पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४६

श्री भीष्म उवाच-
नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं
तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्१
पुलस्त्य उवाच
तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं
आसीद्दैत्योंधको नाम भिन्नांजनचयोपमः२
तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्
स कदाचिन्महादेवं पार्वत्या सहितं विभुं३
क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे
एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति४
ततः स्थिरा भवित्री मे भार्यैषा लोकसुंदरी
बिबौष्ठं चारुवदनं चारुकांततरं मुखं५
यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्
एतां मतिमथास्थाय मंत्रिभिः सह मंत्र्य च६
चक्रे योगं ससैन्यस्य सेनापतिमभाषत
आनयस्व रथं मह्यं जैत्रं देवनिपातनम्७
जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान्
हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः८
मंत्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैः
परभार्यानुरक्तस्य कृतो देवैः सवासवैः९
ततः कोपपरीतात्मा हन्मि देवान्सशंकरान्
तं हत्वा दानवं शक्रो भयादंधासुरस्य च१०
जगाम शरणान्वेषी कैलासं शंकरालयं
दृष्ट्वा प्रणम्य देवेशं चंद्रार्द्धकृतशेखरं११
भीतो विज्ञापयामास धृतसाहस्रलोचनः
अभयं देहि मे देव दानवादंधकादहं१२
बिभेमि तस्य पुत्रोद्य मया युधि निपातितः
तद्यावन्न स जानाति हतं पुत्रं महासुरः१३
तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहः
स्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः१४
सर्वथा घातनीयस्ते भवता सुरसत्तम
शक्रस्यैवं वचः श्रुत्वा शरण्यः शंकरस्तदा१५
ददावभयमेवासौ मा भैरिति शतक्रतोः
दत्ताभयोथ कैलासादाजगाम कुशस्थलीम्१६
वृतो भूतगणैरीशो वधार्थमंधकस्य तु
कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं१७
सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजंगवत्
जटासटाभिराकाशं फणिरत्नशिखार्चिषा१८
दहन्नतीवतेजोभिः कालाग्निरिव संक्षये
मुखैर्दंष्ट्रांकुरांकैश्च द्वितीयेन्दुकलोज्ज्वलैः१९
पातालोदररूपाभैर्भैरवारावनादिभिः
भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः२०
बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं२१
गजाजिनकृताटोपं पतद्भृंगरवाकुलं
ईदृग्रूपं विधायेशो दनुदैत्यभयावहं२२
अवातरन्महीं भीमो दनूनां क्षयकारकः
अंधासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि२३
क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्
संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः२४
महत्या सेनया सार्द्धं रथवारणयुक्तया
ते देवा दानवान्वीक्ष्य महाहवकृतादरान्२५
व्यपयाततनुत्राणाः शंभुं शरणमन्वयुः
मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः२६
गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा
अंधकेनाथ रुष्टेन शतकोटिशरैर्गणाः२७
निहताश्चापि देवानां बहूनामेकताकृतां
सस्फुलिंगार्चिषो वह्नेर्मुंचमानः पिनाकधृक्२८
शरैः समावृतं चक्रे अंधकं रथगं ततः
दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः२९
निमंत्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे
बहुधा तद्बलं भग्नं विविधायुधयोधिभिः३०
युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः
दानवश्चांधकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः३१
आत्मानं च महेशेन निरुद्धं बाणकोटिभिः
विह्वलीभूतदेहोसौ धैर्यमालंब्य केवलम्३२
पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्
पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्३३
भूमौ निपातिते देवे चलितं भुवनत्रयं
तत्यजुः सागरा वेलां पर्वताः शिखराणि च३४
नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः
पतिते भुवि देवेशे अंधको गदया पुनः३५
जघान रुषितो नागं हत्वा तं पातयद्भुवि
शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः३६
मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः
गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति३७
कृत्वा तु तामसीं मायां मायाशतविशारदः
तया विमोहिते देवे क्व नु वै दानवो गतः३८
शंभोर्भयमथो प्राप्य किं नु पापः करिष्यति
तमसा छादिता यावद्देवा व्याकुलतां गताः३९
संभ्रांतमानसानीकास्तदोचुः कार्यगौरवात्
एतस्मिन्नंतरे सूर्यस्तेजोरूपो व्यवस्थितः४०
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः
नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते४१
देवा मुदमवापुस्ते स्पष्टाननविलोचनाः
उद्दीप्तास्तु सुराः सर्वे गणाः स्कंदपुरोगमाः४२
स्तुवंति विविधैस्तोत्रैः नररूपं दिवाकरम्
अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्४३
स्निग्धविद्रुमसच्छायं सिंदूरारुणसप्रभम्
प्रभासंतं तदा दृष्ट्वा पंचांगालिंगितावनिः४४
पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्
आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः४५
उवाच स्निग्धगंभीर वाचा देवं शनैर्हरः
पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्४६
दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्
प्राणिनामिदमेवैकमविसंवादि दैवतम्४७
अयमेव च संसारसागरात्सकलादपि
सत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः४८
यजंतो जंतवो भक्त्या यं देवं विविधाः सदा
निःश्रेयसाय कल्पंते तं नतो भास्करं विभुम्४९
यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः
व्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके1.46.५०
ब्रह्मेंद्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषींद्रसंघैः
श्रेयोर्थिभिः प्रतिदिनं दिवसांगरागैर्दिव्यांगरागपरिलिप्त समस्तदैहैः५१
पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमंडलमंडिताभिः
ये त्वां स्तुवंति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवंति५२
ये दद्रुकुष्ठपिटिकादिभिरर्दितांगाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाः
देवेश तेपि तवपादनता भवंति सद्यो द्विरष्टशरदाकृतयो मनुष्याः५३
सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाः
त्वामेवमार्यमिति कार्यविदोधिगंतुं नागाश्च वेति पितरोप्यथ सर्वगंधम्५४
मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमी
गंधर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम्५५
येनार्चयंति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगंबरवित्तहीनाः
क्षुत्क्षामकंठजठराघटखर्परेण भिक्षामटंति परवेश्मसुतेर्थहीनाः५६
उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिंगतारम्
कामं प्रशस्ततरसुंदरहाररम्यमुत्तुंगपीवरपयोधरभारखिन्नं५७
रंभोपमोरु पृथुपीननितंबबिंबानद्धक्वणन्मणिरणद्रशनाकलापं
बृंदं ललाटतटकोटिपटांतलंबि हेमांचलांचितमुखं कुलपालिकानाम्५८
कांतं गृहेषु कलगद्गदभाषितानां झंकारनूपुररवेणविरावितानाम्
तेषां कृशानुकरमिन्दुसमानकांतं यैरर्चितोसि भगवन्भवमोचनस्त्वं५९
ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसि
सोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि६०
ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरंतरीताः
व्योमैतदंतरहितं परितो हि गत्वा गच्छंति न श्रमदं हिमनागपीमे६१
ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनंतमूर्ते
मुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिंत्यमनाद्यनंतं६२
जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम्
स्थूलानुभावनगणागणितं विशुद्धं वेदांतवादिभिरलं परिमन्यते यत्६३
त्वामग्निपुंजवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताः
भानो सुरासुरसमूहशिरोनिघृष्ट पादारविंदयुगलामलचारुमूर्त्ते६४
भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप
ऋक्साममंत्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल६५
दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानि
शश्वद्यतीश्वर शशी करकंकघोरोत्पातो जरामरणशोकरुगांतरस्य६६
यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोः
सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च६७
नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्
नमस्ते देवदेवेश भक्तानामभयंकर६८
सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत
तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः६९
प्रभाकर नमस्तेस्तु भानो जय जगत्पते
अनेन दनुमुख्येन पीडितोहं जगत्पते७०
किं करोमि कथं चैनं घातयामि दिवाकर
सूर्य उवाच-
जय शूलेन पापिष्ठं मायाशतविशारदम्७१
जयं प्राप्नुहि देवेश हत्वा शूलेन चांधकम्
गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा७२
ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्
तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः७३
मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्
पिनाकमानम्य दोर्भ्यां पिनाकी शंकरः स्वयम्७४
रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु
अंधकाश्च समुत्पन्नाश्शतशोथ सहस्रशः७५
तेषां विदार्यमाणानां रुधिरादपरे पुनः
बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत्७६
तं तु मायाविनं दृष्ट्वा देवदेवस्तदांधकम्
पानार्थमंधकस्यास्रं ससृजे मातृकास्तदा७७
माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा
सौपर्णीमथ वायव्यां शंखिनीं तैत्तिरीं तथा७८
सौरीं सौम्यां शिवदूतीं चामुंडामथ वारुणीं
वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं७९
शतानंदां भगानंदां पिच्छिलां भगमालिनीं
बालामतिबलां रक्तां सुरभीं मुखमंडिताम्८०
मातृनंदां सुनंदां च बिडानीं शकुनीं तथा
रेवतीं च महापुण्यां तथैव शिखिपट्टिकां८१
शूलेन च ततो दैत्यं बिभेद त्रिपुरांतकः
निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा८२
नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते
शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्८३
महाबलेन रुद्रेण विधृतोपि मृतो नहि
स्तुतस्तेन तदा शंभुर्भक्त्या दैत्येन सुव्रत८४
नमोस्तु शंभो भवनाशहेतो नमोस्तु ते देव वरप्रसीद
त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्८५
त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्
रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रांतक्लिष्टरूपो ह्यनौषीत्८६
प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबंधम्
भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार८७
जितमरुदभिमतवितरणपार तव पदकमलमिहारणसार
तवेश पादपंकजं करोति यो नरो हृदि सदेशतस्य वांछितं ददासि भक्तिभावितः८८
मुनीश्वराः पुरा हरं भवंतमेवमादरात्प्रपूज्य लिंगरूपिणं समापिता मनोरथान्
भवोद्भवैकरूपिणं प्रपंचपंचकाकृतिं विचिंत्यवृक्षकोटरस्थ एष जीवजीवनं८९
भवेद्भवाङ्घ्रिचिंतनाप्तसर्वकामईश्वर त्वदीय किंकरान्विते पदे पदे समागतः
मूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल९०
सदीश्वरेण मनसाप्यनुकंप्यो रणं गतः
इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं९१
गणेशतां ददौ तस्मै नाम भृंगीरिटीति च
एष ते महिमा भूप हरस्य भवहारिणः९२
कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहः
भीष्म उवाच
मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः९३
जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतं
बंधुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम९४
पुलस्त्य उवाच
एभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवि
त्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे९५
पूजयित्वा द्विजान्देवाः स्वर्गं भुंजंति चाक्षयं
धरामवंति राजानो लोकावित्तं सुखं शिवं९६
लोके विप्र समो नास्ति देवानामपि दैवतं
स च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं९७
लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनः
सर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा९८
इममर्थं पुरा पृष्टो नारदेन पितामहः
कस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत्९९
ब्रह्मोवाच -
यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति
तस्माद्ब्राह्मण शुश्रूषुः परं ब्रह्माधिगच्छति1.46.१००
विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथा
तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात्१०१
विप्रान्यः पूजयेन्नित्यं दानमानार्चनादिभिः
कृतं क्रतुशतं तेन विध्युक्तं प्रियदक्षिणम्१०२
ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम्
वापयेत्सर्वबीजानि सा कृषिस्सार्वकालिकी१०३
अभिगम्य तु यद्दत्तं यच्च दानं मनोरमं
विद्यते सागरस्यांतो दानस्यांतो न विद्यते१०४
मनसापि न हिंसंति भूदेवमाततायिनं
मनोनुकूलतां यांति देवैरपि च दुर्लभां१०५
गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छति
सर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुते१०६
काले देशे च पात्रे च विप्रे यच्चार्पयेद्वसु
तद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति१०७
न च दारिद्यतामेति नातुरो न च कातरः
मनोनुकूलां प्रमदामर्चयित्वा द्विजान्लभेत्१०८
कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसु
तद्दानं सुगुणं प्रोक्तमभयं लाभ एव च१०९
विप्रपादतलोद्घृष्टि क्षती भवति यः करः
स करः श्रीकरो नाम अन्यः कर्मकरः करः११०
विप्रपादरजः पूताः पूतास्तज्जलबिन्दुभिः
विपद्भिश्च सदा पापैर्मुक्ता यांति त्रिविष्टपम्१११
विप्रपादरजः पूताः शुचयो गृह चत्वराः
पुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु११२
आदौ ब्रह्ममुखाद्विप्रः समुद्भूतः पुरानघः
वेदास्तत्रैव संजाताः सृष्टिसंस्थिति हेतवः११३
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि
पूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम्११४
पितृयज्ञे विवाहे च वह्निकार्येषु शांतिषु
प्रशस्ता ब्राह्मणा नित्यं सर्व स्वस्त्ययनेषु च११५
देवा भुंजंति हव्यानि बलिप्रेतादयोऽसुराः
पितरश्चैव कव्यानि विप्रस्यैव मुखाद्र्धुवम्११६
देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसु
दानं होमं बलिं चैव विना विप्रेण निष्फलम्११७
भुंजंति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाः
तस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत्११८
काले देशे च पात्रे च लक्षकोटिगुणं भवेत्
श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्११९
दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः
अनभिवादनाद्विप्र द्वेषादश्रद्धयापि च१२०
आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः
आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च१२१
पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयः
न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि१२२
स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि
नारद उवाच
कश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत्१२३
विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपि
ब्रह्मोवाच-
पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः१२४
सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघः
नारद उवाच-
जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले१२५
सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः
ब्रह्मोवाच-
सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः१२६
असत्क्षेत्रकुले पूज्यो व्यास वैभांडकौ यथा
क्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः१२७
वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयः
तस्मात्सच्छोत्रियादीनां शृणु पुत्रक लक्षणम्१२८
धरायां तीर्थभूतानां सर्वपापहराय च
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते१२९ द्विज
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् विप्र
विद्यापूतो मंत्रपूतो वेदपूतस्तथैव च१३०
तीर्थस्नानादिभिर्मेध्यो विप्रः पूज्यतमः स्मृतः
नारायणे सदा भक्तः शुद्धांतःकरणस्तथा१३१
जितेंद्रियो जितक्रोधस्समः सर्वजनेषु च
गुरुदेवातिथेर्भक्तः पित्रोः शुश्रूषणे रतः१३२
परदारे मनो यस्य कदाचिन्नैव मोदते
पुराणकथको नित्यं धर्माख्यानस्य संततिः१३३
अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलम्
संलापे गतिमेत्यस्य भागीरथ्या प्लवस्य च१३४
व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैः
मित्रामित्रे दयालुः स्यात्समः सर्वजनेषु च१३५
परस्वं न हरेद्यस्तु तृणमप्यटवीगतम्
कामक्रोधादिनिर्मुक्त इंद्रियैरजितः पुमान्१३६
परदारान्न गृह्णाति मनसापि गृहागतान्
नारद उवाच-
गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणम्१३७
कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयम्
ब्रह्मोवाच-
छंदो गायत्री गायत्र्याः सविता देवता ध्रुवम्१३८
शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथा
ब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता१३९
उपनयने नियोगः स्यात्सांख्यायन सगोत्रजा
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता१४०
चतुर्विंशतिस्थाने च पादादौ मस्तकांतके
चतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विंदति१४१
प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात्
अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं१४२
सप्तपंच तथा ब्रह्म यजुरष्टादशाक्षरम्
ज्वलनादिहकारांतं जले स्थित्वा शतं जपेत्१४३
उपपातककोट्या तु तथातिपातकैरपि
ब्रह्महत्यादिभिः पापैर्मुक्ता यांति ममालयं१४४
ॐअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहा
विष्णुमंत्रं महामंत्रं तथा माहेश्वरस्य च१४५
देवीसूर्यगणेशानां तथा क्रतुभुजां सुत
यस्य कस्य कुले जातो गुणवानेव तैर्गुणैः१४६
साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतः
दानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि१४७
अक्षयं लभते दाता जन्मकोटिशतान्प्रति
स्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान्१४८
धर्मं च श्रावयेल्लोके सदाचारं श्रुतिं स्मृतिं
पुराणसंहितां नूनं तथैव धर्मसंहितां१४९
श्रावयित्वा तु लोकेषु श्रावयित्वा द्विजातिषु
उर्व्यां विष्णुसमः सोपि पूजनीयो नरैः सुरैः1.46.१५०
यद्बलं चाक्षयं तस्य तीर्थभूतानघस्य च
समानमर्चनं कृत्वा नरो यात्यच्युतालयं१५१
कदाचित्क्रियते पापं विप्रः पापैर्न लिप्यते
चांडालस्य गृहे निष्ठौ भास्करज्वलनौ यथा१५२
याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात्
विप्राणां न भवेद्दोषो ज्वलनार्कसमा द्विजाः१५३
तान्प्रतिग्रहजान्दोषान्प्राणायाम व्यवस्थिताः
नाशयंतीह पापानि वायुर्मेघमिवांबरे१५४
गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितां
प्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्य तामपि१५५
सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपि
ब्रह्मणः पदवीं प्राप्य स गच्छेत्प्रकृतेः परम्१५६
प्राणायामयुतां तस्माद्गायत्रीं जप नारद
नारद उवाच-
प्राणायामाः कथं ब्रह्मन्प्रत्येकाक्षरदेवताः१५७
तेषां न्यासं तथांगेषु वद तात यथाक्रमम्
ब्रह्मोवाच-
गुददेशेत्वपानस्याद्धृदि प्राणोस्ति देहिनः१५८
तस्माद्गुदं समाकुंच्य प्राणेन सह योजयेत्
पूरकेण तदा पुत्र कृत्वा कुंभकमुत्तमं१५९
प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजः
अनेनैव जपेद्यस्तु महापातकसंचयः१६०
सकृदुच्चारितेनैव क्षयं यात्युपपातकं
प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे१६१
स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमः
प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं१६२
यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजः
आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम्१६३
तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा
पंचमं यमदैवत्यं वारुणं षष्ठमुच्यते१६४
सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुः
ऐन्द्रं च नवमं ज्ञेयं गांधर्वं दशमं तथा१६५
पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं
त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं१६६
मारुतं पंचदशकं सौम्यं षोडशकं स्मृतं
आंगिरसं सप्तदशं वैश्वदेवमतः परं१६७
आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं
सर्वदेवमयं ज्ञेयमेकविंशकमक्षरं१६८
रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमतः परं
वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः१६९
जपकाले तु संचिंत्य तासु सायुज्यतां व्रजेत्
ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेत्१७०
सर्वपापविनिर्मुक्तो ब्रह्मणः पदवीं व्रजेत्
गायत्रीं विन्यसेत्पूर्वं शरीरे चात्मनो बुधः१७१
चतुर्विंशति स्थानेषु आपादमस्तकेषु च
तत्कारं विन्यसेद्योगी पदांगुष्ठे विचक्षणः१७२
सकारं गुल्फदेशे तु विकारं जंघयोर्न्यसेत्
तुकारं जानुमध्ये च वकारं चोरुदेशतः१७३
रेकारं गुह्यदेशे तु णिकारं वृषणे न्यसेत्
यंकारं कटिदेशे तु भकारं नाभिमण्डले१७४
गोकारं जठरे न्यस्य देकारं स्तनयोर्न्यसेत्
वकारं हृदये न्यस्य स्यकारं करदेशतः१७५
धीकारं वदने न्यस्य मकारं तालुके न्यसेत्
हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत्१७६
योकारं तु भ्रुवोर्मध्ये योकारं च ललाटके
नःकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे१७७
चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत्
यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः१७८
एतान्विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मकः
महायोगी महाज्ञानी परं निर्वाणकं व्रजेत्१७९
संध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतः
ॐभूरिति हृदये न्यस्य ॐभुवश्शिरसि न्यसेत्१८०
ॐस्वः शिखायै तत्सवितुर्वरेण्यमिति कलेवरे
ॐभर्गो देवस्य धीमहीति नेत्रयोः१८१
ॐधियो यो नः प्रचोदयादिति करयोर्न्यसेत्
ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्
इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिं१८२
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्
ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्
इति सव्याहृति सप्रणवां द्वादश ॐकारां संध्याकाले कुंभकेन वारत्रयं जप्त्वा
सूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वा
महाविद्याधिको भवति ब्रह्मत्वं लभते१८३
षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नतः
यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः१८४
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्१८५
अथ गायत्री पंचशीर्षलक्षणम्
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्
ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्१८६
सव्याहृतिं तु गायत्रीं पुनर्न्यासं तु कारयेत्
सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेत्१८७
ॐभूः पादाभ्याम् ॐभुवः जानुभ्याम् ॐस्वः कट्याम् ॐमहः नाभौ ॐजनः हृदये न्यसेत् ॐतपः करयोः ॐसत्यं ललाटे
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
इति शिखायाम्१८८
एवं विप्रो न जानाति स एव ब्राह्मणाधमः
न तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः१८९
इमां यो वेत्ति गायत्रीं सर्वबीजसमन्विताम्
स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयम्१९०
य एनां नैव जानाति स शूद्रात्परतः स्मृतः
तस्यापूतस्य विप्रस्य न देयं पितृपार्वणम्१९१
न स्नानफलदः कश्चित्सर्वं च निष्फलं भवेत्
विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः१९२
निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽशुचौ
चतुर्वेदाश्च गायत्री पुरा वै तुलिता मया१९३
चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृता
दशभिर्जन्मजनितं शतेन च पुरा कृतम्१९४
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम्
गायत्रीमक्षमालायां सायं प्रातश्च यो जपेत्१९५
चतुर्णामपि वेदानां फलं प्राप्नोत्यसंशयम्
त्रिसंध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः१९६
तस्य पापं क्षयं याति जन्मकोटिसमुद्भवम्
गायत्र्युच्चारमात्रेण पापकूटात्पुनाति च१९७
स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमः
वासुदेवस्य मंत्राणि जपेद्यस्तु दिनेदिने१९८
प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम्
वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा१९९
पंकस्य लवमात्रं तु तस्य देहे न तिष्ठति
वेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्1.46.२००
धर्मपाठकृतां लोके यज्ञकोटिफलं लभेत्
एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम२०१
विश्वरूपश्च को देही समूर्तो हरिरेव च
यस्य शापाद्विनाशः स्यादायुर्विद्या यशो धनम्२०२
वरदानात्समायांति सर्वाः संपत्तयस्तथा
विष्णुर्ब्रह्मण्यतामेति सदा विप्र प्रसादतः२०३
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविंदाय नमो नमः२०४
मंत्रेणैवं हरिं यस्तु पूजयेत्सततं नरः
प्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेत्२०५
य इदं शृणुयात्पुण्यमाख्यानं धर्मविग्रहम्
तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्२०६
यः पठेत्पाठयेद्वापि उपदेष्टा जनस्य च
न तस्य पुनरावृत्तिः स्वर्गमक्षयमश्नुते२०७
धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्
सत्सुतं च शुभां कीर्तिं देववद्रमते दिवि२०८

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे ब्राह्मणसंस्कारोनाम षट्चत्वारिंशत्तमोऽध्यायः४६