पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५५

श्रीभगवानुवाच-
अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च।
पुरा भागीरथी तीरे द्विजः परमहंसकः१।
उपदेष्टा सहस्राणां द्विजानां शांतिदः परः।
एकदंडधरः साक्षात्कूर्मवद्धरणी स्थितः२।
एकाकिनः सतस्तस्य देवागारे विनिष्कृते।
पत्युर्गृहात्परं गेहं गंतुं सायं समुद्यता३।
अकस्माद्युवती नारी मिलिता रूपधारिणी।
दृष्ट्वा तां भगवान्विप्रो मन्मथस्य भयार्दितः४।
अगारजठरे कृत्वा स चैनां प्राक्षिपत्क्षपाम्।
अर्गलं सा दृढं कृत्वा देवागारे सुशोभने५।
कदाचिदपि तं द्वारादागंतुं न ददाति ह।
एवंभूतः समाधिस्थः क्षपां क्षिप्त्वा विलप्य सः६।
चिंतयंस्तां वरारोहां द्वारि किं वा कृतं मम।
एवं संचिंत्यतामाह द्वारं देहीह नः प्रिये७।
पतिश्च वशगः कांते दयितस्ते भविष्यति।
ततस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम्८।
अनन्विता गिरःस्तात वक्तुं त्वं नार्हसि प्रभो।
अथासौ भगवान्प्राह प्रचुरं चास्ति मे वसु९।
तव दास्यामि कल्याणि प्रस्फोटय कपाटिकाम्।
विप्रमाह पुनः सा च त्वं वै मे धर्मतः पिता१०।
मा गच्छ पुत्रिकां मां च परयोषां च धार्मिक।
मनसा स समालोच्य सुषिरेण पथा गृहान्११।
बाहुनोद्धाट्यते नैव गंतुं चैव समुद्यतः।
गच्छतश्चार्द्धमरर उत्तमांगं सुसंकटे१२।
प्रविष्टं न पुनश्चैति पंचत्वमगमत्तदा।
उषःकाले समायाता रक्षिणो ये च किंकराः१३।
अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताः।
कथं च निधनं त्वस्य संभूतं ब्रूहि सुंदरि१४।
कथयित्वा तु तद्वृत्तमभीष्टं देशमागता।
एवं कामस्य महिमा दुर्निवारो जनेषु च१५।
सर्वेषामपि जंतूनां सुरासुरनृणां भवेत्।
दृष्ट्वाऽमोघां वरारोहां सर्वलोकपितामहः१६।
च्युतबीजोभवत्तत्र लौहित्यसंभवस्मृतः।
पुनाति सकलान्लोकान्सर्वतीर्थमयो हि सः१७।
यमाश्रित्य नरो याति ब्रह्मलोकमनामयम्।
द्विज उवाच-
कथं च ब्रह्मणो मोहो ह्यमोघा का वरांगना१८।
उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतः।
श्रीभगवानुवाच-
मुनिर्देवैः समाराध्यः पद्मयोनिसमप्रभः१९।
शंतनुश्चेति विख्यातः पत्नी तस्य पतिव्रता।
अमोघेति समाख्याता रूपयौवनशालिनी२०।
अस्याश्च पतिमन्वेष्टुं यातो ब्रह्मा च तद्गृहम्।
तस्मिन्काले मुनिश्रेष्ठः पुष्पाद्यर्थं वनं गतः२१।
सा तं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौ।
दूरेभिवादनं कृत्वा सा गृहं प्रविवेश ह२२।
तां च दृष्ट्वा नवद्यांगीं धाता कामवशं गतः।
स्रष्टात्मानं समाधायाचिंतयत्तां पुरोगताम्२३।
बीजं पपात खट्वायां ब्रह्मणः परमात्मनः।
ततो ब्रह्मा गतस्त्रस्तस्त्वरया परिपीडितः२४।
अथायातो मुनिर्गेहं शुक्रं पीठे ददर्श ह।
तमपृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान्२५।
तमुवाच ततोऽमोघा ब्रह्मा ह्यत्रागतः पते।
त्वामेवान्वेषितुं नाथ मया दत्तोत्र पीठकः२६।
शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसि।
ततो ध्यानात्परिज्ञातं तेनैव च द्विजन्मना२७।
ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञया।
उत्पद्यते सुतस्ते तु सर्वलोकैकपावनः२८।
आवयोः सर्वकल्याणं फलिष्यति मनोगतम्।
ततः पतिव्रता तस्य आज्ञामागृह्य संभवात्२९।
पपौ रेतो महाभागा ब्रह्मणः परमात्मनः।
आवर्त इव संजज्ञे रौद्रगर्भ इति स्फुरन्३०।
प्रसोढुं नैव शक्ता सा शंतनुं चाब्रवीत्ततः।
गर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो३१।
किं करिष्यामि धर्मज्ञ प्राणो मे संचलत्यपि।
आज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च३२।
पत्युराज्ञां समादाय मुक्तो गर्भो युगंधरे।
पयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम्३३।
तन्मध्ये पुरुषः शुद्धः किरीटी नीलवाससा।
रत्नदाम्ना च विद्धांगो दुःप्रेक्ष्यो ज्योतिषां गणः३४।
ततो देवगणाः स्वर्गात्पुष्पवर्षमवाकिरन्।
प्रसूतः सर्वतीर्थेषु तीर्थराज इति स्मृतः३५।
ततो राम इति ख्यातः प्रजातोहं भृगोः कुले।
क्षत्रियान्पितृहंतॄंस्तु ससैन्यबलवाहनान्३६।
हत्वा युद्धगतान्भीतान्पंकैः सर्वैर्युतो ह्यहम्।
ब्रह्महत्यासमं घोरं मद्गेहे समुपस्थितम्३७।
पंकयुक्तं कुठारं मे क्षालितं नैव शुद्ध्यति।
ततः खे चाभवद्वाणी राम मद्वचनं कुरु३८।
यत्र तीर्थे कुठारं ते निर्मलं च भवेदिह।
तत्र ते सर्वपापानां जातानां च क्षयो भवेत्३९।
जनानां तत्र सर्वेषां हितार्थं तिष्ठ मानद।
चपलं गच्छ तीर्थानि सर्वाणि सुमहांति च४०।
तेषां मध्ये महातीर्थे पर्शुः शुद्धो भवेद्यदि।
तं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम्४१।
तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदा।
गंगां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा४२।
गोदावरीं च यमुनां कद्रूं च वसुदां तथा।
अन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम्४३।
गच्छतस्तस्य धीरस्य सदागतिसमस्य च।
क्षालितः सर्वतीर्थेषु न पुनर्निर्मलोऽभवत्४४।
ततो गिरिगुहां दुर्गां महारण्यं च पर्वतम्।
गिरिकूटं च दुर्लभ्यं ययौ तीर्थमसौ हरिः४५।
न च निर्मलतामेति कुठारस्तस्य तेन च।
विषादमगमत्तत्र रामः परपुरंजयः४६।
हाहेति विविधं कृत्वा चोपविश्य धरातले।
प्रचिंतामगमद्वीरस्तमुवाच पुनस्तथा४७।
पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरे।
तच्छ्रुत्वा नरशार्दूलो गत्वा कुंडं ददर्श सः४८।
प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभम्।
तज्जलस्पर्शमात्रेण कुठारः शुद्धतां गतः४९।
ततो रामोभिषेकं तु कृतवान्प्रमुदान्वितः।
शुद्धात्मनस्त्वपापस्य बुद्धिर्जाता प्रपाविनी५० 1.55.50।
स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्य तम्।
ततस्ततोऽचलात्प्राप्य पुरं वेगसमन्वितः५१।
ख्यातं कृत्वा ततश्चोर्व्यां गतोसौ लवणार्णवम्।
अयं तीर्थवरः साक्षात्पितामहकृतो भुवि५२।
सुखदः सर्वतः शुद्धो मुक्तिमार्गप्रदः किल।
एवं कामप्रभावं च विद्धि दुर्वारदुःसहम्५३।
कामाज्जातं वृषं पापं पुण्यं पुण्यप्रयोगतः।
स जातश्चैव लौहित्यो विरंचेश्चैव चौरसः५४।
शंतनो क्षेत्र संजातस्त्वमोघागर्भसंभवः।
विरिञ्चिना जितः कामः शांतनोरप्यमत्सरात्५५।
तस्याः पतिव्रतात्वाच्च तीर्थात्तीर्थवरो हि सः।
एवं यस्तु पठेन्नित्यं पुण्याख्यानमिदं शिवम्५६।
शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति५७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्याने लौहित्योत्पत्तिर्नाम पंचपंचाशत्तमोऽध्यायः५५।