पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २५
← अध्यायः २४ | पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः) अध्यायः २५ वेदव्यासः |
अध्यायः २६ → |
जैमिनिरुवाच-
भूय एव महाभाग तुलस्याः पापनाशनम् ।
अतिथेः पूजनस्यापि माहात्म्यं ब्रूहि विस्तरात् १।
सूत उवाच-
ततो व्यासो महातेजास्तुलस्या द्विजसत्तम ।
माहात्म्यं वक्तुमारेभे शृण्वतां पापनाशनम् २।
व्यास उवाच-
इयं साक्षान्महालक्ष्मीस्तुलसी भगवत्प्रिया ।
तस्मादिमां न पश्यंति वृक्षज्ञानेन जैमिने ३।
सदैव तुलसीं मर्त्यो यथैव भुवि सेवते ।
तथैव सेन्द्रा विबुधाः सेवंते तं सुरालये ४।
परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति ।
तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया ५।
प्राप्नोति मृत्युकाले यस्तोयं पातकवानपि ।
तुलसीपत्रगलितं स याति हरिसन्निधिम् ६।
तुलसीमृत्तिकापुण्ड्रं यो मृत्युसमये वहेत् ।
स मुक्तः सकलैः पापैः पुरं गच्छति चक्रिणः ७।
यस्य स्यात्तुलसीपत्रं मुखे शिरसि कर्णयोः ।
मृत्युकाले द्विजश्रेष्ठ तस्य स्वामी न भास्करिः ८।
पवित्रनामा सुमतिर्बभूव परमार्थवित् ।
बभूव ब्राह्मणी तस्य बहुला नाम धारिणी ९।
सद्वंशप्रभवा साध्वी पतिसेवापरायणा ।
अनपत्यपतिर्नाम तत्रैकोस्ति द्विजोत्तमः १०।
सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना ।
ततोऽनपत्यपतिना कथालोभेन सत्तमः ११।
उपविष्टः पवित्रोऽसौ स्नेहादेकवरासने ।
तत्रांतरे महातेजा लोमशो नाम स द्विजः १२।
कथयंतौ कथाश्चित्राः समागत्य ददर्श तौ ।
अथ तं लोमशं विप्रं विप्रावुत्थाय पीठतः १३।
पाद्यार्घ्याचमनीयाद्यैः पूजयामासतुश्च तौ ।
सुप्रीतो लोमशस्ताभ्यां नारायणपरायणः १४।
उवास ब्राह्मणश्रेष्ठ आसने कीर्तयन्हरिम् ।
आसनस्थं महात्मानं लोमशं तं कृताञ्जलिम् १५।
पवित्रानापत्यमुनी भक्त्या प्राहतुर्लोमशम् ।
भगवन्सर्वधर्मज्ञ त्वत्पादयुगलैर्नृभिः १६।
सद्भिर्ग्राह्यैराश्रमोऽयं पूतोऽभून्नूनमावयोः ।
कृतानि यानि पापानि आवाभ्यां मोहतः पुरा १७।
तानि सर्वाणि नष्टानि त्वत्पादयुगदर्शनात् ।
भवान्नारायणः साक्षात्पूजनीयोऽमरैरपि १८।
सम्यक्ते पूजनं कर्तुं किमावां मानुषौ क्षमौ ।
अतिथेर्या कृता पूजा तेऽस्माभिर्निजशक्तितः १९।
अनया भव सुप्रीतः क्षमस्व दोषमावयोः ।
इत्युक्त्वा तौ महात्मानौ तस्यागंतोः पदद्वये ।
निपेततुर्द्विजश्रेष्ठ वयस्यौ गृहमेधिनौ २०।
व्यास उवाच-
ततो भक्त्या सुसंतुष्टो लोमशो विदुषांवरः ।
युवां विनयिनां श्रेष्ठौ द्विजाग्र्यौ धर्मतत्परौ २१।
आप्यायितोऽस्मि सुतरां युवयोर्विनयोक्तिभिः ।
साक्षाद्ब्रह्मा शिवो विष्णुरतिथिः प्रोच्यते बुधैः २२।
तस्मिन्नेतावतीभक्तिर्युवयोरस्तु मङ्गलम् ।
आराधितोऽस्म्यहंसम्यगतिथिर्भूरिभोजनैः २३।
व्यास उवाच-
तत उत्थाय तौ विप्रौ तत्पादकमलद्वये ।
भूयोऽपि तं नमस्कृत्य प्राहतुर्लोमशं मुनिम् २४।
ब्राह्मणावूचतुः
ब्रह्मन्नतिथिपूजाया माहात्म्यं वक्तुमर्हसि ।
यां कृत्वा प्राप्यते मुक्तिर्दुःखलभ्यापि मानवैः २५।
कोऽतिथिः प्रोच्यते लोके तस्य पूजा च कीदृशी ।
आतिथेयोऽतिथिश्चेमौ लभेते कामुभौ गतिम् २६।
लोमश उवाच-
वानप्रस्थो ब्रह्मचारी भिक्षुश्चैषां प्रपूजनात् ।
निरुच्यते गृहं श्रेष्ठमाश्रमेषु चतुर्ष्वपि २७।
चतुराश्रममध्येषु प्रधाना गृहिणो मताः ।
तैश्चातिथीनां कर्तव्या पूजा भक्तिसमन्वितैः २८।
गृहिणां परमो धर्मः प्रोक्तश्चातिथिपूजनम् ।
आश्रमाचारतोऽभ्रष्टास्ततस्ते गृहिणो मताः २९।
वंहत्यतिथिपूजायां दक्षतां गृहिणो यदि ।
तदा प्रयोजनं तेषां किमन्यैः पुण्यकर्मभिः ३०।
यस्य न श्रूयते नाम न च गोत्रं न च स्थितिः ।
अकस्माद्गृहमागच्छेत्सोऽतिथिः प्रोच्यते बुधैः ३१।
ब्राह्मणाः क्षत्रिया वापि वैश्या वा वृषलास्तथा ।
गृहागताः पूजिताश्च विष्णुवत्तत्त्वदर्शिभिः ३२।
चाण्डालप्रमुखा येऽन्ये हीनवर्णसमुद्भवाः ।
विष्णुवत्पूजितव्यास्ते पाद्यार्घ्यैर्भूरिभोजनैः ३३।
समागतेष्वतिथिषु प्रयाणं कुरुते गृही ।
अपि स त्वरया दद्यात्पाद्यार्घ्यादीनि च द्विजः ३४।
कुर्याच्च कुशलं प्रश्नं वचनैः कोमलाक्षरैः ।
कारयेद्भोजनं वापि दिव्यरत्नैर्मुदा गृही ३५।
सुखदे मन्दिरे तस्य शयनं कारयेद्बुधः ।
प्रातर्जिगमिषुं दृष्ट्वा तमायांतं विवर्जयेत् ३६।
यदि कर्मविपाकेन गृही भवति वित्तवान् ।
अतिथ्येनातिथिः पूज्यस्तदहं वच्मि सत्तमौ ३७।
समागतेष्वतिथिषु भक्त्या दद्यात्तृणादिकम् ।
तृणाभावेन वै ब्रूयाद्भूमौ तिष्ठेति भक्तितः ३८।
पादप्रक्षालनार्थं तुदद्यादुदकमुत्तमम् ।
अतो मधुरया वाचा पृच्छेच्च कुशलादिकम् ३९।
फलादिकं ततो दद्याद्भक्त्या भोजनहेतवे ।
तदभावेन मतिमान्मुदा विप्र प्रकाशयेत् ४०।
वदेच्चाहं महापापी दरिद्र प्रवरोऽतिथे ।
कर्त्तुमिच्छामि भक्तिं ते दैवतंत्रंविरोधकम् ४१।
अनेन विधिना दीनः सत्यक्त्वातिथिपूजनम् ।
स्वाचारपतितो नान्यो यथोक्तं फलमाप्नुयात् ४२।
अनर्चितोऽतिथिर्यस्य गच्छेद्वै गृहिणो गृहात् ।
जन्मकोट्यर्जितं पुण्यं तस्य गच्छति संक्षयम् ४३।
एक एवातिथिर्येन भक्तिभावेन पूज्यते ।
हरेत्तस्य हरिः सद्यो पातकं कोटिजन्मजम् ४४।
सत्यं वच्मि हितं वच्मि दृढं वच्मि प्रयत्नतः ।
विनातिथिसपर्याभिर्गृहिणो नास्ति वा गतिः ४५।
सत्यं सत्यं पुनः सत्यमागंतुपूजया विना ।
गतिर्नास्त्येव नास्त्येव नास्त्येव गृहिधर्मिणाम् ४६।
ज्ञातिधर्म इति ख्यातो वल्लभो द्वापरे युगे ।
बभूव सर्वधर्मज्ञस्तस्य श्रीवल्लभाह्वया ४७।
तेन सर्वाणि कर्माणि कृतानि ज्ञातिसेविना ।
सौराष्ट्रे वसतिं चक्रे तया सह सभार्यया ४८।
तत्र दुर्ग्रहसंचाराद्द्वादशाब्दं च वासवः ।
न ववर्षांबु तेनासीद्दुर्भिक्षं सुमहद्द्विजौ ४९।
तस्मिन्महति दुर्भिक्षे लोकास्तद्देशवासिनः ।
बभूवुर्दुःखिताः सर्वे मर्यादामपि तत्यजुः ५० 7.25.50।
ज्ञानभद्रो महायोगी युगे द्वापर संज्ञके ।
दुर्भिक्षहृतसंपत्तिर्बभूवात्यन्तदुःखितः ५१।
क्षुधाकुलान्सुतान्दृष्ट्वा दारांश्च द्विजसंमतौ ।
फलमूलादनार्थाय जगामोत्पत्यकां गिरेः ५२।
गिरेरुपत्यकाप्रांते चिरायुः स बुभुक्षितः ।
कूष्माण्डफलमेकं च लेभे ब्राह्मणसत्तमौ ५३।
समादाय फलं तच्च हर्षितोऽसौ निजालयम् ।
जवैर्जगाम विप्रेन्द्रो ज्ञानभद्रो महायशाः ५४।
एतस्मिन्नन्तरे विप्र मेघैर्न्नीलपदैरिव ।
आवृते गगने वृष्टिर्महासारैर्बभूव ह ५५।
स मुनिश्च तया वृष्ट्या प्लाविताखिलविग्रह ।
वनाद्वनचरः कश्चिच्छीतार्तश्चाययौ गृहम् ५६।
दृष्ट्वातिथिं तु शीतार्तं ववंदे शिरसा ततः ।
ददौ तृणासनं भक्त्या तस्मै पाद्यादिकं ततः ५७।
ततो मधुरया वाचा तेनैवातिथिना सह ।
तस्थौ स्वस्थेन मनसा प्रज्ञालापं प्रकुर्वता ५८।
गृहिण्या सह गोपेन स्वामिसेवा सुदक्षया ।
ततः कूष्माण्डकं नव्यं पक्वमत्यंत यत्नतः ५९।
संप्राप्य हर्षिता साध्वी ददौ भागं विधाय सा ।
अथासौ दुर्बलो गोपो दिनविंशमुपोषणात् ६०।
आतिथेयो महाभागं ददौ चातिथये मुदा ।
ततस्तद्गृहिणी साध्वी स्वामिभक्तिपरायणा ६१।
ददौ सा पतितं भागं तस्मै चातिथये मुदा ।
अथातिथेस्तयोस्तत्र दंपत्योः सुमहात्मनोः ६२।
अभूद्भागद्वयं भुक्त्वा सुप्रीतो द्विजसत्तम ।
विष्णुवत्पूजितस्ताभ्यां सोऽतिथिर्दृढभक्तितः ६३।
विश्रामं रात्रौ तत्रैव प्रातः स्नात्वा चिरं ययौ ।
गतैवमुपवासेन दिनानामेकविंशतिः ६४।
दंपती तौ महात्मानौ पंचतां ययतुस्ततः ।
तेन पुण्यप्रभावेण दंपती तौ महाशयौ ६५।
प्रापतुर्विष्णुसायुज्यं दुर्ल्लभं योगिनामपि ।
तयोः पुण्यप्रभावेण विहितातिथिपूजया ६६।
तस्मिन्राज्ये तु दुर्भिक्षं विनष्टमभवत्ततः ।
अत्यंतसुखिनोलोकाः शोकव्याधिविवर्जिताः ६७।
धनधान्यादिसम्पन्ना बभूवुर्धर्मतत्पराः ।
विनष्टा दस्यवस्तत्र नृपोऽभूल्लोकपालकः ६८।
निजाचाररतालोका जलदाः कामवर्षिणः ।
पूर्वजाः कोटिपुरुषास्तथैवापरजास्तयोः ६९।
तेनैव कर्मणा मुक्तिं जग्मुः पापविवर्जिताः ।
निर्दोषा धनसंपन्नाः सर्वलोकैकपूजिताः ७०।
शोकव्याधिविहीना च ववृधे संततिस्तयोः ।
लोमश उवाच-
आगंतुपूजामाहात्म्यं सेतिहासं मयोदितम् ७१।
युवयोः प्रीतयोर्विप्रौ किमन्यच्छ्रोतुमिच्छथ ।
व्यास उवाच-
इति ब्रुवति वै तस्मिँल्लोमशे तपसां धने ७२।
कालग्रस्तः कृष्णआखुस्तत्रोत्तस्थौ बिलान्निजात् ।
तमुत्थितं बिलात्कृष्णमूषकं क्रोधविह्वलः ७३।
पवित्रस्तत्र चोत्तस्थौ वदन्निति मुहुर्मुहुः ।
अयं पापाशयो दुष्टो मूषको निशि चाश्रमम् ७४।
खनते तीक्ष्णदंतौघैर्गृहद्रव्यं च कृंतति ।
सर्वेषामेव वर्णानां कृपा श्रेष्ठा प्रकीर्तिता ७५।
सा च सर्वेषु कर्तव्या न च दुष्टेषु जंतुषु ।
इत्युक्त्वासौ मूषिकं तं द्विजश्रेष्ठ कृतैनसम् ७६।
नाराचेनातितीक्ष्णेन प्राप्तकालं जघान ह ।
स्रवच्छोणितधाराभिः प्लाविताङ्गः स मूषकः ७७।
पपात भूमौ विप्रर्षे व्यथया हतचेतनः ।
आखौ निपतिते तस्मिन्दयालुर्द्विजसत्तमः ७८।
हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सः ।
निजकर्णात्समानीय तुलसीपत्रमुत्तमम् ७९।
तस्याखोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान् ।
मातस्तु तुलसीदेवि गोविन्दह्लादकारिणि ८०।
अस्याखोः कृतपापस्य कुरु त्वं गतिमुत्तमाम् ।
इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः ८१।
हरेनारायणानन्त इत्युच्चैरकरोद्ध्वनिम् ।
तुलसीपत्रसंस्पर्शान्मूषको वीतकल्मषः ८२।
श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबंधनात् ।
ततो दूता महाविष्णोः सर्वलक्षणसंयुताः ८३।
आजग्मुः सुरथैः शीघ्रं नेतुं तं गतकल्मषम् ।
समारुह्य रथं दिव्यं विष्णुदूतगणैर्वृताः ८४।
जगाम परमं स्थानं मूषको द्विजसत्तम ।
युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे ८५।
ज्ञानमासाद्य तत्रैव मोक्षमाखुर्जगाम सः ।
व्यास उवाच-
माहात्म्यं तुलसीदेव्याः कथितं ते द्विजोत्तम ८६।
इदानीं ब्रूहि किं श्रोतुं महाभाग त्वमिच्छसि ८७।
इति श्रीपद्मपुराणे क्रियायोगसारे पंचविंशोऽध्यायः २५ ।