोवेतण्डेन्द्र तव चरणकण्ठीरवपतिः ॥ ५१ ॥
पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी-
पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः
नखश्रीभिः [१२३] स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शङ्के [१२४]चरणयुगली चाटुरचनाः ॥ ५२ ॥
[१२५]सरोज निन्दन्ती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखा हिमजलैः ।
स्फुरन्ती कामाक्षि स्कुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुभगा. पादयुगली ॥ ५३ ॥
नतानां संपत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४॥
वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते ।
पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं
दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५॥
प्रणामोद्यद्वृन्दारकमुकुटमन्दारकलिका-
विलोलद्रोलम्जप्रकरमयघूमप्रचुरिमा ।
|
प्रदीप्तः पादाब्जधुतिविततिपाटल्यलहरी-
कृशानुः कामाक्ष्या मम दहत संसारविपिनम् ॥ ५६ ॥
वलक्षश्रीर्ऋक्षाधिपशिशुसदृक्षा तव नखै-
र्जिघृक्षुर्दक्षत्वं सरसिरूहभिक्षुत्यकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा.
वचोवैचक्षण्यं चरणयुगलौ पक्ष्मलयताम् ॥ ५७ ॥
समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा-
ननन्तामिर्भामिर्दिवमनु दिगन्तान्विरचयन्
अहंताया हन्ता मम जडिमदन्तावलरिषु-
र्विभिन्तां संताय तव चरणचिन्तामणिरसौ ॥ ५८ ॥
दधानों भास्वत्ताममृतनिलयो लोहितवपु-
र्विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मन्दो गंगाधरमहिषि कामाक्षि भजतां
तमः केतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥
नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ-
प्रदानां दीवानाममरतरूदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयनिधिषु कामाक्षि पदयो-
र्धुरीणामीष्टे कस्तव भवितुमाहोपुरुषिकाम् ॥ ६० ॥
जनोऽयं संतप्तो जननि भवचण्डांशुकिरणा-
[१२६]रलब्ध्वैकं शीत कणमपि परज्ञानपयसः
तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां
पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥
|
जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं
वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।
निजारूण्यक्षौमास्तरणवति कामाक्षि सुलमा
बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥ ६२ ॥
प्रतीमः कामाक्षि स्फुरिततरूणादित्यकिरण-
श्रियों मूलद्रव्यं तव चरणमद्रीन्द्रतनये
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ॥
महाभाष्यव्याख्यापटुशयनमारोपयति वा..
स्मरव्यापारेर्ष्योपिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वा निवसतिं
प्रणाम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥
विवेकाम्भःस्रोतःस्नपनपरिपाटीशिशिरिते
समीभूते. शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५ ॥
दधानो मन्दारस्तवकपरिपार्टी नखरुचा
बहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।
अशोकोल्लास नः प्रचुरयतु कामाक्षि चरणो
विकासी वासन्तः सम[१२७]य इव ते शर्वदयिते ॥ ६६ ॥
नखांशुप्राचुर्यप्रसृमरम[१२८]रालीधवलितः ।
स्फुरन्मञ्जीरोद्यन्मरकतसह शैव[१२९]लयुतः ।
|
भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
नदः शोगाभिख्यो नगपतितनूजे विजयते ॥ ६७ ॥
धु[१३०]नानं पङ्कौघं परमसुलभं कण्टककुलै-
र्विकासव्यासङ्गं विदधदपराधीनमनिशम् ।
नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितरा-
मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८ ॥
क[१३१]रीन्द्राय द्रुह्यल्यलसगतिलीलासु विमलैः
पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं
मुनीनां शान्तानां कथमनिशमस्मै स्पृह्यते ॥ ६९ ॥
निरस्ता शोणिन्ना चरणकिरणानां तव शिवे
समिन्धाना संध्यारुचिरचलराजन्यतनये ।
असामर्थ्यदेतत्परिभावितुमेतत्समरुचां
सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥
उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
मरालानां शङ्के मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं
प्रपन्नं पाथोजं प्रतिदधति कामाक्षि कुतुकम् ॥ ७१ ॥
दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलै-
र्द्विजाधीशश्लाघाविधिषु विदधद्भिर्गुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयो-
र्विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥
|
कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥
परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो-
र्नखश्रीषु ज्योत्स्नाकुलिततुलयोस्ताम्रतलयो: ।
नि[१३२]लीये कामाक्ष्या नियमनुतयोर्नाकिक्तयो-
र्निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ॥
स्वभावादन्योन्यं किसलयमपीदं तव पदं
म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥ ७५ ॥
कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः
सदैवानन्दार्द्रान्विरचयति वाचंयभजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥
चलतृष्णावीचीपरिचलनपर्याकुलतया
मुहुन्विा लान्तः परमशिवामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं
कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥
विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।
|
त्वदीयः कामाक्षि स्फुरितचरणामोद महिमा
नमोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ॥
विनम्राणां चेतोभवनवलभीसीम्नि चरण
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥ ७९ ॥
विराजन्ती शुक्तिर्नखकिरणभुक्तामणितते ..
विपत्पाथोराशौ तरिरपि नराणां प्रणामताम्।
त्वदीयः कामाक्षि ध्रुवमल[१३३]धुवह्निभववने
मुनीनां ज्ञानाग्नेररणिरयमद्धिर्विजयते ॥ ८० ॥
समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः
भवत्या मिन्दानो भवगिरिकुलं जृम्भिततमो-
बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥
वसन्तं भत्तानामपि मनसि नित्यं परिलस-
द्घनच्छायापूर्णं शुचिमपि नृणां पापशमनम् ।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चयकरणम् ॥ ८२ ॥
कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः
प्रपञ्चव्यापार प्रकटनकलाकौशलनिधिः
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मनिर्जनै-
र्नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥
|
भवत्याः कामाक्षि स्फुरितपदपङ्केरूहभुवां
परागाणां पूरैः परिहृतकलव्यतिकरैः ।
नतानामामृष्टे हृदयनुकरे निर्मलरुचि
प्रसन्ने निःशेषं प्रतिफलति विश्व गिरिसुते ॥ ८४ ॥
तव त्रस्त पादात्किसलयमरण्यान्तरमगा-
त्परं रेखारूपं कमलममुमेवा[१३४]श्रितमभूत् ।
जिताना कामाक्षि द्वितयमपि युक्तं परिभवे
विदेशे वासो वा शरणगमनं या निजरिपोः ॥ ८५ ॥
गृहीत्या याथार्थ्यं निगमवचसां देशिककृपा-
कटाक्षार्कज्योतिः शमितममताबन्धतमसः
यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं
त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥
जडानामप्यम्ब स्मरणसमये त्वच्चरणयो
र्भ्रमन्मन्थक्ष्माभृद्धुमधुमितसिन्धुप्रतिभटाः ।
प्रे[१३५]सन्नाः कामाक्षि प्रसभमधरस्पन्दनकला
विभान्ति स्वच्छन्दं, प्रकृतिपरिपक्वा भणितयः ॥ ८७ ॥
वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ
तमेवाधः कर्तुं किमिव यतते केलिगमने
भवस्यैवानन्दं विदधदपि कामाक्षि चरणों
भवत्यास्तद्रोहं भगवति किमेवं वित्तनुते ॥ ८८ ॥
यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे
तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।
|
किरीटैः संघट्टं कथमिव सुरौधस्य सहते
मुनीन्द्राणामास्ते. मनसि च कथं सूचिनिशिते ॥ ८९ ॥
मनोरङ्गे मत्के विबुधजनसंमोदजननी
सरागव्यासङ्गं सरसमृदुसंचारसुभगा
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
चलन्मञ्जीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥
परिष्कुर्वन्यातः पशुपत्तिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मुकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं में परिमुषितपाथोजमहिमा ॥ ९१ ॥
प्रसूनैः संपर्कादमरतरुणीकुन्तलभवे-
रभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसङ्गात्कङ्केल्लिप्रसरजनकत्वेन च शिवे
त्रिधा धत्ते वार्ता सुरभिरितिः पादो गिरिसुते ॥ ९२ ॥
महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां
किमेवं पादोऽसौ किसलयरूचिं चोरयति ते ॥ ९३ ॥
सदा स्वादुकारं विषयलहरीशालिकणिकां
समाखाद्य श्रान्त [१३६]हृदयशुकपोतं जननि मे।
कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा
गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥
|
धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
ज्वरप्रौढिं गूढस्थितिनिगमनैकुञ्जकुहरे ।
अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन
श्विरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ १५ ॥
रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥
यशः सूते मातर्मधुरकविता पक्ष्मलयते
श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
[१३७]प्रपन्ने कामाक्ष्याः [१३८]प्रणतिपरिपाटी चरणयोः ॥ ९७ ॥
मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्यास्चरणतरुणादित्यकिरणः
यदीये संपर्के धृतरसमरन्दा कवयतां
-परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥
सु[१३९]रागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्तया शमधनजनानां परिषदा
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९९ ॥
पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे ।
|
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १००॥
इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्तया निखिलजगदाह्लादजनकम्
स विश्वेषां बन्धः सकलककविलोकैकतिलक-
श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१ ॥
|
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां पादारविन्दशतकं तृतीयम् ।
कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥
कंच न का़ञ्चीतिलकं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं, कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥
चिन्तितफलपरिपोषणचिन्तामणिरेव काञिचिनिलया मे ।
चिस्तरसुचरितसुलभा चितं शिशिरयतु चित्सुधाधारा ॥ ३ ॥
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ।
परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥
ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् ।
ऐन्दकिशोरशेखरमैदंपर्यं कास्ति निगमानाम् ॥ ५ ॥
तुङ्गाभिरामकुभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततनसिद्धान्तम् ॥ ६ ॥
मधुरधनुषा महीधरजनुषाः नन्दामि सुरभिबाणजुषा ।
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ ७ ॥
|
कुटिलकचं कठिनकुत्रं कुन्दस्मितकान्ति कुङ्कमच्छायम्
कुरुते विह्रतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ८॥
पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ९ ॥
श्रितकम्पासीमानं शिथिलितपर[१४०]मेशधैर्यमहिमानम् ।
कलये पाटलिमानं कंचन कञ्चुकितभुवनभूमानम् ॥ १० ॥
आइतकाचीनिलयामायामासढयौवनाटोपाम् ।
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ११ ॥
काञ्चीरत्नविभूषां कामपि कंदर्पसूतिकापाङ्गीम् ।
परमां कलामुपासे परशिवनामाङ्कपीठिकासीनाम् ॥ १२ ॥
कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १३ ॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १४ ॥
अधिकाश्चि परमयोगिभिरादिमपरपीठसीन्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥ १५ ॥
अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।
अधिकाञ्चि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥ १६ ॥
मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।
मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अम्बुमर्यामिन्दु[१४१]मयीमम्वामनुकम्पमादिमामीक्षे ॥ १८ ॥
|
लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम्
पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥
श्वेता मन्थरहसिते शा[१४२]ता मध्ये च वाङ्मनोतीता।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २०॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।
पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥
पुण्या कापि पुरंध्री पुङ्खितकंदर्पसंपदा वपुषा ।
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥
पौष्टिककर्मविपाकं पौष्पशरं स[१४३]विषसीम्नि कम्पायाः
अद्राक्षमात्यौवनमभ्युदयं किंचिदर्धशशिमौलेः ॥ २४ ॥
संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रप्रदुत्तंसे
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥
उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम्
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥
एणशिशुदीर्घलोचनमेनःपरिपन्थि संततं नमताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलम्बे ॥ २८ ॥
स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वेयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥
|
कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरित ।
कुरुते जनो मनोऽयं कुलगिरिपरिवृतकुलैकमणिदीपे ॥ ३०॥
वीक्षेमहि काञ्चिपुरे विधुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचर देहं विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥
कुरुविन्दगोत्रगात्रं, कूलचरं किमपि नौमि कम्पायाः
कुलकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥
कुड्मलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।
कुङ्कुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥ ३३ ॥
अङ्कितकुचेन केनचिदन्धंकरणामधेन कमलानाम् ।
अन्तःपुरेण शंभोरलंक्रिया कापि कलप्यते काञ्च्याः ॥ ३४ ॥
उररीकरोमि संततमूमलफालेन लालितं सा ।
उपकल्पगुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥
अङ्कुरितस्तनकोरकमङ्कालंकारमेकचूतपतेः
आलोकेमहि कोमलमागमसंल्लापसारयाथार्थ्यम् ॥ ३६ ॥
पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।
मञ्जरितमृदुलहासं पि[१४४]ञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७॥
लोलहृदयोऽस्मि शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९॥
वदनारविन्दवक्षोवामाङ्कतलीवशंवदीभूता
पुरुषत्रितये त्रेधा पुरंध्रिरुपा त्वमेव कामाक्षिः ॥ ४० ॥
|
आधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।
आधारीकृतकाञ्चीं बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥
कलयाम्यन्तः शशधरकलयाङ्कितमौलिमसलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वाय समर्प्यते हृदयम् ॥ ४३ ॥
समया सांध्यमयूखाः समया बुद्धया सदैव [१४५]शीलितया ।
उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥४४॥
जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि ।
बन्धो यदि भवति पुनः सिन्धोरम्भःसु बम्भ्रमीति शिला ॥ ४५ ॥
कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे
गुणिनि गु[१४६]हारणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६॥
अभिदाकृतिभिदाकृतिर[१४७]चिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥
शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८॥
कामपरिपन्धिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुधा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९ ॥
मध्येहदयं मध्येनिटिल मध्येशिरोऽपि वास्तव्याम्
चण्डकरशक्रकार्मुकचन्द्रसमामां नमामि कामाक्षीम् ॥ ५० ॥
|
अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमन्त्रमयैः
अतिशीतं मम हृदयं वि[१४८]षमशरद्रोहिजीवनोपायैः ॥ ५१ ॥
नन्दति सम ह्रदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् ।
इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥
शम्पालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।
आनन्ददां भजे तामानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ ५४ ॥
ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम्
अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥
आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।
आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जन्तुलोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥
पञ्चदशवर्णरूपं कंचन काञ्चीबिहारघौरेयम् ।
पञ्चशरीय शंभोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥
परिणतवतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् ।
[१४९]पश्चाशदर्णकल्पितपदशिल्पा तां नमामि कामाक्षीम् ॥ ५९ ॥
[१५०]आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम्
[१५१]स्वादिष्टचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥
तुष्यामि हर्षितस्मरशासनया काञ्चिपुरि कृतासनया ।
स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥
|
प्रेमवती कम्पायां स्वेम[१५२]वती यतिमनःसु भू[१५३]मवती
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥
कौतुकिना कम्पायां कौमुमचापेन कीलितेनान्तः
कुलदैवतेन महता [१५४]कुालमुद्रा धुनोतु नः प्रतिभा ॥ ६३ ॥
केनापि मिलेितदेहा यूना स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥
कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् ।
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥
दग्धषडध्वारण्यं दरदलितकुसुम्भसंभूतारुण्यम् ।
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥
अधिकाञ्चि वर्षमानानतुलां करवाणि पारणामक्ष्णोः ।
आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाक मेदमाकलये ॥ ६८ ॥
किं वा फलति ममात्यैर्बिम्बाधरचुम्बिमन्दहासमुखीं
संबाधकरी समसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥
मच्चे सदाशिवमये परशिवमयललितपौष्पपर्यङ्के
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥
लक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया।
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥
लीये पुरहरजाये माये तब तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥
|
मूर्तिमयि मुक्तिबीजे मूर्ध्निस्तबकितचकोरसाम्राज्ये ।
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मु[१५५]मुदिषास्माकम् ॥ ७३ ॥
वेदमयीं नादमयीं बिन्दुमयीं वरपदोघदिन्दुमयीम् ।
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४॥
पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसपाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥
प्रत्यङ्मुख्या दृष्टया प्रसाईदीपाङ्कुरेण कामाक्ष्याः ।
पुश्वामि नि[१५६]स्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥ ७८ ॥
मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षका[१५७] लिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कृपालिनि नमोऽस्तु ॥ ७९॥
देशिक [१५८] इति किं शङ्के: तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामानि शूलपाणेः कामागम[१५९] तन्त्रयज्ञदीक्षायाम् ॥ ८० ॥
वेतण्डकुम्भडश्चरवैतण्डिककुचभरार्तमध्याय ।
[१६०]र्कुङ्कुमरुचे नमस्या शंकरनयनामृताय रचयामः ॥ ८१ ॥
अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कोचिदद्राक्षम् ।
अवनतजनानुकम्पामनुकम्पाकूलमस्सदनुकूलाम् ॥ ८२ ॥
|
परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम्
तब देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥ ८४॥
मदजलतमालपत्रा वसनितपत्रा करादृतखनित्रा।
विहरति पुलिन्दयोषा गुञ्जाभूषाः फणीन्द्रकृतवेषा ॥ ८५ ॥
अङ्के शुकिनी गीते कौतुकिनी परिसरे च मायकिनी ।
जयसि सविधेऽम्ब भै[१६१]रवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६॥
प्रणतजनतापवर्गा कृतरणसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥
श्रव[१६२]णचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रखण्डा धृ[१६३]तनरमुण्डा त्वमेव चामुण्डा ॥ ८८॥
उर्वीधरेन्द्रकन्ये दर्वीमरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुवे त्वमेव कामाक्षि ॥ ८९ ॥
ता[१६४] डितरिपुपरिपीडनभयहरणनिपुणहलमुसला।
क्रोडपतिमीषणमुखी कीडसि जगति त्वमेव कामाक्षि ॥९०॥
स्मरमथनवरणलोला मन्मथलाविलासमणिशाला।
कनकरुचिचौर्यशीला त्मम्ब बाला कराब्जधृतमाला ॥ ९१ ॥
विमलपटी [१६५]कमलकुटी पुस्तकरुद्राक्षशस्तहरुपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरञ्ची ॥ १२ ॥
|
कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।
जयति तव रूपभेदं [१६६]जपपटपुस्तकवराभयानकरम् ॥ १३ ॥
क[१६७]नकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् ।
कामाक्षि शीलये वा कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥
लोहिति[१६८]मपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते।
वदनं तव कुचयुगलं काञ्चीसीमां च के[१६९]पि कामाक्षि ॥ ९५ ॥
ज[१७०] जलधिद्विगुणितहुतबहदशदिनेशकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि [१७१]सर्वोत्तमं त्वं करन्ध्रवृतनलिनम् ॥ ९६ ॥
सकृतदेशिकचरणा सबीजनिर्बीजयोगनिश्रेण्या:
अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥
अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहंते।
चिन्तितसंता[१७२]नकला संततमपि संतनुष्व महिमानम् ॥ ९८॥
जय जय जगदम्ब शिव जय जय कामाक्षि जयजयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीघारे ॥ ९९ ॥
आ[१७३]र्याशतक भक्त्या पठतामायोकटाक्षेण।
निःसरति बदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०० ॥
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यामार्थाशतक चतुर्थम् ।
|
पाण्डित्यं परमेश्वरि स्तुतिविधौ नैचाश्रयन्ते गिरां
वैरञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते।
|
.
स्तोतुं त्वां परिफुल्लनीलनालिनश्यामाक्षि कामाक्षि मा.
वाचालीकुरूते तथापि नितरां स्वत्पादसेवादरः ॥ १ ॥
तापिच्छस्तबकत्विषे तनुभृतां दारिदमुद्राद्विषे
संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे
कम्पातीरमुपैयुषे कवयतां जिह्वाकुटी जग्मुषे
विश्चत्राणमुषे नमोऽस्तु सततं तस्मै परज्योतिषे ॥ २ ॥
ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रार्भक
सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे ।
पुण्यं ये परिपक्वयन्ति म[१७४]जतां काञ्चीपुरे माममी
पाथासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३ ॥
कामाडम्बरपूर्णया शशिरुचा कम्रस्मितानां त्विषा
कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥
कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दशा
श्यामा क्षीरसहोदरस्मितरु[१७५]चिप्रक्षालिताशान्तरा ।
वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
कामाक्षीति विभाति काप क[१७६]रुणा कम्पातटिन्यास्तटे ॥ ५ ॥
श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।
भारारातिमनोविमोहनविधौ काचित्तमः कन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥
|
प्रौढध्यान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय-
ज्योत्स्नासंगमनेऽपि 'कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिन्दीलहरीदृशां प्रकटयन्कम्रां नभस्यद्भुतां
कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७॥
त[१७७] त्रामृततमालनीलसुषमैस्तारुण्यलीलागृहै-
स्तारानाथकिशोरलाञ्छितकचेस्ताम्रारविन्देक्षणैः
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनार्डिधमैः
कम्पातीरचरैर्धनस्तनभरैः पुण्याङ्कुरैः शांकरैः ॥ ८ ॥
नित्य निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
तेजःसंचयपाटवेन किरणानुष्णधुतेर्मुष्णती ।
काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृग्मते..
काचिञ्चित्रमिह[१७८] स्मृतापि मनसो निर्वापिका दीपिका ॥ ९ ॥
कान्तैः केशरुत्वा चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं
कान्त्या पल्लवित पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली
काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १० ॥
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
सूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम्
श्रीकाञ्चीनगरीविहाररसिका शोकापहनी सता-
मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥
जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी ।
|
आश्चर्यं बहुखेलनं वितनुते नैश्चल्यमाबिभ्रती
कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥
ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके
रेखा यत्कचसीम्नि शेखरदशां नशाकरी गाहते
औन्नत्यं मुहुरेति येन सः महान्मे[१७९] सखः सानुमा-
न्कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥
अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाहोश्च मू[१८०]लं स्पृश-
न्नुत्तसेन मुखेन च प्रतिदिनं द्युह्यन्पयोजन्मने
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपय-
न्काञ्चीसीम्नि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः ॥१४॥
खण्डं चान्द्रमसें बतसमनिशं काञ्चीपुरे खेलनं.
कालायछवितस्करीं अनुरुचिं कर्णेजपे लोचने
तारुप्योमस्वंपच[१८१]स्तनभरं जङ्घास्पृशं कुन्तलं
माग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५ ॥
तन्वानं जनकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवञ्चनचुञ्चु' किंचन भजे काञ्चीपुरीमण्डन
[१८२]पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥
आलोके मुखपङ्कजे च दधती सौधाकरी चातुरीं
चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घनस्तनतटी मूर्च्छालमध्याञ्चि वा
काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७॥
|
यस्मि[१८३] न्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-
ज्योत्स्नासंस्रपिता भवत्याभिमुखी तं प्रत्यहो देहिन[१८४]म् ।
द्राक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैख[१८५]री
कामाक्षि स्वयमातनोत्यमिसृति वामेक्षणेव क्षणात् ॥ १८ ॥
कालिन्दीजलकान्तयः स्मितरुचिस्वार्हिनीपाथसि
प्रौढध्यान्तरुचः स्फुटावरमहालौहित्यसंध्योदये ।
माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः
कल्याणैकमुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९॥
कलकलरणत्काञ्ची काशीविभूषणमालिका
कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।
कविकुलगिरः श्रावं श्रावं मिलमुलत्पुलकाङ्कुरा
विरचितशिर कम्पा कम्पातटे परिशोभते ॥२०॥
सरसवचसां वीची नीचीभवन्मधुमाधुरी
भरितभुवना कीर्तिमूर्तिर्मनोभवजित्वरी
जननि मनसो योग्यं भोग्यं नृणां तव जायते
कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥
भ्रमरितसरित्पूरे नीलोत्पलप्रभया भया-
नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥
मधुरवचसो मन्दस्मेरा मतङ्गजगामिन-
स्तरुणिमजुषस्तापिच्छाभास्तमः परिपन्थिनः ।
|
कुचभरनताः कुर्युर्भद्र कुरङ्गविलोचना:
कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३॥
कमलसुषमाकक्षारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः
पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥
कलितरतयः काञ्चीलीलाविधौ कविमण्डली-
वचनलहरीबासन्तीनां वसन्तविभूतयः
कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः
कुसुमविशिखारातरक्ष्णां कुतूहलविभ्रमाः ॥ २५ ॥
कवलिततमःखण्डास्तुण्डीरमण्डलमण्डना।
सरसिजवनीसंतानानामरूतुदशेखराः
नयनसरणेर्नेदीयांसः कदा न भवन्ति में
तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥ २६ ॥
अ[१८६]चरममिषुं दीनं मीनध्वजस्य मुखश्रिया
[१८७]सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिद[१८८]शसदसामन्नं खिन्नं गिरा च वितन्वती
तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥
जननि भुवने चक्रम्येऽहं कियन्तमनेहसं
कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने
नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥
|
मुनिजनमनःपेटीरत्नं स्फुरत्करूणानटी-
विहरणकलागेहं काञ्चीपुरीमणिभूषणम्
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं के पुरः परिजृम्भताम् ॥ २९ ॥
मुनिजनमनोवाम्ने धाम्ने वचोमयजाह्नवी-
हिमगिरितट[१८९]प्राग्भारा[१९०]वाक्षराय परात्मने
विहरणजुषे काञ्चीदेशे महेश्वरलोचन-
त्रितयसरसक्रीडासौधाङ्गणाय नमोनमः ॥ ३० ॥
मरकतरुचा प्रत्यादेशं महेश्वरचक्षुषा:-
ममृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीमाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥
प्रणमनदिनारम्भे कम्पानदीसखि ताबके
सरसकवितोन्मेषः पूषा सतां स[१९१]मुदञ्चितः
प्रतिभटमहापौढप्रोद्यत्कवित्वकुमुद्रतीं
नयति तरसा नि[१९२]द्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रित[१९३] कुन्तला
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
सफलयतुं में नेत्रे गोत्रे[१९४]श्वरप्रियनन्दिनी ॥ ३३ ॥
|
मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
जगति शमितस्तम्भां कम्पानदीनिलयामसौ
श्रयति हि गलत्तन्द्रा चन्द्रावतंसंसधार्मिणी ॥ ३४ ॥
परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
शिखरिणि पुनर्द्वैधीभावं शशिन्यरुणातपम्
अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ.
कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥.
पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
सरसकविताभाजा काञ्चीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६ ॥
नयनयुगलीमास्माकीनां कदा नु फलेग्रहिं
विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
मरकतरुचो देहे माहेश्चराः स्तननम्रिताः
सुकृतविभवाः प्राञ्चः काञ्चीवतंसंधुरंधराः ॥ ३७॥
मनसिजयशःपारम्पर्यं मरन्दझरीसुवां
कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥
शिथिलिततमोलीलां नीलारविन्दविलोचनां
दहनविलसत्कालां श्रीकामकोटिमुपास्महे ।
|
करकृतलसच्छूलां [१९५]कामारिचित्तमनोहरां
मनसिजकृपालोला लोलकामलिकेक्षणाम् ॥ ३९ ॥
कलालीलाशाला कविकुलवत्र कैरववनी-
शरज्ज्योत्स्नाधारा शशधरशिशुश्लाध्यमुकुटी
पुनीते नः कम्पापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्गं क[१९६] नकगिरिधानुष्कमहिषी ॥ ४० ॥
नमः स्तान्नम्रेभ्यः स्तनगरिमगर्येण गुरुणा
दधानेभ्यश्चूढाभरणममृतस्यन्दशिशिरम् ।
सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो
यशोव्यापारेभ्यः सुकृत्तविभवेभ्यः प[१९७]शुपतेः ॥ ४१ ॥
असुबन्ती काचिन्मरकतरुचो नाकिमुकुटी
कदम्ब चुम्बन्ती रणनखचन्द्रांशुपटलैः ।
तमोमुद्रा विद्रावयतु सम कञ्चीनिलयना
हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥
अनाद्यन्ता काचित्सुजननयनानन्दजननी
निरून्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्तीं स्वयमहो
गलत्कम्पा शम्पा परिलसति कम्पपरिसरे ॥ ४३ ॥
सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
पारिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः
स्तनाभ्यामानम्रा स्तंबायतु में काङ्क्षिततरूं
दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४४ ॥
|
कृपाचाराद्रोणी कृपणविषणानां प्रणमतां
निहन्त्री संतापं निगममुकुटोत्तसकलिका ।
परा काञ्चीलीलापरिचयवती पर्वतसुता
गिरां नी[१९८]वी देवी गिरिशपरतन्त्रा विजयते ॥ ४५॥
कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे-
र्विधात्री विश्वेषां विषमशरवीरध्वजपी।
सखी कम्पानद्याः पदहसितपाथोजयुगली
पुराणी पायान्नः पुरमथनसाम्राज्यपदवीं ॥ ४६ ॥
द[१९९] रिद्राणा मध्ये दरदलितलापिच्छसुषमाः
स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः
कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ॥
वरीवर्तु स्थेमा त्ययि मम गिरां देवि मनसो.
गरीनर्तु प्रौढा वदनामले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि ज[२००]डिमा नः प[२०१]रजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥ ४८ ॥
क्षण ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः,
कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
गरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥
पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां
प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः
|
इमां याच्यामूरीकुरु सर्पदि दूरीकुरु तमः-
परिपाकं म[२०२]त्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥
उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया
समृद्धा वाग्घाटी परिहसितसाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥
श्रियं विधां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रं प्रादत्ते तव जननि कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ॥
मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां
सदा लोलं. नीलं चिकुरजितरोलम्बनिकरम् ।
गिरां दूरं स्मेरं घृतशशिकिशोरं पशुपते-
र्दृशां भोम्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ॥
घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा-
न्दृशा पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥
नतानां मन्दानां भवनिगडबन्धाकुलधियां
स[२०३]दान्ध्यं रून्धानाममिलषितसंतानलतिकाम् ।
चरन्तीं कम्पायास्तटमुति सावित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥
|
परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः
तमःपूरं दूरं चरणनतपौरंदरपुरी-
मृगाक्षी कामाक्षी [२०४] मलतरलाक्षी नयतु मे ॥ ५६ ॥
अहंताख्या मत्कं कवलयति हा हन्त हरिणी
हठात्सविद्रूपं हरनहिषि सस्याङ्कुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै-
रिमामुच्चैरुच्चाट्य झट्रिति कामाक्षि कृपया ॥ ५७ ॥
बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
कटाक्षः कामाक्षि प्रकटजडिमक्षो[२०५] दपटिमा
कथंकार नास्मै करमुकुल
नमोवा[२०६]कं ब्रूयुनर्मुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥
प्रतीची पश्यामः प्रकररूचिनीवार[२०७]कणिश-
प्रभासघ्रीचीनां प्रदलितषडाधारकमलाम् !
चरन्ती सौषुम्णे पथि परपदेन्दुप्रविगल
त्सुधार्द्रां कामाक्षीं परिणतपरज्योतिरुदयाम् ॥ ५९ ॥
जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती-
गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती.
शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती,
कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६० ॥
चन्द्रापीडां चतुरवदनां चञ्चलापाडगलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्भूतभृङ्गाम् ।
|
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षी तो कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥
कालम्मोदप्रकरसुषमां कान्तिभिर्स्तर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम्
कंदर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री
काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥
उरीकुर्वन्नुरसिजतटे चातुरी भूधराणां
पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रूचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥
काञ्चीलीलापरिचयनती कापि तापिच्छलक्ष्मी-
र्जाड्यारण्ये हुतनहशिखा जन्मभूमिः कृपायाः
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विधा ।। ६४ ॥
सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती
काचीभूषा पशुपतिदृशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥
व्यावृण्वानाः कुवलयदलपक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविह्रतिरसिके काक्षितं नः क्रियासु-
र्बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥
|
कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
मध्येसौदामनि मधुलिहां मालिकां राजयन्ती
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
कम्पातीरे विलसति न वा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥
चित्रं चित्रं निजमृदुतया मर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यमाजाम् ।
जातः शैलान्न तु जलनिधेः स्वेरसंचारशीली.
काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८॥
ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्प
तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् ।
व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या-
मैशानी सा कलयतितरामैन्द्रजालं बिलासम् ॥ ६९ ॥
आ[२०८]हारांश त्रिदशसदसामा[२०९]श्रये चातकाना-
मा[२१०]काशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासै-
रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
काश्मल्य नः कवलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥
|
आधुन्वन्त्यै तरलनयनैराङ्गजीं वैजयन्ती-
मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।
आस्माकीनं हृदयमखिलेैरागमानां प्रपञ्चै-
राराध्यायै स्पृहयतितरामादिमायै जनन्यै ॥ ७२ ॥
दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं
मोहक्ष्वेडक्षितिरूहवने तीक्ष्णधारं कुठारम् ।
कम्पातीरे प्रणयिकविमिर्वणितोद्यच्चरित्रं
शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ॥
खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
शु[२११] ण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती
तुण्डीराख्ये महति विषये स्वर्णदृष्टिप्रदात्री
चण्डीदेवी कलयति रतिं च[२१२]न्द्रचूडालचूली ॥ ७४ ॥
येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
यदृक्कोणे मदननिगमप्राभवं बोभवोति
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः
कम्पातीरे स जयति महाकश्चिदोजोविशेषः ॥ ७५ ॥
धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं
निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।
साध्वी माध्वीरसमधुरताभञ्जनी मञ्जुरीति-
र्वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥ ७६ ॥
अस्या बाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः
|
यस्याः पेटी श्रु[२१३] तिपरिचलन्मौलिरवस्म काञ्ची
सा में सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥ ७७ ॥
एका माता सकलजगतामीयुषी ध्यानमुद्रा
मेकामाधीश्वरचरणयोरेकताना समिन्धे ।
ताटङ्कोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा
तारुण्यश्रीस्तबकितरुचा तापसी कापि बाला ॥ ७८ ॥
दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानै-
र्मन्दाराणां मदपरिणतिं मन्थती मन्दहासैः ।
अङ्कुराभ्यां म[२१४] नसिजतरोरङ्कितोराः कुचाभ्या-
मन्तःकाञ्चि स्फुरति जगतामाद्रिमा कापि माता ॥ ७९ ॥
त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां,
पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।
मतङगकुलनायिकां महिषमर्दिनीं मातृकां
भणन्ति विबुधोत्तमा विह्वतिमेव कामाक्षि ते ॥ ८० ॥
महामुनिमनोनटी महितरम्यकम्पातटी-
कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥
ज[२१५] डाः प्रकृतिनिर्धना जनविलोचनारूंतुदा
नरा जननि वीक्षणं क्षणमवाध्य कामाक्षि ते।
वचस्सु मधुमाधुरीं प्रकटयन्ति पौरंदरी-
विभूतिषु विडम्बनां वपुषि [२१६]मान्मथीं प्रक्रियाम् ॥ ८२ ॥
|
घनस्तनतटस्फुटस्फुरितकञ्चुली चञ्चली-
कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे
परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३ ॥
कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी
निरूदकरुणाझरी निखिललोकरक्षाकरी
मनःपथदवीयसी मदनशासनप्रेयसी
महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥
धनेन न रमामहे खलजनान्न सेवामहे
न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहे तरां मनसि किं च काञ्चीरत-
स्मरान्तककुटुम्बिनीचरणापल्लवोपासनाम् ॥ ८५ ॥
सुराः परिजना वपुन[२१७]सिजाय वैरावते
त्रिविष्टपतितम्बिनीकुचतटीं च केलीगिरिः
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥
पवित्रय जगन्नयीविबुधबोधजीवातुभिः
पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै-
नि[२१८]रक्षरशिरोमणिं करुणयैव कामाक्षि भाम् ॥ ८७ ॥
|
कदा कलितखेलनाः करुणायैव काशीपुरे
क[२१९]लायमुकुलस्विषः शुभकदम्बपूर्वाकुराः ।
पयोधरभरालसाः कविजनेषु ते बन्धुराः
पजेलिमकृपारसा: परिपतन्ति मार्ग दृशोः ॥ ८८ ॥
अशोध्यमचलोद्भवं हृदयनन्दन देहिना-
मनर्घमधिकाञ्चि तत्किमपि रत्नमुद्दयोतते
भनेन समलंकृता जयति शंकराङ्कस्थली
कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥
परामृतझराप्लुता जगति नित्यमन्तश्वरी
मृणामपि बहिश्वरी परमसंविदेकात्मिका
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥
स्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका
त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शांभवी त्वमपि कामकोटी जया.
त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९१ ॥
परे जननि पार्वति प्रणतंपालिनि प्रातिभ-
प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वति
नियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे
त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥
मनोमधुकरोत्सवं विदधती मनीषाजुषां
स्व[२२०]यंप्रभववैखरी विपिनवेदिकालम्विनी ।
|
अहो शिशिरिता कृपामधुरसेन कम्पातटे
चराचरविधायिनी चरति कापि चिन्मञ्जरी ॥ ९३ ॥
कलावति कलाभृतो सुकूटसीम्नी लीलावति
स्पृहादति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सता़ं गुरुकृपाम्बुधारावति ॥ ९४ ॥
त्वयैव जगदम्बया भुवनमण्डली सूयते
त्वयैव क[२२१] रुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति संक्तं स्त्रीयते ॥ ९५ ॥
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा वसदिशां निशाहर्मयीं
परां सततसम्मयीं परमचिन्मयीं शीलये ॥ १६ ॥
जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा
जितशरदम्बुजे धनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा [२२२]पररूपधरे
मम गतसंविदो जडिमडम्बरलाण्डविनः ॥ ९७ ॥
भुवनजननि भूषाभूतचन्द्रं नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमो नित्यरूपे नमस्ते
परशिवमायि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥
|
अ[२२३]नोविपिनधाविनं सततमेव काञ्चीपुरे
विहाररसिका परा परमसंविदुबीरुहे ।
कटाक्षनिगढैर्हढं हृदयदुष्टदन्तावलं
चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥
करणात्काञ्ची काञ्चीपुरमणिदिपञ्चील्याझरी-
शिर:कम्पा कम्पावसतिरनुकम्पाजलनिधिः ।
घनश्यामा श्यामा कठिनकुलसीमा मनसि मे
मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १०० ॥
इमे परवरप्रदं प्रकृति पेशलं पाचनं
परापरचिदाकृतिप्रकटनपदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयान्नम्बिकां
जपैरलमलं मखैरधिकदेहसंशोषणः ॥ १०१ ॥
|
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां स्तुतिभावकम्।