सप्तमः सर्गः।


विदधत्क्रियाः शुभतराः परस्परं
प्रविभिन्नवर्णविलसत्परिग्रहः ।
निगमश्चतुर्भिरिव साधुभिः स्वरै-
स्तनयैरथ द्विजवरो व्यरोचत ॥ १ ॥

यमजीजनत्प्रथमवर्णकन्यका
तनयं द्विजो वररुचिं तमाख्यया ।
स्वयमाजुहाव कतवंशजन्मनः
पदशास्त्रवार्तिककृतः पवित्रया ॥ २ ॥
 
यमसूत चन्द्रमिव सिन्धुवीचिका
नृपकन्यकास्य विततान नाम सः ।
भुवि सोऽयमर्क इव विक्रमे भवे-
दिति विक्रमार्क इति विश्रुतं भुवि ॥ ३ ॥

वचसैव भर्तुमयमर्हति स्वयं
वसुधां नयानयविभागचुञ्चुना ।
इति वैश्यजातनुभुवः स भट्टिरि-
त्यभिधां चकार भटिधातुवाच्यवित् ॥ ४ ॥


धरणीं बिभर्ति दशभिः शिरःशतैः
प्रलये हरिष्यति च यो विषार्चिषा ।
फणिनोऽस्य भर्तृहरिरित्यभिख्यया
स समाह्वयच्चरमवर्णजासुतम् ॥ ५ ॥

सुदृशां तदा सुतमुखानि दृष्टयो
मधुरस्मितानि मुहुरालुलोकिरे ।
कमलानि गाढकुतुकाः कुमुद्वती-
तरलालिपङ्क्तय इव क्षपात्यये ॥ ६ ॥

चरणं करद्वयगृहीतमेककं
शिशुभिर्निवेशितमशोभतानने ।
शशिनि प्रपन्नमिव पूर्वमिन्दिरा-
कमलद्वयेन विधिपीठपङ्कजम् ॥ ७ ॥

शिशवस्तदा ददृशिरे महीतले
नमिताननाः सुलभजानुचंक्रमाः
फणिनं सहस्रवदनं प्रशासितुं
स्वधियेव विश्वमधरं विविक्षवः ॥ ८ ॥

अकृताहिरज्जुगिरिमन्थसंग्रहं
प्रबलासुरामरकुलानपेक्षणम् ।
अपकालकूटभयमादृतः पपौ
सुतजल्पितामृतरसं स भूसुरः ॥ ९ ॥

जननीकराग्रमवलम्ब्य पाणिभि-
र्भवनाङ्गणे यदवलन्त बालकाः ।
क्षितिमण्डले स किल तस्य पुत्रिता-
यशसामभूद्दिगवलम्बनक्रमः ॥ १० ॥

जनकस्ततो विहितमक्षरक्षण-
ग्रहणं निरीक्ष्य शिशुभिस्त्रिहायणैः ।
सति यौवने कथममी न भाविनः
श्रुतवन्त इत्ययममोदत स्वयम् ॥ ११ ॥

उपनीय तानुपदिदेश स श्रुती-
स्तनयं सुबुद्धिमपि तुर्यमन्तरा ।
स्वयमेव तास्तमचिरात्तु वव्रिरे
चतुरं विलासिनमिवान्ययोषितः ॥ १२ ॥

अथ द[१]र्शनानि षडपि न्यवेशय-
त्तनयेषु स त्रिषु न चान्तिमे द्विजः ।
अभजन्त तानि तमगेषु वर्षति
स्तनयित्नुरब्धिमुदकानि यान्ति हि ॥ १३ ॥

तनयानपाठयदयं पतञ्जले-
र्महतीं कृतिं मतिमतां गणैः सह ।
पठने तु भर्तृहरिरुत्सुकोऽपि तै-
र्विनिवारितश्चरमवर्णभूरिति ॥ १४ ॥

विजने जगाद पितरं कृताञ्जलि-
र्विनयेन भर्तृहरिराचरन्नमः ।
[२]हनीयपाणिनिमतानुकूलया
लवलीसुगन्धपदबन्धया गिरा ॥ १५ ॥

भगवन्पतञ्जलिरभून्महीतले
भवदाकृतिः प्रथयितुं निजां कृतिम् ।
इति वर्णयन्ति मुनयः पुराविदो
मम तेन भाष्यपठने मनोरथः ॥ १६ ॥

कुहरं विधाय किमपि क्षमातले
कुरु मामिहस्थमुपरिस्थितो भुवि ।
पठतश्च पाठय कृतिं पतञ्जले-
र्यदहं पठेयमनवेक्षितोऽखिलैः ॥ १७ ॥

कतमोऽपि मामपि भवन्तमन्तरा
कमनीय एव किल रश्मिरायतः ।
चलयेयमेनमथ चोद्यमस्ति चे-
न्मम तत्र भाष्यमसकृत्प्रबोधय ॥ १८ ॥

विहितं यदीत्थमतिसंहिता बुधा
निखिला भवन्ति भवति श्रुतं च मे ।
फणिभाष्यमान्तमपि चिन्त्य सिद्धये
किमपि प्रसीद मयि तत्कृपानिधे ॥ १९ ॥

इति पुत्रवाक्यमवकर्ण्य सोऽब्रवी-
दिदमेवमस्तु भवतो यथेप्सितम् ।
शृणु वत्स किंचिदवधाय मे वचो
गुरुसंप्रदायपदवीसमागतम् ॥ २० ॥

यदि गौतमस्य मतमप्रतिष्ठितं
यदि जैमिनेः श्लथयितुं क्षमं नयैः ।
यदि भिक्षुशास्त्रमिदमाविलं खलै-
र्न तथा पतञ्जलिमतं तु दुष्यति ॥ २१ ॥

इतरस्य शास्त्रनिचयस्य कारका
मनुजेषु केचन परं तु तापसाः ।
भगवाञ्जगद्भरणसंहृतिक्षमः
फणिराज एव पदशास्त्रभाष्यकृत् ॥ २२ ॥

अशुचिं शठं विषयलुब्धमास्तिक-
द्विषमप्रवृत्तगुरुशास्त्रभक्तिकम् ।
यदि शिष्यमानयति भाष्यमुद्गृण-
न्विपदं तयोर्वदति दृग्गत: फणी ॥ २३ ॥

प्रयतः प्रसन्नहृदयो जितेन्द्रियः।
प्रवणो महत्सु गुरुशास्त्रभक्तिमान् ।
[३]णिनः कृतिं पठति चेन्न हीयते
न भजत्यघं न गुरुणा विरुध्यते ॥ २४ ॥

प्रथमं विचिन्तय गतिं तथा गतां
पदसूत्रवार्तिककृतोर्द्वयोरपि ।
[४]णिशिष्यचेष्टितमपि श्रुतं ततो
बहुविघ्नमेव पदशास्त्रशीलनम् ॥ २५ ॥

कुशलाय वृद्धिरिति सिद्ध इत्यथे-
त्युदितं पदत्रयमुपक्रमे कृतेः ।
यदृषित्रयेण प[५]ठतां निरागसां
मत एव मङ्गलमु[६]देत्यनिर्गलम् ॥ २६ ॥

प्रथ[७]मोत्तरस्य फलमाह्निकस्य य-
त्पठने पतञ्जलिरनल्पमब्रवीत् ।

उपलक्षणं तदखिलाह्निकावले-
र्महतः फलस्य विवृतं मनीषिभिः ॥ २७ ॥

यदि रक्षसा यदि गणैर्यदि ग्रहै-
र्यदि चामयेन परिगृह्यते द्विजः ।
स पतञ्जलेरहरहः पठन्कृतिं
द्रुतमश्रुते सुखमिति प्रचक्षते ॥ २८ ॥

न च तुर्यवर्णवनितासुतस्य ते
कथमागमाङ्गपदभाष्यसंस्तवः ।
इति शङ्क्यमस्ति यदसि त्वमात्मवि-
न्न भवादृशे विधिनिषेधयोग्यता ॥ २९ ॥

इति जल्पितं जनयितुर्निशम्य स
प्रतिपद्यते स्म परमं तु विस्मयम् ।
क्षितिगर्भमन्दिरगतः पतञ्जले-
रपठीत्कृतिं च बुधकुञ्जराद्गुरोः ॥ ३० ॥

पठिते पतञ्जलिनिबन्धने द्विजः
कृतदारकर्मणि च पुत्रमण्डले ।
शुकशिष्यगौडपदगुर्वनुग्रहा-
च्चरमाश्रमं सुरनदीं च शिश्रिये ॥ ३१ ॥

चतुराननेन विधिनेव मुञ्चता
समधिष्ठितं जगदशेषमात्मनि ।
भजतामुना परमहंससेव्यता-
मथ विश्वनाथपुरमाददे श्रियम् ॥ ३२ ॥

यदुदञ्चितध्वजपटे समीरणैः
कृतनर्मघर्मकणिकानिवारणे ।

निपतन्ति नीलनलिनत्विषो नभ-
श्चरसिद्धचारणपुरंध्रिदृष्टयः ॥ ३३ ॥

दिवसात्ययेषु सुरमुग्धसुभ्रुवो
दिवि विस्मितप्रियहठाहृतांशुकान् ।
कुचकुड्मलान्पिदधते ससंभ्रमं
यदुदग्रकेतनदुकूलपल्लवैः ॥ ३४ ॥

सततं यदीयसदनाग्रवासिन-
स्तरुणव्रजस्य तरलं दृगञ्चलम् ।
रमयन्ति संनिहितनन्दनद्रुम-
स्तबकग्रहोद्यतभुजामरीस्तनाः ॥ ३५ ॥

यदुदग्रसौधभुवि बिम्बविभ्रमे-
ष्वधरेषु नन्दनशुकैर्निपातिभिः ।
जनिते भये दधति मुग्धसुभ्रुवां
परिरम्भसंभ्रमसुखं विलासिनः ॥ ३६ ॥

सुरकुञ्जरे स्पृशति शुण्डयाम्बुज-
स्तबकोऽयमित्यमरसिन्धुबिम्बितौ ।
स्वपयोधरौ यदतितुङ्गसौधगा
सुदती पतिं सभयमेत्य सस्वजे ॥ ३७ ॥

रजनीषु यन्मणिशिरोगृहस्थिताः
प्रियपाणिपङ्कजनिपीडितोरवः ।
सुदृशोऽनिलं च्युतवतंसपल्लवाः
स्तुवते विधूनसुरदीर्घिकोत्पलम् ॥ ३८ ॥

निशि यद्विहारमणिकुट्टिमाङ्गणे
गलितो वधूचिकुरमल्लिकाचयः ।

प्रतिबिम्बितादुडुगणाद्विभिद्यते
निजसौरभेण निबिडीकृतालिना ॥ ३९ ॥

घनयावकाङ्कनिजपादमुद्रितं
नवहंसतूलशयनं सखीजने ।
निपुणं विलोकयति यत्र मुग्धया
सपदि न्यमज्जि महति त्रपाम्बुधौ ॥ ४० ॥

तरुणी गृहाग्रमधिरुह्य दृष्टव-
त्यमरीः सहस्रमनिमेषलोचनाः ।
रमणस्य यत्र मणिसालभञ्जिका-
निकटेऽपि नानुमनुतेऽधरग्रहम् ॥ ४१ ॥

मकरीविलेखनविधौ नवोढया
विवृतौ निरीक्षितुमुरोजकुड्मलौ ।
अपि संवृतस्फटिकभित्तिमन्तरा
बत यत्र निन्दति यु[८]वा विवृण्वतीम् ॥ ४२ ॥

परिरम्भचुम्बनविधायिदम्पति-
प्रतिमामवेक्ष्य यदगारभित्तिषु ।
रहसि प्रियेण शयने सहस्थितिः ।
कियदन्वमन्यत परं नवोढया ॥ ४३ ॥

शिखिपिच्छकस्य समवेक्ष्य चन्द्रकं
वलभीविटङ्कपटलावलम्बिनः ।
यदुदारसद्मनि नवोढया सखी-
नयनभ्रमादपसृतं प्रियान्तिकात् ॥ ४४ ॥

रमणस्य यत्र वसतोऽपि दूरतः
प्रतिबिम्बमेव मणिभित्तिदर्शितम् ।
परिरब्धुमुद्यतभुजा नवा वधू-
र्विजनेऽपि हन्त विरराम केवलम् ॥ ४५ ॥

कुपितां निशम्य रमणीं नवागसा
दयितेन तीव्रमनुनेतुमीयुषा ।
यदगारसीम्नि मणिसालभञ्जिका
प्रणता भिया परिहसत्सखीजनम् ॥ ४६ ॥

निशि यत्र वेश्मनि विधूपलस्फुर-
द्वलभीवलीकगलदम्बुशीतले ।
तरुणो निदाघसमयेष्वपि प्रिया-
कुचकुम्भगाढपरिरम्भमातनोत् ॥ ४७ ॥

घनसारपङ्ककलिते तपागमे
यदगारकुट्टिमतले युवा गतः ।
निपतिष्यतीमिव सखीजनान्तिका-
च्चलितां सलीलमबलां करेऽग्रहीत् ॥ ४८ ॥

जलदागमे जलजलोचनाः पुन-
र्द्दढबद्धजालककवाटमालयम् ।
अधिशय्य यत्र रमणादधीयते
चिरकालविस्मृतमिव स्मरागमम् ॥ ४९ ॥

न हि कश्चिदस्ति किल भिक्षुको जनो
यदधिष्ठितेषु धनधान्यशालिषु
परिधातुमप्यसुलभैकवाससं
भवमन्तरेण धृतभैक्षभाजनम् ॥ ५० ॥

वसनानि वा मणिविभूषणानि वा
सुलभानि यत्र धनिषु प्रदातृषु ।
नटतस्त्विहादिजटिलस्य किं ब्रुवे
वसनं दिगाभरणमस्थिमण्डलम् ॥ ५१ ॥

[९]णिकर्णिकां गतवता शरीरिणा
श्रुतिभूषणं किमपि यत्र लभ्यते ।
इति विस्मयः क इह तत्किलाद्भुतं
यदसावुपागमदहीनकङ्कणम् ॥ ५२ ॥

मणिकर्णिकाम्भसि तनूस्त्यजन्ति ये
मनुजास्ततोऽपहृतकोशपञ्चकाः ।
अपि यत्र मुञ्चति मृ[१०]डो न हि क्षणं
स तथाविधः कितवशेखरो न किम् ॥ ५३ ॥

श्रवणे किमप्युपदिशन्विभूतिम-
प्यलिकेऽर्पय[११]न्नुरसि चास्थिमालिकाम् ।
हरते स यत्र मणिकर्णिकातटे ।
जटिलो यदस्ति जगतीह देहिनाम् ॥ ५४ ॥

निखिलस्मृतीरयमतीत्य वर्ततां
गिरिशो न दण्डधरतो बिभेतु वा ।
करुणाकरोऽप्यपहरन्कथं नृणां
तनुमेव यत्र न पुनः प्रयच्छति ॥ ५५ ॥
 
स्वतनूरपास्य मणिकर्णिकातटे
सहसा विमुक्तिमनुधावतां नृणाम् ।

मनसो गुणास्त्रय इव च्युता बभु-
र्मणिविद्रुमेन्द्रमणयो यदापणे ॥ ५६ ॥

परिशुद्धिदापि बत यत्र जाह्नवी
[१२]लिनीकरोति किल मज्जतां गलान् ।
कथये किमन्यदतिशीतलापि सा ।
घटयत्यहो करतले हुताशनम् ॥ ५७ ॥

सरिदन्तरे ज[१३]लमशीलितं नृणा-
मवगाढमाशु तुदते परं शिरः
बत यत्र दिव्यसरितस्तु तत्पुनः
कुरुतेऽधिरुह्य सततं च पञ्चधा ॥ ५८ ॥
 
स्तुतिपात्रमस्तु सुरदीर्घिका कथं
यदियं यद[१४]न्तरचरी निमज्जताम् ।
समये करे च निटिले च पावकं
विनिधाय पाययति हा महाविषम् ॥ ५९ ॥

यदि धर्तुमिच्छति करोटिकास्रजं
यदि कर्णवेष्टनमहिं चिकीर्षति ।
यदि वा पिपासति विषं जनस्तदा
विदधातु यत्र विबुधापगाप्लवम् ॥ ६० ॥

शुचिरद्रिजारमणनेत्रनिर्गतः
प्रथमो ददाह किल का[१५]ममूष्मलम् ।
इति शीतलः सुरनदीझरो नृणा-
मपरोऽपि यत्र षडरीनपोहति ॥ ६१ ॥


मनुजाय यत्र मणिकर्णिकातटे
स तु तस्य जल्पति मनुं तनुत्यजे ।
अपि यः पिशाचनिचयस्य नायकः
कपयः प्रपत्तिमथ यस्य कुर्वते ॥ ६२ ॥

निजचापभिन्निजनिषङ्गभङ्गकृ-
न्निजभक्तपङ्क्तिगलदारणो रणे ।
इति यत्र भूतपतिरीर्ष्ययेव त-
त्पदमर्पयत्यहह पामरेष्वपि ॥ ६३ ॥

[१६] तु विश्वनाथपुरमावसन्यतिः
समुपेयुषां सदसती हि वस्तुनी ।
वचनेन चञ्चुकलनेन विष्टपे
विविवेच हंस इव दुग्धपाथसी ॥ ६४ ॥

उपसंहृतेन विषयानुधावना-
त्परमे स्व एव परिनिष्ठितेन च ।
समवृत्तिना सहृदयेन पप्रथे
सुखदुःखयोः सखिसपत्नयोरपि ॥ ६५ ॥

स्वपनप्रपञ्चसदृशं जगत्त्रयं
विदुषा मृषा मरुमरीचिवारिव ।
अमुना स्वरूपमवशेषितं धिया
परमात्मबोधसुखमात्रलक्षणम् ॥ ६६ ॥

सुरसिन्धुरोधसि गिरीशसंनिधा-
वतिनीय तत्र कियतोऽप्यनेहसः ।


विरहासहैरनुगतः स योगिभिः
परिपावनं बदरिकाश्रमं ययौ ॥ ६७ ॥

ब्रह्माद्वैतं पश्यताशेषविश्वं
गोविन्दखामीति गीतेन लोके ।
पुण्यक्षेत्रे तत्र नारायणीये
कांश्चित्कालानाश्रमे तेन तस्थे ॥ ६८ ॥


इति श्रीयज्ञरामदीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृतौ पतञ्जलिचरिते
सप्तमः सर्गः ।


  1. षड् दर्शनानि. तदुक्तं शास्त्रनिर्णेये--
    ‘कपिलस्य कणादस्य गौतमस्य पतञ्जलेः ।

    व्यासस्य जैमिनेश्चैव दर्शनानि षडेव तु ॥'
  2. पञ्चदशश्लोकस्योत्तरार्धस्तदनन्तरीयस्य पूर्वार्धश्च ख-पुस्तके न स्तः
  3. ‘सुकृती कृतिं’ ख.
  4. ‘फणिशिष्यचेष्टितमपि द्रुतं’ क.
  5. ‘पठितान्निरागसां’ क.
  6. ‘उदेत्यनर्गलम्’ क.
  7. ‘प्रथमोत्तमस्य’ क.
  8. ‘युवा विवृण्विति' क.
  9. अयं श्लोकः ख-पुस्तके नास्ति.
  10. ‘मृडोनभीक्षणं' इति ख-पुस्तके वर्तते. अतश्चिन्तनीयः को वा पाठः शुद्ध इति.
  11. 'अर्पयन्शिरसि' क.
  12. 'मलिनीकरोति बत' क.
  13. 'जलमशीतलम्' इति क-पुस्तकस्थपाठो न साधुर्द्दश्यते.
  14. ‘यदन्तरचिरं' ख.
  15. ‘कामकुड्मलम्' ख.
  16. ‘स तु विश्वनाथपुरमावसद्मतिः' क.