पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४४

शर्व उवाच
शरीरे मम तन्वंगि सिते भास्यसितद्युतिः
भुजंगी वा सिता शुभ्रे संश्लिष्टा चंदनेतरौ१
चंद्रातपेन संपृक्ता रुधिराम्बरसंवृता
रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे२
इत्युक्ता गिरिजा तेन मुक्तकंठा पिनाकिनम्
उवाच कोपरक्ताक्षी भ्रुकुटी विकृतानना३
देव्युवाच-
स्वकृतेन जनः सर्वो जाड्येन परिभूयते
अवश्यमर्थी प्राप्नोति खंडनं शशिमंडन४
तपोभिर्दीर्घचरितैर्या त्वां प्रार्थितवत्यहं
तस्या मेनि यतस्त्वेष ह्यवमानः पदे पदे५
नैवास्मि कुटिला शर्व विषमा न च धूर्जटे
सविषस्त्वं जगत्ख्यातो व्यक्तदोषाकराश्रयः६
त्वं हि मुष्णासि दशनान्नेत्रहंता भगस्य च
आदित्यस्त्वां विजानाति भगवान्द्वादशात्मकः७
मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन्
यस्त्वं मामात्थकृष्णेति महाकालोसि विश्रुतः८
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्
जीवंत्या न मया कृत्यं धूर्तेन परिभूतया९
कापालिकेन क्षुद्रेण श्मशाने नित्यवासिना
भूत्या विलिप्त स्वांगेन मातृमध्यस्थ चारिणा१०
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं हरः
उवाचानिष्टसंभ्रांतः प्रचलेनेंदुमौलिना११
शर्व उवाच
अगात्मजासि गिरिजे नाहं निंदापरस्तव
चाटूक्तिबुध्या तु मया कृत उन्मादसंश्रयः१२
विकल्पः स्वस्थचित्ते तु गिरिजे न मम क्रमात्
यद्येवं कुपिता भीरु तत्तवाहं न वै पुनः१३
नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते
शिरसा प्रणतेनैष रचितस्ते मयांजलि१४
नि हीनो ह्यपमानेन निंदिते नैति विक्रियाम्
असतां तु सतां न स्यान्मर्मस्पृष्टो नरः किल१५
अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता१६
अवष्टब्धमथाच्छिद्य वासः शंकरपाणिना
विपर्यस्तालकावेगाद्गन्तुमैच्छच्च शैलजा१७
तस्या व्रजंत्याः कोपेन पुनराह पुरांतकः
सत्यं सर्वैरवयवैस्तनोषि सदृशां पितुः१८
हिमाचलस्य शृंगस्थमेव जालाकुलं मनः
तथा दुरवगाह्येभ्यो गहनो हि तवाशयः१९
काठिन्यमश्मसारेभ्यो वनेभ्यो बहुलां गता
कुटिलत्वं निम्नगाभ्यो दुःसेव्यत्वं हिमादपि२०
संक्रांतं सर्वमेवैतत्तन्वंगि हिमभूधरात्
इत्युक्ता सा पुनः प्राह गिरिशं शैलकन्यका२१
कोपकंपितमूर्द्धा सा प्रस्फुरद्दशनच्छदा
उमोवाच-
स्यात्सर्वं दोषदानेन निंदायां गुणिनो बलात्२२
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेव हि
व्यालेभ्योनेकजिह्वत्वं भस्मनोऽस्नेहवृत्तिता२३
हृत्कालुष्यं शशांकोत्थं दुर्बाधत्वं विषादपि
किं चात्र बहुनोक्तेन अलं वाचां श्रमेण ते२४
श्मशानवासान्निर्भीस्त्वं नग्नत्वात्तवनत्रपा
निर्घृणत्वं कपालित्वाद्दया ते विगता चिरम्२५
इत्युक्त्वा मंदिरात्तस्मान्निर्जगाम हिमाद्रिजा
तस्यां व्रजंत्यां देवेश्यां गणैः किलकिलाकृता२६
क्व मातर्गच्छसीत्युक्त्वा रुदद्भिर्धावितं पुनः
विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदः२७
प्रोवाच मातः किन्न्वेतत्क्व यासि कुपितातुरा
अहं त्वामनुयास्यामि व्रजंतीं स्नेहवर्जिताम्२८
नोचेत्पतिष्ये शिखराद्गिरेरस्य त्वयोज्झितः
उन्नम्यवदनं देवी दक्षिणेन तु पाणिना२९
उवाच वीरकं माता त्वं शोकं पुत्र मा कृथाः
शैलाग्रात्पतितुं नैव न च गंतुं मया सह३०
युक्तं ते पुत्र गच्छामि येन कार्येण तच्छृणु
कृष्णेत्युक्ता हरेणाहं स्तंभितास्म्यवमानिता३१
साहं तपः करिष्यामि येन गौरीत्वमाप्नुयाम्
एष स्त्रीलंपटो देवो यातायां मय्यनंतरम्३२
द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षणम्
यथा न काचित्प्रविशेद्योषित्तत्र हरांतिकम्३३
दृष्ट्वा परस्त्रियं चापि वदेथा मम पुत्रक
शीघ्रमेव करिष्यामि यथायुक्तमनंतरम्३४
एवमस्त्विति देवेशीं वीरकोवाच सांप्रतम्
मातुराज्ञामृताहार प्लावितांगो गतज्वरः३५
जगाम रक्षां स द्रष्टुं प्रणिपत्य तु मातरम्
देवी चापश्यदायांतीं सखीं मातुर्विभूषिताम्३६
कुसुमामोहिनीं नाम तस्य शैलस्य देवताम्
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा३७
क्व पुत्रि गच्छसीत्युच्चैरालिग्योवाच देवता
सा तस्याः सर्वमाचख्यौ शंकरात्कोपकारणम्३८
पुनश्चोवाचगिरिजा देवतां मातृसंमिताम्
उमोवाच-
नित्यं शैलाधिराजस्य देवतात्वमनिंदिते३९
सर्वतः सन्निधानं ते मनसातीव वत्सला
अतस्तु ते प्रवक्ष्यामि यद्विधेयं त्वयांबिके४०
अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः
सरहस्ये प्रयत्नेन निषेव्यः सततं गिरौ४१
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे
ततोहं संविधास्यामि यत्क्षमं तदनंतरम्४२
इत्युक्ता तां तथेत्युक्त्त्वा जगाम सा गिरिं शुभा
उमापि पितुरुद्यानं जगामाद्रिसुताद्भुतम्४३
अंतरिक्षं समाविश्य मेघमालाविलप्रभम्
भूषणानि ततो न्यस्य वृक्षवल्कलधारिणी४४
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता
वन्याहारा निराहारा शुष्कस्थंडिलशायिनी४५
एवं साधयती तत्र तपः सा च व्यवस्थिता
ज्ञात्वा गतां गिरिसुतां दैत्यस्तत्रांतरे बली४६
अंधकस्य सुतो हृष्टः पितुर्वधमनुस्मरन्
देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः४७
आडिर्नामांतरप्रेक्षीसततंचंद्रमौलिनः
आजगामामररिपुः पुरं त्रिपुरघातिनः४८
स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम्
विचिंत्य सोपि च वरं दत्तं कमलयोनिना४९
हते किलांधके दैत्ये गिरिशेनासुरद्विषा
आडिश्चकार विपुलं तपः परमदारुणम्1.44.५०
समागत्याब्रवीद्ब्रह्मा तपसा परितोषितः
किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि५१
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे
ब्रह्मोवाच-
जातानामिह संसारे विना मृत्युं न युज्यते५२
यतस्ततोपि दैत्येंद्र मृत्युः प्राप्यश्शरीरिभिः
इत्युक्तो दैत्यसिंहस्तु प्रोवाचांबुजसंभवम्५३
रूपस्यपरिवर्तो मे यदा स्यात्पद्मसंभव
तदा मृत्युर्मम भवेदन्यथा त्वमरोस्म्यहम्५४
इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः
यदा द्वितीयो रूपस्य विवर्त्तस्ते भविष्यति५५
तदा ते भविता मृत्युरन्यथा न भविष्यति
इत्युक्तोमरतां मेने दैत्यसूनुर्महाबलः५६
तस्मिन्काले त्वसंस्मृत्य तद्वधोपायमात्मनः
प्रतिहर्तुर्दृष्टिपथे वीरकस्याभवंस्तदा५७
भुजंगरूपी रंध्रेण प्रविवेश दृशःपथम्
परिहृत्य गणेशस्य दानवो रौद्रदुर्जयः५८
अलक्षितो गणेशेन प्रविश्याथ परां तनुम्
भुजंगरूपं संत्यज्य जग्राहाथ महासुरः५९
उमारूपं रमयितुं गिरिशं मूढचेतनः
कृत्वा मायामयं रूपमप्रतर्क्यं मनोहरम्६०
सर्वैरवयवैः पूर्णं सर्वाभिज्ञानबृंहितम्
कृत्वा भगांतरे दंतं दैत्यो वज्रमयं दृढम्६१
तीक्ष्णाग्रं बुद्धिमोहेन गिरिशं हंतुमुद्यतः
कृत्वोमारूपसंस्थानं गतो दैत्यो हरांतिकम्६२
पापो रम्याकृतिश्चित्र भूषणांबरसंयुतः
तं दृष्ट्वा गिरिशस्तुष्टस्तमालिंग्य महासुरम्६३
मन्यमानो गिरिसुतां सर्वैरवयवांतरैः
अपृच्छत्साधुभावं ते गिरिपुत्रि न कृत्रिमम्६४
या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी
त्वया विरहितं शून्यं मम स्थानं जगत्त्रयम्६५
प्राप्ता प्रसन्नवदने युक्तमेवंविधं त्वयि
इत्युक्तो दानवेंद्रस्तु तं बभाषे स्मितं शनैः६६
स चाबुध्यदभिज्ञानैः प्राह त्रिपुरघातिनम्
दैत्य उवाच
यातास्मि तपसः कामाद्वरं लब्धुं हिमाचलम्६७
रतिश्च तत्र मेनाभूत्ततः प्राप्ता त्वदंतिकम्
इत्युक्तः शंकरः शंकां चित्ते प्राप्तो विचारयन्६८
हृदयेन समाधाय देवः प्रहसिताननः
कुपिता कुपितं बुद्ध्वा प्रकृत्या च दृढव्रता६९
अप्राप्तकामा संप्राप्ता किमेतत्संविजानती
इति चिंत्य हरस्तस्या अभिज्ञानं विचारयन्७०
नापश्यद्वामपार्श्वे तु तदंकं पद्मलक्षणम्
लोम्नामावर्तरचितं ततो देवः पिनाकधृक्७१
बुद्ध्वा तां दानवीं मायामाकारं गूहयंस्ततः
मेढ्रदंष्ट्रास्त्रमादाय दानवं तमसादयत्७२
न चाबुध्यत तद्वृत्तं वीरको द्वाररक्षकः
कुसुमामोदिनं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्७३
दूतेन मारुतेनाशु बोधिता हिमशैलजा
श्रुत्वा वायुमुखाद्देवी क्रोधरक्ताविलेक्षणा७४
अपश्यद्वीरकं पुत्रं हृदयेनैव दूयता
देव्युवाच
मातरं मां परित्यज्य यस्मात्त्वं स्नेहविक्लवाम्७५
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ
तस्मात्ते मानुषे रूक्षा जडा हृदयवर्जिता७६
गणेशाकारसदृशी शिला माता भविष्यति
निमित्त एष विख्यातो वीरकस्य सुतादरात्७७
संभवे प्रक्रमे चैव विचित्राख्या न संशयः
एवमुत्सृष्टशापायां गिरिपुत्र्यामनंतरं७८
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः
स तु सिंहः करालास्यः सटाजटिलकंधरः७९
ऊर्ध्वप्रोद्भूतलांगूलो दंष्ट्रोत्कटमुखावटः
व्यादितास्यो लंबजिह्वः क्षामः कुक्षिबलादिषु८०
अस्यास्ये वर्तितुं देवी व्यवस्थितवती तदा
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः८१
आजगामाश्रमपदं संपदामाश्रयं यतः
आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा८२
ब्रह्मोवाच-
किं पुनः प्राप्तुकामासि किमलभ्यं ददामि ते
विरम्यतामतिक्लेशात्तपसोस्मान्मदाज्ञया८३
तच्छ्रुत्वोवाचगिरिजा गुरोर्गौरवयंत्रितं
वाक्यं वाचाहरोद्गीर्णवर्णनिर्गमवांछितं८४
देव्युवाच-
तपसा दुष्करेणाप्तः पतिर्वै शंकरो मया
समां श्यामलवर्णेति बहुशः प्रोक्तवान्रहः८५
तस्मादहं कांचनाभवर्णा तन्नामसंयुता
भर्तुर्भूतपतेरंगमेकतो निर्विषं भवेत्८६
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जगदीश्वरः
एवं भव त्वं भूयश्च भर्तुर्देहार्द्धचारिणी८७
ततस्तत्याजतां कृष्णां फुल्लनीलोत्पलत्वचं
त्वक्च साप्यभवद्भीमा घंटाहस्तात्रिलोचना८८
नानाभरणसंपूर्णा पीतकौशेयधारिणी
तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषं८९
निशे भूधरजा देह संपर्का त्वं मदाज्ञया
संप्राप्ता कृतकृत्यत्वमेकानंशा पुरो ह्यसि९०
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने
स तेस्तु वाहनं देवि केतौ चास्तु महाबलः९१
गच्छ विंध्याचलं तत्र सुरकार्यं करिष्यसि
पंचालो नाम यक्षोयं यक्षलक्षपदानुगः९२
दत्तस्ते किंकरो देवि मया मायाशतैर्युतः
इत्युक्त्वा कौशिकी देवी विंध्यशैलं जगाम ह९३
उमापि प्राप्तसंकल्पा जगाम गिरिशांतिकं
प्रविशंतीं तु तां द्वारादपहृत्य समाहितः९४
रुरोध वीरको देवीं हेमवेत्रलताधरः
तामुवाच च कोपेन रूपे तु व्यभिचारिणीं९५
प्रयोजनं न तेत्रास्ति गच्छ यावन्न भक्ष्यसे
देव्यारूपधरो दैत्यो देवं वंचितुमागतः९६
प्रविष्टो न च दृष्टोसौ स च देवेन घातितः
घातिते चाहमाज्ञप्तो नीलकंठेन कोपिना९७
द्वारे त्वनवधानं ते यस्मात्पश्यामि वै ततः
भविष्यसि न मे द्वास्थो वर्षपूगाननेकशः९८
अतस्ते नात्र दास्यामि प्रवेशं गम्यतां द्रुतम्
एकां मुक्त्वा गिरिसुतां मातरं स्नेहवत्सलाम्९९
प्रवेशं लभते नान्या नारी कमललोचने
इत्युक्त्वा तु तदा देवी चिंतयामास चेतसा1.44.१००
नारी नैव स दैतेयो वायुर्मे यामभाषत
वृथैव वीरकश्शप्तो मया क्रोधपरीतया१०१
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः
क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थितां श्रियम्१०२
अपरिच्छिन्नतत्वार्था पुत्रं शापितवत्यहं
विपरीतार्थबुद्धीनां सुलभो विपदागमः१०३
संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा
सज्जलज्जाविकारेण वदनेनाम्बुजत्विषा१०४
देव्युवाच-
अहं वीरक ते माता न तेस्तु मनसो भ्रमः
शंकरस्यास्मि दयिता सुता तुहिनभूभृतः१०५
मम गात्रच्छविभ्रांत्या मा शंकां पुत्र धारय
तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना१०६
मया शप्तोस्यविदिते वृत्तांते दैत्यनिर्मिते
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते१०७
ननिवर्तयितुं शक्यः शापः किंतु ब्रवीमि ते
शीघ्रमेष्यसि मानुष्यात्सर्वकामसमन्वितः१०८
शिरसा तु ततो वंद्य मातरं पूर्णमानसः
उवाच साध्वीं पूर्णेन्दु द्युतिं तुहिनशैलजां१०९
वीरक उवाच-
नतसुरासुरमौलिलसन्मणिप्रवरकांतिकरालिनखाङ्घ्रिके
नगसुते शरणागतवत्सले नवनमोवनतार्त्तिविनाशिनि११०
तपनमंडलमंडितकंधरे पृथुसुवर्णनगद्युतिहारिके
विषमभंगविषंगमभीषितो गिरिसुते भवतीमहमाश्रये१११
जगतिकाप्रणताभिमता ददौ झटिति सिद्धिमृते भवतीं यथा
जगतिकां प्रणमेच्छशिशेखरो भुवनभृन्मुनयो भवतीं यथा११२
विमलयोगविनिर्मितदुर्जये सुतनुतुल्यमहेश्वरमंडली
विदलितांधकबांधवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता११३
सितसटापटलोद्धतकंधराभवमहामृगराजरयस्थिता
विमलशक्तिमुखानलपिंगला यतभुजौघनिपिष्टमहासुरा११४
निगदिता भुवनैरतिचंडिकाजननिशुंभनिशुंभनिषूदिनी
प्रणतचिंतितदा भवदा नवप्रशमनैकरतिस्तरसा भुवि११५
वियतिवायुपथे ज्वलनाकुलेवनितले तव देवि च यद्वपुः
तदजितेप्रतिमे प्रणमाम्यहं भुवनभाविनिते भववल्लभे११६
जलधयो ललितोद्धतवीचयो हुतवहो द्युतिदग्धचराचरः
फणसहस्रभृतश्च भुजंगमास्त्वमभिधास्यसि मामभयंकरा११७
भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयं
करणजातमिहास्तु ममाश्रवैतवविलासमुखानुभवास्यदम्११८
सुप्रसन्ना ततो देवी वीरकस्येति संस्तुता
प्रविवेश शुभंभर्तुर्भुवनं भूधरात्मजा११९
द्वास्थोपि वीरको देवान्हरदर्शनकांक्षिणः
व्यसर्जयत्स्वकानेव गृहानादरपूर्वकं१२०
नास्त्यत्रावसरो देवा देव्याः सह वृषाकपिः
निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतं१२१
गते वर्षसहस्रे तु देवास्त्वरितमानसाः
ज्वलनं चोदयामासुर्ज्ञातुं शंकरचेष्टितं१२२
प्रविश्य पक्षिरंध्रेण शुकरूपी हुताशनः
ददर्श शयने सर्वं रतौ गिरिजया सह१२३
ददर्श तं च देवेशो हुताशं शुकरूपिणं
तमुवाच महादेवः किंचित्कोपसमन्वितः१२४
शर्व उवाच
निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह
लज्जया विरतिश्चास्य त्वमर्धं पिब पावक१२५
यस्मात्तु त्वत्कृते विघ्नं तस्मात्त्वय्युपपद्यते
इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितं१२६
तेनाप्लुतास्ततो देवास्तन्मुखा ऋभवो यतः
विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः१२७
निष्क्रांतं तप्तहेमाभं वितते शंकराश्रमे
तस्मिन्सरो महज्जातं विमलं बहुयोजनं१२८
प्रोत्फुल्लहेमकमलं नानाविहगनादितम्
तच्छ्रुत्वा तु सरो देवी जातं हेममहांबुजम्१२९
जगाम कौतुकाविष्टा तत्सरः कनकांबुजम्
तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा१३०
उपविष्टा ततस्तस्य तीरे देवी सखीवृता
पातुकामा च तत्तोयं स्वादुनिर्मलपंकजम्१३१
अपश्यत्कृत्तिकास्तास्स षडर्कद्युतिसन्निभाः
पद्मपत्रे तु तद्वारि गृहीत्वा प्रस्थिता गृहम्१३२
हर्षात्सोवाच पास्यामि पद्मपत्रे स्थितं पयः
ततःस्ता ऊचुरखिलाः कृत्तिका हिमशैलजाम्१३३
कृत्तिका ऊचुः-
दास्यामो दयिते गर्भे संभूतो यो भविष्यति
सोस्माकमपि पुत्रः स्यादस्मत्त्राता च वृत्तिमान्१३४
त्रिषु लोकेषु विख्यातः सर्वेष्वपि शुभानने
इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवैः१३५
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्
ततस्तां कृत्तिका ऊचुर्विधास्यामोस्य वै वयम्१३६
उत्तमान्युत्तमांगानि यद्येवं तु भविष्यति
उक्ता वै शैलजा प्राह भवत्वेवमनिंदिताः१३७
ततस्तु हर्षसंपूर्णा पद्मपत्रस्थितं पयः
तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम्१३८
पीते तु सलिले चैव तस्मिन्नेव क्षणे वरः
विपाट्य देव्याश्च ततो दक्षिणं कुक्षिमुद्गतः१३९
निश्चक्रामाद्भुतो बालो रोगशोकविनाशनः
प्रभाकरकरव्रात प्रकारप्रकरप्रभुः१४०
गृहीतनिर्मलोदग्र शक्तिशूलांकुशोनलः
दीप्तो मारयितुं दैत्यानुत्थितः कनकच्छविः१४१
एतस्मात्कारणादेव कुमारश्चापि सोभवत्
वामं विदार्य निष्क्रांतस्ततो देव्याः पुनः शिशुः१४२
स्कंदोथ वदनाद्वह्नेः शुभ्रात्षड्वदनोरिहा
कृत्तिकासलिलादेव शाखाभिः सविशेषतः१४३
शाखाः शिवाः समाख्याताः षट्सुवक्त्रेषु विस्तृताः
यतस्ततो विशाखोसौ ख्यातो लोकेषु षण्मुखः१४४
स्कंदो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः
पक्षे चैत्रस्य बहुले पंचदश्यां महाबलौ१४५
संभूतावर्कसदृशौ विशाले शरकानने
सिते पक्षे तु पंचम्यां तथैतौ पावकानलौ१४६
बालकाभ्यां चकारैकं संध्यायामेव भूतये
तस्यामेव ततः षष्ठ्यामभिषिक्तो गुहः प्रभुः१४७
सर्वैरमरसंघातैर्ब्रह्मोपेंद्रेंद्र भास्करैः
गंधमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि१४८
छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः
अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः१४९
सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम्
पत्न्यर्थं देवदेवेशो ददौ विष्णुरथायुधम्1.44.१५०
यक्षाणां दशलक्षाणि ददावस्य धनाधिपः
ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम्१५१
ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम्
एवं सुरास्तु ते सर्वे परिवारमनन्तकम्१५२

ददुर्मुदितचेतस्काः स्कंदायादित्यवर्चसे
जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन्१५३
स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः
देवा ऊचुः-
नमः कुमाराय महाप्रभाय स्कंदाय चास्कंदितदानवाय१५४
नवार्कबिंबप्रतिमप्रभाव नमोस्तु गुह्याय गुहाय तुभ्यम्
नमोस्तु ते लोकभयापहाय नमोस्तु ते लोककृपापराय१५५
नमो विशालामललोचनाय नमो विशाखाय महाव्रताय
नमो नमस्तेस्तु रणोत्कटाय नमो मयूरोज्ज्वलवाहनाय१५६
नमोस्तु केयूरधराय तुभ्यं नमो धृतोदग्रपताकिने ते
नमः प्रभावप्रणताय तेस्तु नमोऽस्तु घंटाधरधैर्यशालिने१५७
कुमार उवाच-
कं वः कामं प्रयच्छामि भवंतो ब्रूतनिर्वृताः
यद्यप्य साध्यं कृत्यं नो हृदये चिंतितं चिरम्१५८
इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः
सर्व एव महात्मानं गुहं मुदितमानसाः१५९
दैत्येंद्रस्तारको नाम सर्वामरकुलांतकृत्
बलवान्दुर्जयस्तीक्ष्णो दुराचारोतिकोपनः१६०
तमेव जहि दुर्धर्षं दैत्यं सर्वविनाशनम्
उपस्थितः कृत्यशेषो ह्यस्माकं च भयावहः१६१
हिरण्यकशिपुश्चोग्रो ह्यवध्यो देवतागणैः
यज्ञघ्नः पापकर्मा वै येन ब्रह्मापि तापितः१६२
एतौ हरस्व भद्रं ते तावकं च महाबलम्
एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः१६३
जगाम जगतांनाथस्तूयमानोमरेश्वरैः
तारकस्य वधार्थाय जगतां कंटकस्य च१६४
ततश्च प्रेषयामास शक्रो गूढसमाश्रयः
दूतं दानवसिंहस्य परुषाक्षरवादिनम्१६५
स तु गत्वाब्रवीद्दैत्यमभयो भीमदर्शनम्
दूत उवाच
शक्रस्त्वामाह देवेशो दैत्यकेतुं दिवस्पतिः१६६
तारकासुर तच्छक्त्या घटयस्व यथेच्छया
यज्जगज्ज्वलनोद्दीप्तं किल्बिषं च त्वया कृतम्१६७
तस्याहं सादकस्तेद्य राजास्मि भुवनत्रये
श्रुत्वैतदद्भुतं वाक्यं कोपसंरक्तलोचनः१६८
उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः
तारक उवाच-
दृष्टं ते पौरुषं शक्र शतशोथ महारणे१६९
निस्त्रपत्वान्न ते शांतिर्विद्यते शक्र दुर्मते
एवमुक्ते गते दूते चिंतयामास दानवः१७०
नालब्धसंश्रयः शक्रो वक्तुमेवमिहार्हति
जातः स्कंदोधुना शक्राज्ज्ञायते समुपाश्रयात्१७१
निमित्तौघांस्तदा दुष्टान्सोपश्यन्नाशवेदिनः
पांसुवर्षमसृक्पातं गगनादवनीतले१७२
वामनेत्रप्रकंपं च वक्त्रशोषं मनोमयम्
स्वकानां वक्त्रपद्मानां म्लानतां च व्यलोकयत्१७३
दुष्टांश्च प्राणिनो रौद्रान्सोपश्यद्दुष्टवादिनः
तदचिंत्यैव दितिजो न्यस्तचित्तोभवत्क्षणात्१७४
यावद्गजघटाघंटा घनत्काररवोत्कटाम्
तद्वत्तुरंगसंघातहेषोत्साहविभूषिताम्१७५
सैन्यैस्सेनान्तरोदग्र ध्वजराजैर्विराजिताम्
विमानैश्चाद्भुताकारैश्चलितामलचामरैः१७६
विभूषणपिनद्धां च किन्नरोद्गीतनादिताम्
नाना नाकतरूत्फुल्ल कुसुमापीडधारिणीम्१७७
विशोकास्त्रपरिस्फार चर्मनिर्मलदर्शिनीं
विद्युत्पुष्टद्युतिधरां नानावाद्यविनादिताम्१७८
सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत्
सचिंतयामास तदा किंचिद्विभ्रांतमानसः१७९
अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः
ततश्चिंताकुलो दैत्यः शुश्राव कटुकाक्षरम्
सिद्धवंदिभिरुद्घुष्टमिदं हृदयदारुणम्१८०
जयातुलशक्तिदीधितिपंजरभुजदंडप्रचंडतर
रभससुरवदनकुमुदविकासनविलासनेत्र कुमारवर१८१
जय दितिजकुलमहोदधि बडवानल मधुरमयूररथ सुरमकुट कोटि कुंचित चरण नखांकुर महासेन१८२
जय चलितललित चूडाकलापनवविमलकमल
दंडकांत दैत्येशवंश दुःसह दावानल१८३
जय विशाखविभोजय बालसप्तवासर भुवनालिशोकशमन जय सकललोक दितिसुतधुरंधरनाशक स्कंद१८४
श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववंदिभिः
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितं१८५
स्मृत्वा धर्मौघविध्वंसी सदा वीरपदानुगः
मंदिरान्निर्जगामाशु शोकग्रस्तेन चेतसा१८६
कालनेमिमुखा दैत्याः संत्रस्ता भ्रांतचेतसः
स्वेष्वनीकेषु च तदा त्वरा विस्मितचेतसः१८७
हिरण्यकशिपुः प्राह दानवानां धुरंधरः
त्रपाकरं भवेन्मह्यं बालस्यास्य पलायनम्१८८
यद्यहं हंतवे यामि सोपि वै कमलाश्रितः
हत्वाहं बालकं चैनं दुःस्पर्शः स्यामकारणं१८९
यात धावत गृह्णीत योजयध्वं वरूथिनीम्
कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः१९०
किं बाल योद्धुकामोसि क्रीडकंदुकलीलया
येनातपो निसृष्टस्ते सत्संगरविभाषक१९१
बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी
कुमारोपि तमग्रस्थं बभाषे हर्षवत्तमं१९२
शृणु तारक शास्त्रार्थ इह नैव निरूप्यते
शस्त्रैरर्था न दृश्यंते समरे निर्भरं भये१९३
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः
दुष्प्रेक्षो भास्करो बालस्तथाहं दुर्जयः शिशुः१९४
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते
कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरं१९५
कुमारस्तं निरासोग्रं चक्रेणामोघवर्चसा
ततश्चिक्षेप दैत्येंद्रो भिंदिपालमयोमयं१९६
करेण तं च जग्राह कार्तिकेयोमरारिहा
गदां मुमोच दैत्याय समुत्थाय खरस्वनाम्१९७
तया हतस्ततो दैत्यश्चकम्पेचलराडिव
मेने च दुर्जयं दैत्यस्तदाबालं सुदुःसहं१९८
चिंतयामास बुद्ध्या वै प्राप्तः कालो न संशयः
कंपितं च समालोक्य कालनेमि पुरोगमाः१९९
सर्वे देत्यैश्वरा जघ्नुः कुमारं रणदारुणं
स तैः प्रहारैरस्पृष्टस्तथा क्लैशैर्महाद्युतिः1.44.२००
स बालो बलिभिर्वेगैरयुध्यद्दानवै रणे
रणशौण्डाश्च दैत्येंद्रा पुःनर्जघ्नुः शिलीमुखैः२०१
कुमारं समरे दैत्या बलिनो देवकंटकाः
कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु२०२
प्राणांतकरणं जातं देवानां दानवा हवं
देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत्२०३
ततोस्त्रैर्दारयामास दानावानामनीकिनीम्
तैरस्त्रैर्निष्प्रतीकारैस्ताडितास्सुरकंटकाः२०४
कालनेमिमुखाः सर्वे रणे ह्यासन्पराङ्मुखाः
विद्रुतेषु च दैत्येषु प्रहतेषु समंततः२०५
किन्नरोद्गारगीतैश्च हास्यसन्यस्तचेतनः
जघ्ने कुमारं गदया निष्टप्तकनकत्विषा२०६
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे
दृष्ट्वा पराड्मुखो देवो मुक्तरक्तं स्ववाहनम्२०७
जग्राह शक्तिं विमलां रणे कनकभूषणाम्
बाहुना हेमकेयूर रुचिरेण षडाननः२०८
ततोब्रवीन्महासेनस्तारकं दानवाधिपम्
तिष्ठतिष्ठ सुदुर्बुद्धे यमलोकं विलोकय२०९
हतो ह्यसि मया शक्त्या स्मर स्वं दैत्यचेष्टितम्
इत्युक्त्वा तु ततः शक्तिं मुमोच दितिजं प्रति२१०
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा
बिभेद दैत्यहृदयं वज्रशैलेंद्रकर्कशम्२११
गतासुः स पपातोर्व्यां प्रलये भूधरो यथा
विकीर्णमकुटोष्णीषो विस्रस्ताखिलभूषणः२१२
तस्मिन्विनिहते दैत्ये दानवानां धुरंधरे
नाभूत्कश्चित्तदा दुःखी नरकेष्वपि पापकृत्२१३
स्तुवंतः षण्मुखं देवाः प्राक्रीडन्नागतस्मिताः
जग्मुः स्वानेव भुवनान्निरस्यासंस्तथोत्सुकाः२१४
ददुश्चापि वरं सर्वे देवाश्च षण्मुखं प्रति
तुष्टाः संप्राप्तसर्वार्थास्सहसिद्धैस्तपोधनैः२१५
देवा ऊचुः
यः पठेत्स्कंदसंबंधां कथामेतां महामतिः
शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः२१६
बह्वायुः सुभगः श्रीमान्कीर्तिमान्शुभदर्शनः
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः२१७
संध्यामुपास्य यः पूर्वां स्कंदस्य चरितं पठेत्
स युक्तः किन्नरैः सर्वैर्महाधनपतिर्भवेत्२१८

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कुमारसंभवतारकवधोनाम- चतुश्चत्वारिंशत्तमोऽध्यायः४४