अष्टपञ्चाशत्तमोऽध्यायः

व्यास उवाच-
शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृशम्
तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्१
यस्तु रोपयते तीरे पुण्यवृक्षान्समंततः
तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते२
अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं लभेत्
ततो जलसमीपे तु लक्षकोटिगुणं भवेत्३
स्वयं पुष्करिणी तीरे त्वनंतं फलमश्नुते
तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्४
अश्वत्थरोपणं कृत्वा जलाशयसमीपतः
यत्फलं लभते मर्त्यो न तत्क्रतुशतैरपि५
पतंति यानि पत्राणि जले पर्वणि पर्वणि
तानि पिंडसमानीह पितॄणामक्षयं ययुः६
खादंति पतगास्तत्र फलानि कामतो ध्रुवम्
ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्७
अश्वत्थेनैव भक्ष्येण रोपणेनैव यत्फलम्
तद्वै क्रतुशतैर्नैव पुत्रैरेव शतैरपि८
उष्णेच्छायां प्रगृह्णंति गावो देवद्विजातयः
कर्तुः पितृगणानां च स्वर्गो भवति चाक्षयः९
कर्तुं स्वस्थस्य वै विघ्नमक्षयत्वान्न शक्यते
तस्मात्सर्वप्रयत्नेन रोपयेद्वृक्षमाधवम्१०
एकं वृक्षं समारोप्य नरः स्वर्गान्न हीयते
तस्मादेव महावृक्षं रोपयध्वं द्विजोत्तमाः११
जलानां निकटे रम्ये रसानां क्रयविक्रये
मार्गे जलाशये वृक्षान्रोपयेद्यो महाशयः१२
अश्वत्थादीन्समारोप्य स्वर्गं याति मनोरमम्
अर्चयित्वा तु यत्पुण्यं प्रवक्ष्यामि द्विजातयः१३
स्नात्वाश्वत्थं स्पृशेद्यस्तु सर्वपापैः प्रमुच्यते
अस्नातो यः स्पृशेन्मर्त्यो लभते स्नानजं फलम्१४
दृष्ट्वा च नाशयेत्पापं स्पृष्ट्वा लक्ष्मीं प्रपद्यते
प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोस्तु ते१५
चलद्दलाय वृक्षाय सदा विष्णुस्थिताय च
बोधिसत्वाय योग्याय सदाश्वत्थ नमोस्तु ते१६
अश्वत्थाय तु हव्यं तु पयो नैवेद्यमेव च
पुष्पं धूपं दीपकं च दत्वा स्वर्गान्न हीयते१७
सपुत्रं चाक्षयं विद्धि धनवृद्धियशस्करम्
विजयं मानदं भद्रमश्वत्थस्य प्रपूजनम्१८
यज्जप्तं च हुतं स्तोत्रं यन्त्रमंत्रादिकं च यत्
सर्वं कोटिगुणं प्रोक्तं मूले चलदलस्य च१९
यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शंकरः
अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्२०
सोमवारे त्वमायां च स्नानं यन्मौनिना कृतम्
दानस्य गोसहस्रस्य फलं चाश्वत्थवंदने२१
सप्तप्रदक्षिणेनैव गवामयुतजं फलम्
प्रचुराल्लक्षकोटिश्च तस्मात्कार्या हि सा सदा२२
यत्किंचिद्दीयते तत्र फलमूलजलादिकम्
सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते२३
अहोश्वत्थसमो नास्ति वृक्षरूपी हरिर्भुवि
यथा पूज्यो द्विजो लोके यथा गावो यथामराः२४
तथाश्वत्थवृक्षरूपी देवः पूज्यतमः स्मृतः
रोपणे रक्षणे स्पर्शे पूजाकर्मणि वै सदा२५
ददाति वित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमात्
किंचिच्छेदं तु यः कुर्यादश्वत्थस्य तनौ नरः२६
कल्पैकं निरयं भुक्त्वा चांडालादौ प्रजायते
मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम्२७
पुरुषास्तस्य तिष्ठंति रौरवे घोरदर्शने
अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेत्२८
तथैव चंपकेर्के च त्रयाणां रोपणेपि च
अष्टौ बिल्वस्य वृक्षाश्च न्यग्रोधाश्चैव सप्त च२९
निंबस्य दशवृक्षाश्च फलं चैषां समं भवेत्
एकैकस्य फलं चोक्तं वृक्षाणां रोपणे द्विजाः३०
एवं बुध्वा तु धर्मात्मा यः कुर्यात्कृत्रिमं वनम्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च३१
नाकमेति स चूतस्य समारोप्य सहस्रकम्
ततो द्वित्रिगुणेनैव न्यूने वा प्रचुरेपि वा३२
भुंक्ते भुक्त्वा पुनः कुर्यान्नृपो वाथ सदीश्वरः
स्वर्गं भोग्यं ततो राज्यं कल्याणं मंगलं शुभम्३३
आरोग्यं शौर्यसंपन्नमारामादेव जायते
फलानि यस्य खादंति जंतवोथ सहस्रशः३४
आश्रिता विहगाः कीटाः पतगाः शलभादयः
छायाश्रिताश्च ये सत्वास्तत्संख्याताः पृथग्जनाः३५
तस्य किंकरतां यांति शतशो देवतार्चिताः
ये च वृक्षा महासत्वास्सर्वे ते देवरूपिणः३६
तदर्चा पितृवत्कार्या शुश्रूषां जलपिंडकम्
मर्त्यलोके च ते पुत्रास्तस्य जन्मनि जन्मनि३७
सुरूपाः सुविनीताश्च सदापुण्यक्रिया शुभाः
एवं गणेशतां यांति जंतवश्चूतलग्नकाः३८
धात्री हरीतकी चान्ये कटुतिक्ताम्लसंभवाः
सर्वे चारामतः शुद्धाः फलदाः शिवदाः सदा३९
प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः
सर्वाभरणसंयुक्ता विमानाश्चानिलोपमाः४०
शातकुंभमया वृक्षाः सदैव सर्वदायिनः
सर्वर्तुसुखदाः सौम्यकन्यका अप्सरस्समाः४१
गीतनृत्यपराधीरास्तत्र तिष्ठंति वृक्षदाः
पुष्करिण्यो विशेषेण खातान्यन्यानि यानि च४२
शुद्धोपलांतरचिता नद्यः पायसकर्द्दमाः
पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः४३
मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि
पुनरेव तदभ्यासात्खातमारामकं पुनः४४
यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान्
अशक्तस्तु प्रपां कृत्वा पुष्करिण्याः फलं लभेत्४५
प्रपाया लक्षणं चात्र सर्वपापहरं परं
सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं४६
लक्षणं च प्रवक्ष्यामि प्रपायाः कीर्तिवर्धनम्
निर्जलेऽध्वनि पृक्ते च स्थाने कृत्वा च मंडपम्४७
बहुपान्थे समायाते ग्रीष्मवर्षाशरत्स्वपि
अगरुकादि सौगंध्यं जलं पूगं सचंद्रकम्४८
आसनं चैव तांबूलं दत्वा स्वर्गान्न हीयते
एवं वर्षत्रयेणैव पुष्करिण्याः फलं लभेत्४९
स्वर्गाच्चैवाच्युतो मर्त्यो देवैरपि प्रपूज्यते
मासमेकं तु यो दद्यात्प्रपां ग्रीष्मेथ निर्जले५० 1.58.50
कल्पैकं तु वसेत्स्वर्गे स्वर्गाद्भ्रष्टो महीयते
प्रपादास्तत्र तिष्ठंति यत्र पुष्करिणीप्रदाः५१
नोचेद्धर्मघटो देयः पुण्यः पापक्षयाय च
एष धर्मघटो ज्ञेयो ब्रह्मविष्णुशिवात्मकः५२
तवप्रसादात्सफलाः मम संतु मनोरथाः
स्वर्णमाषं चतुर्भागं दक्षिणार्थं घटस्य च५३
एवं वर्षत्रयेणैव प्रपादानफलं लभेत्
यः पठेच्छ्रावयेद्वापि पुष्करिण्यादिजं फलम्५४
साक्षात्पापाद्भवेन्मुक्तस्तत्प्रसादात्तु सद्गतिः
जनेषु श्रावयेद्यस्तु पुण्याख्यानमिदं शुभम्५५
कल्पकोटिसहस्राणि सुरलोके स तिष्ठति५६
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुष्करिण्यादिधर्मकीर्तनंनामाष्टपंचाशत्तमो
ऽध्यायः५८