पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०४

← अध्यायः २०३ पद्मपुराणम्
अध्यायः २०४
वेदव्यासः
अध्यायः २०५ →

शिवशर्मोवाच-
विष्णुशर्मंस्ततो वैश्यः शरभः सह भार्यया ।
नीत्वा पूजोपकरणं ययौ श्रीचंडिकालयम् १।
तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः ।
आनर्चतुर्भक्तियुक्तौ चंडिकां पुत्रकाम्यया २।
श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरंबिका ।
उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा ३।
पार्वत्युवाच-
भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव ।
ददामि पुत्रं ते साधो यदर्थे यत्नवानसि ४।
गच्छ त्वं मा विलंबस्व वनमैद्रं च खांडवम् ।
तत्र तीर्थं महापुण्यमिंद्रप्रस्थाख्यमुत्तमम् ५।
निगमोद्बोधकं तत्र तीर्थं निखिलकामदम् ।
बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवांछया ६।
भविष्यति सुतस्तात तव स्नानेन तत्र हि ।
तत्र स्नात्वा मयाप्यंग लब्धः स्कंदः सुरारिहा ७।
शिवशर्मोवाच-
इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया ।
अत्राजगाम सत्तीर्थे सस्नौ च सुतवांछया ८।
उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम् ।
देवान्पितॄंश्च संतर्प्य यथाविध्यत्र बुद्धिमान् ९।
सप्तरात्रमुषित्वा तु दंपती यतमानसौ ।
जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखांबुजौ १०।
तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम् ।
व्यतीते नवमे मासि जातोऽहं दशमे शुभे ११।
विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया ।
दशाब्दद्वयमेवैतच्छ्रुतं सर्वं पितुर्मुखात् १२।
एकदा क्षममालोक्य गृहकर्मणि मां पिता ।
गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन् १३।
मां चोवाच स धर्मात्मा गोविंदासक्तमानसः ।
विनिंदन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः १४।
पितोवाच-
सुमते वार्द्धकं प्राप्तं पलिताश्चिकुरा मम ।
गोविंदचरणांभोजं सेविष्ये साधुसेवितम् १५।
तत्सैवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम् ।
स पुमानात्मसंतुष्टो न किंचिदभिवांछति १६।
निष्कामः सुखदुःखाभ्यां भुंजन्सुकृतदुष्कृते ।
प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः १७।
तां वद्द्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखम् ।
तत्प्राप्तौ तद्भवेत्तुच्छं सुधाया इव तक्रकम् १८।
हरेर्मायाबलवतीयं मोहयति देहिनम् ।
हितानि तं न जानाति स यथा मदिरामदः १९।
प्रवृत्तिं च निवृत्तिं च विद्ययाविद्यया च सः ।
करोति स्वेच्छया काले बाललीलो हि स प्रभुः २०।
वेदोदितं यदा कर्म क्रियते फलमिच्छता ।
प्रवृत्तिं सा परा तात तेषामर्पणमीश्वरे २१।
यथा निर्दग्धाबीजानि न प्ररोहंति यत्नतः ।
यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु २२।
कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम् ।
तदुत्पत्तिस्तु बंधः स्यादित्यसौ शास्त्रनिर्णयः २३।
अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम् ।
पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः २४।
एवं प्रारब्धकर्माणि भुंजन्नान्यान्यतर्जयन्।
हनिष्यामि जगद्रोगं पीत्वा सत्संगमौषधम् २५।
शिवशर्मोवाच-
एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः ।
अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः २६।
वैश्यपुत्र उवाच-
अयं जनो दुराराध्यः कथयिष्यति नो यशः ।
दुष्टकुटुंबादुद्विज्य निःसृत्य गत इत्ययम् २७।
इयं विष्णुपदी तात भुवनत्रयपावनी ।
स्मृता हरत्यघं दूरात्कस्मादेनां विमुंचसि २८।
पापकारी जनस्तात म्रियते मगधे तु यः ।
सोप्यस्तपापो गंगायां स्वर्याति त्यजमाशुभम् २९।
पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः ।
कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम् ३०।
तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम् ।
मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम् ३१।
मावजानीहि सामीप्ये गंगा त्रिदशमानिताम् ।
यदिच्छसि महाभाग सेवितैषा प्रदास्यति ३२।
तिर्यंचोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः ।
भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया ३३।
शिवशर्मोवाच-
निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः ।
उवास सदने सर्वविषयेभ्यः पराङ्मुखः ३४।
त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन् ।
पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः ३५।
एकदाकर्णयन्धीरो यमुनातीर्थगौरवम् ।
तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः ३६।
अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात् ।
अयोध्याद्वारिका कांची मथुराभ्यस्तथान्यतः ३७।
सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम् ।
कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता ३८।
त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः ।
आवामिव महाभागो गोविंदपदसेवकः ३९।
अत्रागत्य महाभागो मत्पिता मोक्षवांछया ।
निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् ४०।
उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः ४१।
कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि ।
एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः ४२।
महत्या पीडया तस्य मुमोह गतचेतनः ।
मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित ४३।
पश्चात्समागतप्राणो विचिंत्य यदिदं तदा ।
अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः ४४।
यो मां ज्वरवितप्तांगमाश्वासयति बुद्धिमान् ।
अगम्यागमनं पापं कृतं यन्मे सुदारुणम् ४५।
प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत् ।
आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति ४६।
यन्मया गोपितं गेहे न दृष्टं च तदप्यहम् ।
शिवशर्मोवाच-
इति चिंतयतस्तस्य पान्थो वर्षेण पीडितः ४७।
शीतार्तः कंपितवपुरुटजं प्राविशत्तदा ।
स तं संविष्टमालोक्य भूयो गत्वा तदंतिके ४८।
मुनिरेष इति ज्ञात्वा ववंदे शिरसाध्वगः ।
ऊचे च कस्मात्सुप्तोसि मुने संध्या समागता ४९।
रविरस्तं प्रयात्येष न सुप्तेः काल एष ते ।
इत्युक्तमात्रे वचसि पथिकेन पिता मम ५०।
शरभो ज्वरतप्तांगस्तमाह कथमप्यहो ।
शरभ उवाच-
श्रूयतां वचनं पांथ यद्वदामि पुरस्तव ५१।
श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम् ।
वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम ५२।
अत्रागतो निषिद्धोपि जायामित्रसुतैरहम् ।
अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरितम् ५३।
मासास्तु कतिचित्साधो व्यतीता मयि चागते ।
दिनत्रयमतिक्रांतं ज्वरितस्य ममाधुना ५४।
प्राणा मे विगता आसन्नद्यभूयः समागताः ।
कियानप्यायुषः शेषः साधो मे खलु तिष्ठति ५५।
शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः ।
भाग्योदयेन केनापि ममात्र त्वं समागतः ५६।
नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते ।
दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे ५७।
इह भूभाग उत्खाय गृह्यतां मामकं धनम् ।
शिवशर्मोवाच-
इत्याकर्ण्य स दुर्बुद्धिर्ग्राम्यो विषयलंपटः ५८।
उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम् ।
इत्युक्त्वा धनमुत्खाय तस्माद्भूभागतस्तदा ५९।
अग्रतः स्थापयामास शरभस्याह चाध्वगः ।
अध्वग उवाच-
धनमेतद्विशांनाथ तव भूभागतो मया ६०।
निष्कासितं प्रयच्छाशु शिबिकानयनाय मे ।
यामारोप्य ज्वरार्तं त्वां नयामि तव केतनम् ६१।
शिवशर्मोवाच-
इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयम् ।
सोपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम् ६२।
उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदाम् ।
सवाहामानयत्पुत्र दत्त्वा स्वर्णपलद्वयम् ६३।
पलं द्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना ।
आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम् ६४।
पांथः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम् ।
अस्य तीर्थवरस्याथ कमंडलुजलं धृतम् ६५।
पाययन्नल्पमल्पं तं तृषार्तं सोध्वगो ययौ ।
अथ ते सरसस्तीरे उत्तीर्णा भोक्तुमध्वनि ६६।
स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः ।
कियंति भूमिमुल्लंघ्य तृषार्तांस्ते कमंडलोः ६७।
जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययत् ।
अथ कश्चिन्महाभीमो विकटो नाम राक्षसः ६८।
विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत ।
तान्दृष्ट्वा स क्षुधाक्रांतो वेगवान्विवृताननः ६९।
अभिदुद्राव चरणाघातेनाकंपयन्महीम् ।
आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम् ७०।
सकोशेषु समादाय भ्रामयामास खेचरः ।
गतासून्भ्रामणेनैव भूतले तानपोथयत् ७१।
चखाद पिशितं तेषां पपौ कोशाच्च शोणितम् ।
कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम ७२।
एनं तु भक्षयिष्यामि पश्चादंबु पिबाम्यहम् ।
इति कृत्वा मतिर्वारितीर्थस्यास्य कमंडलोः ७३।
मुखे चिक्षेप स तदा रजनीचरपुंगवः ।
क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः ७४।
जाता स तु वधात्तस्य शरभस्य न्यवर्तत ।
पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत् ७५।
येन राक्षसभावस्तु भूतो विप्रोद्भवादपि ।
स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु ।
उवाच ज्ञानमापन्नो राक्षसः पितरं मम ७६।
राक्षस उवाच-
भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी ।
भक्षिता ये मया घोर रूपेणाधमरक्षसा ७७।
कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः ।
पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम ७८।
वैश्य उवाच-
वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम ।
तीर्थानि पर्यटन्निंद्रप्रस्थेऽहं समुपागतः ७९।
तत्राहमभवं दुःखी ज्वरेण विधियोगतः ।
ततो मे बुद्धिरुत्पन्ना गंतुं गृहमसत्पथ ।
तत्र कश्चित्समायातः पांथो वर्षेण पीडितः ८०।
प्रार्थितः स मयानीय शिबिकां मां गृहं नय ।
स चायं शिबिकां पांथः समुपानीय सत्वरः ८१।
मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति ।
स पांथस्ते च शिबिकावाहाः संप्रति भक्षिताः ८२।
त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु ।
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा ८३।
तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम् ।
सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम् ८४।
निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात् ।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहंमिह त्वया ८५।
पृच्छामि त्वामहं किंचित्तद्वदाशु निशाचर ।
पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना ।
वद किं ते कृतं पापं येन जातोऽसि राक्षसः ८६।
राक्षस उवाच-
पुराहमभवं विप्रः पुण्ये वेदविदां कुले ।
दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते ८७।
क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः ।
हारितं द्रविणं भूरि स्वकीयं पितुरेव च ८८।
पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः ।
पुरान्निःसारितो निःस्वो गतोऽहं ग्राममंतिके ८९।
तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः ।
तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम् ९०।
वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम् ।
कामातुरोऽहमभजं बलान्मित्रे गते क्वचित् ९१।
सा मृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम् ।
तां दृष्ट्वा तमसायुक्ते निशीथेऽहं पलायितः ९२।
पलायमानस्तरसा धृतोऽहं राजकिंकरैः ।
चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम ९३।
मृतं मां यातनादेहमावेश्य यमकिंकराः ।
रौरवे निरयघोरे चिक्षिपुर्यमशासनात् ९४।
षष्टिवर्षसहस्राणि तत्राऽहं तीव्रयातनाम् ।
भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः ९५।
शतवर्षाण्यतीतानि राक्षसत्वे विशांपते ।
वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयाम् ९६।
पुण्यं तदर्पिते साधो वदामि शृणु सादरम् ।
येन तीर्थवरस्येदं जलं मम मुखे गतम् ९७।
तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतम् ।
संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतम् ९८।
द्वादश्यामथ संस्नात्वा भोक्तुंमपि समुद्यते ।
मद्गृहे कश्चिदायातो वैष्णवो विष्णुरूपधृक् ९९।
कुपितोऽहं तमालोक्य दुर्वचो वदमग्रतः ।
क्व गच्छसि दुराचार दांभिकस्त्रीजनांतरे १००।
इत्युक्तं स मया धीरस्तुल्यो मानापमानयोः ।
तूष्णीमेव निकेतान्मे निर्गत्य चलितो यदा १०१।
तदाभिमुखमायांती पत्नी मम पतिव्रता ।
पतित्वा पादयोस्तस्य तं साधुं गृहमानयत् १०२।
मयापमानितस्यापि न क्रोधोऽभून्महात्मनः ।
तयादृतस्याप्यानंदो यतः सोरि सुहृत्समः १०३।
तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा ।
भोज्यं भोजय जीवेश जयताद्भुवनत्रयम् १०४।
इत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम् ।
म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम् १०५।
इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा ।
प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम् १०६।
अददां पात्रमन्नेन पूर्णं तस्मै विवेकिने ।
जलं च तत्करे साध्व्या प्रेरितोऽहं तया मुहुः १०७।
उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः ।
हरेराम हरेकृष्ण जपन्निति जगाम ह १०८।
कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया ।
पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे १०९।
शिवशर्मोवाच-
विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे ।
पथिकः स च ते वाहाः प्राहुः खे दिव्यदेहिनः ११०।
पथिकवाहा ऊचुः
भो भो विशांपते साधो प्राप्ता अप्यपमृत्युताम् ।
त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः १११।
त्वत्संगे धनलोभेन विट्पते चलिता यतः ।
विगता न धनाकांक्षा मरणावसरेप्यतः ११२।
तीर्थराजजलस्यास्य तिष्ठतो जठरे हि नः ।
मरणे ह्यनुभावात्तु मैत्री प्राप्ता धनेशितुः ११३।
नमामस्त्वां वयं यामो धनेश नगरीं प्रभो ।
विमानैस्तद्गणानीतैर्नानामणिविभूषितैः ११४।
प्रयाहि मा विलंबस्व तीर्थे निगमबोधके ।
त्वमनेनसमं साधो तारयैनमपि द्रुतम् ११५।
शिवशर्मोवाच-
इत्युक्त्वा ते गतास्तात दिश्युदीच्यां समंततः ।
विमानकिंकिणीनादैर्नादयंतोऽथ रोदसी ११६।
अथ वैश्यो मम पिता तमाह रजनीचरम् ।
शरभ उवाच-
उत्तिष्ठ नय मामाशु तीर्थे निगमबोधके ११७।
ज्वरार्त्तेन मया पद्भ्यां तत्र गंतुं न शक्यते ।
यो मां नयति तत्तीर्थं त्वदन्यो नास्ति कश्चन ११८।
शिवशर्मोवाच-
तथेति तमथाश्वास्य वैश्यं स रजनीचरः ।
स्कंधमारोप्य वेगेन तत्तीर्थं पावनं ययौ ११९।
ऊषतुस्तावुभौ तत्र विश्पतिः स च राक्षसः ।
कुर्वंतौ स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे १२०।
अथाऽहं पितुराकर्ण्य महतीं गुरुवेदनाम् ।
तं प्रति प्रेरितो मात्रा चलितो निजसद्मतः १२१।
अत्रागत्य मया दृष्टः स महाज्वरपीडितः ।
मूर्ध्ना च वंदितस्तेन दत्ताशीर्मेऽभ्यभाषि च १२२।
शरभ उवाच-
किमर्थमिह भो तात दूरमार्गे समागतः ।
दिनानि कतिचित्तिष्ठन्कुर्वन्नत्र निजक्रियाम् १२३।
विकटो नाम मे मित्रः राक्षसः समुपैति वै ।
उत्तिष्ठ वपुषामुष्य दंडवत्पत पादयोः १२४।
न भेतव्यं त्वयामुष्मात्त्यक्तहिंसादि कर्मणः ।
अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति १२५।
शिवशर्मोवाच-
इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना ।
उत्थाय पतितस्तस्य पादयोर्दंडवद्भुवि १२६।
दोर्भ्यामुत्थाप्य मां सोऽथ गाढमालिंग्य राक्षसः ।
स्वागतं मित्रपुत्रेति जगादाशिषमीरयन् १२७।
राक्षस उवाच-
भाग्यवानसि भो तात यत्त्वमत्र समागतः ।
पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम् १२८।
पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकम् ।
स्नात्वा कुरु क्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि १२९।
शिवशर्मोवाच-
एवमुक्तस्तदा तेन स्नातुं तीर्थे वरांभसि ।
प्रविष्टोऽहं स्मरंस्तात पूर्वजन्मशुभाशुभम् १३०।
स्नात्वा विधिवदत्रैव पितुरंतिकमागतः ।
अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति १३१।
पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च ।
श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै १३२।
पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा ।
यास्यामि गृहमित्यत्र दशोषितमहानि मे १३३।
दशाहाभ्यंतरे तात तातस्य मरणं मम ।
अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः १३४।
अथो गरुडमारुह्य वक्षसो धारयन्श्रियम् ।
आजगाम स्वयं विष्णुर्नवीन घनविग्रहः १३५।
पीतवासा चतुर्बाहुः पंकजारुणलोचनः ।
ब्रह्मेंद्रादिभिरादिव्यैः सनाथैरंधकारिणा १३६।
सेव्यमानो गुणग्रामान्गायद्भिः किन्नरैः सह ।
हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः १३७।
दत्त्वा स्वकीय सारूप्यमारोप्य गरुडं तदा ।
पितरं मम ब्रह्माद्यैर्वृतो वैकुंठमारुहत् १३८।
पितुः सारूप्यमालोक्य विष्णोरहमचिंतयम् ।
इति चित्ते तदालोक्य जाततत्वोदये तदा १३९।
न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः ।
महिमा यज्जलार्द्धे स्यान्मृतो जंतुश्चतुर्भुजः १४०।
न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु ।
अंजसा दृढमाहात्म्यं धनरोगादितृष्ण्या १४१।
पितुरत्रोटजे तावत्स्थातव्यं हि मया मम ।
यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले १४२।
एवं विचिंतयित्वा च पितुः कृत्वा तु सत्क्रियाम् ।
रक्षसा तेन सहितः स्थितोऽहं मोक्षवांछया १४३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः २०४।