पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३७

← अध्यायः २३६ पद्मपुराणम्
अध्यायः २३७
वेदव्यासः
अध्यायः २३८ →

श्रीरुद्र उवाच-
हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ
दितिपुत्रौ महावीर्य्यौ सर्व्वदैत्यपती उभौ १
नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ २
वारयामासतुर्देवि हरिसंदर्शनोत्सुकान्
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ३
सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किंकरौ
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ४
देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ५
तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः
भगवानुवाच-
कृतवंतौ महावीर्य्यावपराधं महात्मनाम् ६
नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ७
अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ८
जयविजयावूचतुः
चिरकालं महीं गंतुं न समर्थौ स्व मानद
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ९
देवत्व यैव निहतो प्राप्स्यावो भवदंतिकम्
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ १०
कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ११
उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः १२
उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम्
ससागरां द्वीपयुतां सर्व्वप्राणिसमन्विताम् १३
उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम्
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः १४
शरणं प्रययुर्देवं नारायणमनामयम्
ततस्तदद्भुतं ज्ञात्वा शंखचक्रगदाधरः १५
वाराहरूपमास्थाय विश्वरूपं जनार्दनः
अनादिमध्यांतवपुः सर्वदेवमयो विभुः १६
विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः १७
संचूर्णितमहागात्रो ममार दितिजाधमः
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् १८
संस्थाप्य धारयामास शेषे कूर्म्मवपुस्तदा
तं दृष्ट्वा देवताः सर्व्वे क्रोडरूपं महाहरिम्
तुष्टुवुर्म्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः १९
देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे २०
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे २१
भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः २२
ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च २३
नमस्ते वेदवेदाङ्ग सांगोपांगाय ते नमः
गोविंदाय नमस्तुभ्यमनादिनिधनाय च २४
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः २५
रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम्
अर्च्चयामासुरात्मेशं गंधपुष्पादिभिर्हरिम् २६
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ
गंधर्वैरप्सरोभिश्च गायमानो मुदा हरिः २७
महर्षिभिः स्तूयमानस्तत्रैवांतरधीयत
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् २८
ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम्
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने २९
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
वराहावतारकथनंनाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः २३७