← अध्यायः ०८ पद्मपुराणम्
अध्यायः ०९
वेदव्यासः
अध्यायः १० →


भीष्म उवाच
भगवन्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्
रवेश्च श्राद्धदेवस्य सोमस्य च विशेषतः१
पुलस्त्य उवाच
हंत ते कथयिष्यामि पितॄणां वंशमुत्तमम्
स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः२
मूर्तिमंतोथ चत्वारः सर्वेषाममितौजसां
अमूर्त्तयः पितृगणा वैराजस्य प्रजापतेः३
यजन्ति यान्देवगणा वैराजा इति विश्रुताः
ये वै ते योगविभ्रष्टाः प्रापुर्लोकान्सनातनान्४
पुनर्ब्रह्मदिनांते तु जायंते ब्रह्मवादिनः
संप्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम्५
सिद्धिं प्रयांति योगेन पुनरावृत्तिदुर्ल्लभाम्
योगिनामेव देयानि तस्माच्छाद्धानि दातृभिः६
एतेषां मानसी कन्या पत्नी हिमवतो मता
मैनाकस्तस्य दायादः क्रौचस्तस्य सुतोभवत्७
क्रौंचद्वीपः स्मृतो येन चतुर्थो धृतसंयुतः
मेना तु सुषवे तिस्रः कन्या योगवतीस्ततः८
उमैकपर्णा पर्णा च तीव्रव्रतपरायणाः
रुद्रस्यैका भृगोश्चैका जैगीषव्यस्य चापरा९
दत्ता हिमवता बालाः सर्वलोकतपोधिकाः
पितॄणां लोकसंगीतं कथयामि शृणुष्व तत्१०
लोकाः सोमपथा नाम यत्र मारीचनंदनाः
वर्त्तंते येन पितरो यान्देवा भावयन्त्यलम्११
अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः
अच्छोदा नाम तेषां तु कन्याभूद्वरवर्णिनी१२
अच्छोदं च सरस्तत्र पितृभिर्निर्मितं पुरा
अच्छोदाथ तपश्चक्रे दिव्यं वर्षसहस्रकम्१३
आजग्मुः पितरस्तुष्टा दास्यन्तः किल ते वरम्
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः१४
सर्वे प्रधाना बलिनः कुसुमायुधसन्निभाः
तन्मध्येमावसुं नाम पितरं वीक्ष्य सांगना१५
वव्रे वरार्थिनी संगं कुसुमायुधपीडिता
योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी१६
धरान्न स्पृशते पूर्वं प्रयाताथ भुवस्तले
तथैवामावसुर्योयमिच्छां चक्रे न तां प्रति१७
धैर्येण तस्य सा लोके अमावास्येति विश्रुता
पितॄणां वल्लभा यस्माद्दत्तस्याक्षयकारिका१८
अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात्
सा पितॄन्प्रार्थयामास पुनरात्मसमृद्धये१९
विलज्जमाना पितृभिरिदमुक्ता तपस्विनी
भविष्यमथ चालोक्य देवकार्यं च ते तदा२०
इदमूचुर्महाभागाः प्रसाद शुभयागिरा
दिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः२१
तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी
सद्यः फलंति कर्माणि देवत्वे प्रेत्यमानुषे२२
तस्मात्त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यत्फलम्
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा२३
व्यतिक्रमात्पितॄणां तु कष्टं कुलमवाप्स्यसि
तस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि२४
कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यसि दुर्ल्लभान्
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि२५
द्वीपे तु बदरीप्राये बादरायणमप्युत
स वेदमेकं बहुधा विभजिष्यति ते सुतः२६
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः
विचित्रवीर्यस्तनयस्तथा चित्रांगदो नृपः२७
इमावुत्पाद्य तनयौ क्षेत्रजौ तस्य धीमतः
प्रौष्ठपद्यष्टकाभूयः पितृलोके भविष्यसि२८
नाम्ना सत्यवती लोके पितृलोके तथाष्टका
आयुरारोग्यदा नित्यं सर्वकामफलप्रदा२९
भविष्यसि परे लोके नदी त्वं च गमिष्यसि
पुण्यतोया सरिच्छ्रेष्ठा लोकेष्वच्छोदनामिका३०
इत्युक्ता सा गणैस्तैस्तु तत्रैवांतरधीयत
साप्यापचारित्रफलं मया यदुदितं पुरा३१
विभ्राजो नाम ये चान्ये दिवि संति सुवर्चसः
लोका बर्हिषदो यत्र पितरः संति सुव्रताः३२
यत्र बर्हिषि युक्तानि विमानानि सहस्रशः
संकल्पपादपा यत्र तिष्ठंति फलदायिनः३३
यदभ्युदयशालासु मोदंते श्राद्धदायिनः
ये दानवासुरगणा गंधर्वाप्सरसां गणाः३४
यक्षरक्षोगणास्ते च यजंति दिवि देवताः
पुलस्त्यपुत्राः शतशस्तपोयोगबलान्विताः३५
महात्मानो महाभागा भक्तानामभयंकराः
एतेषां पीवरी कन्या मानसी दिवि विश्रुता३६
योगिनी योगमाता च तपश्चक्रे सुदारुणं
प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा ततः३७
योगवंतं सुरूपं च भर्तारं विजितेंद्रियम्
देहि देव प्रसन्नस्त्वं यदि ते वदतां वर३८
उवाच देवो भविता व्यासपुत्रो यदा शुकः
भवित्री तस्य भार्या त्वं योगाचार्यस्य सुव्रता३९
भविष्यति च ते कन्या कृत्तीनामाथ योगिनी
पांचालपतये देया सात्वताय तु सा तदा४०
जननी ब्रह्मदत्तस्य योगसिद्धांतगा स्मृता
कृष्ण गौरश्च शंभुश्च भविष्यंति च ते सुताः४१
सर्वकामसमृद्धेषु विमानेष्वपि पावनाः
किं पुनः श्राद्धदा विप्रा भक्तिमंतः क्रियान्विताः४२
गौर्नाम कन्या येषां तु मानसी दिवि राजते
सुकन्या दयिता पत्नी साध्यानां कीर्तिवर्द्धिनी४३
मरीचिगर्भनामानो लोके मार्तंडमंडले
पितरो यत्र तिष्ठंति हविष्मंतोंगिरः सुताः४४
तीर्थश्राद्धप्रदा यांति यत्र क्षत्रियसत्तमाः
राज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः४५
एतेषां मानसी कन्या यशोदा नाम विश्रुता
पत्नी यांशुमतः श्रेष्ठा स्नुषा पंचजनस्य च४६
जनन्यथ दिलीपस्य भगीरथपितामही
लोकाः कामदुघा नाम कामभोगफलप्रदाः४७
सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताः
आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः४८
पुलहाग्रजदायादा वैश्यास्तान्भावयंति ह
यत्र श्राद्धकृतः सर्वे पश्यंति युगपद्गताः४९
मातृभ्रातृपितृस्वसॄः सखिसंबंधिबांधवान्
अपिजन्मायुतैर्दृष्टाननुभूतान्सहस्रशः५० 1.9.50
एतेषां मानसी कन्या विरजा नाम विश्रुता
सा पत्नी नहुषस्यासीद्ययातेर्जननी तथा५१
एषाष्टकाभवत्पश्चाद्ब्रह्मलोकगता सती
त्रय एते गणाः प्रोक्ताश्चतुर्थं तु वदाम्यहम्५२
लोकाः सुमनसो नाम ब्रह्मलोकोपरिस्थिताः
सोमपा नाम पितरो यत्र तिष्ठंति शाश्वतं५३
धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः
उत्पन्नाः प्रलयांते तु ब्रह्मत्वं प्राप्य योगिनः५४
कृत्वा सृष्ट्यादिकं सर्वे मानसे सांप्रतं स्थिताः
नर्मदा नाम तेषां तु कन्या तोयवहा सरित्५५
भूतानि पुनती या तु पश्चिमोदधिगामिनी
तेभ्यः सर्वत्र मनुजाः प्रजासर्गे च निर्मितम्५६
ज्ञात्वा श्राद्धानि कुर्वंति धर्मभावेन सर्वदा
सर्वदा तेभ्य एवास्य प्रसादाद्योगसंततिः५७
पितॄणामादिसर्गे तु श्राद्धमेवं विनिर्मितम्
सर्वेषां राजतं पात्रमथवा राजतान्वितम्५८
दत्तं स्वधां पुरोधाय पितॄन्प्रीणाति सर्वदा
आग्नीध्रसोमपाभ्यां तु कार्यमाप्यायनं बुधैः५९
अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेपि वा
अजाकर्णेश्वकर्णे वा गोष्ठे वाथ शिवांतिके६०
पितॄणाममलं स्थानं दक्षिणादिक्प्रशस्यते
प्राचीनावीतमुदकं तिलसंत्यागमेव च६१
खड्गिगनामामिषं चैवमन्नं श्यामाकशालयः
यवनीवारमुद्गेक्षु शुक्लपुष्प फलानि च६२
वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा
दर्भा माषष्षष्टिकान्नं गोक्षीरं मधुसर्पिषी६३
शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि च
मसूर शण निष्पावा राजमाषाः कुलुत्थकाः६४
पद्म बिल्वार्कादुत्तूर पारिभद्राटरूषकाः
न देयाः पितृकार्येषु पयश्चाजाविकं तथा६५
कोद्रवोदारवरटकपित्थं मधुकातसी
एतान्यपि न देयानि पितॄभ्यः श्रियमिच्छता६६
पितृन्प्रीणाति यो भक्त्या ते पुनः प्रीणयंति तं
यच्छंति पितरः पुष्टिं स्वांगारोग्यं प्रजाफलम्६७
देवकार्यादपि पुनः पितृकार्यं विशिष्यते
देवताभ्यः पितॄणां तु पूर्वमाप्यायनं स्मृतम्६८
शीघ्रप्रसादास्त्वक्रोधा निस्संगाः स्थिर सौहृदाः
शांतात्मानः शौचपराः सततं प्रियवादिनः६९
भक्तानुरक्ताः सुखदाः पितरः पर्वदेवताः
हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः७०
एतद्धि सर्वमाख्यातं पितृवंशानुकीर्त्तनम्
पुण्यं पवित्रमारोग्यं कीर्त्तनीयं नृभिः सदा७१
भीष्म उवाच
श्रुत्वैतदखिलं भूयः पराभक्तिरुपस्थिता
श्राद्धकालं विधिं चैव श्राद्धमेव तथैव च ७२
श्राद्धेषु भोजनीया ये श्राद्धवर्ज्या द्विजातयः
कस्मिन्वासरभागे तु पितृभ्यः श्राद्धमारभेत्७३
अन्नं दत्तं कथं याति श्राद्धे वै ब्रह्मवित्तम
विधिना केन कर्त्तव्यं कथं प्रीणाति तान्पितॄन्७४
पुलस्त्य उवाच
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्७५
नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते
नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्७६
अदैवतं विजानीयात्पार्वणं पर्व सुस्मृतम्
पार्वणं त्रिविधं प्रोक्तं शृणु यत्नान्महीपते७७
पार्वणेय नियोज्यास्तु तान्शृणुष्व नराधिप
पंचाग्निः स्नातकश्चैव त्रिसौपर्णः षडंगवित्७८
श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः
सर्वज्ञो वेदवान्मंत्री ज्ञानवंशकुलान्वितः७९
त्रिणाचिकेतस्त्रिमधुः श्रुतेष्वन्येषु संस्थितः
पुराणवेत्ता ब्रह्मज्ञः स्वाध्यायी जपतत्परः८०
ब्रह्मभक्तः पितृपरः सूर्यभक्तोथ वैष्णवः
ब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान्८१
एते तोष्याः प्रयत्नेन वर्जनीयानिमान्शृणु
पतितस्तत्सुतः क्लीबः पिशुनो व्यंगरोगितः८२
सर्वे ते श्राद्धकाले तु त्याज्या वै धर्मदर्शिभिः
पूर्वेद्युरपरेद्युर्वा विनीतांश्च निमंत्रयेत्८३
निमंत्रितांश्च पितर उपतिष्ठंति तान्द्विजान्
वायुभूतानि गच्छंति तथासीनानुपासते८४
दक्षिणं जानुचालभ्य वामं पात्यनिमंत्रयेत्
अक्रोधनैः शौचपरैः सुस्नातैर्ब्रह्मवादिभिः८५
भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणि
पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योग्निमान्८६
पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये तथा
गोमयेनानुलिप्ते तु दक्षिणाप्लवनस्थले८७
श्राद्धं समारभेद्भक्त्या गोष्ठे वा जलसन्निधौ
अग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः८८
पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्
अभिघार्य ततः कुर्यान्निर्वापत्रयमग्रतः८९
ते वितस्त्यायताः कार्याश्चतुरङ्गुलविस्तृताः
दर्वीत्रयं च कुर्वीत खादिरं रजतान्वितम्९०
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्
उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशम्९१
तिलपात्राणि सद्वासो गंधधूपानुलेपनम्
आहरेदपसव्यं च सर्वं दक्षिणतः शनैः९२
एवमासाद्य तत्सर्वं भवनस्योत्तरेंतरे
गोमयेनानुलिप्तायां गोमूत्रेण च मंडलम्९३
साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवत्
विप्राणां क्षालयेत्पादावभिवंद्य पुनःपुनः९४
आसनेषूपविष्टेषु दर्भवत्सु विधानतः
उपस्पृष्टोदकान्विप्रानुपवेश्यानुमंत्रयेत्९५
द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वा
भोजयेदीश्वरोपीह न कुर्याद्विस्तरं बुधः ९६
दैवपूर्वं निवेद्याथ विप्रानर्घादिना बुधैः
अग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि ९७
स्वगृह्योक्तेन विधिना काले कृत्वा समंततः
अग्नीषोममयाभ्यां तु कुर्यादाप्यायनं बुधः९८
दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमः
यज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकम्९९
प्राचीनावीतिना कार्यमेतत्सर्वं विजानता
लब्ध्वा तस्माद्विशेषेण पिंडान्कुर्वीत चोदकं१०० 1.9.100
दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिना
दद्यात्सर्वं प्रयत्नेन दमयुक्तो विमत्सरः१०१
विधाय रेखां यत्नेन निर्वपेदवनेजनं
दक्षिणाभिमुखः कुर्यात्ततो दर्भान्निधाय वै१०२
निधाय पिंडमेकैकं सर्वं दर्भोपरिक्रमात्
निर्वपेदथ दर्भेषु नामगोत्रानुकीर्तनैः१०३
तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनां
तथैव च जपं कुर्यात्पुनः प्रत्यवनेजनम्१०४
जलयुक्तं नमस्कृत्य गंधधूपार्चनादिभिः
एवमावाह्य तत्सर्वं वेदमंत्रैर्यथोदितैः१०५
एकाग्नरेकएवाद्भिर्निर्वपेद्दर्विकां तथा
ततः कृत्वा नरो दद्यात्पितृभ्यस्तु कुशान्बुधः१०६
ततः पिंडादिकं कुर्यादावाहनविसर्जनम्
ततो गृहीत्वा पिंडेभ्यो मात्राः सर्वाः क्रमेण तु१०७
तानेव विप्रान्प्रथममाशयित्वा च मानवः
वर्णयन्भोजयेदन्नमिष्टं पूर्तं च सर्वदा१०८
वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम्
तृप्तान्ज्ञात्वा पुनः कुर्याद्विकिरं सार्ववर्णिकं१०९
विधृत्य सोदकं त्वन्नं सतिलं प्रक्षिपेद्भुवि
आचांतेषु पुनर्दद्याज्जलं पुष्पाक्षतोदकम्११०
स्वधावाचनकं सर्वं पिंडोपरि समाचरेत्
देवाद्यंतं प्रकुर्वीत श्राद्धनाशोन्यथा भवेत्१११
विसृज्य विप्रान्प्रणतस्तेषां कृत्वा प्रदक्षिणम्
दक्षिणांदिशमाकांक्षन्पितॄनुद्दिश्य मानवः११२
दातारो नोभिवर्द्धंतां वेदाः सन्ततिरेव च
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्विति११३
अन्नं च नो बहुभवेदतिथींश्च लभेमहि
याचितारश्च नः संतु मा च याचिष्म कंचन११४
एतदग्निमतः प्रोक्तमन्वाहार्यं तु पार्वणं
यथेंदुसंक्षये तद्वदन्यत्रापि निगद्यते११५
पिंडांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेपि वा
वप्रांते वाथ विकिरेदापोभिरथ वापयेत्११६
पत्नीं तु मध्यमं पिंडं प्राशयेद्विनयान्विताम्
आधत्त पितरो गर्भं पुत्रसंतानवर्द्धनं११७
तावन्निर्वापणं तिष्ठेद्यावद्विप्रा विसर्जिताः
वैश्वदेवं ततः कुर्यान्निवृत्तः पितृकर्मणः११८
इष्टैः सह ततः शांतो भुंजीत पितृसेवितम्
पुनर्भोजनमध्वानं यानमायासमैथुनम्११९
श्राद्धकृच्छ्राद्धभुग्यो वा सर्वमेतद्विवर्जयेत्
स्वाध्यायं कलहं चैव दिवास्वप्नं च सर्वदा१२०
अनेन विधिना श्राद्धं त्रिवर्गस्येह निर्वपेत्
कन्या कुंभ वृषस्थेर्के कृष्णपक्षेषु सर्वदा१२१
यत्रयत्र प्रदातव्यं सपिंडीकरणात्मकम्
तत्रानेन विधानेन देयमग्निमता सदा१२२
अतः परं प्रवक्ष्यामि ब्रह्मणा यदुदीरितम्
श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम्१२३
अयने विषुवे चैव अमावस्यार्कसंक्रमे
अमावस्याष्टका कृष्णपक्ष पंचदशीषु च१२४
आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मणसंगमे
गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे१२५
वैशाखस्य तृतीयायां नवमीकार्तिकस्य च
पंचदशी तु माघस्य नभस्ये च त्रयोदशी१२६
युगादयः स्मृता ह्येताः पितॄपक्षोपकारिकाः
तथा मन्वंतरादौ च देयं श्राद्धं विजानता१२७
अश्वयुङ्नवमी चैव द्वादशी कार्तिके तथा
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च१२८
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा
आषाढस्यापि दशमी माघमासस्य सप्तमी१२९
श्रावणे चाष्टमी कृष्णा तथाषाढी च पूर्णिमा
कार्तिकी फाल्गुनी चैवा ज्येष्ठे पंचदशी सिता१३०
मन्वंतरादयस्त्वेता दत्तस्याक्षयकारिकाः
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः१३१
श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदंति
वैशाख्यामुपवासेषु तथोत्सवमहालये१३२
तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च
विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता१३३
विप्रान्पूर्वेपरेचाह्नि विनीतात्मानि मंत्रयेत्
शीलवृत्तगुणोपेतान्वयोरूपसमन्वितान्१३४
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा
भोजयेत्सुसमृद्धोपि न प्रकुर्वीत विस्तरम्१३५
विश्वेदेवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकं
पूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके१३६
शन्नोदेवीत्यपः कुर्याद्यवोसीति यवानपि
गंधपुष्पैस्तु संपूज्य विश्वान्देवान्प्रतिन्यसेत्१३७
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्
यवोसि धान्यराजस्त्वं वारुणो मधुमिश्रितः१३८
निर्णुदः सर्वपापानां पवित्र ऋषिसंस्तुतः
गंधपुष्पैरलंकृत्य या दिव्येत्यर्घमुत्सृजेत्३९
अभ्यर्च्य गंधाद्युत्सृज्य पितृयज्ञं समारभेत्
दर्भासनादि कृत्वादौ त्रीणि पात्राणि चार्चयेत्१४०
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्
तिलोसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः१४१
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः
राजतं वा प्रकुर्वीत तथा सागरसंभवम्१४२
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते
रजतस्य कथा वापि दर्शनं दानमेव च१४३
राजतैर्भाजनैरेषां पितॄणां रजतान्वितैः
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते१४४
अद्यापि पितृपात्रेषु पितॄणां राजतान्वितम्
शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम्१४५
एवं पात्राणि संकल्प्य यथालाभं विमत्सरः
या दिव्येति पितुर्नाम गोत्रे दर्भान्करे न्यसेत्१४६
पितॄनावाहयिष्यामि तथेत्युक्तः स तैः पुनः
उशंतस्त्वा तथायन्तु ऋग्म्यामावाहयेत्पितॄन्१४७
या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गंधादिकं ततः
वस्त्रोत्तरं दर्भपूर्वं दत्वा संश्रयमादितः१४८
पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्
पितृभ्यः स्थानमसीति निधाय परिवेषयेत्१४९
तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरः
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्१५० 1.9.150
उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतः
गुणान्वितैश्च शाकाद्यैर्नानाभक्ष्यैस्तथैव च१५१
अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितं
मासं प्रीणाति वै सर्वान्पितॄनित्याह पद्मजः१५२
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु
औरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै१५३
वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमा
सप्तलोहस्य मांसेन तथाष्टावाजकेन तु१५४
पृषतस्य तु मांसेन तृप्तिर्मासान्नवैव तु
दशमासांश्च तृप्यंते वराहमहिषामिषैः१५५
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु
संवत्सरं तु गव्येन पयसा पायसेन वा१५६
सौकरेण तु तृप्यंते मासान्पंचदशैव तु
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी१५७
कालशाकेन चानंत्यं खड्गमांसेन चैव हि
यत्किंचिन्मधुना मिश्रं गोक्षीरं दधिपायसम्१५८
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः
स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च१५९
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च
इंद्रेशसोमसूक्तानि पावमानीश्च शक्तितः१६०
बृहद्रथंतरं तत्र ज्येष्ठसामाथ रौरवं
तथैव शांतिकाध्यायं मधुब्राह्मणमेव च१६१
मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः
विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत्१६२
भारताध्ययनं कार्यं पितॄणां परमप्रियं
भुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप१६३
सार्ववर्णिकमन्नाद्यमानयेत्सावधारणं
समुत्सृजेद्भुक्तवतामग्रतो विकिरान्भुवि१६४
अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम
भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिं१६५
येषां न माता न पिता न बंधुर्न चापि मित्रं न तथान्नमस्ति
तत्तॄप्तयेन्नं भुवि दत्तमेतत्पयातु योगाय यतो यतस्ते१६६
असंस्कृतप्रमीतानां त्यागिनां कुलभागिनां
उछिष्टभागधेयानां दर्भेषु विकिरासनं१६७
तृप्तान्ज्ञात्वोदकं दद्यात्सकृद्विकिरणे तथा
विप्रलिप्तमहीपृष्टे गोशकृन्मूत्रवारिणा१६८
निधाय दर्भान्विधिवद्दक्षिणाग्रान्प्रयत्नतः
सर्ववर्णविधानेन पिंडांश्च पितृयज्ञवत्१६९
अवनेजनपूर्वं तु नामगोत्रं तु मानवः
उक्त्वा पुष्पादिकं दत्वा कृत्वा प्रत्यवनेजनं१७०
ज्ञात्वापसव्यं सव्येन पाणिना त्रिः प्रदक्षिणं
पितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना१७१
दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः
तथा चांतेषु चाचम्य दद्याच्चापः सकृत्सकृत्१७२
तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्१७३
गोभूहिरण्यवासांसि भव्यानि शयनानि च
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च१७४
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहेत्
ततः स्वधावाचनकं विश्वेदेवेषु चोदकं१७५
दत्वाशीः प्रतिगृह्णीयाद्द्विजेभ्योपि यथा बुधः
अघोराः पितरः संतु संत्वित्युक्तः पुनर्द्विजैः१७६
गोत्रं तथा वर्द्धतां तु तथेत्युक्तश्च तैः पुनः
स्वस्तिवाचनकं कुर्यात्पिंडानुद्धृत्य भक्तितः१७७
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनम्
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः१७८
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च
दासवर्गस्य तत्पिंडं भागधेयं प्रचक्षते१७९
पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा
अव्रतानामपुत्राणां स्त्रीणामपि नराधिप१८०
ततः स्थानाग्रतः स्थित्वा प्रतिगृह्यांबुपात्रिकां
वाजेवाजेति च जपन्कुशाग्रेण विसर्जयेत्१८१
बहिः प्रदक्षिणं कुर्यात्पदान्यष्टावनुव्रजेत्
बंधुवर्गेण सहितः पुत्रभार्यासमन्वितः१८२
निवृत्य प्रणिपत्याथ प्रयुज्याग्निं स मंत्रवित्
वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च१८३
ततस्तु वैश्वदेवांते सभृत्यसुतबांधवः
भुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितं१८४
एतच्चानुपनीतोपि कुर्यात्सर्वेषु पर्वसु
श्राद्धं साधारणं नाम सर्वकामफलप्रदम्
भार्याविरहितोप्येतत्प्रवासस्थोपि भक्तिमान्१८५
शूद्रोप्यमंत्रकं कुर्यादनेन विधिना नृप
तृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते१८६
उत्सवानंदसंस्कारे यज्ञोद्वाहादिमंगले
मातरः प्रथमं पूज्याः पितरस्तदनंतरं१८७
ततो मातामहा राजन्विश्वेदवास्तथैव च
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः१८८
प्राङ्मुखो निर्वपेत्पिंण्डान्पूर्वांश्चैव पुरातनान्
संपन्नमित्यभ्युदये दद्यादर्घं द्वयोर्द्वयोः१८९
युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिः
तिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं१९०
मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान्
एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा१९१
नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधः
दानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुः
दानेन सर्वकामाप्तिस्तस्य संजायते यतः१९२

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे साधारणाभ्युदयकीर्तनं नाम नवमोध्यायः९