पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८८

← अध्यायः १८७ पद्मपुराणम्
अध्यायः १८८
वेदव्यासः
अध्यायः १८९ →

[]ईश्वर उवाच-
अतः परं प्रवक्ष्यामि भवानि भवमुक्तये ।
गीताचतुर्दशाध्यायमवधारय सुस्मिते १।
मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमंडलम् ।
राजधानी सरस्वत्या आस्ते चैव मनोहरा २।
यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति ।
हंसमारुह्यमानापि सावित्रीप्रहतैरपि ३।
सरस्वतीपदांभोज सेवामाश्रित्य कुंकुमैः ।
यत्र गौरवयंत्याशा हंसपक्षपुटोद्भवैः ४।
निरंतरं तया चैव नृणां संस्कृतभाषिणाम् ।
सुपर्वाणमयी भाषा निमेषेणोपलभ्यते ५।
प्रातर्गृहांगणोद्भूतै र्यत्रकुंकुमपांसुलैः ।
सर्वतोरुणितच्छाय शशांकरविमंडलम् ६।
तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः ।
उद्यदुज्ज्वलबाणौघ खंडितारातिमंडलः ७।
अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः ।
नाम्ना विक्रमवेतालः कलानामपि शेवधिः ८।
उभौ परस्परं मैत्रीं वर्द्धयांचक्रतुः क्रमात् ।
तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः ९।
एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा ।
राजा विक्रमवेतालो[] विलोक्य शुनकीद्वयम् १०।
मत्तमातंगतुरग मणिभूषणचामरम् ।
प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे ११।
एकदा शिबिकारूढश्चारु चामरवीजितः ।
सुवर्णशृंखलारूढं वाद्यडिंडिमडंबरम् १२।
शुनीयुगलमादाय मृगया कौतुकोत्सुकः ।
राजा जगाम बाह्यालीं समं राजकुमारकैः १३।
पणबंधविधानेन समुपेतं शशामिषम् ।
तत्र राजकुमाराणां महान्कोलाहलोऽभवत् १४।
ततः समानवयसा केनचिद्राजसूनुना ।
बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी १५।
ततोवतार्य दोलाया विरुदावलिगर्विताम् ।
धावतः शशकस्योच्चैः पृष्ठे मुंचन्नृपं शुनीम् १६।
मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः ।
विरराम शुनीमुच्चैः संकीर्त्य विरुदावलीम् १७।
अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम् ।
धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम् १८।
पपात गर्ते महति शशकोऽतिश्रमादसौ ।
पतितोऽपि शुनी वश्यो नाभवच्छशशावकः १९।
ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः ।
जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन् २०।
ततः कथंचिदुप्लुत्य गच्छन्विस्खलयञ्छशः ।
राजपुत्रशुनक्यासौ गृहीतः कंधरातटे २१।
जितमस्माभिरत्यर्थमिति संजल्पतां नृणाम् ।
कोलाहले शंकिताया शुन्या निर्गतवान्मुखात् २२।
ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः ।
क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः २३।
जिघ्रंत्या राजशुन्याऽसौ भूभागं धनरोषया ।
दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत् २४।
यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः ।
चोली कपोलफलकान्चुबन्वाति समीरणः२५।
उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः ।
विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः २६।
नारिकेलफलैर्यत्र स्वयं निपतितैरधः ।
अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि २७।
अपि केसरिणो यत्र खेलंति कलभैः समम् ।
फणिनः केकिबर्हेषु निर्विशंकं विशंति च २८।
यत्राश्रमांतरे विप्रो []वत्सनामा जितेंद्रियः ।
शांतश्चतुर्दशाध्यायं जपन्नास्ते निरंतरम् २९।
तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते ।
कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन् ३०।
ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः ।
दिव्यं विमानमारुह्य निर्ययौ शशको दिवम् ३१।
ततः शुन्यपि लिप्तांगीस्तोकैः कर्दमबिंदुभिः ।
क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा ३२।
ततो दिव्यांगनारम्यं गंधर्वैरुपशोभितम् ।
दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ ३३।
ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः ।
विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम् ३४।
राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः ।
प्रणम्य परया भक्त्या विनयैकपयोनिधिः ३५।
कथां कथय मे विप्र हीनयोनि निषेवितौ ।
अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ ३६।
शिष्य उवाच।
वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेंद्रियः ।
चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् ३७।
शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः ।
चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप ३८।
मदीयचरणांभोजप्रक्षालनजले लुठन् ।
शशस्त्रिदिवमापन्नः शुनक्या सह भूपते ३९।
राजोवाच।
हेतुना केन कथय हसितं च द्विजोत्तम ।
अतः किमपि साकूतं मन्यमानेन सादरम् ४०।
शिष्य उवाच।
महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत् ।
तत्रासीद्ब्राह्मणो नाम्ना []केशवः कितवाग्रणीः ४१।
विलोभनाभवत्तस्य जाया स्वैरविहारिणी ।
तेन सा हन्यते क्रोधाद्वैरं संचिंत्य जन्मनः ४२।
ततः स्त्रीवधपापेन शशको जायते द्विजः ।
किल्बिषाच्छुनकी सापि जाता वंचनजन्मनः ४३।
पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि ।
आसेदिवद्भ्यां बहुधा योन्यंतरमपि क्वचित् ४४।
इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः ।
गीतामभ्यस्य सकलामवाप परमां गतिम् ४५।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः १८८।


  1. यूट्यूब उपरि हिन्दी रूपान्तरणम्
  2. वेताल-विक्रमोपरि टिप्पणी
  3. वत्सोपरि टिप्पणी
  4. केशवोपरि पौराणिकसंदर्भाः, केशवोपरि टिप्पणी