पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३८

← अध्यायः ०३७ पद्मपुराणम्
अध्यायः ०३८
वेदव्यासः
अध्यायः ०३९ →

महादेव उवाच-
एकस्मिन्समये पुत्र गतोऽहं विष्णुसन्निधौ ।
तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम् १।
नारद उवाच
कीदृशी स्यान्महादेव महाद्वादशिका परा ।
तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो २।
शिव उवाच-
इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा ।
ऋक्षयोगैश्च संयुक्ता कर्त्तव्या मुनिसत्तमैः ३।
जया च विजया चैव जयंती पापनाशिनी ।
सर्वपापहराश्चैताः कर्त्तव्याः फलकांक्षिभिः ४।
एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः ।
नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः ५।
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः ।
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् ६।
विजया सा समाख्याता तिथीनामुत्तमा तिथिः ।
सहस्रगुणितं दानं यस्यां वै विप्र भोजनम् ७।
होमस्तथोपवासश्च सहस्राधिफलप्रदः ।
यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते ८।
जयंती नाम सा प्रोक्ता सर्वपापहरा तिथिः ।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ९।
प्रक्षालयति गोविंदस्तस्यामभ्यर्चितो ध्रुवम् ।
यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित् १०।
तदा तु सा महापुण्या भविता पापनाशिनी ।
यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति ११।
उपवासं च यस्तस्यां करोत्येतत्समं स्मृतम् ।
तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः १२।
प्रत्यक्षतां प्रयात्येव तत्रानंतफलं स्मृतम् ।
सगरेण ककुत्स्थेन नहुषेण च साधितः १३।
तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि ।
वाचिकान्मानसाद्वापि कायजाच्च विशेषतः १४।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।
तामेकां समुपोष्याथ पुण्यनक्षत्रसंयुताम् १५।
एकादशीसहस्रस्य फलं प्राप्नोति मानवः ।
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् १६।
यत्तस्यां क्रियते किंचित्तदक्षयफलं स्मृतम् ।
तस्मादेषा प्रकर्तव्या यत्नेन फलकांक्षिभिः १७।
पंचमेनाश्वमेधेन यदि स्नातो युधिष्ठिरः ।
पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम् १८।
युधिष्ठिर उवाच-
उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो ।
किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन १९।
श्रीभगवानुवाच-
हेमंते चैव संप्राप्ते मासे मार्गे च शोभने ।
कृष्णपक्षे च या पार्थ द्वादशी तामुपोषयेत् ।
दशम्यां चैकभक्तश्च शुद्धचित्तो दृढव्रतः २०।
नक्तं चैव तथा ज्ञात्वा दशम्यां नियतः सदा ।
दिवसस्याष्टमे भागे मंदीभूते दिवाकरे २१।
नक्तं च तद्विजानीयान्न नक्तं निशिभोजनम् ।
नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते २२।
यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् ।
ततः प्रभातसमये कृत्वा च नियमं व्रती २३।
मध्याह्ने च तथा पार्थ स्नानं शुचिः समाचरेत् ।
अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम् २४।
तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परम् ।
पीड्यंते जंतवो यत्र जलमध्ये व्यवस्थिते २५।
तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेत् ।
गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत् २६।
तस्मात्तु पांडवश्रेष्ठ गृहे स्नानं समाचरेत् ।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे २७।
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ।
क्रोधलोभौ परित्यज्य चैकचित्तो दृढव्रतः २८।
नालापेतांत्यजं चैव तथा पाखंडिनो नरान् ।
मिथ्यावादरतांश्चैव तथा ब्राह्मणनिंदकान् २९।
अन्यांश्चैव दुराचारानगम्यागमनेरतान् ।
परद्रव्यापहारांश्च परदाराभिगामिनः ३०।
केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् ।
दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा ३१।
तद्दिने वर्जयेत्पार्थ निद्रां चैव तु मैथुनम् ।
धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेत् ३२।
रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम ।
विप्रेभ्यो दक्षिणां दद्यात्प्रणिपत्य क्षमापयेत् ३३।
यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत् ।
एकादशीं द्विजः पार्थ विभेदं नैव कारयेत् ३४।
एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम् ।
शंखोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ३५।
एकादश्युपवासस्य कलां नार्हति षोडशीम् ।
संक्रांतिषु चतुर्लक्षं यो ददाति नृपोत्तम ३६।
एकादश्युपवासस्य कलां नार्हति षोडशीम् ।
प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चंद्र सूर्ययोः ३७।
तत्फलं जायते नूनमेकादश्युपवासिनः ।
केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते ३८।
तथा चैकादशी पार्थ गर्भवासक्षयंकरी ।
अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत् ३९।
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः ।
तपस्विनो गृहे यस्य भुंजते च द्विजोत्तमाः ४०।
तत्फलं जायते नूनमेकादश्युपवासिनः ।
गोसहस्रेण यत्पुण्यं दत्वा वेदांतपारगे ४१।
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः ।
येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः ४२।
वसंति तेषां ते तुल्या एकादश्युपवासिनः ।
ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः ४३।
एकादशीव्रतस्यापि पुण्यसंख्या न विद्यते ।
एतत्पुण्यं भवेत्तस्य यत्सुरैरपि दुर्ल्लभम् ४४।
एतस्मादर्द्धपुण्यं तु प्राप्यते नक्तभोजनात् ।
नक्तस्यार्द्धं भवेत्पुण्यमेकभक्तेन देहिनाम् ४५।
तावद्गर्जंति तीर्थानि दानानि नियमानि च ।
यावन्नोपोषयेज्जंतुर्वासरं विष्णुवल्लभम् ४६।
तस्मात्त्वं पांडवश्रेष्ठ व्रतमेतत्समाचर ।
पुण्यसंख्यां न जानामि यत्त्वं पृच्छसि पांडव ४७।
एतद्धि कथितं पार्थ यद्गोप्यं व्रतमुत्तमम् ।
एकादशीसमं नास्ति कृत्वा यज्ञसहस्रकम् ४८।
युधिष्ठिर उवाच-
उत्पन्ना सा कथं देव पुण्या चैकादशी तिथिः ।
कथं पवित्रा विश्वेऽस्मिन्कथं वै देवताप्रिया ४९।
श्रीभगवानुवाच -
पुरा कृतयुगे पार्थ मुरनामेति दानवः ।
अत्यद्भुतो महारौद्र सर्वदेवभयंकरः 6.38.५०।
इंद्रोऽपि निर्जितस्तेन सर्वदेवास्तथा नृप ।
महासुरेण तेनैव मृत्युना च दुरात्मना ५१।
स्वर्गान्निराकृतास्तेन विचरंति महीतले ।
सशंका भयभीताश्च सर्वे गत्वा महेश्वरम् ५२।
इंद्रेण कथितं सर्वमीश्वरस्यापि चाग्रतः ।
स्वर्गलोकपरिभ्रष्टा विचरंति महीतले ५३।
मर्त्येषु संस्थिता देवा न शोभंते महेश्वर ।
उपायं ब्रूहि मे देव ह्यमरा यांति कां गतिम् ५४।
महादेव उवाच-
देवराजसुरश्रेष्ठयत्रास्तेगरुडध्वजः ।
शरण्यश्च जगन्नाथः परित्राता परायणः ५५।
तत्र गच्छ सुरश्रेष्ठ स वो रक्षां विधास्यति ।
ईश्वरस्य वचः श्रुत्वा देवराजो महामतिः ५६ ।
त्रिदशैः सहितो यत्र गतस्तत्र युधिष्ठिर ।
जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम् ५७।
कृतांजलिपुटो भूत्वा इंद्रः स्तोत्रमुदीरयत् ५८।
इंद्र उवाच-
ॐनमो देवदेवेश देवदानववंदित ।
दैत्यारे पुंडरीकाक्ष त्राहि नो मधुसूदन ५९।
सुराः सर्वे समायाता भयभीताश्च दानवात् ।
शरणं त्वां जगन्नाथ त्राहि मां भक्तवत्सल ६०।
त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन ।
त्राहि वै पुंडरीकाक्ष दानवानां विनाशक ६१।
त्वत्समीपं गताः सर्वे त्वमेव शरणं प्रभो ।
चशरणागतानां देवानां सहायं कुरु वै प्रभो ६२।
त्वं पतिस्त्वं मतिर्देव त्वं कर्ता त्वं च कारणम् ।
त्वं माता सर्वलोकानां त्वमेव जगतः पिता ६३।
भगवन्देवदेवेश शरणागतवत्सल ।
शरणं तव चायाता भयभीताश्च देवताः ६४।
देवता निर्जिताः सर्वाः स्वर्गभ्रष्टाः कृताः प्रभो ।
अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा ।
इंद्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ६५।
श्रीभगवानुवाच-
कीदृशो दानवः शक्र किं रूपं कीदृशं बलम् ।
क्व स्थानं तस्य दुष्टस्य किं वीर्यं कः पराक्रमः ।
किं वरं तस्य दुष्टस्य ममाख्याहि महामते ६६।
इंद्र उवाच-
पूर्वं बभूव देवेश ब्रह्मवंशसमुद्भवः ।
तालजंघस्तु नाम्ना च अत्युग्रोऽपि महासुरः ६७।
तस्य पुत्रो हि विख्यातो मुरनामेति दानवः ।
अत्युत्कटो महावीर्यो देवतानां भयंकरः ६८।
पुरी चंद्रावती नाम्ना तत्र स्थाने वसत्यसौ ।
निर्जिता देवताः सर्वा स्वर्गात्तेन विवासिताः ६९।
इंद्रोऽन्यो रोपितस्तेन वातश्चैव हुताशनः ।
चंद्रसूर्यो कृतौ चान्यौ वायुर्वरुण एव च ७०।
सर्वमात्मकृतं तेन सत्यं सत्यं जनार्दन ।
देवलोकः कृतस्तेन सर्वस्थानविवर्जितः ७१।
तस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः ।
हनिष्ये दानवं दुष्टं देवतानां भयंकरम् ७२।
त्रिदशैः सहितो देवो गतश्चंद्रावतीं पुरीम् ।
दृष्टो देवैस्तु दैत्येंद्रो गर्जमानः पुनः पुनः ७३।
तेन सर्वे जिता देव गताश्चैव दिशो दश ।
हरिं निरीक्ष्य प्रोवाच तिष्ठतिष्ठेति दानवः ७४।
भगवानब्रवीत्तं च क्रोधसंरक्तलोचनः ।
श्रीभगवानुवाच-
रे दानव दुराचार मम बाहुं निरीक्षय ७५।
ततस्ते सम्मुखाः सर्वे विष्णुना दुष्टदानवाः ।
हता बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः ७६।
चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पांडव ।
तेनच्छिन्नास्तु शतशो बहवो निधनं गताः ७७।
एकोपि दानवस्तत्र युध्यमानो मुहुर्मुहुः ।
नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः ७८।
निर्जितं तेन दैत्येन बाहुयुद्धमजायत ।
बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम् ७९।
विष्णुश्चिंतां प्रपन्नश्च नष्टाः सर्वाश्च देवताः ।
विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम् ८०।
गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः ।
योजनद्वादशवती एकद्वारा च पांडव ८१।
तस्यां विष्टः प्रसुप्तश्च दानवो हंतुमुद्यतः ।
महायुद्धेन तेनैव श्रांतोऽसौ योगमायया ८२।
दानवः पृष्ठतो लग्नो प्रविष्टः स तदा गुहाम् ।
प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः ८३।
इत्थं मां निर्जितं मत्वा प्रविष्टं शंकया हरिम् ।
निःसंदेहं हनिष्यामि दानवानां भयंकरम् ८४।
निर्गता कन्यका तत्र विष्णुदेहाद्युधिष्ठिर ।
रूपवती सुसौभाग्या दिव्यप्रहरणायुधा ८५।
तस्य तेजोंऽशसंभूता महाबलपराक्रमा ।
दृष्टा सा दानवेंद्रेण मुरनाम्ना धनंजय ८६।
युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम् ।
कन्यका युध्यते तत्र सर्वयुद्धविशारदा ८७।
हुंकारैर्भस्मसाज्जातो मुर नामा महासुरः ।
निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत ८८।
पतितं दानवं दृष्ट्वा ततो विस्मयमागतः ।
केनायं च हतो रौद्रो ह्यत्युग्रो मम शात्रवः ८९।
अत्युग्रं च कृतं कर्म मम कारुण्यतः कृतम् ।
कन्योवाच-
तेन देवाश्च गंधर्वा सयक्षोरगराक्षसाः ९०।
इंद्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः ।
हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः ९१।
संहरिष्यति त्रैलोक्यं सुप्ते चैव जर्नादने ।
तस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ९२।
अहं च निर्जितो येन कथं सोऽपि त्वया जितः ।
एकादश्युवाच-
त्वत्प्रसादाच्च भो स्वामिन्महादैत्यो मया हतः ९३।
श्रीभगवानुवाच-
आनंदं त्रिषु लोकेषु मुनयो देवता गताः ।
ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोचते ।
ददामि च न संदेहो यत्सुरैरपि दुर्ल्लभम् ९४।
एकादश्युवाच-
यदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन ।
वरमेकं तु वांच्छामि हृदये च जगत्पते ९५।
प्रार्थयामि च देवेश ईप्सितं च मया प्रभो ।
यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे ९६।
श्रीभगवानुवाच-
सत्यं सत्यं मया प्रोक्तं अवश्यं तव सुव्रते ।
तिस्रो वाचो मया दत्ता न चावाक्यं भवेदिह ९७।
एकादश्युवाच-
त्रिभुवनेषु च देवेश चतुर्युगेषु सांप्रतम् ।
त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो ९८।
सर्वतीर्थप्रधानं हि सर्वविघ्नविनाशिनी ।
सर्वसिद्धिकरी देवी त्वत्प्रसादाद्भवाम्यहम् ९९।
मामुपोष्यंति ये भक्त्या तव भक्त्या जनार्दन ।
सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो 6.38.१००।
उपवासं च नक्तं च एकभक्तं करोति च ।
तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव १०१।
विष्णुरुवाच-।
यत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति ।
सर्वान्मनोरथान्भद्रे दास्यसि त्वं च नान्यथा १०२।
मम भक्ताश्च ये लोके ये च भक्तास्तु कार्त्तिके ।
चतुर्युगेषु विख्यातास्त्रिषु लोकेषु वै प्रभो १०३।
त्वां च शक्तिमहं मन्ये एकादशीव्रतस्थिताः ।
मम पूजां करिष्यंति मोक्षगास्ते न संशयः १०४।
तृतीया चाष्टमी चैव नवमी च चतुर्दशी ।
एकादशी विशेषेण तिथिरेषा हरिप्रिया ।
सर्वतीर्थाधिकं पुण्यं सत्यं सत्यं न संशयः १०५।
इदं दत्त्वा वरं तस्यै तिस्रो वाचो न संशयः ।
हृष्टा पुष्टा च संजाता एकादशीमहाव्रता १०६।
शत्रुं हंसि परां तस्य ददासि परमां गतिम् ।
त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरप्रदा १०७।
उभयोः पक्षयोः पार्थ तुल्या एकादशी शुभा ।
न शुक्ला नैव कृष्णा च विभेदं नैव कारयेत् १०८।
विभेदो नैव कर्त्तव्यः समस्तव्रतकारिभिः ।
दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः १०९।
तिथिरेका भवेत्सर्वा पक्षयोरुभयोरपि ।
उभयैकादशी स्वल्पा ह्यंते चैव त्रयोदशी ११०।
मध्ये तु द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया ।
एकामुपोषयेत्तां वै सहस्रैकादशीफलम् १११।
सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते ।
अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी ११२।
पूर्वविद्धा न कर्तव्या परविद्धामुपोषयेत् ।
एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत् ११३।
सा तिथिः परिहर्तव्या उपोष्या द्वादशीयुता ।
एवंविधा मया प्रोक्ता पक्षयोरुभयोरपि ११४।
एकादश्यां प्रकुर्वीत ह्युपवासं न संशयः ।
ते यांति वैष्णवं स्थानं यत्रास्ते गरुडध्वजः ११५।
धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः ।
एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत् ११६।
गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः ।
दिवा वा यदि वा रात्रौ ये वै शृण्वंति भक्तितः ११७।
ब्रह्महत्यादिपापेभ्यो मुच्यंते नात्र संशयः ।
विष्णुधर्मसमं नास्ति गीतार्थं च नृपोत्तम ।
एकादशीसमं नास्ति व्रतं पापप्रणाशनम् ११८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे एकादश्युत्पत्ति मुरवधोनामाष्टत्रिंशोऽध्यायः३८।