पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५३

← अध्यायः २५२ पद्मपुराणम्
अध्यायः २५३
वेदव्यासः
अध्यायः २५४ →

श्रीपार्वत्युवाच-
भगवन्सर्वमाख्यातं वैभवावस्थितं हरेः ।
एतस्मिन्रामकृष्णाभ्यां चरित्रमति विस्मितम् १।
अहो रामस्यचरितं कृष्णस्य च महात्मनः ।
शृण्वत्या मम देवेश कल्पांतरशतैरपि २।
तृप्तिं नैवेति भूतेश चेतो हरिकथामृतम् ।
अधुना श्रोतुमिच्छामि विष्णोर्माहात्म्यमुत्तमम् ।
तत्पूजनविधिं देव श्रोतुमिच्छाम्यहं तथा ३।
श्रीरुद्र उवाच-
शृणु देवि प्रवक्ष्यामि हरेश्च सुमहात्मनः ।
स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम् ४।
शिला मृद्दारुलोहाद्यैः कृत्वा प्रतिकृतिं हरेः ।
श्रौतस्मार्तागमप्रोक्तक्रियासंस्थापनं हि यत् ५।
तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।
यस्मिन्संनिहितो विष्णुः स्वयमेव नृणां भुवि ६।
पाषाणदार्वोरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम् ।
स्वयं व्यक्तं स्थापितं वा पूजयेन्मधुसूदनम् ७।
देवतानां मर्हषीणामर्चनार्थे सनातनः ।
स्वयमेव जगन्नाथः सान्निध्यं याति केशवः ८।
यस्य यद्विग्रहे भोग्यं तदेवाविरभूद्भुवि ।
तदेव पूजयेन्नित्यं तस्मिन्नेव रमेत्सदा ९।
श्रीरङ्गशायी देवेशो विधिनार्च्यः सुरोत्तमः ।
स एवेक्ष्वाकुनाथानां तपसाविरभूद्भुवि १०।
ममापि काश्यां संपूज्यो माधवः कलुषापहः ।
यत्र यत्र गृहे रम्ये स्वयं व्यक्तः सनातनः ११।
तत्रतत्र समागम्य रमेऽहं संव्यवस्थितः ।
नाष्टांगयोगे यज्ञेशस्त्वर्चायां विंदते नृणाम् १२।
चक्षुषोर्विषयं प्राप्य ददाति वरमीप्सितम् ।
सर्वावस्थासु सौलभ्यमर्चायां लभ्यते जनैः १३।
अज्ञानामपि सान्निध्यं सर्वदा पृथिवीतले ।
जंबूद्वीपे महापुण्ये वर्षे वै भारते शुभे १४।
अर्चायां संनिधौ विष्णुर्नेतरेषु कदाचन ।
तत्तस्माद्भारते वर्षे मुनिभिस्त्रिदशैरपि १५।
सेवितः सततं देवि तपोयज्ञक्रियादिभिः ।
भारतेऽस्मिन्महावर्षे नित्यं संनिहितो हरिः १६।
ऐंद्रद्युम्ने तथा कौर्मे सिंहाद्रौ करवीरके ।
काश्यां प्रयागे सौम्ये च शालग्रामाचले तथा १७।
द्वारवत्यां नैमिषे च तथा बदरिकाश्रमे ।
कृतशौचे हरेत्पापं पौंडरीके च दंडके १८।
माथुरे वेङ्कटाद्रौ च श्वेताद्रौ गरुडाचले ।
कांच्यामनंतशयने श्रींरगे वासवाचले १९।
नारायणाचले सौम्ये वाराहे वामनाश्रमे ।
एवमाद्याः स्वयं व्यक्ताः सर्वकामफलप्रदाः २०।
स्वयमेव हि सान्निध्यं यस्मिन्याति जनार्दनः ।
तस्मिन्नेव स्वयं व्यंक्तं वदंति मुनयः शुभाः २१।
महाभागवतश्रेष्ठो विधिना स्थाप्य केशवम् ।
मंत्रेण कुर्यात्सांनिध्यं स्थापनं तद्विशिष्यते २२।
तस्मिन्संपूजयेद्देवं ग्रामेषु च गृहेषु च ।
शालग्रामशिलायां तु गृहार्चा सद्भिरिष्यते २३।
अर्चनं मंत्रपठनं यागयोगो महात्मनः ।
नामसंकीर्तनं सेवा तच्चिह्नैरंकनं तथा २४।
तदीयाराधनं च स्यान्नवधा भिद्यते शुभे ।
तत्तत्कर्मविधानं च विप्रस्य सततं स्मृतम् २५।
महाभागवतः श्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम् ।
सर्वेषामेवलोकानामसौ पूज्यो यथा हरिः २६।
तापादिपंच संस्कारि नवेज्याकर्मकारकः ।
अर्थपंचकविद्विप्रो महाभागवतः स्मृतः २७।
तत्तत्कर्मविधानेज्या क्षत्त्रियस्य विधीयते ।
तच्चिह्नैरंकने सेवा तदीयानां च पूजनम् २८।
मंत्रवर्णस्य जपनं नामसंकीर्तनं हरेः ।
वंदनं च विशां प्रोक्तं षट्कर्मेज्याविधानतः २९।
नामसंकीर्तनं सेवा पूजनं वंदनं तथा ।
अर्चनं च तदीयानां पंचेज्या शूद्रजन्मनः ३०।
साधारणेन सर्वेषां मानसेज्या नृणां प्रिये ।
स्वाधिकारानुरूपं च कार्या चेज्या जगत्पतेः ३१।
अनन्यदेवताभक्तैरनन्यफलसाधकैः ।
वेदविद्ब्रह्मतत्त्वज्ञैर्वीतरागैर्मुमुक्षुभिः ३२।
गुरुभक्तिसमायुक्तैः सुप्रसन्नैः सुसाधुभिः ।
ब्राह्मणैरितरैश्चापि पूजनीयो हरिः सदा ३३।
यथोचिता च वर्णस्य कार्या इज्या हरेर्नृणाम् ।
वर्णाश्रमानुरूपं च कर्त्तव्यं वैष्णवैः शुभैः ३४।
श्रुतिस्मृत्युदितं सम्यङ्नित्यमत्र समाचरेत् ।
श्रुतिस्मृत्युक्तकर्माणि नातिक्रामेत बुद्धिमान् ३५।
श्रुतिस्मृत्युक्तमाचारं यो न सेवेत वैष्णवः ।
स च पाखंडमापन्नो रौरवे नरके वसेत् ३६।
तस्माद्वर्णानुरूपां वै कुर्यादिज्यां जगत्पतेः ।
तस्मात्स्मृत्युक्तमाचारं कुर्याद्वै मानवः सदा ३७।
साधारणा हि सर्वेषां मानसेज्या शुभे नृणाम् ।
स्वाधिकारं निरीक्ष्यैव कर्म कुर्यादतंद्रितः ३८।
शमोदमस्तपः शौचं सत्यमामिषवर्जनम् ।
अस्तेयमेवाहिंसा च सर्वेषां धर्मसाधनम् ३९।
तस्माद्वर्णानुरूपेण पूजयेन्मधुसूदनम् ।
रात्रावंते समुत्थाय उपस्पृश्य यथाविधि ४०।
नमस्कृत्य गुरून्स्वस्य संस्मरेदच्युतं हृदि ।
सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ४१।
बहिर्ग्रामात्समुसृज्य मूलमंत्रं यथाविधि ।
शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ४२।
दंतधावनपूर्वं तु स्नानं कुर्याद्यथाविधि ।
आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ४३।
मूलमंत्रेणाभिमंत्र्य गायत्र्या च शुभानने ।
मंत्रेणैवानुलिप्तांगः स्नायात्कृत्वाघमर्षणम् ४४।
हरिपादोद्भवां गंगां तत्रावाह्य सुनिर्मले ।
निमज्ज्याशु जपेत्सूक्तमघमर्षणमुत्तमम् ४५।
आचम्य मार्जनं कुर्यात्पौरुषोक्तक्रमादथ ।
पश्चादाशु निमज्ज्याथ मूलमंत्रं जपेद्बुधः ४६।
अष्टाविंशतिवारं वा शतमष्टोत्तरं च वा ।
प्रार्थयेदभिमंत्र्याथ जलमंत्रेण वैष्णवः ४७।
आचम्य तर्पयेद्देवान्नृषींश्चैव पितॄंस्तथा ।
निपीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ४८।
विमलां मृत्तिकां रम्यामादाय द्विजसत्तमः ।
मंत्रेणैवाभिमंत्र्याथ ललाटादिषु वैष्णवः ४९।
धारयेदूर्द्ध्वपुंड्रानि यथासंख्यमतंद्रितः ।
उपास्य विधिवत्संध्यां सावित्रीं च जपेद्बुधः ५० 6.253.50।
संयतात्मा गृहं गत्वा पादौ प्रक्षाल्य वाग्यतः ।
आचम्यैकाग्रमनसा पूजामंडपमाविशेत् ५१।
रम्ये शुभ्रतरे पीठे पुष्पोपचय शोभिते ।
तस्मिन्निवेश्य देवं तं लक्ष्मीनारायणं प्रभुम् ५२।
पूजयेद्विधिना सम्यग्गंधपुष्पाक्षतादिभिः ।
स्थापने वा स्वयं व्यक्ते गृहार्चायां विधानतः ५३।
श्रौतस्मार्तागमोक्तानामर्चनं विधिना द्विजः ।
कुर्याद्भक्त्या यथार्हं च विष्णोः प्रयतमानसः ५४।
यथोपदिष्टं गुरुणा तथा कुर्वीत वैष्णवः ।
श्रौतं वैखानसं प्रोक्तं वासिष्ठं स्मार्तमुच्यते ५५।
पंचरात्रविधानं च दिव्यागममितीरितम् ।
क्रियालोपं न कर्त्तव्यं विष्णोराराधनं परम् ५६।
आवाहनासनार्घ्याद्यैर्गंधपुष्पाक्षतादिभिः ।
धूपैर्दीपैश्च नैवेद्यैस्तांबूलाद्यैर्नमस्कृतैः ५७।
कुर्यादाराधनं विष्णोर्यथाशक्त्या मुदान्वितः ।
प्रत्यृचं पुरुषसूक्तेन मूलमंत्रेण वैष्णवः ५८।
मंत्रद्वयेन कुर्वीत षोडशैरुपचारकैः ।
भूयः प्रत्युपचारेषु दद्यात्पुष्पाञ्जलिं ततः ५९।
आवाहयेज्जगन्नाथं मुद्रया चैव वैष्णवः ।
आसनं तु यथा दद्यात्पुष्पकेण च मुद्रया ६०।
दीपार्घ्याचमनं स्नानं पात्रस्थैर्विमलैर्जलैः ।
मंगलद्रव्यसंयुक्तैस्तुलसीदलमिश्रितैः ६१।
दद्यात्प्रत्युपचारं तु मूलमंत्रद्वयेन च ।
सुवासितेन तैलेन कुर्यादभ्यंजनं ततः ६२।
कस्तूर्याचंदेनेनापि कुर्यादुद्वर्त्तनादिकम् ।
सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ६३।
वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि ।
मधुपर्कं ततो दद्याद्गंधं दद्यात्सुवासितम् ६४।
सुरभीणि सुपुष्पाणि भक्त्या सम्यङ्निवेदयेत् ।
धूपं दशांगमष्टांगं दीपं च सुमनोहरम् ६५।
नैवेद्यं विविधं दद्यात्पायसापूपमिश्रितम् ।
कर्पूरं तु सतांबूलं भक्त्या चैव निवेदयेत् ६६।
दीपैर्नीराजनं कृत्वा पुष्पमालां समर्चयेत् ।
परिणीय प्रणम्याथ स्तुत्वा स्तोत्रैरनुत्तमैः ६७।
गरुडाङ्के शाययित्वा मङ्गलार्घ्यं निवेदयेत् ।
संकीर्त्य नामभिः पुण्यैः पश्चाद्धोमं समाचरेत् ६८।
हरेर्नैवैद्यशेषेण जहुयाद्वह्निमंडले ।
प्रत्यृचं पौरुषं सूक्तं श्रीसूक्तं मंगलाह्वयम् ६९।
होतव्यमाज्यसंमिश्रं हविषा वैदिकानले ।
प्रोक्तेन मंत्ररत्नेन जुहुयाद्भक्तिसंयुतम् ७०।
अष्टोत्तरशतवारमष्टाविंशतिमेव च ।
यज्ञरूपं महाविष्णुं ध्यायन्वै जुहुयाद्धविः ७१।
शुद्धजांबूनदनिभं शंखचक्रगदाधरम् ।
समस्तवेदवेदांतसांगोपांगयुतं प्रभुम् ७२।
देव्या श्रिया समासीनं ध्यात्वा होमं समाचरेत् ।
एकैकामाहुतिं पश्चान्नामभिर्जुहुयाद्धविः ७३।
नित्यान्भक्तान्समुदिदश्य महाभागवतोत्तमः ।
भूलीला विमलाद्याश्च शक्तयः प्रथमं क्रमात् ७४।
अनंतं विहगेंद्रादि देवतास्तदनंतरम् ।
वासुदेवादयः पश्चात्तथा शक्त्यादि देवताः ७५।
मूर्त्तयः केशवाद्याश्च तथा संकर्षणादयः ।
मत्स्यकूर्मादयश्चैव तथा चक्रादिहेतयः ७६।
कुमुदादयश्च त्रिदशास्तथा चंद्रादिदेवताः ।
इंद्रादिलोकपालाश्च तथा धर्मादिदेवताः ७७।
होतव्याः क्रमशस्तस्मिन्संपूज्याश्च विशेषतः ।
एतद्वैकुंठहोमं तु महाभागवतोत्तमः ७८।
नित्यार्चनविधौ नित्यं कुर्वीत सुसमाहितः ।
गृहार्चने गृहद्वारि पंचयज्ञविधानतः ७९।
दत्त्वा बलिविधानेन पश्चादाचमनं चरेत् ।
उपविश्यासने शुभ्रे कृष्णाजिनकुशोत्तरे ८०।
मंत्रयोगे प्रकुर्वीत भोगार्थं सुखमात्मनः ।
सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ८१।
प्राणायामत्रयं कुर्यान्मन्त्रेण विजितेंद्रियः ।
उदङ्मुखं ततः कृत्वा हृत्पङ्कजमनुत्तमम् ८२।
विकासं तस्य कुर्वीत विज्ञानरविणा हृदि ।
तत्कर्णिकायां वह्न्यर्कशशिबिंबान्यनुक्रमात् ८३।
त्रयं त्रयीमये तस्मिंश्चिंतयेद्वैष्णवोत्तमः ।
नानारत्नमयं पीठं तेषामुपरि चिंतयेत् ८४।
तस्मिन्हृत्पद्ममूलांते बालार्कसदृशद्युतिम् ।
अष्टैश्वर्यदलं पद्मं मंत्राक्षरमयं चरेत् ८५।
तस्मिन्देव्या समासीनं कोटिशीतांशुसंनिभम् ।
चतुर्भुजं सुंदरांगं शंखचक्रगदाधरम् ८६।
पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् ।
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रधरं प्रभुम् ८७।
विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम् ।
दिव्यचंदनलिप्तांगं दिव्यपुष्पोपशोभितम् ८८।
तुलसीकोमलदलवनमालाविभूषितम् ।
बालार्ककोटिसदृशं कांत्या देव्या श्रिया सह ८९।
सर्वलक्षणलक्षण्या समाश्लिष्टतनुः शिवम् ।
एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः ९०।
सहस्रं शतवारं वा यथाशक्त्याऽथवापि च ।
मनसैवार्चनं कृत्वा विरमेत्तत्र भक्तितः ९१।
तदीयानर्च्चयेद्भक्त्या तस्मिन्काले समागतान् ।
तर्पयित्वान्नपानाद्यैरनुव्रज्य विसर्जयेत् ९२।
अर्च्चयित्वा पितॄन्देवांस्तर्पयेच्च विधानतः ।
संपूज्यातिथिभृत्यांश्च भुंजीयातां च दम्पती ९३।
यक्षराक्षस भूतानामर्चनं वर्जयेत्सदा ।
यो मोहात्कुरुते विप्रः स चांडालो भवेद्ध्रुवम् ९४।
यक्षाणां च पिशाचानां मद्यमांसभुजां तथा ।
दिवौकसां तु भजनं सुरापानसमं स्मृतम् ९५।
ब्रह्मराक्षसवेतालयक्षभूतार्चनं नृणाम् ।
कुंभीपाकमहाघोर नरकप्राप्तिसाधनम् ९६।
कोटिजन्मकृतं पुण्यं यज्ञदानक्रियादिकम् ।
सद्यः सर्वं लयं याति यक्षभूतादिपूजनात् ९७।
स्त्रियो वा पुरुषो वापि यक्षभूतादिकार्च्चनात् ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ९८।
क्रिमिर्भूत्वाथ विष्ठायां पितृभिः सह मज्जति ।
यक्षाणां च पिशाचानां तामसानां दिवौकसाम् ९९।
निवेदितान्नं योऽश्नाति पूयशोणितभुग्भवेत् ।
यक्षान्भूतगणांश्चान्यान्क्रूरान्वै ब्रह्मराक्षसान् १०० 6.253.100।
उद्दिश्य भुङ्क्ते यो विप्रः सद्यश्चाण्डाल एव सः ।
या नारी पूजयेद्यक्षान्पिशाचोरगराक्षसान् १०१।
सा याति नरकं घोरं कालसूत्रमधोमुखी ।
पितृभिः सह कल्पांतमुषित्वा तत्र दारुणे १०२।
लिहन्मूत्रपुरीषं वै कृच्छ्रात्सूचिमुखैस्तथा ।
कृमिभिर्भक्षमाणांगो यावदाभूतसंप्लवम् १०३।
पश्चाद्भूमौ दशाहेषु जायते शतसंख्यया ।
तस्माद्यक्षादिकानां च देवानामर्च्चनं त्यजेत् १०४।
स्वतंत्रपूजनं यत्र वैदिकानामपि त्यजेत् ।
अर्च्चयित्वा जगद्वंद्यं देवं नारायणं हरिम् १०५।
तदावरणसंस्थानं देवस्य परितोऽर्च्चयेत् ।
हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् १०६।
होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवः ।
हरेर्निवेदितुं सम्यग्देवेभ्यो जुहुयाद्धविः १०७।
पितृभ्यश्चापि तद्दद्यात्सर्वमानंत्यमाप्नुयात् ।
प्राणिनां पीडनं यत्तद्विदुषां निरयाय वै १०८।
अदत्तं चैव यत्किंचित्परस्वं गृह्यते नरैः ।
स्तेयं तद्विद्धि गिरिजे नरकस्यैव कारणम् १०९।
लशुनं मद्यपानादि मूलकं गृंजनं तथा ।
तिलपिष्टं शिग्रु बिल्वं तथा कोशातकीं तथा ११०।
अलाबुं चैव वार्ताकं बीजालद्यं कवचानि च ।
एवमन्यान्यभक्ष्याणि शास्त्रदृष्टानि वै नरः १११।
खादन्नरकमाप्नोति विचित्रमशिवं तथा ।
अवैष्णवानां यच्चान्नं पतितानां तथैव च ११२।
अनर्पितं तथा विष्णोः श्वमांससदृशं भवेत् ।
यक्षराक्षसभूतान्नं सुरा मद्यं च गृञ्जनम् ११३।
योऽश्नाति निरयं याति पूयशोणितभोजनम् ।
एतैः संस्थापनस्पर्शसहवासादिभिर्नरः ११४।
तेपियान्त्येव निरयं विण्मूत्रकृमिभोजनम् ।
पतितानां च संसर्गात्पाखंडानां तथैव च ११५।
सर्वयज्ञस्यभोक्तारं पुराणं पुरुषोत्तमम् ।
ज्ञात्वा सर्वं प्रकुर्वीत नित्यनैमित्तिकाः क्रियाः ११६।
यक्षराक्षसभूताश्च कूष्माण्डगण भैरवाः ।
नार्च्चनीयाः सदा देवि स्वर्गलोकमभीप्सुभिः ११७।
यक्षराक्षसभूतानामर्च्चनं वर्जयेद्द्विजः ।
पैशाचत्वमवाप्नोति कल्पकोटिशतत्रयम् ११८।
तस्माद्राक्षसभूतानामर्चनं प्रतिषिध्यते ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ११९।
रौरवं नरकं याति यक्षभूतगणार्चनात् ।
शंखचक्रादिभिश्चिह्नैरन्यैः प्रियतमैर्हरेः १२०।
रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत् ।
अगम्यागमनाद्धिंसा परद्रव्यापहारणात् १२१।
अभक्ष्यभक्षणात्सद्यो नरकं समवाप्नुयात् ।
यस्तु पाणिगृहीतां च हित्वाऽन्यां यो स्त्रियं व्रजेत् १२२।
अगम्यागमनं तद्धि सद्यो नरककारकम् ।
पतितानां च संसर्गात्पाखंडानां तथैव च १२३।
विकर्मस्थानां च तथा यात्येव निरयं नरः ।
संसर्गिणां च संसर्गं तत्संसर्गमपि त्यजेत् १२४।
वैष्णवः कुलमेकं तु वर्जयेत्पापसंयुतम् ।
एकांती संत्यजेद्ग्रामं महापातकमिश्रितम् १२५।
तथैव परमेकान्ती तद्देशमपि वर्जयेत् ।
स्वकर्म्मज्ञानभक्त्यादि साधनं वैष्णवं स्मृतम् १२६।
हरेराज्ञानुरूपेण कर्मज्ञानादि यश्चरेत् ।
स एकांती भवेद्विप्रो वासुदेवपरायणः १२७।
अकृत्यं वैष्णवः पापबुद्ध्या सम्यक्परित्यजेत् ।
एकांती संत्यजेच्छास्त्रं दूषणान्मनसापि च १२८।
तथैव परमैकांती हेयबुद्ध्या परित्यजेत् ।
नित्यं नैमित्तिकं काम्यं कृत्यं तु त्रिविधं स्मृतम् १२९।
ज्ञानं तथैवलोकेऽस्मिन्मुनिभिः संप्रकीर्तितम् ।
कृत्याकृत्यविवेकं च परलोकस्य चिंतनम् १३०।
तत्प्राप्तिसाधनं विष्णोः स्वरूपज्ञानमेव च ।
भक्तियुक्तो भवेद्भक्तो नवधा सा प्रकीर्तिता १३१।
सुदर्शनोर्द्ध्वपुंड्रादि तच्चिह्नैरंकनं शुभम् ।
सद्गुरोमंत्रपठनमर्चनं विधिना हरेः १३२।
स्मरणं कीर्तनं विष्णोः सेवा च परमात्मनः ।
प्रणामस्तस्य पुरतस्तदीयानां च पूजनम् १३३।
प्रसादतीर्थसेवा च भक्तिर्नवविधा स्मृता ।
यस्मात्प्रपद्यते देवं शरणं वैष्णवो हरिम् १३४।
प्रपत्तिः सा तु विज्ञेया त्रिविधा संप्रकीर्तिता ।
तामसी राजसी चैव सात्विकी त्रिविधा स्मृता १३५।
सापि त्रिधाकृता सिद्धिः सामान्या सर्वदेहिनाम् ।
एतच्चतुष्टयं देवि हेयं संत्यज्य वैष्णवः १३६।
उपायभूतं ब्रह्मैवमवलंबेत वैष्णवम् ।
उपायभावात्संत्यज्य कर्मज्ञानादिकं नरः १३७।
कुर्वीत भगवत्प्रीत्यै महाभागवतोत्तमः ।
त्रिकालमर्चयेद्विष्णुं भक्त्या वै पुरुषोत्तमम् १३८।
नैमित्तिके विशेषेण पूजयेद्विधिना शुभे ।
प्रत्यहं कार्तिके मासि जातीपुष्पैः समर्चयेत् १३९।
दद्यादखंडं दीपं च नियतात्मा दृढव्रतः ।
ब्राह्मणान्भोजयित्वांते हरिसायुज्यमाप्नुयात् १४०।
धनुष्युषसि देवेशं मासमेकं निरंतरम् ।
अर्चयेदुत्पलैर्देवि करवीरैः सितासितैः १४१।
धूपदीपैश्च नैवेद्यैर्यथाशक्त्या निवेदयेत् ।
समाप्तौ भोजयेद्विप्रान्महाभागवतोत्तमान् १४२।
अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयम् ।
तपो मास्युदिते भानौ स्नात्वा नद्यां विशेषतः १४३।
अर्च्चयेन्माधवं पुष्पैरुत्पलैश्च शुभानने ।
पायसं सघृतं दिव्यं भक्त्या तत्र निवेदयेत् १४४।
स्नात्वा संपूजयेद्विष्णुं मासमेकं निरंतरम् ।
शर्करांबुयुतं नित्यमुद्यानं विनिवेदयेत् १४५।
वैष्णवान्पूजयेद्भक्त्या मासान्ते शुभदर्शने ।
मधुमासि तथा नित्यं बकुलैश्चंपकैरपि १४६।
पूजयेज्जगतामीशं गुडान्नं च निवेदयेत् ।
मासांते वैष्णवान्विप्रान्भोजयेत्सुसमाहितः १४७।
सहस्रवार्षिकीं पूजां प्रतिनित्यमवाप्नुयात् ।
माधवे पूजयेद्देवं शतपत्रैर्महोत्पलैः १४८।
पूजयित्वा विधानेन दध्यन्नं फलसंयुतम् ।
गुडोदकं च भक्त्या वै तस्मिन्देवि निवेदयेत् १४९।
लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्वति ।
शुक्रे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः १५० 6.253.150।
अर्चयित्वा हृषीकेशमन्नं चूतफलैर्युतम् ।
निवेदयित्वा भक्त्या वै गवांकोटिप्रदो भवेत् १५१।
वैष्णवान्भोजयित्वाथ सर्वमानंत्यमाप्नुयात् ।
आषाढे देवदेवेशं लक्ष्मीभर्तारमच्युतम् १५२।
श्रीपुष्पैरर्चयेन्नित्यं पायसान्नं निवेदयेत् ।
मासान्ते भोजयेद्विप्रान्महाभागवतोत्तमान् १५३।
षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयः ।
नभोमास्यर्चयेद्विष्णुं पुन्नागैः केतकीदलैः १५४।
अर्चयित्वाच्युतं भक्त्या न भूयो जन्मभाग्भवेत् ।
दद्यादपूपान्भक्त्याथ शर्कराघृतमिश्रितान् १५५।
ब्राह्मणान्भोजयेत्तद्वत्सर्वमानंत्यमाप्नुयात् ।
नभस्येऽप्यर्चयेदीशं कुंदैः कुरबकैरपि १५६।
क्षीरान्नं गुडसंमिश्रं भक्त्या तत्र निवेदयेत् ।
गवांकोटिप्रदानस्य प्रत्यहं फलमाप्नुयात् १५७।
नीलोत्पलैरिषे मासि पूजयेन्मधुसूदनम् ।
भक्त्या निवेदयेत्तस्मिन्क्षीरमापूपमिश्रितम् १५८।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैष्णवं लोकमाप्नोति मुदितः स्वजनैर्वृतः १५९।
ऊर्जे मासि तथा देवि कोमलैस्तुलसीदलैः ।
पूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् १६०।
क्षीराज्यशर्करोपेतमन्नं वै पायसं तथा ।
अपूपं च क्रमेणैव भक्त्या सम्यङ्निवेदयेत् १६१।
अमायां मंदवारे च वैष्णवर्क्षे तथैव च ।
रविसंक्रमे व्यतीपाते ग्रहणं चंद्र सूर्ययोः १६२।
विशेषेणार्चयेद्विष्णुं यथाशक्त्या वरानने ।
गुरोरुत्क्रांतदिवसे जन्मर्क्षेषु तथा हरेः १६३।
इष्टिं च वैष्णवीं कुर्याच्छक्त्या वै द्विजसत्तमः ।
दद्यात्पुष्पांजलिं तत्र प्रत्यर्चं वेदसंमितम् १६४।
पारणं चापि कुर्वीत चरुणा पायसेन वा ।
वैष्णवान्भोजयेद्विप्राञ्छक्त्या दद्याच्च दक्षिणाम् १६५।
कुलकोटिं समुधृत्य वैष्णवं पदमाप्नुयात् ।
सर्ववेदैरशक्तश्चेद्यष्टुं भागवतोत्तमम् १६६।
वैष्णवैरनुवाकैर्वा सप्तरात्रं निरंतरम् ।
पुष्पांजलिसहस्रं तु होमं च प्रत्यहं चरेत् १६७।
प्रीतये वा भगवतः प्रतिश्लोकं यजेदबुधः ।
अथवा मंत्ररत्नं हि सप्तरात्रं निरंतरम् १६८।
अष्टोत्तरसहस्रं तु जुहुयाद्धविषा यजेत् ।
विशेषेणार्चयेद्विद्वान्महाभागवतोत्तमान् १६९।
अंते चावभृथं कुर्याद्यथाविभवसारतः ।
वैष्णवैरनुवाकैश्च कुर्यादवभृथं द्विजः १७०।
अत्र स्नात्वा विधानेन यथाशक्त्या द्विजोत्तमः ।
शुभे पात्रांतरे रम्ये पादौ प्रक्षाल्य भक्तितः १७१।
अर्चयेद्गंधपुष्पाद्यैर्वस्त्रैराभरणादिभिः ।
तांबूलेन फलैर्वापि यथाशक्त्या समर्चयेत् १७२।
भोजयित्वान्नपानाद्यैः प्रणम्य च पुनःपुनः ।
आसीमांतमनुव्रज्य नमस्कृत्य विसर्जितम् १७३।
पुनः प्रणम्य भक्त्याथ शनैस्तत्र निवर्त्तितः ।
गृहं प्रविश्य देवेशं पूजयेत्प्रयतात्मवान् १७४।
एवमभ्यर्चयेद्विष्णुं यावज्जीवमतंद्रितः ।
तदीयांश्च विशेषेण पूजयेत्सर्वदा शुभे १७५।
आराधनानां सर्वेषां विष्णोराराधनं परम् ।
तस्मात्परतरं देवि तदीयानां समर्चनम् १७६।
अर्चयित्वापि गोविंदं तदीयान्नार्चयेत्पुनः ।
न स भागवतो ज्ञेयः केवलं दांभिकः स्मृतः १७७।
पुमांस्तस्मात्प्रयत्नेन वैष्णवान्पूजयेत्सदा ।
सर्वं तरति दुःखौघं महाभागवतार्चनात् १७८।
एवमुक्तं मया देवि विष्णोराराधनं परम् ।
नित्यनैमित्तिकं चैव तदीयानां च पूजनम् १७९।
पौरुषं तस्य याथात्म्यं फलसाधनमेव च ।
तस्यावसथदेहं च कर्माद्यपि चतुष्टयम् ।
तव प्रोक्तं मया देवि किमन्यच्छ्रोतुमिच्छसि १८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विष्णुपूजाविधानवैष्णवाचारकथनंनाम त्रिपंचाशदधिकद्विशततमोऽध्यायः २५३।