पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६९

← अध्यायः १६८ पद्मपुराणम्
अध्यायः १६९
वेदव्यासः
अध्यायः १७० →

महेश उवाच।
ततःपरं देवनदी वार्त्रघ्नी संगमात्किल ।
प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम् १।
समुद्रोऽपि तया तावदागम्य प्रियकाम्यया ।
साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम् २।
भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा ।
सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी ३।
तयोस्तुसंगमः पुण्यः सागरस्योत्तरे तटे ।
तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः ४।
नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात् ।
प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम् ५।
जित्वा वै दानवान्सर्वान्देवानां परिपंथिनः ।
देवो यज्ञवराहश्च संक्षोभ्य मकरालयम् ।
क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ ६।
पार्वत्युवाच।
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम् ।
निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात् ७।
महादेव उवाच।
अंतर्भू क्रीडितमिदं वराहस्य हरेः पुरा ।
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि ८।
योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः ।
देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः ९।
धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम् ।
तत्र तीर्थं महज्जातं वराहाख्यं तु सुंदरि १०।
तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः ।
अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे ।
विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत् ११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे वाराहतीर्थंनामैकोनसप्तत्यधिकशततमोऽध्यायः १६९।