पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५७

सप्तपञ्चाशत्तमोऽध्यायः।

द्विजा ऊचुः-
कीर्तिर्धर्मोथ लोकेषु सर्वाणि प्रवराणि च।
वद नो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः१।
व्यास उवाच-
यस्य खाते वने गावस्तृप्यंति मासमेव च।
यद्वा सप्तदिनात्पूतः सर्वदेवैः स पूजितः२।
पुष्करिण्या विशेषेण पूता या यज्ञकर्मणा।
यत्फलं जलदानेन सर्वमत्रास्यि(?) तच्छृणु३।
हायने हायने चैव कल्पं कल्पं विधीयते।
दानात्स्वर्गमवाप्नोति तोयदः सर्वदो भुवि४।
मेघे वर्षति खाते च जायंते ये तु शीकराः।
तावद्वर्षसहस्राणि दिवमश्नाति मानवः५।
तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेत्।
प्राणानां च विनान्नैश्च धारणन्नैव जायते६।
पितॄणां तर्पणं शौचं रूपं वै गंध्यनाशनम्।
बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम्७।
वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च।
तेनैव सर्वकार्यं च पानीयं मेध्यमेव च८।
तस्मात्सर्वप्रयत्नेन वापीकूपतटाककम्।
कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च९।
ततो विनिर्जले देशो(देशे?) यो ददाति जलाशयम्।
वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेत्१०।
त्रिविष्टपाच्च्युतो विप्रो वेदशास्त्रार्थपारगः।
लोकबंधुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेत्११।
एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते।
क्षत्त्रियाणां कुले जातः सार्वभौमो भवेन्नृपः१२।
विशोऽक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियम्।
शूद्रादयोन्त्यजाश्चान्ये लभंते स्वर्गतिं मुहुः१३।
चतुर्हस्तप्रमाणं तु कूपं खनति यः पुमान्।
परोपकारकं नित्यं कल्पं स्वर्गं तु हायने१४।
द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे।
विंशत्किष्कुप्रमाणां तु दद्यात्पुष्करिणीं तु यः१५।
विष्णोर्धाम लभेत्सोपि दिव्यभोगं तथैव च।
अनंतरं नृपो जातो धनी वागीश्वरो भवेत्१६।
एवं द्विस्त्रिश्चतुर्वापि गुणतो भोग्यमिष्यते।
विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः१७।
सहस्राद्द्विगुणेनैव सुरपूज्यो भवेन्नरः।
जंतवस्तत्र ये संति यावंतो जीवनं ययुः१८।
तत्संख्याका जनास्तस्य किंकराः पृष्टलग्नकाः।
भवंति सततं गेहे पुरे जनपदेषु च१९।
विहाय पितरं भोग्या धने क्षीणे यथा वनम्।
पक्षिणस्सूकरश्चैव महिषी करिणी तथा२०।
उपदेष्टा च कर्त्ता च षडेते स्वर्गगामिनः।
दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेत्२१।
क्रोडो वर्षसहस्रं तु महिष्ययुतहायनम्।
देवरूपं समास्थाय करिण्या लक्षमुच्यते२२।
कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च।
पुरा धनिसुतेनैव कृतः ख्यातो जलाशयः२३।
अयुतधनव्ययेनैव प्राणेनैव बलेन च।
सर्वसत्वोपकाराय शिवश्रद्धायुतेन च२४।
कालेन कियता चापि क्षीणवित्तोऽभवत्किल।
कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः२५।
विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना।
दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्२६।
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे।
शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः२७।
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः।
फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः२८।
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे।
स्नानपानादिकं कर्म सर्वे कुर्वंत्यभीष्टतः२९।
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते।
ततस्तस्याभवद्धास्यं तथैव च सभासदाम्३०।
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह।
सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः३१।
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः।
दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्३२।
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु।
उन्मज्जति च यत्काले प्रस्तरः संतरत्यपि३३।
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा।
बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः३४।
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा।
पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः३५।
ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा।
दीनारायुतदानस्य पुष्करिण्या जलस्य तु३६।
न समं तु दिनैकं तु जलस्य धर्मतो भृशम्।
धनिनो मानसं दुःखं मोघार्थं च परेऽहनि३७।
शिलोच्चयोऽभवत्तीर्णो द्वीपवच्च जलोपरि।
ततः कोलाहलः शब्दो जनानां समुपस्थितः३८।
तच्छ्रुत्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः।
दृष्ट्वा शैलं तथाभूतं कृतं तेनायुतं तथा३९।
ततः खाताधिपेनैव शैलं दूरे निपातितम्।
पुण्यं खातस्य चोत्खाते प्रलुप्तस्य सुतेन हि४०।
सोपि नाकं समारुह्य जन्मजन्मसु निर्वृतः।
गोत्रमातृगणानां च नृपाणां सुहृदां तथा४१।
सखीनां चोपकर्तॄणां खातं खात्वाऽक्षयं फलम्।
तपस्विनामनाथानां ब्राह्मणानां विशेषतः४२।
खातं तु जनयित्वा तु स्वर्गं चाक्षयमश्नुते।
तस्मात्खातादिकं विप्राः शक्तितो यः करिष्यति४३।
सर्वपापक्षयात्पुण्यं मोक्षं यायान्न संशयः।
य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्४४।
सर्वखातप्रदानस्य फलमश्नाति धार्मिकः।
ग्रहणे भास्करस्यैव भागीरथ्यां तटे वरे४५।
गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः।
न च दारिद्रतामेति न शोकं व्याधिसंचयम्४६।
असंमानं महद्दुःखमुभयोर्नाधिगच्छति।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे खातादिकीर्तनंनाम सप्तपंचाशत्तमोऽध्यायः ५७।