भीष्म उवाच
श्रुतः पद्मोद्भवो ब्रह्मन्विस्तरेण त्वयेरितः
समासाद्भवमाहात्म्यमुत्पत्तिं च गुहस्य च१
श्रोतुमिच्छामि ते ब्रह्मन्यथाभूतः कृतं च यत्
तारकश्च कथं भूतो दानवो बलवत्तरः२
कार्त्तिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः
कथं रुद्रेण मुनयः प्रेषिता मंदरं गिरिम्३
कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना
एतदाख्याहि मे सर्वं यथाभूतं महामुने४
पुलस्त्य उवाच
कश्यपेन पुरा प्रोक्ता दितिर्दैत्यारणिः शुभा
वज्रसारमयैश्चांगैः पुत्रो देवि भविष्यति५
वज्रांगो नाम पुत्रस्तु भविता धर्मवत्सलः
सा च लब्धवरा देवी सुषुवे वज्रदुश्छिदम्६
स जातमात्र एवाभूत्सर्वशास्त्रार्थपारगः
उवाच मातरं भक्त्या मातः किं करवाण्यहम्७
तस्योवाच ततो हृष्टा दितिर्दैत्याधिपस्य तु
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक८
तेषामपचितिं कर्तुं गच्छ शक्रवधाय तु
बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बलात्९
बध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा
मातुरंतिकमागच्छद्व्याधः क्षुद्रमृगं यथा१०
एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः
आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ११
दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च
मुंचैनं पुत्र देवेंद्रं किमनेन प्रयोजनम्१२
अवमानो वधः प्रोक्तः पुत्र संभावितस्य तु
अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः१३
परस्य गौरवान्मुक्तः शत्रूणां शत्रुराहवे
सजीवन्नेव हि मृतो दिवसे दिवसे पुनः१४
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्
न मे कृत्यमनेनास्ति मातुराज्ञा कृता हि मे१५
त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः१६
तपसेमेरतिर्देवनिर्विघ्नंतच्चमेभवेत्
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम ह१७
तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः
ब्रह्मोवाच
तपस्त्वं कुरु मापन्नः सोस्मच्छासनसंस्थितः१८
अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम्
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्१९
तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसंभवः
वरांगीति च नामास्याः कृत्वा यातः पितापहः२०
वज्रांगोपि तया सार्द्धं जगाम तपसे वनम्
ऊर्द्ध्वबाहुस्स दैत्येंद्रो चरद्वर्षसहस्रकम्२१
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः
तावच्चाधोमुखः कालं तावत्पंचाग्निमध्यगः२२
निराहारो घोरतपास्तपोराशिरजायत
ततः सोंतर्जले चक्रे वासं वर्षसहस्रकम्२३
जलांतरं प्रविष्टस्य तस्य पत्नी महाव्रता
तस्यैव तीरे सरसः स्थिताऽसौ मौनमाश्रिता२४
निराहारं तपो घोरं प्रविवेश महाद्युतिः
तस्यां तपसि वर्तंत्यामिंद्रश्चक्रे विभीषिकाम्२५
गत्वा तु मर्कटाकारस्तदाश्रमपदं महत्
ब्रसीं चकर्ष बलवान्गंधाद्यर्चाकरंडकम्२६
ततस्तु सिंहरूपेण भीषयामास भामिनीम्
ततो भुजंगरूपेणाप्यदशच्चरणद्वयम्२७
तपोबलवशात्सा तु नवध्यत्वं जगाम ह
भीषिकाभिरनेकाभिः क्लेशयन्पाकशासनः२८
विरराम यदा नैव वज्रांगमहिषी तदा
शैलस्यदुष्टतां मत्वा शापं दातुं समुद्यता२९
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषविग्रहः
उवाच तां वरारोहां वरांगीं भीतलोचनः३०
शैल उवाच
नाहं महाव्रते दुष्टः सेव्योहं सर्वदेहिनाम्
विप्रियं ते करोत्येष रुषितः पाकशासनः३१
एतस्मिन्नंतरे जातः कालो वर्षसहस्रकः
तस्मिन्ज्ञात्वा तु भगवान्काले कमलसंभवः३२
तुष्टः प्रोवाच वज्रांगं तदागत्य जलाशयम्
ब्रह्मोवाच
ददामि सर्वकामं त उत्तिष्ठ दितिनंदन३३
एवमुक्तस्तदोत्थाय स दैत्येंद्रस्तपोनिधिः
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्३४
वज्रांग उवाच
आसुरो मास्तु मे भावः संतु लोका ममाक्षयाः
तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य वर्तनम्३५
एवमस्त्विति तं देवो जगाम स्वकमालयम्
वज्रांगोपि समाप्ते तु तपसि स्थिरसंयमः३६
संगंतुमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके
क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह३७
आदातुं फलमूलानि स च तस्मिन्व्यलोकयत्
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्३८
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्
वज्रांग उवाच
केन तेऽपकृतं भद्रे यमलोकं यियासुना३९
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि
वरांग्युवाच
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च४०
रौद्रेण देवराजेन नष्टनाथेव भूरिशः
दुःखस्यांतमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता४१
पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात्
एवमुक्तस्तु दैत्येंद्रः कोपव्याकुललोचनः४२
शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः
तप एव पुनश्चर्तुं व्यवस्यत महाबलः४३
ज्ञात्वा तस्य तु संकल्पं ब्रह्मा क्रूरतरं पुनः
आजगाम त्वरायुक्तो यत्रासौ दितिनंदनः४४
ब्रह्मोवाच
किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः
तदहं ते पुनर्दद्मि कांक्षितं पुत्रमोजसा४५
वज्रांग उवाच
उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया
त्रासितेंद्रेण मामाह सा वरांगी सुतार्थिनी४६
पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह
ब्रह्मोवाच
अलं ते तपसा वीर मा क्लेशे दुस्तरे विश४७
पुत्रस्तु तारको नाम भविष्यति महाबलः
देवसीमंतिनीनां तु धम्मिल्लक विमोक्षकः४८
इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम्
गत्वा तां नंदयामास महिषीं कर्शितांतराम्४९
तौ दंपती कृतार्थौ तु जग्मतुः स्वाश्रमं तदा
आहितं तु तदा गर्भं वरांगी वरवर्णिनी1.42.५०
पूर्णं वर्षसहस्रं तु दधारोदर एव हि
ततो वर्षसहस्रांते वरांगी सा प्रसूयत५१
जायमाने तु दैत्ये तु तस्मिन्लोकभयंकरे
चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः५२
चेलुर्धराधराश्चापि ववुर्वाताश्च भीषणाः
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि५३
जहौ कांतिश्चंद्रसूर्यौ नीहारच्छादिता दिशः
जाते महासुरे तस्मिन्सर्वे चापि महासुराः५४
आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः
जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः५५
ततो महोत्सवे जाते दानवानां महाद्युते
विषण्णमनसो देवाः सहेंद्रा अभवंस्तदा५६
वरांगी तु सुतं दृष्ट्वा हर्षेणापूरिता तदा
बहुमेने च दैत्येंद्रो विजातं तं तदा तया५७
जातमात्रस्तु दैत्येंद्रस्तारकश्चोग्रविक्रमः
अभिषिक्तो सुरैर्मुख्यैः कुजंभमहिषादिभिः५८
सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे
स तु प्राप्तमहाराज्यस्तारको नृपसत्तम५९
उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः
तारक उवाच
शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः६०
वंशक्षयकरा देवाः सर्वेषामेव दानवाः
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्६१
वयं तपश्चरिष्यामः सुराणां निग्रहाय तु
स्वबाहुबलमाश्रित्य सर्व एव न संशयः६२
तच्छ्रुत्वा संमतं कृत्वा पारियात्रं ययौ गिरिं
निराहारः पंचतपाः पत्रभुग्वारिभोजनः६३
शतंशतं समानां तु तपांस्येतान्यथाकरोत्
एवं तु कर्शिते देहे तपोराशित्वमागते६४
ब्रह्मागत्याह दैत्येंद्रं वरं वरय सुव्रत
स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति६५
तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम्
यतस्ततोपि वरय मृत्युं यस्मान्न शंकसे६६
ततः संचिंत्य दैत्येंद्रः शिशोर्वै सप्तवासरात्
वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः६७
जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम्
अथाह मंत्रिणस्तूर्णं बलं मे संप्रयुज्यताम्६८
यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः
निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः६९
तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः
सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्७०
आहत्य भेरीं गंभीरां दैत्यानाहूय सत्वरः
दशकोटीश्वरा दैत्या दैत्यानां चंडविक्रमाः७१
तेषामग्रेसरो जंभः कुजंभोनंतरोऽसुरः
महिषः कुंजरो मेघः कालनेमिर्निमिस्तथा७२
मंथनो जंभकः शुम्भो दैत्येंद्रा दशनायकाः
अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः७३
गरुडानां सहस्रेण चक्राष्टकविभूषितः
सकूबरपरीवारश्चतुर्योजनविस्तृतः७४
स्यंदनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः
युक्ता रथास्तु ग्रसन जंभकौ जंभकुंभिनां७५
मेघस्य द्वीपिभिर्युक्तः कूष्मांडैः कालनेमिनः
पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः७६
शतहस्ततुरंगस्थो मंथनो नाम दैत्यराट्
जंभकस्तूष्ट्रमारूढो गिरींद्राभं महाबलः७७
शुंभो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः
प्रचंडाश्चित्रवर्माणः कुंडलोष्णीषभूषिताः७८
तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत
प्रमत्तमत्तमातंगतुरंगरथसंकुलम्७९
प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्
एतस्मिन्नंतरे वायुर्देवदूतोऽसुरालये८०
दृष्ट्वा तद्दानवबलं जगामेंद्रस्य शंसितुं
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः८१
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्
तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः८२
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः
इंद्र उवाच
संप्राप्नोति विमर्दोयं देवानां दानवैः सह८३
कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम्
एतच्छ्रुत्वा तु वचनं महेंद्रस्य गिरां पतिः८४
इत्युवाच महाभागो बृहस्पतिरुदारधीः
बृहस्पतिरुवाच
सामपूर्वा श्रुता नीतिश्चतुरंगापताकिनी८५
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी
सामभेदस्तथा दानं दंडश्चांगचतुष्टयम्८६
न सांत्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः
न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्८७
एकोभ्युपायो दंडोऽत्र भवतां यदि रोचते
एवमुक्तः सहस्राक्ष एवमेतदुवाच ह८८
कर्त्तव्यतां च संचिंत्य प्रोवाचामरसंसदि
इंद्र उवाच
अवधानेन मे वाचं शृणुध्वं नाकवासिनः८९
भवंतो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः
स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः९०
क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम
आह्रियंतां च शस्त्राणि पूज्यंतां शस्त्रदेवताः९१
वाहनानि विमानानि योजयद्ध्वं ममेश्वराः
यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः९२
इत्युक्तास्समनह्यंत देवानां ये प्रधानतः
वाजिनामयुतेनाजौ हेमघंटा परिष्कृतम्९३
नानाश्चर्यगुणोपेतं संप्राप्तं देवदानवैः
रथं मातलिना युक्तं देवराजस्य दुर्जयम्९४
यमो महिषमास्थाय सेनाग्रे समवर्त्तत
चंडकिंकरवृंदेन सर्वतः परिवारितः९५
कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः
हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः९६
पवनोऽङकुशहस्तश्च विस्तारित महाजवः
भुजगेंद्रसमारूढो जलेशो भगवान्स्वयम्९७
नरयुक्ते रथे देवो राक्षसेशो वियच्चरः
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः९८
महासिंहरथे देवो धनाध्यक्षो गदायुधः
चंद्रादित्यावश्विनौ च चतुरंगबलान्विताः९९
सेनान्यो देवराजस्य दुर्जया भुवनत्रये
कोटयस्तास्त्रयस्त्रिंशद्देवदेवनिकायिनाम्1.42.१००
हिमाचलाभे सितचारुचामरे सुवर्णपद्मामलसुंदरस्रजि
कृताभिरामो ज्वलकुंकुमांकुरे कपोललीलालिकदंबसंकुले१०१
स्थितस्तदैरावणनाम कुंजरे महामनाश्चित्रविभूषणांबरः
विशालवज्रः सुवितानभूषितः प्रकीर्णकेयूरभुजंगमंडलः१०२
सहस्रदृग्वंदितपादपल्लवस्त्रिविष्टपे शोभत पाकशासनः
तुरंग मातंग कुलौघसंकुला सितातपत्त्रद्ध्वजशालिनी च१०३
बभूव सा दुर्जयपत्तिसंतता विभाति नानायुधयोधदुस्तरा
ततोश्विनौ च मरुतः ससाध्याः सपुरंदराः१०४
यक्षराक्षसगंधर्वा दिव्य नानास्त्रपाणयः
जघ्नुर्दैत्येश्वरं सर्वे संभूय तु महाबलाः१०५
न चैवास्त्राण्यसज्जंत गात्रे वज्राचलोपमे
अथो रथादवप्लुत्य तारको दानवाधिपः१०६
जघान कोटिशो देवान्करपार्ष्णिभिरेव च
हतशेषाणि सैन्यानि देवानां विप्र दुद्रुवुः१०७
दिशो भीतानि संत्यज्य रणोपकरणानि च
दृष्ट्वा तान्विद्रुतान्देवांस्तारको वाक्यमब्रवीत्१०८
मा वधिष्ठ सुरान्दैत्या वज्रांगाय च मंदिरे
शीघ्रमानीय दर्श्यंतां बद्धान्पश्यत्वयं सुरान्१०९
लोकपालांस्ततो दैत्यो बद्ध्वा चेंद्रमुखान्रणे
सरुद्रान्सुदृढैः पाशैः पशुपालः पशूनिव११०
स भूयो रथमास्थाय जगाम स्वकमालयं
सिद्धगंधर्वसंघुष्टं विपुलाचलमस्तकम्१११
स्तूयमानो दितिसुतैरप्सरोभिः सुसेवितः

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामे तारकजयो नाम द्विचत्वा- रिंशत्तमोऽध्यायः४२