कविशेखरेतिबिरुदवता ज्योतिरीश्वरेण विरचितः
पञ्चसायकः ।

प्रथमः सायकः सम्पाद्यताम्

मङ्गलाचरणम्‌ ।
रतिपरिमलसिन्धुः कामिनीकेलिबन्धु-
र्विहितभुवनमोदः सेव्यमानप्रमोदः ।
जयति मकरकेतुर्मोहनस्यैकहेतु-
र्विरचितबहुसेवः कामिभिः कामदेवः ॥ १ ॥
ग्रन्थकर्तुरात्मपरिचयप्रदर्शनम्‌ ।
अस्ति प्रत्यहमर्थितापहरणप्रीत्यैकदीक्षागुरुः
श्रीकण्ठार्चनतत्परो भुवि चतुःषष्टेः कलानां निधिः ।
सङ्गीतागमसत्प्रमेयरचनाचातुर्यचिन्तामणिः
प्रख्यातः कविशेखराङ्कितपदः श्रीज्योतिरीशः कृती ॥ २ ॥
दृष्ट्वा मन्मथतन्त्रमीश्वरकृतं वात्स्यायनीयं मतं
गोणीपुत्रकमूलदेवरचितं बाभ्रव्यवाक्यामृतम्‌ ।
श्रीनन्दीश्वररन्तिदेवभणितं क्षेमेन्द्रविद्यागमं
तेनाकल्प्यत पञ्चसायक इति प्रीतिप्रदः कामिनाम्‌ ॥ ३ ॥
नायकलक्षणम्‌ ।
साचारः करुणामयः कृतमतिर्दाताऽवदाताशयः
काम्यः कामकलानिधिः सुवचनः स्त्रीणां मतः सुन्दरः ।
आढ्यो नीतिपटुः क्षमी च कुतुकी शूरः कुलीनो युवा
सङ्क्षेपादिह नायको निगदितः सङ्गीतशिक्षान्वितः ॥ ४ ॥
पीठमर्दलक्षणम्‌ ।
आचारे विनये नये च सुकृतौ तौर्यत्रिकेऽकृत्रिमः
शास्त्रे कौतुकशिल्पनाटकविधौ नानाकलाकौशले ।
ऊहापोहसमस्तनर्मघटने भावेङ्गितज्ञः पटु-
र्मन्त्रज्ञः स्थिरसौहृदः सुवचनः स्यात्पीठमर्दः सदा ॥ ५ ॥
पद्मिनीलक्षणम्‌ ।
सम्पूर्णेन्दुमुखी विलोलनयना पीनस्तनी दक्षिणा
मृद्वङ्गी विकचारविन्दसुरभिः श्यामाऽथ गौरद्युतिः ।
अल्पाहाररता विलासकुशला हंसस्वना मानिनी
लज्जालुर्गुरुदेवपूजनरता सा नायिका पद्मिनी ॥। ६ ॥
चित्रिणीलक्षणम्‌ ।
श्यामा पद्ममुखी कुरङ्गनयना क्षामोदरी वत्सला
सङ्गीतागमवेदिनी वरतनुस्तुङ्गस्तनी शिल्पिनी ।
विद्यालापरता मतङ्गजगतिर्माद्यन्मयूरस्वना
विज्ञेया कविशेखरप्रणयिनी चित्रस्वना चित्रिणी ॥ ७ ॥
शङ्खिनीलक्षणम्‌ ।
तन्वङ्गी कुटीलेक्षणा लघुकुचाभोगा मदावेशिनी
प्रायो दीर्घकचा स्वभावपिशुना कष्टोपभोग्या रते ।
पिङ्गा लोलगतिश्च घर्घररवा रक्ताम्बाराह्लादिनी
नानास्थाननखप्रदानरसिका सेयं मता शङ्खिनी ॥ ८ ॥
हस्तिनीलक्षणम्‌ ।
पीनस्वल्पतनुर्भृशं मृदुगतिः क्रूरा नमत्कन्धरा
स्तोकापिङ्गलकुन्तला पृथुकुचा लज्जाविहीनानना ।
बिम्बोष्ठी बहुभोज्यभोजनरुचिः कष्टैकसाध्या रते
गौराङ्गी करिदानगन्धिमदनस्रावा मता हस्तिनी ॥ ९ ॥
पद्मिन्यादीनां रतौ सुखकरास्थितयः ।
ब्रह्मास्येन्दुशराक्षिसङ्ख्यतिथयः ख्याता नलिन्या रते
पौलस्त्यास्यरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी ।
रुद्रानगतुरङ्गशम्भुतिथिषु स्याच्छङ्खिनी मोदिता
शेषाः स्युः सुरतोत्सवेषु करिणीजातेः स्त्रियाः प्रीतये ॥ १० ॥
इति जातिसमुद्देशः ।
चन्द्रकलानिरूपणम्‌ ।
अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो-
र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे ।
नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा-
मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ ११ ॥
सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके
नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये ।
गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ
वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम्‌ ॥ १२ ॥
चन्द्रकलायाः प्रदीपनविधिः ।
मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयो-
र्दन्तेनाधरपीडनं हृदि हतिर्मुष्ट्या च नाभौ शनैः ।
कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः
सीमन्ते लिखनं नखैरुरसिजौ गृह्णीत गाढं ततः ॥ १३ ॥
कुर्वीताविरतं मनोभवगृहे मातङ्गलीलायितं
जान्वङ्गुष्ठपदोरुगुल्फकलनं ह्यन्योन्यतः कामिनोः ।
इत्येवं कथितं प्रदेशकलनादिन्दोः कलादीपनं
कर्तव्यं च नरैर्न विस्तरभयादुक्तः प्रपञ्चोऽखिलः ॥ १४ ॥
पद्मिनीचन्द्रकलाप्रदीपनम्‌ ।
गाढालिङ्गनपूर्वकं कररुहैरालिख्य जङ्घास्थलीं
दत्त्वा सूक्ष्मनखान्नितम्बफलके पार्श्वे च पृष्ठोदरे ।
सीत्कारध्वनिजागरूकपुलकामाद्ये दिने पद्मिनी-
मित्थं चन्द्रकलाविदः स्ववशतां कामं नयेयुः स्त्रियम्‌ ॥ १५ ॥
आचुम्ब्याधरपल्लवं स्तनमुखे नेत्रालिके पार्श्वयो-
र्मूर्धान्ते जघनस्थलोरुफलके कृत्वा नखालेखनम्‌ ।
मर्षन्तो नखरैः पदाम्बुजयुगं सम्यक्कुरङ्गीदृशं
संसेव्याविरतं प्रबुद्धमदनां कुर्युर्द्वितीयादिने ॥ १६ ॥
श्लिष्ट्वा गाढतरं निपीड्य च कुचौ पीत्वा च दन्तच्छदं
वामोरौ करजक्षतं भुजलतामूले विशेषात्‌ पुनः ।
मायूराङ्घ्रिकमर्धचन्द्रछुरितप्रायान्नखानादरा-
द्दद्युर्बाह्यरतोपचारचतुराः प्रायश्चतुर्थ्यां तिथौ ॥ १७ ॥
बिम्बोष्ठं परिचुम्ब्य दक्षिणकरेणाकृष्य केशोच्चयं
स्वच्छन्देन विमृद्य चूचुकयुगं चुम्बन्प्रियां भावयेत्‌ ।
आमृश्यात्करजैः सखेलपुलकं भूयो नितम्बस्थलीं
पञ्चम्यां द्रवतां नयेत्कमलिनीमित्याह वात्स्यायनः ॥ १८ ॥
चित्रिण्याश्चन्द्रकलाप्रबोधनविधिः ।
चुम्बित्वाऽलि(ल)कमुन्मदः कररुहैरालिख्य वक्षोजकं
श्रोणीपृष्ठभुजाङ्घ्रिकर्णजघनस्थानोरुयुग्मस्थलीम्‌ ।
पाणिभ्यामुपगूहयन्‌ स्वरमणीं कान्तो दशम्यां तिथौ
कन्दर्पं प्रतिबोध्य चन्द्रकलया कुर्यान्निजां चित्रिणीम्‌ ॥ १९ ॥
श्लिष्ट्वा कन्धरकन्दलीं भुजलतापाशेन गाढं पुनः
पायं पायमजस्रमुत्पलदृशां वक्त्रारविन्दसावम्‌ ।
नाभीकण्ठनितम्बबिम्बनखरव्यापारपारङ्गमैः
षष्ठ्यां चन्द्रकलाकलापनिपुणैर्देया नखाः सर्वतः ॥ २० ॥
ग्रीवायां परिरभ्य गाढमसकृन्नाभिं नखैरालिखन्‌
दन्तौष्ठेन निपीडयन्कुचतटीं कण्ठे मनाक्‌ ताडयेत्‌ ।
सानन्दं स्मरमन्दिरे करिकरक्रीडायितं कुर्वता
नेतव्या तरुणी स्वकीयवशतां चण्डीतिथौ चित्रिणी ॥ २१ ॥
आलिङ्ग्य प्रसभं कपोलनयनश्रोणीश्रुतीश्चुम्बय-
न्स्थानेष्वेषु नखप्रदानकुशलो दत्त्वा नखान्निर्दयम्‌ ।
संदश्याधरपल्लवं क्रमवशादाकृष्य केशान्‌ वशे
चित्रां संविदधीत सीत्कृतवतीं भानोस्तिथौ नायकः ॥ २२ ॥
शङ्खिन्याश्चन्द्रकलाप्रदीपनविधिः ।
कक्षामुल्लसितैर्विलिख्य करजैरालिङ्ग्य दोर्भ्यां मुहु-
र्गाढं चोरजिसौ निपीड्य सुतरां विष्णोस्तिथौ चन्द्रवित्‌ ।
आचुम्बेच्च कपोलकण्ठगलकं मृद्गन्नुरोजद्वयं
कन्दर्पस्य तिथौ नखक्षतिवशाद्द्राक्‌ शङ्खिनीं द्रावयेत्‌ ॥ २३ ॥
व्यादष्टौष्ठपुटः कपोलनयनश्रोत्रं नखैरालिखन्‌
सान्द्रानन्दनिगूढकण्ठवलयां भानोस्तिथौ भामिनीम्‌ ॥ २४ ॥
आघातं नखरैश्च नाभिचरणग्रीवाकुचोरःस्थले
कृत्वाऽऽलिख्य च भूतनाथदिवसे कुर्यात्सुधीर्विह्वलाम्‌ ॥ २५ ॥
हस्तिन्याश्चन्द्रकलाप्रबोधनविधिः ।
आकण्ठं परिरभ्य दोर्लतिकया निष्पीय वक्त्राम्बुजं
कक्षान्तःस्तनमण्डलोदरतटीं चञ्चन्नखैरामृशन्‌ ।
क्षोणीभृत्तनयातिथावथ मुहुः कामालयं संस्पृश-
न्सन्दश्याधरपल्लवं ग्रहतिथौ कुर्याद्द्रुतां हस्तिनीम्‌ ॥ २६ ॥
सम्पूर्णेन्दुतिथौ परिक्षयदिने तस्यैव तुल्या तिथि-
स्तस्यामेव वशीकृता शशिकलासम्बोधनैः कामिनी ।
कामागारचुचूलिकासु करजैर्दन्तैश्च दन्तच्छदै-
राश्लेषैः परिचुम्बनैश्च विविधैरित्याह नन्दीश्वरः ॥ २७ ॥
पद्मिन्यादीनां रतिकालनिरूपणम्‌ ।
यामिन्याः कथितश्चतुर्थचरणः कालो नलिन्या रते
प्रारम्भप्रहरे प्रयाति सुखतां चित्रप्रिया चित्रिणी ।
शङ्खिन्याः समुदीरितः कविवरैर्यामस्तृतीयो रतौ
मातङ्गी द्रवतामुपैति नितरां नक्तंदिनस्यार्धयोः ॥ २८ ॥
सुखयति न पुमांसं पद्मिनी क्वापि रात्रौ
निधुवनमिति तस्यां नैव किञ्चित्प्रयोज्यम्‌ ।
शिशुरपि यदि कान्तां वासरे तामुपेया-
द्विकसति रवियोगात्सा हठात्पद्मिनीव ॥ २९ ॥
नारीणां सत्त्वसमुद्देशः ।
त्रिवलिवलितमध्या कम्बुकण्ठी विदग्धा
कमलसुरभिदेहा केतकीगर्भभव्या ।
शुचिचरितपवित्रा शीलसन्तोषयुक्ता
सुललितपिकवाणी स्यादियं देवसत्त्वा ॥ ३० ॥
बहुलचपलदृष्टिर्नृत्यगीतादिदक्षा
मधुरबहलसुगन्धा पुष्पमालानुरक्ता ।
शिशिरसुरभिमासक्रीडनप्रेमपात्री
भवति रुचिरमूर्तिः सैव गन्धर्वसत्त्वा ॥ ३१ ॥
गुरुकुचयुगभारा गौरदेहा नताङ्गी
तरुणहरिणनेत्रा कोपना वीतलज्जा ।
विविधमधुरवाक्या मत्स्यमांसानुरक्ता
मुनिभिरियमनर्घा यक्षसत्त्वा प्रदिष्टा ॥ ३२ ॥
गिरिविहरणविज्ञा रात्रिसञ्चारवीरा
मलिनपिशुनचित्ता कुत्सिताहारचेष्टा ।
विकृतवदनचन्द्रा कृष्णवर्णाऽतिखर्वा
मलिनवसनरक्ता कीर्तिता प्रेतसत्त्वा ॥ ३३ ॥
इति कविशेखरश्रीज्योतिरीश्वरकविरचिते पञ्चसायके जात्यादिसमुद्देशो नाम प्रथमः सायकः ।

द्वितीयः सायकः सम्पाद्यताम्

अथ द्वितीयः सायकः ।
रतभेदाः ।
आयामैः परिणाहकैश्च पुरुषाः लिङ्गैर्वराङ्गैः स्त्रियो
ज्ञातव्याश्च रसगृहारुणसमाख्याताङ्गुलैः सर्वतः ।
जात्या तेऽपि शशा वृषाश्च तुरगाः प्राज्ञैः स्मृतास्ता पुन-
र्मृग्यश्चा करिणीति विस्तरभयात्सङ्क्षिप्य निष्कृष्यते ॥ १ ॥
शशकहरिणपत्न्योर्गोतुरङ्ग्योस्तथैव
हयगजपतिनार्योरेकरूपं रतं स्यात्‌ ।
इह भवति नितान्तं प्रीतिरन्योन्ययोगा-
दनुमरणशक्यं स्त्री कथं स्वीकरोति ॥ २ ॥
मृगीवृषं चेद्वृषभीतुरङ्गमत्युच्चमेतद्द्वितयं वदन्ति ।
अश्वाशशं गोकरिणीसमुत्थं नीचद्वयं तुष्टिकरं न यूनोः ॥ ३ ॥
मृगीहयं हस्तिवधूशशं चेतत्युच्चनीचं सुरतं वदन्ति ।
प्रमाणभेदेऽपि न द्रवन्ति तस्मिन्न तृप्यन्ति नितम्बवत्यः ॥ ४ ॥
प्रोक्तरतानामुत्तममध्यमाधमत्वम्‌ ।
स्त्रीपुंसयोस्तुल्यरतं प्रशस्तं मध्यद्वयं मध्यममामनन्ति ।
अत्युच्चकं चाप्यतिनीचकं च निन्द्यं रतज्ञैः सुरतं प्रदिष्टम्‌ ॥ ५ ॥
प्रीतिः समा स्यात्सुरते समाख्ये नीचद्वये योषित एव तुष्टिः ।
अत्युच्चके वाऽप्यतिनीचके वा तुष्टिर्न पुंसां न च सुन्दरीणाम्‌ ॥ ६ ॥
वेगभेदात्सुरतभेदाः ।
प्रचण्डवेगोऽप्यथ मध्यवेगस्तथाऽपरः स्याल्लघुनामधेयः ।
पुंसस्तरुण्या उभयोरपीह त्रिधा कवीन्द्राः सुरतं वदन्ति ॥ ७ ॥
इदानीं शशादीनां स्वरूपं निरूप्यते ।
दीर्घाक्षाः स्थूलदेहा लघुसमदशना लम्बकर्णा सुवाचो
ग्रीवायां जानुदेशे करकमलतले कालिमानं वहन्तः ।
अल्पाहाराल्पशौचा दिनमधिशयिनः कान्तिमन्तो बलाढ्याः
क्रीडावन्तो विनीता लघुतरसुरताः पुण्यभाजः शशाः स्युः ॥ ८ ॥
सुचारुकेशो मृदुवाक्‌ सुवेशः सुदीर्घकण्ठश्चपलः सुनेत्रः ।
सुरक्तपाणिः समदन्तपङ्क्तिः सौभाग्ययुक्तः कथितो मृगोऽयम्‌ ॥ ९ ॥
स्फाराकाराः सदर्पाः सुरतरसकलालम्पटाः सुन्दराङ्गा
व्यूढोरस्काः सुरूपाः सुसमजठरिणो मांसला लोलनेत्राः ।
अत्यन्तप्रौढवाचोऽपरिलघुधृतयः क्रोधना मध्यवेगा
उक्षाणो लिङ्गमीषद्विततनवमितैरङ्गुलीकैर्वहन्ति ॥ १० ॥
कार्ये धृष्टा बलिष्ठाः सितशमदशनाः पीवरास्या वराक्षा
ग्रीवाबाहूरुदीर्घाः परहितनिरताः सात्त्विकाः स्निग्धवाचः ।
निर्लज्जाश्चारुशीलाः पृथुतरगतयश्चण्डसम्भोगरक्ता
अश्वा लिङ्गं वहन्तो युवतिजनमतं भानुसङ्ख्याङ्गुलीकम्‌ ॥ ११ ॥
मृग्यादीनां स्वरूपनिरूपणम्‌ ।
मृद्वङ्गी दीर्घनेत्रा वरबिसलतिकाकोमला दीर्घबाहुः
शोणाम्भोजाभिरामं वहति करयुगं ह्रस्वमध्या सुकेशी ।
सुश्रोणीः कम्बुकण्ठी पृथुकुचयुगला या वहत्यङ्गुलीकैः
षड्भिः कन्दर्पगेहं कथयति हरिणीं तामिह ज्योतिरीशः ॥ १२ ॥
व्यानिम्नोत्तुङ्गशीर्षा बहुतरकपिशस्थूलकेशप्रचारा
चञ्चन्नीलाम्बुजाक्षी सुललितवदना तुङ्गवक्षोजभारा ।
गम्भीरावर्तनाभिर्वलिभिरुपगता श्रोणिभारालसाङ्गी
सेयं रन्ध्राङ्गुलीकं वहति रतगुहारन्ध्रकं वै तुरङ्गी ॥ १३ ॥
स्थूलाङ्गी स्थूलगण्डा लघुतरनयना स्थूलनीलाल्पकेशा
बिम्बौष्ठी पीनबाहुः कठिनगुरुकुचा हीनपर्वाऽतिदुष्टा ।
निर्लज्जा रासभोक्तिस्तरलितवदना सर्वदा कष्टसाध्या
निर्दिष्टा हस्तिनीयं वहति रविसमैरङ्गुलैर्गुह्यदेशम्‌ ॥ १४ ॥
अथ स्त्रीणामवस्थाविशेषाः कथ्यन्ते ।
षोडशवर्षवयस्कां बालामित्यालपन्ति धीमन्तः ।
विंशात्तरुणीं त्रिंशात्प्रौढां पञ्चाशतो वृद्धाम्‌ ॥ १५ ॥
बाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवे-
दालोके सुखमातनोति तरुणी सम्भोगलीलाविधौ ।
आलोकेऽपि सुखायते सरभसं प्रौढा तमिस्रेऽङ्गना
वृद्धा जीवितहारिणी न कुरुते कुत्रापि सौख्यं मनाक्‌ ॥ १६ ॥
अथ देशविशेषात्‌ स्त्रीस्वरूपं निरूप्यते ।
रूक्षाङ्गी बहुवर्णिनी चलमतिर्गीतप्रिया चाटुला
शैलाम्भोनिधिपार्श्वदेशवनिता प्रायो भवेदीदृशी ।
अम्भोदागमपुष्पमाससमये सेव्या पुनः प्रीणिता
गुर्वाहारसुगन्धिमाल्यवसनस्निग्धाङ्गरागादिभिः ॥ १७ ॥
गूढग्रन्थिरहर्निशं हि सकले गात्रे वहप्यच्छता-
मम्भोजप्रसवारुणोत्तमकरा शीतालयप्रेयसी ।
सौराष्ट्री च कलिङ्गदेशयुवतिः कामं भवेत्पित्तला
हेमन्ते शिशिरे नरैरविरतं सेव्या यथाकाङ्क्षया ॥ १८ ॥
ज्ञेया कोकिलकाकलीकलरवा मेदस्विनी शीतला
निद्रालुश्च शिरीषकोमलतनुः स्निग्धानना श्लेष्मला ।
वङ्गश्रीहटकामरूपतरुणी शीतादिना शङ्किता
गन्तव्या शरदि प्रकृष्टमदना ग्रीष्मे नरैरादृता ॥ १९
शुचिचरितविचित्रा चित्रसम्भोगमित्रा
नखदशनविरक्ता शिल्पशिक्षानुरक्ता ।
स्थिरमतिनिजबन्धुः कामसर्वस्वसिन्धु-
र्भवति रुचिरवेषा कामिनी मध्यदेशा ॥ २० ॥
करकुचकरजाताश्लेषविन्यासदक्षा
सकलसुरतबन्धुर्ज्ञानवैदग्ध्यदक्षा ।
नलघुनगुरुवेगा प्रायशः कामरक्ता
रमयति मधुराल्पं सुन्दरी तैरभुक्ती ॥ २१ ॥
मृदुवचनविभागा कोमलानङ्गभागा
विगतरमणनी(भी)तिः कोमलानङ्गगीतिः ।
द्रवति झटिति कान्ता चित्रसम्भोगदक्षा
रमयति किल कौली कीर्तिता वङ्गीगौडी ॥ २२ ॥
करतलहतितुष्टा बाह्यसम्भोगहृष्टा
चिरनिधुवनसाध्या मालवी धूर्तवाक्या ।
सुखयति सुखवेगा व्यञ्जितानङ्गरागा
चपलपिशुनशीला स्यादियं चोलबाला ॥ २३ ॥
कुवलयदलवर्णा चारुताटङ्ककर्णा
चकितहरिणनेत्रा फुल्लराजीववक्त्रा ।
लघुनिधुवनरक्ताऽकष्टसम्भोगसक्ता
सुललितगतिरेषा गुर्जरी चारुवेषा ॥ २४ ॥
अलसवलितदृष्टिर्दिव्यरूपाङ्गयष्टिः
कठिनमदनवेगा दुःखसाध्या प्रयोगे ।
विरमति सुरतान्ते कोपमायाति कान्ते
विविधपुरुषलोला सैन्धवी दुष्टशीला ॥ २५ ॥
पुलककरजदात्री दुष्टवाक्याभिधात्री
विषमसुरतपात्री निश्चितं कालरात्री ।
इति भवति पुरन्ध्री कोशलावन्तिका स्त्री
कवलयति रतार्ता श्रूयते पूर्ववार्ता ॥ २६ ॥
पिकवरमृदुवाचः कोमलाङ्ग्यः सुरम्या
व्यपगतभयलज्जाः साहसिन्यः स्वतन्त्राः ।
लघुनिधुवनसाध्याश्चीनसौवीरभेद-
द्रविडमलयजाताः सुन्दराङ्ग्यस्तरुण्यः ॥ २७ ॥
सकलसुरतदक्षा सिद्धिसौभाग्यवश्या
दशनवसनपानप्रीतिभाजः सलज्जाः ।
करजलिखनदक्षाश्चण्डवेगाभिरम्याः
कुसुमसुरभयः स्युर्मद्रतैलङ्गनार्यः ॥ २८ ॥
सुरतसविमर्दप्रेमवत्यः प्रचण्डाः
करजदशनकेशाश्लेषसञ्ज्ञाविहीनाः ।
सहजमलिनचित्ताः पौण्ड्रकाम्बोजजाताः
करतललयतुष्टाः कामरूपाङ्गनाः स्युः ॥ २९ ॥
गाढं संश्लिष्य कण्ठे लिखति कररुहैः सर्वतः कान्तदेहं
केशेष्वाकृष्य चुम्बत्यधरमविरतं मुष्टिघातं ददाति ।
तृप्तिं नो याति शीघ्रं द्रवति न च रते चण्डवेगा प्रगल्भा
ज्ञातव्या पण्डितेन्द्रैरतिकलितरतिर्लाटकर्णाटनारी ॥ ३० ॥
दुष्टा दुर्गन्धदेहाः पशुसमसुरताश्चुम्बनश्लेषहीनाः
सेर्ष्या म्लेच्छाङ्गनाः स्युर्लघुरतनिरताः पार्वतीयाश्च नार्यः ।
काश्मीराभीरगन्ध्याः सकलरसकलामोददक्षा नितान्तं
साध्या देशानुसारादिह पटुमतिभिर्योषितः सर्वदैव ॥ ३१ ॥
जातेस्तत्त्वं समस्तं निखिलशशिकलाबोधनं सत्त्ववृत्तिं
मृग्यादीनां वशत्वं मदनरसकलाकौतुकं चाप्यशेषम् ।
इत्थं यः कामिनीनां कलयति चरितं देशसात्म्येन सम्य-
ग्यावज्जीवं स तस्याः प्रभवति हृदये प्राणनाथः सुखाय ॥ ३२ ॥
योनिभेदनिरूपणम्‌ ।
स्पर्शेन पङ्कजसमा तरुणीजनाना-
मभ्यन्तरे च गुटिकासमदेशका च ।
योनिर्भवेदथ वलिप्रकारावकीर्णा
गोजिह्विकासुखरकर्कशगर्भदेशा ॥ ३३ ॥
अत्युत्तमा प्रकथिता प्रथमा कवीन्द्रै-
र्मध्या च मध्यमविधा किल सम्प्रदिष्टा ।
शेषद्वयं मदनकेलिकलारसज्ञै-
र्निन्द्यं सदैव कथितं सुरतोत्सवेषु ॥ ३४ ॥
वह्निर्न शान्तिमुपयाति कदाऽपि काष्ठै-
र्नाम्भोनिधिर्विरमति प्रचुरैः पयोभिः ।
नाप्यन्तको जगति जन्तुभिरेति तोषं
वामाऽपि नैव पुरुषैः खलु याति तृप्तिम्‌ ॥ ३५ ॥
तस्मान्नरेण रतिरङ्गविचक्षणेन
मायामुपास्य सकलां स्वशरीरसाध्याम्‌ ।
तासां मनोहरणमेव परं विधेयं
नो वेद कोऽपि हृदयं खलु कामिनीनाम्‌ ॥ ३६ ॥
प्रीतिभेदनिरूपणम्‌ ।
स्रक्चन्दनाम्बरमनोहरभक्ष्यभोज्यै-
र्नानाविधैरुपचिता विषयैः सदैव ।
प्रीतिः स्मृता विषयजेति कविप्रवीरैः
सादृश्ययोगसुभगा कथिता सदैव ॥ ३७ ॥
आखेटशिल्पसुरपूजनकेलिरङ्ग-
सङ्गीतसेवनविधावुपचीयते या ।
अभ्यासकौशलवशेन कृशोदरीणा-
माभ्यासकी निगदिता कविभिः पुराणैः ॥ ३८ ॥
स्त्रीणां रागविनाशहेतवः ।
दारिद्रदुःखभयविक्लवमानरोगै-
रुद्वेगकोपतनुतादिभिरीश्वराणाम्‌ ।
रागं त्यजन्ति वनिता इह विस्तरस्य
भीत्या न चास्य कथितः सकलो विवर्तः ॥ ३९ ॥
इति श्रीकविशेखरज्योतीश्वरविरचिते पञ्चसायके द्वितीयः सायकः ।

तृतीयः सायकः सम्पाद्यताम्

अथ तृतीयः सायकः ।
देहदौर्गन्ध्यहरणयोगाः ।
प्रागङ्गरागः पुरुषेण कार्यः स्रिया च सम्भोगसुखाय गात्रे ।
तस्मादहं गन्धविधानमादौ विलासिनः सर्वमुदीरयामि ॥ १ ॥
हरीतकीलोध्रमरिष्टपत्रं सप्तच्छदो दाडिमकल्कलं च ।
एषोऽङ्गनायाः कथितः कवीन्द्रैः शरीरदौर्गन्ध्यहरः प्रलेपः ॥ २ ॥
हरीतकीचन्दनमुस्तनागैरुशीरलोध्रामयरात्रितुल्यैः ।
स्त्रीपुंसयोर्घर्मजगात्रगन्धं विनाशयत्याशु विलेपनं च ॥ ३ ॥
हरीतईश्रीफलमुस्तयुक्तैर्बिम्बीफलैः पूतकरञ्जबीजैः ।
कक्षादिदौर्गन्ध्यमतिप्रभूतं विनाशयत्याशु हठेन योगः ॥ ४ ॥
(सचन्दनोशीरकबिल्वपत्रैः कोलाक्षमज्जागुरुनागपुष्पैः ।
लिप्त्वा शरीरं प्रमदा जवेन चिरप्ररूढं विनिहन्ति गन्धम्‌ ॥ ५ ॥
सकेसरोशीरशिरीषलोघ्रैश्चूर्णीकृतैरङ्गविलेपनेन ।
ग्रीष्मे नराणां कदाचिदेव घर्मस्रुतिः स्यादिति भोजराजः ॥ ६ ॥
महापरिमलं तैलम्‌ ।
आदौ बिल्वदलं ततो मरुवकं पुष्पाण्यशोकस्य तु
प्रत्यादित्यमजस्रमेव तिलजे तैले घटे निःक्षिपेत्‌ ।
केतक्यां कुसुमानि चेह मुहुशः शेषे क्षिपेदादरा-
दित्थं कार्यमिदं महापरिमलं तैलं नरैः सिद्धये ॥ ७ ॥
स्नानीयसुगन्धिनिरूपणम्‌ ।
स्वर्णाम्बुदोशीरमिशीयुतानां पथ्यान्वितानां च विलेपनेन ।
स्नात्वा नरः सौरभमेव मासाच्चैकण्यमाप्नोति शिरोरुहाणाम्‌ ॥ ८ ॥
पथ्यारसालामलकीफलानां सजम्बुजीमूतदलामयानाम्‌ ।
मांसीयुतानां परिलेपनेन स्नायान्नरः सौरभकान्तिवृद्ध्यै ॥ ९ ॥
देहसौरभ्यकरा योगाः ।
हरीतकीतोयदतुल्यभागौ वनेचरस्यापि चतुर्थभागः ।
तदर्थभागः कथितो नखस्य स्यादेष गन्धो मदनप्रकाशः ॥ १० ॥
एलाशटीपत्रकचन्दनानि तोयाभयाचन्द्रघनामयानि ।
सुसौरभोऽयं सुरराजयोग्यः ख्यातः सुगन्धो नरमोहनार्थः ॥ ११ ॥
ऐणेयकाश्मीरघनाम्बुलोहनिशाकरोशीरसमानि पिष्ट्वा ।
लेपः प्रियोऽयं सुरमानवानामुदीरितः पूर्वकवीन्द्रवर्यैः ॥ १२ ॥
उशीरकृष्णागुरुचन्दनानि पत्राम्बुतुल्यानि समानि पिष्ट्वा ।
एतानि गात्रेषु विलासिनीनां श्रीखण्डतुल्यं प्रथयन्ति गन्धम्‌ ॥ १३ ॥
सर्वोत्तमसुगन्धयोगाः ।
जातीकर्कटरक्तचन्दनघनश्रीवासशैलेयकं
कस्तूरीकनकामतङ्गकुसुमैः स्थौणेयकैः संयुतम्‌ ।
एतानीन्दुयुतानि पर्णजरसैः पिष्टोऽङ्गरागः शुभः
कार्यो गन्धकलाकलापकुशलैः क्षोणीन्द्रयोग्यः सदा ॥ १४ ॥
पथ्या भागचतुष्टयं जलमुचो भागैकमात्रं मतं
व्याधेर्भागचतुष्टयं च शशिनण स्थौणेयभागद्वयम्‌ ।
भागाः पञ्च शिलोद्भवस्य कथिता भागो नखस्यापि च
कस्तूरीदलसञ्ज्ञकं निगदितं सौरभ्यविज्ञैरिदम्‌ ॥ १५ ॥
पथ्याभागचतुष्टयं जलमुचो भागैकमात्रं सदा
श्रीखण्डागुरुजातिकामृगमदस्योक्ताश्च भागास्त्रयः ।
मांसीपद्मतुषारवालकसमैः सम्यक्तया पेषितः
सर्वैरेभिरिहोत्तमः प्रकथितः सौरभ्यगर्भाभिधः ॥ १६ ॥
मुखवासयोगाः ।
रसालजम्बूफलगर्भसारः सकर्कटो माक्षिकसंयुतश्च ।
स्थितो मुखान्तः पुरुषस्य रात्रौ करोति सौरभ्यसुखं मुखस्य ॥ १७ ॥
गुडत्वगेलानखजातिकाह्वैः स्वर्णान्वितैः क्षुद्रवटी विधेया ।
ताम्बूलगर्भा दिवसे च रात्रौ करोति पुंसां मुखवासमिष्टम्‌ ॥ १८ ॥
यः कुष्ठचूर्णं मधुना घृतेन पीकाक्षबीजान्वितमत्ति नित्यम्‌ ।
मासैकमात्रेण मुखं तदीयं गन्धायते केतकिपुष्पतुल्यम्‌ ॥ १९ ॥
वाजीकरणसमुद्देशः ।
बलेन नारी परितोषमेति न हीनवीर्यस्य कदाऽपि सौख्यम्‌ ।
अतो बलार्थं रतिलम्पटस्य बीजाभिवृद्धिं प्रथमं विदध्यात्‌ ॥ २० ॥
चूर्णं विदार्याः स्वरसेन तस्याः सुभावितं भास्कररश्मिजालैः ।
मध्वाज्यसम्मिश्रितमाशु लीढ्वा दश स्त्रियो गच्छति निर्विशङ्कः ॥ २१ ॥
भूयो विभाव्यामलकस्य चूर्णं रसेन तस्यैव सिताज्यमिश्रम्‌ ।
सक्षौद्रमालेढि निशामुखे यो नूनं स वृद्धस्तरुणत्वमेति ॥ २२ ॥
शतावरीगोक्षुरवानरीणां गोरक्षामातङ्गबलाबलानाम्‌ ।
क्षीरेण चूर्णानि निपीय रात्रौ मथ्नाति दर्पं तरुणीजनस्य ॥ २३ ॥
यो वर्तकीलावकपिञ्जलानां मांसं तथा वेश्मविहङ्गमस्य ।
घृतेन सिद्धं सह सैन्धवेन महाबलः स्यादुपभुज्य नूनम्‌ ॥ २४ ॥
शतावरीगर्भमिदं ससर्पिः पचेत्पयोभिर्दशभागयुक्तैः ।
सितोपलाभ्यां मधुसम्प्रयुक्तं नास्माद्द्वितीयं भुवि दृष्टमन्यत्‌ ॥ २५ ॥
सितपिकतरुबीजं तण्डुलाः षष्टिकानां
सघृतमधुसमेतं प्रत्यहं योऽवलेढि ।
जठरकुहरमध्ये याति यावन्न पाकं
रमयति कृशदेहोऽप्यङ्गनानां समूहम्‌ ॥ २६ ॥
मांसीं विदारीं च तथोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम्‌ ।
पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम्‌ ॥ २७ ॥
लघुशाल्मलिमूलेन तालमूलीं सुचूर्णिताम्‌ ।
सर्पिषा पयसा पीत्वा रतौ चटकवद्भवेत्‌ ॥ २८ ॥
वृद्धशाल्मलिमूलस्य रसं शर्करया पिबेत्‌ ।
एतत्प्रयोगात्सप्ताहाज्जायते रेतसोऽम्बुधिः ॥ २९ ॥
योनिगाढीकरणसमुद्देशः ।
प्रौढाङ्गनाया नवसूतिकायाः श्लथं वराङ्गं न सुखाय यूनाम्‌ ।
तस्मान्नरैर्भेषजतो विधेया गाढक्रिया मन्मथमन्दिरस्य ॥ ३० ॥
निशाद्वयं पङ्कजकेसरं च निष्पिष्य देवद्रुतमतुल्यभागम्‌ ।
अनेन लिप्तं मदनातपत्रं प्रयाति सङ्कोचमलं युवत्याः ॥ ३१ ॥
सधातुकीपुष्पफलत्रिकेण जम्बुत्वचा सारघसंयुतेन ।
लिप्त्वा वराङ्गं मधुकेन तुल्यं वृद्धाऽपि कन्येव भवत्पुरन्ध्री ॥ ३२ ॥
पिकाक्षबीजेन मनोजगेहं विलिप्य योषा नियमं चरन्ती ।
हठेन गाढं लभते वराङ्गं दृष्टो नरैरेष सदैव योगः ॥ ३३ ॥
या शक्रगोपं स्वयमेव पिष्ट्वा विलिम्पति स्त्री कुसुमेषुवेश्म ।
आह स्म तस्याः कठिनं च गाढं भवेच्च नात्रास्ति विकल्पशङ्का ॥ ३४ ॥
इन्दीवरव्याधिवचाकणानां तुरङ्गगन्धायुगयामिनीणाम्‌ ।
लेपेन नार्याः स्मरवेश्मरन्ध्रं सङ्कोचयत्याशु हठेन योगः ॥ ३५ ॥
मदनकघनसारैः क्षौद्रतुल्यैर्वराङ्गं
शिथिलितमपि यस्याः पूरितं भूय एव ।
भवति कठिनमुच्चैः कर्कशं कामिनीना-
मिति निगदति योगं रन्तिदेवो नरेन्द्रः ॥ ३६ ॥
द्रावणसमुद्देशः ।
यद्यप्यष्टगुणाधिको निगदितः कामोऽङ्गनानां सदा
नो याति द्रवतां तथाऽपि झटिति व्यायामिनां सङ्गमे ।
तस्माद्भेषजसम्प्रयोगविधिना सङ्क्षेपतो द्रावणं
किञ्चित्पल्लवयामि पङ्कजदृशां प्रत्यायकं कामिनोः ॥ ३७ ॥
सिन्दूरचिञ्चाफलमाक्षिकाणि तुल्यानि यस्या मदनातपत्रे ।
क्षिप्तानि वै सा पुरुषप्रसङ्गात्प्रागेव रेतःस्रुतिमातनोति ॥ ३८ ॥
घोषारजः क्षौद्रसमन्वितं तु क्षिप्तं यदीये स्मरयन्त्रगेहे ।
द्रुता भवेत्सा हठतो हि नारी दृष्टः सदाऽयं किल योगराजः ॥ ३९ ॥
अगस्तिपत्रद्रवसंयुतेन मध्वाज्यसम्मिश्रितटङ्कणेन ।
लिप्त्वा ध्वजं यो रमतेऽङ्गनां यां सा शुक्रमावर्षति शीघ्रमेव ॥ ४० ॥
सरोध्रधत्तूरकपिप्पलीनां क्षुद्रोषणक्षौद्रविमिश्रितानाम्‌ ।
लेपेन लिङ्गस्य करोति रेतःस्रुतिं विपक्षप्रमदाजनस्य ॥ ४१ ॥
तुषजलपरिमिश्रैर्बीजपूरस्य मूलै-
र्दिवसकरमयूखैर्मर्दितैः कामवेश्म ।
द्रवति झटिति लिप्तं भेषजस्यास्य योगा-
दिति वदति नरेन्द्रो रन्तिदेवः कवीन्द्रः ॥ ४२ ॥
लिङ्गस्थूलीकरणसमुद्देशः ।
सकुष्ठमातङ्गबलाबलानां वचाश्वगन्धागजपिप्पलीनाम्‌ ।
तुरङ्गशत्रोर्नवनीतयोगाल्लेपेन लिङ्गं मुशलत्वमेति ॥ ४३ ॥
सरोध्रकाशीशतुरङ्गगन्धामातङ्गगन्धापरिपाचितेन ।
तैलेन वृद्धिं खलु यान्ति शीघ्रं वराङ्गकर्णस्तनमेहनानि ॥ ४४ ॥
अथ ध्वजदृढीकरणसमुद्देशः ।
हयारिपत्रं नवनीतपिष्टं वचाबलानागबलामयैश्च ।
लेपेन लिङ्गं सहसैव पुंसां लोहोपमं स्यादिति दृष्टमेतत्‌ ॥ ४५ ॥
अथ वीर्यस्तम्भनसमुद्देशः ।
क्षीरेण बस्तस्य च बद्धमूलं लज्जालुमूलं स्वयमेव पिष्ट्वा ।
यस्तु स्वपादौ परिलिप्य शेते रेतो न तस्य स्रवते कदाचित्‌ ॥ ४६ ॥
श्वेतेषुपुङ्खाख्यतरोः फलानि क्षीरेण पिष्ट्वा वटपादपस्य ।
करञ्जबीजोदरमध्यगानि बध्नन्ति वीर्यं वदने धृतानि ॥ ४७ ॥
श्वेतेषुपुङ्खाचरणं गृहीत्वा पुष्यार्कयोगे पुरुषस्य कट्याम्‌ ।
कुमारिकाकर्तितसूत्रकेण बद्धं न यात्याशु मनोजजीरम्‌ ॥ ४८ ॥
आदाय कृष्णेतरकाकजङ्घामूलं सिताम्भोरुहकेशरं च ।
क्षौद्रेन पिष्ट्वा परिलिप्तनाभेः स्तम्भं प्रयात्याशु नरस्य बीजम्‌ ॥ ४९ ॥
अथ वशीकरणतिलकसमुद्देशः ।
मञ्जिष्ठतोयदवचासितभानुमूलैः
स्वीयाङ्गशोणितयुतैः समकुष्ठकैश्च ।
कृत्वा ललाटफलके तिलकं कृतज्ञो
लोकत्रयं वशयति क्षणमात्रकेण ॥ ५० ॥
अथ वशीकरणाञ्जनसमुद्देशः ।
देवीमहोत्सवदिने किल कज्जलं यत्‌
सिद्धार्थकस्य सुरसेन नरोत्तमाङ्गे ।
निष्पातितं नरवरेण निशि श्मशाने
तन्नेत्रगं भुवनमेव वशं करोति ॥ ५१ ॥
अथ वशीकरणचूर्णसमुद्देशः ।
कुष्ठोत्पलं मधुकरस्य च पत्रयुग्मं
मूलं तथा तगरजं सितकाकजङ्घा ।
यस्याः शिरोगतमिदं विहितं तु चूर्णं
दासीभवेज्झटिति सा तरुणी न चित्रम्‌ ॥ ५२ ॥
अथ वशीकरणलेपनसमुद्देशः ।
सव्येन पाणिकमलेन रतावसाने
यो रेतसा निजभवेन विलासदक्षः ।
वामं विलिम्पति पदं सहसैव यस्या-
स्तस्यैव सा भवति नात्र विकल्पभावः ॥ ५३ ॥
सम्भोगशेषसमये निजकान्तमेढ्रं
या कामिनी स्पृशति वामपदाम्बुजेन ।
तस्याः पतिः सपदि विन्दति दासभावं
गोणीसुतेन कथितः किल यागराजः ॥ ५४ ॥
सिन्धूत्थमाक्षिककपोतमलानि पिष्ट्वा
लिङ्गं विलिप्य तरुणीं रमते नरो यः ।
साऽन्यं प्रयाति पुरुषं न कदाऽपि कामं
दासीभवेदतिमनोहरदिव्यमूर्तिः ॥ ५५ ॥
भल्लूकमेढ्रघनसारमधूनि पिष्ट्वा
लिप्तध्वजो निधुवनं विदधीत यस्याः ।
साऽऽह्लादिनी कुसुमसायकसन्नताङ्गी
वश्या भवेच्चिरतरं न हि संशयोऽत्र ॥ ५६ ॥
गोरोचनाशिशिरदीधितिशम्भुबीज-
काश्मीरचन्दनयुतैः कनकद्रवेण ।
लिप्तध्वजः परिरमत्यबलां नरो य-
स्तस्याः स एव हृदये मुकुटत्वमेति ॥ ५७ ॥
अथ वशीकरणधूपसमुद्देशः ।
शृङ्गीवचायुवतिसर्जरसं समानं
कृत्वा त्रुटिं मलयजं च षडेव मिश्रम्‌ ।
यो धूपयेन्निजगृहं वसनं शरीरं
तस्यापि दास इव मोहमुपैति लोकः ॥ ५८ ॥
अथ वशीकरणमन्त्रसमुद्देशः ।
मदमदपदमादौ मादयेति द्विवारं
तदनु च लिखनीयं सौख्यदं ह्रीं च तस्मात्‌ ।
अथ च पदमुपान्ते नामरूपादिसञ्ज्ञो
भवति मदनमन्त्रः स्वाहया संयुतोऽयम्‌ ॥ ५९ ॥
'ॐ मद मद मादय मादय ह्रीं अमुकीं वशमानय स्वाहा'
शतशतपरिजापात्‌ स्यादयं सिद्धिदाता
दशदशकुसुमानां लोहितानां च होमात्‌ ।
इह तु सकलकार्यं वामहस्तेन कार्य-
मुपदिशति समासाज्ज्योतिरीशः स्वरूपम्‌ ॥ ६० ॥
अस्य मन्त्रस्य दशसहस्त्रसङ्ख्याकोन्मितो जपः, रक्तवर्णैः प्रसूनैर्मधुना घृतेन च होमः करणीयः । सर्वं वामहस्तेन कर्तव्यम् । अथ ध्यानम्‌-
कनकरुचिरमूर्तिः कुण्डलाकृष्टचापो
युवतिहृदयमध्ये निश्चलारोपिताक्षः ।
इति मनसि मनोजं ध्याययेद्यो जपस्थो
वशयति स समस्तं भूतलं मन्त्रशक्त्या ॥ ६१ ॥
अथ चामुण्डमन्त्रः ।
चामुण्डे प्रथमं जयेति कथितं सम्बोधनं मोहय
ज्ञातव्यं वशमानयेति च पदं साध्यं द्वितीयायुतम्‌ ।
स्वाहान्तः प्रणवादिरेष प्रथितस्तन्त्रे महामोहनः
सन्मन्त्रः कविशेखरेण कथितो नास्माद्द्वितीयो भुवि ॥ ६२ ।
'ॐ चामुण्डे जय चामुण्डे मोहय अमुकीं वशमानय स्वाहा' इति मन्त्रः । अस्य मन्त्रस्य जप एकलक्षमितः, पलाशकुसुमैर्होमः दशांशं, सर्वं वामहस्तेन कर्तव्यम्‌ । अथ चामुण्डाया ध्यानम्‌-
दंष्ट्राकोटिविसङ्कटा सुवदना सान्द्रान्धकारे स्थिता
खट्वाङ्गासिनिगूढदक्षिणकरा वामे सपाशं शिरः ।
श्यामा पिङ्गलमूर्धजा भयकरी शार्दूलचर्माम्बरा
चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः ॥ ६३ ॥
अथ विश्वेश्वरीमन्त्रः ।
ओङ्कारः प्रथमं नमो नम इति प्रोक्तं च तस्मात्पदं
चामुण्डे परिकीर्तितं हिलि हिलि ज्ञेया च सञ्ज्ञा ततः ।
ज्ञातव्यं तु समानयेति च पदं सन्मन्त्रिणां सम्मतो
मन्त्रोऽयं कविशेखरेण कथितः ख्यातः सदा सिद्धिदः ॥ ६४ ॥
'ॐ नमो नमश्चामुण्डे हिली हिलि अमुकीं वशमानय स्वाहा'
अस्य मन्त्रस्य जप एकलक्षपरिमितः, तद्दशांशः पलाशकुसुमैर्होमः करणीयः, सर्वं वामहस्तेन कर्तव्यम् ॥
अथविश्वेश्वरीध्यानम्‌ ।
वज्रासक्तशरासना त्रिनयना सव्येतरेणाङ्कुशं
वामेनापि करेण पाशमुरसि न्यस्तोत्तमाङ्गस्रजा ।
व्यामुक्तोरुकचा करालवदना वह्निप्रभा मध्यगा
ध्येया जापविधौ नरैरिति सदा विश्वेश्वरी सिद्धये ॥ ६५ ॥
अथ पद्मिनीवशीकरणमन्त्रः ।
'ॐ कामेश्वर ! मोहय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण मधुमिश्रितजातिकुसुमसहितं ताम्बूलमादित्यदिने सहस्रवारमभिमन्त्रितं पद्मिन्यै दातव्यम्‌ । पद्मिनी वश्या भवति ॥
अथ चित्रिणीवशीकरणमन्त्रः ।
'ॐ पच पच ॐ विहङ्गम विहङ्गम ॐ कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण रम्भामूलजलभावितजातीफलमिलितताम्बूलमादित्यदिने पञ्चशतवारमभिमन्त्रितं चित्रिण्यै दातव्यम्‌ । चित्रिणी वश्या भवति ॥
अथ शङ्खिनीवशीकरणमन्त्रः ।
'ॐ हर हर ॐ पच पच कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण तरगमूलं श्रीफलञ्चादित्यवारे अष्टोत्तरशतवारमभिमन्त्रितं शङ्खिन्यै दातव्यम्‌ । सा वश्या भवति ॥
अथ हस्तिनीवशीकरणमन्त्रः ।
'ॐ चिरि चिरि वशं कुरु कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण आदित्यदिने क्षौद्राक्तौ कपोतभ्रमरपक्षौ ताम्बूलदले विन्यस्य अष्टोत्तरशतमभिमन्त्रितं कृत्वा हस्तिन्यै देयम्‌ । हस्तिनी वश्या भवति ॥
अथ अनिच्छाहरणोपायनिरूपणम्‌ ।
क्षीरोदनं द्विजवराय पुरा प्रदद्यात्‌
पुष्योद्धृतं सितबलाचरणं कुमार्या ।
पिष्टं प्रदत्तमिति वैरकृतामनिच्छां
निःसारयेदिह मुहुर्विदितप्रभावः ॥ ६६ ॥
अथ स्तनोत्थापनसमुद्देशः ।
मातङ्गकृष्णामयवाजिगन्धा वचायुताः पर्युषिताम्बुमिश्राः ।
हयारिपत्रीनवनीतयोगात्‌ कुर्वन्ति पीनं कुचकुम्भयुग्मम्‌ ॥ ६७ ॥
वसा भुजङ्गस्य हयारिपत्रं कोलस्य मेदः समभागयुक्ताः ।
वक्षोजकुम्भं मदिरायताक्ष्याः कुर्वन्ति पीनं सकलं हठेन ॥ ६८ ॥
तैलं हठाद्दाडिमकल्कसिद्धं सिद्धार्थजं लेपनतो नितान्तम्‌ ।
नारीस्तनौ चारुतरौ सुपीनौ कुर्यादसौ योगवरः सदैव ॥ ६९ ॥
श्रीपर्णिकाया रसकल्कसिद्धं तिलोद्भवं तैलवरं प्रदिष्टम्‌ ।
प्लोतेन वक्षोजयुगे प्रदेयं प्रयाति वृद्धिं पतितोऽपि नार्याः ॥ ७० ॥
योनिसंस्कारसमुद्देशः ।
प्रक्षालयेन्निम्बकषायनीरैर्निशाज्यकृष्णागुरुगुग्गुलूनाम्‌ ।
धूपेन योनिं निशि धूपयित्वा नारी प्रमोदं विदधाति भर्तुः ॥ ७१ ॥
जातीप्रसूनैः सितसर्षपस्य तैलं पचेल्लघ्वनले प्रकामम्‌ ।
अभ्यङ्गयोगेन सदैव योनौ सौभाग्यमाप्नोति रते पुरन्ध्री ॥ ७२ ॥
अथ रोमशातनसमुद्देशः ।
भुजङ्गचूर्णं कटुतैलमध्ये सप्ताहमादित्यकरे निधेयम्‌ ।
तत्तैलयोगेन विलासिनीनां नश्यन्ति रोमाणि समूलमेव ॥ ७३ ॥
पलाशभस्मान्विततालचूर्णैः रम्भाम्बुमिश्रैरुपलिप्य भूयः ।
कन्दर्पगेहे मृगलोचनानां रोमाणि रोहन्ति कदापि नैव ॥ ७४ ॥
रम्भाजले सप्तदिनं विभाव्य भस्मेह कम्बोर्मसृणं च पश्चात्‌
तालेन युक्तं च विलेपनेन रोमाणि निर्मूलयति क्षणेन ॥ ७५ ॥
अथ पुष्पजननसमुद्देशः ।
ज्योतिष्मतीकोमलपत्रमग्नौ भृष्टं जपायाः कुसुमेन पिष्टम्‌ ।
गृहाम्बुना पीतमिदं युवत्या करोति पुष्पं स्मरमन्दिरस्य ॥ ७६ ॥
अथ गर्भसाधारणसमुद्देशः ।
तुरङ्गगन्धाश्रुतवारिसिद्धमाजं पयः स्नानदिने निपीय ।
प्राप्नोति गर्भं नियमं चरन्ती वन्ध्याऽपि नूनं पुरुषप्रसङ्गात्‌ ॥ ७७ ॥
पुष्योद्धृतं लाक्ष्मणमेव मूलं भर्त्रा निपिष्टं सघृतं च पीतम्‌ ।
क्षीरौदनं प्राश्य पतिप्रसङ्गाद्गर्भं विधत्ते तरुणी न चित्रम्‌ ॥ ७८ ॥
या बीजपूरद्रुममूलमेकं क्षीरेण सिद्धं हविषा विमिश्रम्‌ ।
ऋतौ निपीय स्वपतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते ॥ ७९ ॥
अथ गर्भसंस्थापनसमुद्देशः ।
कशेरुशृङ्गाटकजीवनाख्यपयोधरैरण्डशतावरीभिः ।
सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम्‌ ॥ ८० ॥
अथ सुखप्रसवसमुद्देशः । अथ सुखप्रसवमन्त्रः -
ॐ इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि ।
उच्चैःश्रवा तुरङ्गाणां मन्दिरे निवसन्तु ते ॥ ८१ ॥
ॐ इदमममृतमपां समुद्धृतं वै तव लघु गर्भमिमं विमुञ्चतु स्त्रि ।
तदनलपवनार्कवासरास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ ८२ ॥
ॐ मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः ।
मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिर स्वाहा ॥ ८३ ॥
एभिर्जलं च्यावनमन्त्रराजैर्जप्त्वा प्रदेयं किल गर्भवत्यै ।
सद्यः प्रसूते नवमूढगर्भा योगोऽयमात्रेयमुनिप्रदिष्टः ॥ ८४ ॥
एभिर्मन्त्रैः सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम्‌ ।
"ॐ मन्मथ मन्मथ मन्मथवाहिनि ! लम्बोदरं मुञ्च मुञ्च लघु स्वाहा" इति मन्त्रः । अनेन मन्त्रेण सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम्‌ । सुखात्‌ प्रसवो भवति ॥
अथ वन्ध्याकरणसमुद्देशः ।
पलाशक्षीरिद्रुमयोः फलानि पुष्पाण्यथो शाल्मलिपादपस्य ।
मद्येन मासार्धदिनं निपीय वन्ध्या भवेन्निश्चितमेव नारी ॥ ८५ ॥
फलं कदम्बस्य च माक्षिकं हि तुषोदकेन त्रिदिनं निपीय ।
स्नानावसाने नियमेन चापि वन्ध्यामवश्यं कुरुते हठेन ॥ ८६ ॥
कर्षद्वयं राक्षसवृक्षबीजं सप्ताहमात्रं सितशालिवारा ।
ऋतौ निपीतं मृगशावकाक्ष्या वन्ध्यात्वमेतन्नियतं करोति ॥ ८७ ॥
अथ केशसंस्कारसमुद्देशः ।
तिलप्रसूनं सह गोक्षुरेण ससारघं गव्यघृतेन पिष्टम्‌ ।
सप्ताहमात्रेण शिरःप्रलेपाद्भवन्ति दीर्घाः प्रचुराश्च केशाः ॥ ८८ ॥
कर्षार्धमात्रं प्रसवं फलेन निम्बस्य तैलं नियमेन पीतम्‌ ।
क्रमेण कुन्देन्दुतुषारगौरं शिरोरुहं मेचकतामुपैति ॥ ८९ ॥
अथ इन्द्रलुप्तसमुद्देशः ।
गुञ्जाफलैः क्षौद्रयुतैर्विलिप्य केशप्रदेशे सकलेन्द्रलुप्तम्‌ ।
अनेन योगेन सदैव केशा रोहन्ति कृष्णाः कुटिला विशालाः ॥ ९० ॥
इति श्रीकविशेखरज्योतिरीशविरचिते पञ्चसायके तृतीयः सायकः ।

चतुर्थः सायकः सम्पाद्यताम्

अथ चतुर्थः सायकः ।
अथ कन्यालक्षणसमुद्देशः ।
प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते
विद्याधैर्यविवेकशौर्यविभवश्लाघ्ये कुलीने कुले ।
कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा
त्रैवर्गाश्रितशुद्धवंशनिलया सद्भिर्विवाह्या नरैः ॥ १ ॥
अम्भोजास्या बहलनयना भूरिकेशप्रचारा
तुल्या स्निग्धा सुसमदशना पद्मरागाधरौष्ठी ।
रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी
मध्ये क्षीणा सुललितकरा दक्षिणावर्तनाभिः ॥ २ ॥
पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा
रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका ।
इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमैर्या
कन्या सद्भिश्चटुलचरिता सा विवाह्या गुणज्ञैः ॥ ३ ॥
अथ कन्यादूषणसमुद्देशः ।
खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घाऽतिरोमाकुला
कृष्णा सौकरलोचना पृथुगला कृष्णाधरा दन्तुरा ।
रुक्षाङ्गी विकटस्तनी च सबला बभ्रूरवीरात्मजा
वाचाला बहुभोजना च गदिनी प्रौढा च दुःखान्विता ॥ ४ ॥
पुष्पक्ष्माधरवृक्षदेशतटिनीनक्षत्रसञ्ज्ञा च या
हास्ये कूपयुगं कपोलयुगले यस्या भवेत्‌ सत्वरम्‌ ।
अङ्गुष्ठाधिकपर्वणी चरणयोर्यस्याश्च जाताऽङ्गुलिः
पादस्यापि कनीनिका न पतति क्ष्मायां तदन्यैव वा ॥ ५ ॥
अज्ञातान्वयजा स्वभावपिशुना लम्बाधरा चञ्चला
कुष्ठिश्चित्रिकुलोद्भवा च वितता यस्याः कटिर्नासिका ।
निन्द्या पल्लवजिह्विका द्रुतगतिर्न्यूनाधिकाङ्गी पुन-
स्त्याज्या कामकलाकलापकुशलैः कन्या विवाहे सदा ॥ ६ ॥
अथ वरलक्षणसमुद्देशः ।
प्रख्यातोऽमलवंशजो नववयाः शूरस्सुशीलश्च यः
स्वाचारः स्थिरसौहृदो गुणनिधिर्नानाकुटुम्बी बली ।
अर्थी भोगरतो विशिष्टवचनो दाक्षिण्यधैर्याश्रयो
जामाता जगतीतले कविवरैरेवंविधो वर्णितः ॥ ७ ॥
अथ वरदूषणसमुद्देशः ।
पापिष्ठो व्यसनी ऋणैरुपहतो द्यूतप्रियो भिक्षुको
रोगी पुंस्त्वविवर्जितश्चलमतिर्वैदेशिकः कातरः ।
मूर्खो दुष्टकुलोद्भवश्च कृपणो वृद्धोऽतिदीनः खलः
कर्तव्यो न वरः कदाऽपि पुरुषैरेवंविधो भूतले ॥ ८ ॥
अथ विवाहभेदसमुद्देशः ।
चातुर्वर्ण्यसमाहिता मुनिवरैरष्टौ विवाहाः स्त्रियो
ब्राह्मो दैवतकस्ततो निगदितौ गान्धर्वपैशाचकौ ।
आर्षो राक्षसकस्तथाऽऽसुर इति ख्यातोऽपरश्चाष्टमः
प्राजापत्यसमाभिधः पृथगमी प्रोक्ता मया नामतः ॥ ९ ॥
आर्षो दैवतकः प्रजापतिभवो ब्राह्मो द्विजानां मतो
गान्धर्वः सह राक्षसेन कथितः क्षात्रस्य तज्ज्ञैरसौ ।
एकश्चासुरसञ्ज्ञको निगदितो वैश्यस्य शूद्रस्य च
सङ्क्षेपादुपवर्णितं क्रमवशात्पौराणिकं लक्षणम्‌ । १० ॥
विद्यावान्‌ गुणपूजितः सुचरितः सद्वंशजातो मुनिः
सौम्यो मानरतः सुशीलविनयो गेहागतः प्रार्थकः ।
कन्याया गृहनायकः सपुलकस्तस्मै ददात्यादरा-
दार्षो गोयुगदक्षिणो निगदितस्तज्ज्ञैर्विवाहो वरः ॥ ११ ॥
ऋत्विग्भिः परिमण्डिते बहुविधे यज्ञोत्सवे चोत्तमे
नानावर्णसुवर्णवस्त्रकुसुमैराभूषिताङ्गी शुभा ।
कन्या दक्षिणया द्विजाय विधिना यद्दीयते चादरा-
द्दैवः सोऽयमुदीरितः कविवरैरित्थं विवाहो वरः ॥ १२ ॥
कन्या बान्ध्वसन्निधौ सुललिता विप्रोत्तमायादरा-
दुक्त्वा- तुभ्यमियं मया स्वतनया दत्तेति हर्षान्वितौ ।
धर्मं सञ्चरतां यथासुखमुभौ दाम्पत्ययोगात्सदा
प्राजापत्यकरग्रह कविवरैरेषः प्रमाणीकृतः ॥ १३ ॥
आहूयार्चनपूर्वकं द्विजवरायाच्छाद्य वासोवरै-
र्विद्याशीलविवेकवंशविनयाचारान्विताय स्वयम्‌ ।
कन्या प्रीतिमते वराय विधिना यद्दीयते सादरं
ब्राह्मोऽसौ मुनिपुङ्गवैर्निगदितः श्रेष्ठो विवाहोऽपरः ॥ १४ ॥
कन्या यौवनशालिनी पतिममुं या स्वीकरोति स्वयं
गान्धर्वः स हि कथ्यते भुजबलादाकृष्यते यत्पुनः ।
ज्ञेयो राक्षस एष पण्डितवरैश्चौर्याद्विवाहोऽपरः
पैशाचः कविशेखरेण कथितस्त्याज्यः सदा यत्नतः ॥ १५ ॥
आदाय प्रथमं वराद्बहुतरं शुल्कं यथाकाङ्क्षया
वस्त्रालङ्कृतिवैभवेन तनयासन्तोषमुत्पाद्य च ।
पश्चाद्दुष्कुलसम्भवाय मलिनं कन्याप्रदानं वृथा
प्रख्यातोऽधमवंशजापरिणयस्तज्ज्ञैरसावासुरः ॥ १६ ॥
अथ परदारत्यागसमुद्देशः ।
अश्रद्धामुपहस्यतां मलिनतामर्थक्षयं लाघवं
गर्हां ग्लानिमधोगतिं विकलतामायुःक्षतिं दुर्गतिम्‌ ।
इत्थं ये परदारकर्मणि रता लोकत्रये निन्दिता
विन्दन्ते परमापदः सुखधिया दुःखं नरास्ते सदा ॥ १७ ॥
पौलस्त्यः सुरदैत्यमर्त्यमुकुटव्याघृष्टपादाम्बुजो
मैथिल्याहरणादवाप मरणं वालिश्च्युतो राज्यतः ।
पाञ्चालीप्रतिकाङ्क्षित्वेन निधनं भीमाद्गतः कीचक-
स्तस्मादन्यवधूर्नरैर्न मनसाऽप्यालापनीया भुवि ॥ १८ ॥
अथ दूतीसमुद्देशः ।
चक्षुःप्रीतिरुदीरिता प्रथमतश्चित्तभ्रमः स्यात्ततः
सङ्कल्पस्तदनन्तरं निगदितो निद्राविनाशस्तथा ।
वैराग्यं विषयेषु कार्श्यमथ च व्रीडानिवृत्तिस्ततो
ह्युन्मादो मरणं दश(नव) प्रकटिताः कन्दर्पचेष्टा इति ॥ १९ ॥
कामिन्या नवयौवने न मिलति स्वेच्छाविहारो नृणा-
मुन्मादो मरणं तदा मनसिजव्यामोहतो जायते ।
तस्मात्तद्विनिवारणाय पुरुषैरन्याङ्गना कामिभि-
र्गन्तव्येति वदन्ति काश्यपमुनिक्षेमेन्द्रवात्स्यायनाः ॥ २० ॥
तारापीडसुतो विनाशमगमत्कादम्बरीकाङ्क्षया
व्यामुक्तः किल पुण्डरीकमुनिरप्युच्चैर्महाश्वेतया ।
उर्वश्या च पुरूरवा नरपतिः सन्त्याजितो जीवितं
तस्माज्जीवितरक्षणाय हि विनिर्गम्या परप्रेयसी ॥ २१ ॥
दासी वारवधूर्नटी च विधवा बाला च धात्री तथा
कन्या प्रव्रजिता च भिक्षुवनिता सम्बन्धिनी शिल्पिनी ।
मालाकारनितम्बिनी प्रतिसखी दौत्ये स्मृता योषिता-
मालापे कविभिः सदैव मदनव्यापारलीलाविधौ ॥ २२ ॥
अथ सुखसाध्यासमुद्देशः ।
प्रौढा कान्तविमानिता बहुगुणा रम्याऽनपत्या तथा
रण्डा स्वैरपरा स्वतन्त्रगमना शिल्पप्रिया गायिका ।
षण्ढोन्मत्तदरिद्रसेवकमहारोगार्तडिम्भाङ्गना
नूनं सिद्ध्यति दूतिकानिगदिता रम्याभिसारोत्सवे ॥ २३ ॥
अथ कष्टसाध्यासमुद्देशः ।
एका वल्लभरक्षिता परजनालापे विरक्ता दृढा
निःस्नेहा धनयौवने गुरुजनाद्भीता च लज्जावती ।
स्वस्था सुन्दरनायका पतिरता शिष्यादिकान्ता तथा
दुःसाध्या कविशेखरेण रमणी प्रोक्ता रतिप्रार्थने ॥ २४ ॥
अथ त्याज्यस्त्रीसमुद्देशः ।
अज्ञाता द्विजवल्लभा गुरुवधूर्मित्राङ्गना रोगिणी
चेटी प्रव्रजिता सती रिपुवधूः शिष्या च गर्भान्विता ।
भ्रूणघ्नी मृतसन्ततिः खलजना चास्पृश्यजा गोत्रजा
गन्तव्या न कदाचिदेव पुरुषैरेताः स्त्रियः कामिभिः ॥ २५ ॥
सुरतत्याज्यस्थानसमयसमुद्देशः ।
नद्यां देवगृहे चतुष्पथवटे शैलस्य सानौ जले
गुर्वग्निद्विजसन्निधौ परगृहे दुर्गे श्मशाने वने ।
सन्ध्यायां दिवसे कदाऽपि सुरतं पुम्भिर्विवेकान्वितै-
र्दृष्ट्वा धर्मविरोधसङ्कटमिति त्याज्यं सदा यत्नतः ॥ २६ ॥
अष्टम्यां हिमरश्मिशेखरतिथौ बाणे च पूर्णातिथौ
भानोः सङ्क्रमणे व्रते च शरदि ग्रीष्मे क्षपायामपि ।
यातायातपरिश्रमे ज्वरगदे सम्भोगचेष्टां नरः
कुर्यान्नैव कदाचिदेव सुकृतीत्याहुर्मुनीन्द्राः स्फुटम्‌ ॥ २७ ॥
अथ सुरतयोग्यस्थानसमुद्देशः ।
स्फूर्ज्जद्दीपशिखोज्ज्वले सुललिते रम्योन्नते विस्तरे
धूपोद्गारमनोहरे कुसुमस्रग्दामोपशोभान्विते ।
वीणातालरवाकुले मनसिजप्रस्तावनानन्दिते
सम्भोगः कुशलैः स्वकीयभवने कार्यो यथाकाङ्क्षया ॥ २८ ॥
अथाभिलाषसमुद्देशः ।
उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागीक्षते
केशाँल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
आलिङ्गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं
गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥ २९ ॥
दोर्मूलं खलु दर्शयेत्‌ स्तनयुगे वस्त्रं समालम्बते
अङ्गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा ।
दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते
भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ॥ ३० ॥
अथालिङ्गनसमुद्देशः ।
माल्यापूरितकुन्तलः सुवसनः स्निग्धाङ्गरागोज्ज्वलो
नानाभूषणसुन्दरः स्मरवशस्ताम्बूलपूर्णाननः ।
स्फूर्ज्जद्दीपमनोज्ञवासभवने शय्यातले नायको
रागार्थं परिरम्भणं प्रथमतः कुर्यात्समं योषिता ॥ ३१ ॥
वृक्षारूढकसञ्ज्ञकं प्रथमतस्तस्माल्लतावेष्टितं
तस्माज्जाघनविद्धकावपि मतावूरूपगूढं पुनः ।
ज्ञातव्यं तिलतण्डुलं रसविदामालिङ्गनं योषितां
क्षीरं नीरपुरःसरं निगदितं तस्माच्च लालाटिकम्‌ ॥ ३२ ॥
एकेन पादेन पदं स्वभर्तुरन्येन चाक्रम्य तदूरुभागम्‌ ।
आपीड्य दोर्भ्यामपि कान्तपृष्ठं वृक्षाधिरूढं प्रवदन्ति तज्ज्ञाः ॥ ३३ ॥
ऊर्ध्वं भुजाभ्यां सरलाङ्गयष्टी क्षोणीरुहं वल्लिरिवाधिरुद्य ।
नारी प्रियं चुम्बति निस्तरङ्गा भवेल्लतावेष्टितसञ्ज्ञकं तत्‌ ॥ ३४ ॥
श्रोणीतटे बाहुयुगेन कान्तमापीड्य मुक्ताम्बरकेशभारा ।
वक्त्रासवं स्वादयति प्रहृष्टा तज्ज्ञैः स्फुटं जाघनमेतदुक्तम्‌ ॥ ३५ ॥
सुखोपविष्टं पुरुषं पुरन्ध्री सम्मीलिताक्षं स्वकरप्रबन्धात्‌ ।
आविध्यति प्रेमलसत्कुचाभ्यामालिङ्गनं विद्धकमेतदाहुः ॥ ३६ ॥
कान्तो मनोजव्यथिताङ्गयष्ट्या आपीडयेदूरुयुगं युवत्याः ।
ऊरूपघातेन कविप्रवीरैरूरूपगूढं तदिदं प्रदिष्टम्‌ ॥ ३७ ॥
बाहूरुवक्षोजघनेन गाढमन्योन्यसंसक्तशरीरयष्ट्योः ।
आनन्दभावाद्यदुदीर्णभावमालिङ्गनं तत्तिलतण्डुलाख्यम्‌ ॥ ३८ ॥
गात्रोपरिष्ठादथ तल्पमध्ये संलीयते यन्मिथुनं शरीरे ।
कामातिरेकात्‌ कृतपूर्णचेष्टमालिङ्गनं क्षीरजलं प्रदिष्टम्‌ ॥ ३९ ॥
अन्योन्यसंसक्तमुखं च बाहू नेत्रं ललाटं हृदयं कपोलम्‌ ।
आनन्दभावश्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥ ४० ॥
अथ चुम्बनसमुद्देशः ।
गण्डस्थलीमस्तकदन्तवासोग्रीवाकुचोरःस्तनचूचुकानि ।
आलिङ्गनानन्तरमेव यूनोः स्थानानि चुम्बस्य वदन्ति तज्ज्ञाः ॥ ४१ ॥
कक्षायुगं चापि नितम्बिनीनां कन्दर्पगेहं च रतिप्रवीणाः ।
चुम्बन्ति कामं तरलायताक्ष्या देशस्य सात्म्येन सदैव लाटाः ॥ ४२ ॥
कान्तोऽङ्गनाया वदने स्वकीयं वक्त्रं समारोप्य बलेन यत्र ।
न चुम्बति क्रोधवशेन नारी स्याच्चुम्बनं तन्निमिताभिदानम्‌ ॥ ४३ ॥
पत्युर्मुखे स्वीयमुखं निवेश्य प्रेम्णा मनागञ्चति दन्तवासः ।
उच्चेन गृह्णात्यपि कम्पितोष्ठी प्रोक्तं मुनीन्द्रैः स्फुरितं विनोदात्‌ ॥ ४४ ॥
हस्तेन नेत्रं परिमील्य भर्तुः सम्मीलिताक्षी वदने स्वजिह्वाम्‌ ।
निक्षिप्य च क्रीडति यत्र लोला ख्यातं रसज्ञैः खलु घृष्टसञ्ज्ञम्‌ ॥ ४५ ॥
हस्ताङ्गुलीसम्पुटकेन यत्र कान्तोष्ठमादाय रसज्ञया च ।
आस्वादयेन्निर्दशनं विनोदात्‌ स्याच्चुम्बनं पीडितमेतदेव ॥ ४६ ॥
कान्ताधरं स्वाधरसम्पुटेन पीत्वा मुहुः स्वादयति क्रमेण ।
नारी च तेनैव विधानकेन ज्ञेयं मुनीन्द्रैरिति सम्पुटाख्यम्‌ ॥ ४७ ॥
ओष्ठेन कान्तोष्ठयुगं निपीय जिह्वां निधायाप्यथ तालुभागे ।
चुम्बोत्सवे नृत्यति यत्र नारी प्रोक्तं समौष्ठं मुनिभिः पुराणैः ॥ ४८ ॥
अथ नखाघातसमुद्देशः ।
कक्षाकुचोरःस्थलकुक्षिनाभिश्रोणीललाटाङ्घ्रिकरेषु सद्यः ।
साङ्गुष्ठसर्वाङ्गुलिकैश्च सर्वैः सुव्यक्त एषः स्तनकन्धरादौ ॥ ४९ ॥
सञ्ज्ञापकं मन्मथरागराशेरुक्तं मुनीन्द्रैश्छुरिताभिधानम्‌ ।
वक्षोजकन्दर्पगृहाधरेषु देयं नवोढाप्रमदाजनानाम्‌ ॥ ५० ॥
कण्डूयनेनैव शिरोरुहाणामस्योपयोगं परिकीर्तयन्ति ।
अर्धेन्दुशङ्काशमिदं नखज्ञैरर्धेन्दुसञ्ज्ञं कथितं समासात्‌ ॥ ५१ ॥
कक्षानितम्बस्तनपार्श्वकेषु दातव्यमेतत्‌ करजं सदैव ।
अर्धेन्दुसञ्ज्ञद्वितयं प्रयुक्तं स्यान्मण्डलाख्यं मदनावतंसम्‌ ॥ ५२ ॥
ऊरूतटे कामगृहे नितम्बे प्रोचुर्मुनीन्द्रा विनियोगमस्य ।
समैश्च सर्वैर्नखरैः सुलग्नैस्तज्ज्ञैः किलोक्तं शशकप्लुताख्यम्‌ ॥ ५३ ॥
सीमन्तपार्श्वे हृधि चूचुकादावेतत्‌ प्रयोज्यं सुरतप्रयोगे ।
सर्वैर्नखैर्वै स्तनमध्यभागे पश्चादधोऽङ्गुष्ठभवा हि रेखा ॥ ५४ ॥
व्यक्तीकृता रागकरी तदेतन्मयूरपदं समुदीरयन्ति ।
अलम्बमेवं स्फुरितार्धरेखं प्राहुः क्षतं पङ्कजपत्रसञ्ज्ञम्‌ ॥ ५५ ॥
दोर्मूलवक्षःस्थलनाभिसन्धावस्योपयोगं वदते महेशः ।
रेखायुगं गण्डयुगे प्रदत्तं स्तनान्तकक्षाजघनस्थलेषु ।
देशान्तरं गच्छति कामिनीनां संस्मारकं दर्दुरकं वदन्ति ॥ ५६ ॥
पुंसः शरीरे युवतीकुचे वा क्षतं नखस्य प्रतिवीक्ष्य सद्यः ।
कन्दर्परागाकुलचित्तवृत्तिर्मुनेरपि स्यात्‌ किमुतेतरस्य ॥ ५७ ॥
सर्वस्वमेवास्ति मनोभवस्य प्रेम्णा प्रयुक्तं करजं रतज्ञैः ।
नास्माद्द्वितीयं भुवि रागबीजमित्याह शीतांशुकलाकिरीटः ॥ ५८ ॥
अथ दशनघातसमुद्देशः ।
दन्तप्रकाराश्च नखप्रकारैर्ज्ञेयाः समा एव समैश्च सद्भिः ।
शीत्कारहुङ्कारविचेष्टिताद्याः प्रायो विशेषाः पुनरत्र कार्याः ॥ ५९ ॥
श्लथा घनास्तीव्रमुखाः समाङ्गा रागस्पृशो निर्मलदीप्तिभाजः ।
दन्ता प्रदेया नखदानदेशे वक्त्रान्तराक्षिद्वितयं विहाय ॥ ६० ॥
दन्तौष्ठसंयोगवशेन गण्डे दन्तप्रकारः किल विद्रुमोऽयम्‌ ।
अभ्यासयोगाद्युवतीजनानां स्यान्नान्यथा क्वापि विनोदतस्तु ॥ ६१ ॥
ऊरूस्थले कण्ठकपोलयुग्मे खण्डाभ्रकं मण्डलतुल्यरूपम्‌ ।
संशोभते दन्तमिदं युवत्याः प्रायो मुनीन्द्राः समुदीरयन्ति ॥ ६२ ॥
दीर्घा सुरक्ता क्षतकुञ्चिता च रेखा स्थले चूचुकयोः प्रदेया ।
विशेषकाले स्मरणे च तज्ज्ञैर्दन्तोऽयमुक्तः किल कोलचर्चः(र्वः) ॥ ६३ ॥
अथ केशाकर्षणसमुद्देशः ।
द्वाभ्यां कराभ्यां शिरसि प्रकामं कृष्ट्वा कचांश्चुम्बन्ति वल्लभश्चेत्‌ ।
तदेव दिष्टं समहस्तसञ्ज्ञं स्यादेकहस्तेन तरङ्गरङ्गः ॥ ६४ ॥
कर्णप्रदेशे च कचं निपीड्य प्रेम्णा पतिश्चुम्बति वल्लभास्यम्‌ ।
अन्योन्यहस्तग्रहविस्तरेण कामावतंसं मुनयो वदन्ति ॥ ६५ ॥
संवेष्ट्य सर्वाङ्गुलिभिः कचौघं यस्याः पतिर्धारयति स्मरार्ताम्‌ ।
भुजङ्गवल्ली परिकीर्तितेयं रतोत्सवे केशकलाविधिज्ञैः ॥ ६६ ॥
भव्या घना रौक्ष्यविवर्जिताश्च श्यामा विशाला बहुलाः कचाः स्युः ।
चुम्बप्रदानावसरे प्रकर्ष्या रागोदयार्थं तरुणीजनानाम्‌ ॥ ६७ ॥
इत्यादयो बाह्यरतप्रकाराः पूर्वं रतज्ञैः परिकल्पनीयाः ।
अन्येऽपि ये सन्ति बहुप्रभेदा नोक्ता मया विस्तरभीतितस्ते ॥ ६८ ॥
इति श्रीकविशेखरज्योतिरीश्वरविरचिते पञ्चसायके चतुर्थः सायकः ।

पञ्चमः सायकः सम्पाद्यताम्

अथ पञ्चमः सायकः ।
अथ नाडीसमुद्देशः ।
मनोभवागारमुखे तु नाड्यस्तिस्रो भवन्ति प्रमदाजनानाम्‌ ।
समीरणा चान्द्रमसी च गौरी विशेषमासामुपवर्णयामि ॥ १ ॥
प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी ।
तस्या मुखे यत्पतितं नृवीर्यं तन्निष्फलं स्यादिति चन्द्रमौलिः ॥ २ ॥
या चापरा चान्द्रमसी च नाडी कन्दर्पगेहे भवति प्रधाना ।
सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेन ॥ ३ ॥
गौरीति नाडी यदुपस्थदेशे प्रधानभूता भवति स्वभावात्‌ ।
पुत्रं प्रसूते बहुधाऽङ्गना सा कष्टोपभोग्या सुरते प्रदिष्टा ॥ ४ ॥
अथोत्तानबन्धसमुद्देशः ।
प्रसारितोरूद्वयमध्ययोगाद्गाढाऽपि नारी श्लथतामुपैति ।
संलग्नजानुद्वयबन्धयुक्ता श्लथाऽपि सङ्कोचमलं प्रयाति ॥ ५ ॥
तस्या युवत्याः प्रकृतिं च सत्त्वं देशं च भावं मदनातपत्रम्‌ ।
आलोक्य बन्धाः परिकल्पनीयाः सम्भोगकाले पुरुषै रसज्ञैः ॥ ६ ॥
उत्तानसुप्तप्रमदोरूमध्ये स्थितः पतिः कामयते प्रकामम्‌ ।
तयोर्द्वयोः प्रीतिकरः प्रदिष्टो बन्धो नराणामतिदुर्लभोऽयम्‌ ॥ ७ ॥
उत्तानसुप्ता युवतिः स्वपादौ स्कन्धे समारोप्य रमेन्नरस्य ।
बन्धोऽयमुक्तः समपादसञ्ज्ञः प्रयोजनीयः करिणीरतेषु ॥ ८ ॥
एवंविधायाः स्त्रिय एव जङ्घां कान्तः स्वजङ्घोपरि सन्निवेश्य ।
उद्भ्रम्य भूयः कटिमारमन्त्याः स्यादेष बन्धः किल नागराख्यः ॥ ९ ॥
धृत्वा स्वजानुं गगने स्वपादौ शय्यातले स्त्री प्रथमं प्रसुप्ता ।
कुचौ पतिः पाणियुगेन धृत्वा रमेत्तदा व्योमपदाभिधानम्‌ ॥ १० ॥
एकं युवत्याश्चरणं पृथिव्यामूर्ध्वं तथाऽन्यं परिकल्य कान्तः ।
पद्भ्यां स्थितो हस्तयुगं च भूमौ त्रैविक्रमः स्यादिति वन्धराजः ॥ ११ ॥
नितम्बबिम्बं किल नायकेन
नार्यास्त्रिकं हस्तयुगेन धृत्वा ।
गुल्फौ निधाय स्थित एव तस्या
बन्धोऽप्यसौ चाटुककेलिकः स्यात्‌ ॥ १२ ॥
कान्तस्य वक्षःस्थलगौ च (स्व)पादा-
वालिङ्ग्य गाढं प्रमदा कराभ्याम्‌ ।
किञ्चिन्नतोरुद्वययोगतश्च
ज्ञेयो बुधैरित्यवदारितोऽयम्‌ ॥ १३ ॥
अथ पार्श्वबन्धसमुद्देशः ।
एकं युवत्या हृदये स्वपादं तथाऽर्पितं तल्पगतं तदन्यम्‌ ।
प्रौढाङ्गनावल्लभ एष बन्धः ख्यातः पृथिव्यामुपवीतिकाख्यः ॥ १४ ॥
ऊर्वोः पतिर्मध्यगतो युवत्याः पार्श्वस्थितायाः परिरभ्य देहम्‌ ।
यूनोस्त्रिकालोलनतो रसज्ञैरत्यादृतः सम्पुटनामधेयः ॥ १५ ॥
पार्श्वस्थितायाः मृगशावकाक्ष्याः पृष्ठावलम्बी रमणः प्रसुप्तः ।
लिङ्गस्मरागारनिवेशयोगादिहोपदिष्टः खलु नागबन्धः ॥ १६ ॥
अथोपविष्टबन्धसमुद्देशः ।
पद्मासनं सम्परिकल्प्य भर्ता क्रोडोपविष्टां युवतिं रमेच्च ।
अन्योन्यकण्ठार्पितबाहुयोगात्‌ पद्मासनाख्यं प्रवदन्ति सन्तः ॥ १७ ॥
कान्तो नितम्बस्थित एव नार्याः श्रोणीं कराभ्यां यदि याति धृत्वा ।
आस्फालयेद्वाऽपि कटिप्रबन्धात्‌ प्रोक्तो मुनीण्द्रैरिति कीर्तिबन्धः ॥ १८ ॥
अथाधोमुखबन्धसमुद्देशः ।
अधोमुखस्थां रमयेच्च नारीं तत्पृष्ठवर्ती पशुतुल्यरूपः ।
भर्ता परिक्रीडति भावहीनो निर्दिश्यते हारिणबन्ध एषः ॥ १९ ॥
दन्तावलच्छागतुरङ्गमाणां क्रीडाप्रकारैश्च भवन्ति बन्धाः ।
इत्थं रसज्ञैरनुलापनीया नोदाहृता विस्तरभीतितस्ते ॥ २० ॥
ऊर्ध्वबन्धसमुद्देशः ।
अन्योन्यदोःपञ्जरमध्यजातः स्तम्भो यदा बाहुयुगेन लग्नः ।
निष्पीड्य नारी पतिमूर्ध्वसंस्थं रमेत्तदा व्यात्तकरं वदन्ति ॥ २१ ॥
एको युवत्या यदि कान्तहस्ते जानु स्थितः स्यादपरः पृथिव्याम्‌ ।
कान्तं कराभ्यामुपगूह्य यत्स्याज्ज्ञेयं रसज्ञैः करणं त्रिपादम्‌ ॥ २२ ॥
अथ पुरुषायितसमुद्देशः ।
अधोमुखी कान्तहृदि प्रसुप्ता दोर्भ्यां समालिङ्ग्य यदि प्रयाति ।
गा(प्रौ)ढाङ्गनावल्लभ एष तज्ज्ञैः बन्धः प्रदिष्टो विपरीतरूपः ॥ २३ ॥
धूर्त ! त्वमेवं विजितोऽस्यकस्माद्युद्धे मया पञ्चशरस्य नारी ।
इत्यादिकं भूरिविधं रटन्ती प्रायः सुखं विन्दति केलिरङ्गे ॥ २४ ॥
विपरीतरतावयोग्यां स्त्रियं दर्शयति ।
नवप्रसूता ऋतुयोगयुक्ता गर्भालसा स्थूलतनुर्नताङ्गी ।
क्षीणा नवोढा ज्वरिता च नारी वर्ज्या रतिज्ञैर्विपरीतबन्धे ॥ २५ ॥
अथ सन्ताडितसमुद्देशः ।
वामस्वभावान्मदनस्य रागो हस्तप्रहारात्समुपैति वृद्धिम्‌ ।
तस्माद्यथास्थानमसौ विधेयो वराङ्गनायाः सुरतावसाने ॥ २६ ॥
यद्यङ्गना कान्तहृदि प्रहारं मुष्ट्या भजन्ती सुरतोपचारैः
सन्ताडितं नाम वदन्ति तज्ज्ञा विस्तीर्णहस्तेन तदा पताकम्‌ ॥ २७ ॥
साङ्गुष्ठमध्याङ्गुलसम्प्रहारात्‌ सञ्जायते कुण्डलनामधेयः ।
यः केवलाङ्गुष्ठभवोऽभिघातः प्रोक्तः कवीन्द्रैः स तु बिन्दुमालः ॥ २८ ॥
द्रवति यदि न नारी प्रौढरागार्तियुक्ता
मृदुनिधुवनयोगे दन्तसन्धौ सलीलम्‌ ।
पिबति दशनवासः किञ्चिदुन्मुच्य भूयः
कथितमिह रसज्ञैः सीत्कृतं रागकारि ॥ २९ ॥
पिकशिखिकलहंसप्रायपक्षिवृजानां
ध्वनितमनुकरोतीत्यङ्गना मन्मथार्ता ।
मुखदशनविवर्तात्तत्कवीन्द्रा वदन्ति
स्तनितमिति समासाच्चित्रसम्भोगकाले ॥ ३० ॥
एवंविधकरणस्य फलं निरूपयति ।
इत्यादियोगैः पृथुकामभावं सम्पाद्य नारीपुरुषौ चिरेण ।
जातानुरागौ रहसि प्रकामं सौख्यं समास्वादयतो महीयः ॥ ३१ ॥
अष्टानायिकासमुद्देशः ।
यस्याः पतिर्मिलति केलिकथानुरक्तः
पार्श्वं न मुञ्चति मनोभववेगयुक्तः ।
स्यात्सुन्दरी सकलसौख्यकलानिधाना
स्वाधीनपूर्वपतिकेति वदन्ति तज्ज्ञाः ॥ ३२ ॥
पुष्पाङ्गरागरुचिरा तरुणी प्रियस्य
तिष्ठत्यनागमनहेतुविचारलोला ।
एषाऽबला न हि चिरं परिदेवनीया
सोत्कण्ठितेति कथिता कविभिः पुराणैः ॥ ३३ ॥
स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी
या वल्लभागमनमार्गविरूढदृष्टिः ।
तल्पं गता रुचिरवासगृहेऽवशेते
सा कीर्तिता जगति वासकसज्जितेति ॥ ३४ ॥
क्रोधात्प्रयाति चरणे पतितोऽपि कान्तः
प्रायः प्रचण्डवचनाच्चरणैर्निरस्तः ।
पश्चात्तदीयविरहक्षरदानताङ्गी
सा कीर्तितेह कलहान्तरिता कवीन्द्रैः ॥ ३५ ॥
सङ्केतकं प्रियतमः स्वयमेव दत्त्वा
नैवागतः समुचिते समये च यस्याः ।
हृष्टा वचोऽमृतरसैः सकलाङ्गयष्टिः
सा वर्णिता कविवरैरिह विप्रलब्धा ॥ ३६ ॥
प्रातर्विनिद्रवदनस्मरभारचौरो
निद्रालसोऽलसगतिर्नखविक्षताङ्गः ।
यस्याः प्रयात्यभिमुखं मुहुशो युवत्याः
सा खण्डितेति कथिता कविभिः पुराणैः ॥ ३७ ॥
आरम्भभग्नचरिता विकला च नारी
या निर्मिता हि मदनेन मदेन याति ।
गुप्ताभिसाररसिका परवेश्म गन्तुं
सा कीर्तिता कविवरैरभिसारिकेति ॥ ३८ ॥
देशान्तरं प्रतिवसद्रमणश्च यस्या
दत्त्वाऽवधिं चिरतरं गुरुकार्ययोगात्‌ ।
दुर्वारदुःखदहनैः परिदेविताङ्गी
सा प्रोषितप्रियतमा कथिता मुनीन्द्रैः ॥ ३९ ॥
ग्रन्थोपसंहारः ।
यावच्चन्द्रकलाकिरीटहृदये शैलाधिराजात्मजा
यावद्वक्षसि माधवस्य कमला सानन्दमादीव्यति ।
यावत्कामकलाविवर्तचटुलं क्षोणीतलं राजते
तावच्छ्रीकविशेखरस्य कृतिनः काव्यं मुदे दीव्यताम्‌ ॥ ४० ॥
इति कविशेखरश्रीज्योतीश्वराचार्यविरचिते पञ्चसायके पञ्चमः सायकः ।
समाप्तश्चायं ग्रन्थः ॥

स्रोतम् सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चसायकः&oldid=112493" इत्यस्माद् प्रतिप्राप्तम्