द्विषष्टितमोऽध्यायः 1.62
द्विजाऊचुः-
मज्जनादखिलं पापं क्षयं यांति सुनिश्चितम्
महापातकमन्यच्च तदादेशं वदस्व नः१
पापात्पूतोऽक्षयं नाकमश्नुते दिवि शक्रवत्
सुरयोनेर्न हानिः स्यादुपदेशं वदस्व नः२
अत्र भोग्यं परं सर्वं मृते स्वर्गे सुरोत्तमः
कलिपापहतानां च स्वर्गसोपानमुच्यते३
व्यास उवाच-
गतिं चिंतयतां विप्रास्तूर्णं सामान्यजन्मनाम्
स्त्रीपुंसामीक्षणाद्यस्माद्गंगा पापं व्यपोहति४
गंगेति स्मरणादेव क्षयं याति च पातकम्
कीर्तनादतिपापानि दर्शनाद्गुरुकल्मषम्५
स्नानात्पानाच्च जाह्नव्यां पितॄणां तर्पणात्तथा
महापातकवृंदानि क्षयं यांति दिनेदिने६
अग्निना दह्यते तूलं तृणं शुष्कं क्षणाद्यथा
तथा गंगाजलस्पर्शात्पुंसां पापं दहेत्क्षणात्७
संप्राप्नोत्यक्षयं स्वर्गं गंगास्नानेन केशवम्
यशो राज्यं लभेत्पुण्यें स्वर्गमंते परां गतिम्८
पितॄनुद्दिश्य गंगायां यस्तु पिंडं प्रयच्छति
विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु९
अन्नैकेन तु साहस्रं वर्षं पूज्यः सुरालये
तिलेन द्विगुणं विद्धि तथा मेध्यफलेन च१०
गव्येन विधिना विप्राः स्वर्गस्यांतो न विद्यते
एवं पिंडप्रदानेन नित्यं क्रतुशतं भवेत्११
पितरो निरयस्था ये धन्यास्ते मर्त्यवासिनः
धनपुत्रयुतारोग्यं सुखसंमानपूजिताः१२
रसातलगता ये च ये च कीटा महीतले
स्थावरे पक्षिसंघादौ ते मर्त्या धनिनो नृपाः१३
तत्तत्पुत्रैश्च पौत्रैश्च गोत्रैर्दौहित्रकैस्तथा
जामातृभागिनेयैश्च सुहृन्मित्रैः प्रियाप्रियैः१४
प्रदीयते जलं पिंडं यथोपकरणान्वितम्
गंगातोयेषु तीरेषु तेषां स्वर्गोऽक्षयो भवेत्१५
पिंडादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः
भवंति सुखिनः सर्वे मर्त्याश्शतसहस्रशः१६
स्वर्गे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः
नित्यं वांञ्छंति सद्गंगां गच्छंतु सुरनिम्नगाम्१७
एको गच्छति गंगां यः पूयंते तस्य पूरुषाः
एतदेव महापुण्यं तरते तारयत्यपि१८
गंगा कृत्स्नगुणं वक्तुं न शक्तश्चतुराननः
अतः किंचिद्वदाम्यत्र भागीरथ्या द्विजा गुणम्१९
मुनयः सिद्धगंधर्वा ये चान्ये सुरसत्तमाः
गंगातीरे तपस्तप्त्वा स्वर्गलोकेऽच्युताभवन्२०
दिव्येन वपुषा सर्वे कामगेन रथेन च
अद्यापि न निवर्तंते रत्नपूर्णक्षयेषु वै२१
प्रासादा यत्र सौवर्णास्सर्वलोकोर्ध्वगाश्शिवाः
इष्टद्रव्यैः सुसंपूर्णाः स्त्रियो यत्र मनोरमाः२२
पारिजातः समाः पुष्पवृक्षाः कल्पद्रुमोपमाः
गंगातीरे तपस्तप्त्वा तत्रैश्वर्यं लभंति हि२३
तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा
पुरुदानैर्गतिर्या च गंगां संसेवतां च सा२४
जारजं पतितं दुष्टमंत्यजं गुरुघातिनम्
सर्वद्रोहेण संयुक्तं सर्वपातकसंयुतम्२५
त्यजंति पितरं पुत्राः प्रियं पत्न्यः सुहृद्गणाः
अन्ये च बांधवाः सर्वे गंगा तु न परित्यजेत्२६
यथा माता स्वयं जन्ममलशौचं च कारयेत्
क्रोडीकृत्य तथा तेषां गंगा प्रक्षालयेन्मलम्२७
भवंति ते सुविख्याता भोग्यालंकारपूजिताः
दर्शने क्रियते गंगा सकृद्भक्त्या नरैस्तु यैः२८
तेषां कुलानां लक्षं तु भवात्तारयते शिवा
स्मृतार्ति हर्त्री यैर्ध्याता संस्तुता साधुमोदिता२९
गंगा तारयते नॄणामुभौ वंशौ भवार्णवात्
संक्रांतिषु व्यतीपाते ग्रहणे चंद्रसूर्ययोः३०
पुण्ये स्नात्वा तु गंगायां कुलकोटिं समुद्धरेत्
शुक्लपक्षे दिवामर्त्या गंगायामुत्तरायणे३१
धन्या देहं विमुंचंति हृदिस्थे च जनार्दने
अनेन विधिना यस्तु भागीरथ्या जले शुभे३२
प्राणांस्त्यक्त्वा व्रजेत्स्वर्गं पुनरावृत्तिवर्जितम्
यो गंगानुगतो नित्यं सर्वदेवानुगो हि सः३३
सर्वदेवमयो विष्णुर्गंगा विष्णुमयी यतः
गंगायां पिंडदानेन पितॄणां वै तिलोदकैः३४
नरकस्था दिवं यांति स्वर्गस्था मोक्षमाप्नुयुः
परदारपरद्रव्य बाधा द्रोहपरस्य च३५
गतिर्मनुष्यमात्रस्य गंगैव परमा गतिः
वेदशास्त्रविहीनस्य गुरुनिंदापरस्य च३६
समयाचारहीनस्य नास्ति गंगासमा गतिः
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः३७
स्वर्गमोक्षप्रदा गंगा सुखसौभाग्यपूजिता
नियमैः परमैर्नित्यं किं योगैश्चित्तरोधकैः३८
भुक्तिमुक्तिप्रदा गंगा सुखमोक्षाग्रतः स्थिता
अनेकजन्मसंघात पापं पुंसां विनश्यति३९
स्नानमात्रेण गंगायां सद्यः स्यात्पुण्यभाङ्नरः
प्रभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे४०
लभते यत्फलं दाने गंगास्नानाद्दिनेदिने
दृष्ट्वा तु हरते पापं स्पृष्ट्वा तु लभते दिवम्४१
प्रसंगादपि सा गंगा मोक्षदा त्ववगाहिता
सर्वेन्द्रियाणां चापल्यं वासनाशक्तिसंभवम्४२
निर्घृणत्वं ततो गंगा दर्शनात्प्रविनश्यति
परद्रव्याभिकांक्षित्वं परदाराभिलाषिता४३
परधर्मे रुचिश्चैव दर्शनादेव नश्यति
यदृच्छालाभ संतोषस्स्वधर्मेषु प्रवर्तते४४
सर्वभूतसमत्वं च गङ्गायां मज्जनाद्भवेत्
यस्तु गंगां समाश्रित्य सुखं तिष्ठति मानवः४५
जीवन्मुक्तस्स एवेह सर्वेषामुत्तमोत्तमः
गंगां संश्रित्य यस्तिष्ठेत्तस्य कार्यं न विद्यते४६
कृतकृत्यस्स वै मुक्तो जीवन्मुक्तश्च मानवः
यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम्४७
गंगायां तु कृतं नित्यं कोटिकोटि गुणं भवेत्
अन्यस्थाने कृतं पापं गंगातीरे विनश्यति४८
गंगातीरे कृतं पापं गंगास्नानेन नश्यति
आत्मनो जन्मनक्षत्रे जाह्नवीसंगते दिने४९
नरः स्नात्वा तु गंगायां स्वकुलं च समुद्धरेत्
आदरेण यथा स्तौति धनवंतं सदा नरः५० 1.62.50
सकृद्गंगां तथा स्तुत्वा भवेत्स्वर्गस्य भाजनम्
अश्रद्धयापि गंगायां योसौ नामानुकीर्तनं५१
करोति पुण्यवाहिन्यास्स वै स्वर्गस्य भाजनम्
क्षितौ भावयतो मर्त्यान्नागांस्तारयतेप्यधः५२
दिवि तारयते देवान्गंगा त्रिपथगा स्मृता
ज्ञानतोज्ञानतो वापि कामतोऽकामतोपि वा५३
गंगायां च मृतो मर्त्यः स्वर्गं मोक्षं च विंदति
या गतिर्योगयुक्तस्य सत्वस्थस्य मनीषिणः५४
सा गतिस्त्यजतः प्राणान्गंगायां तु शरीरिणः
चांद्रायणसहस्राणि यश्चरेत्कायशोधनम्५५
पानं कुर्याद्यथेच्छं च गंगांभः स विशिष्यते
तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः५६
तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीम्
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्५७
दिविभुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि
विष्णुपादाब्जसंभूते गंगे त्रिपथगामिनि५८
धर्मद्रवेति विख्याते पापं मे हर जाह्नवि
विष्णुपादप्रसूतासि वैष्णवी विष्णुपूजिता५९
त्राहि मामेनसस्तस्मादाजन्ममरणांतिकात्
श्रद्धया धर्मसंपूर्णे श्रीमता रजसा च ते६०
अमृतेन महादेवि भागीरथि पुनीहि मां
त्रिभिः श्लोकवरैरेभिर्यः स्नायाज्जाह्नवी जले६१
जन्मकोटिकृतात्पापान्मुच्यते नात्र संशयः
मूलमंत्रं प्रवक्ष्यामि जाह्नव्या हरभाषितम्६२
सकृज्जपान्नरः पूतो विष्णुदेहे प्रतिष्ठति
मंत्रश्चायं-
ॐनमो गंगायै विश्वरूपिण्यै नारायण्यै नमोनमः६३
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः
सर्वपापविनिर्मुक्तो गंगास्नानं विना नरः६४
गंगाजलोर्मिनिर्धूत पवनं स्पृशते यदि
स पूतः कल्मषाद्घोरात्स्वर्गं चाक्षयमश्नुते६५
यावदस्थि मनुष्यस्य गंगातोये प्रतिष्ठति
तावद्वर्षसहस्राणि स्वर्गलोके महीयते६६
पित्रोर्बंधुजनानां च अनाथानां गुरोरपि
गंगायामस्थिपातेन नरः स्वर्गान्न हीयते६७
गंगां प्रतिवहेद्यस्तु पितॄणामस्थिखंडकम्
पदेपदेश्वमेधस्य फलं प्राप्नोति मानवः६८
धन्या जानपदा ये च पशवः पक्षिकीटकाः
स्थावरा जंगमाश्चान्ये गंगातीरसमाश्रिताः६९
क्रोशांतर मृता ये च जाह्नव्या द्विजसत्तमाः
मानवा देवतास्संति इतरे मानवा भुवि७०
गंगास्नानाय संगच्छन्पथि संम्रियते यदि
स च स्वर्गमवाप्नोति गंगास्नानफलं लभेत्७१
गंगाजले प्रयास्यंति ते जीवाः पथि ये मृताः
कीटाः पंतंगाश्शलभाः पादाघातेन गच्छतां७२
ये वदंति समुद्देशं गंगां प्रति जनं द्विजाः
ते च यांति परं पुण्यं गंगास्नानफलं नराः७३
जाह्नवीं ये च निंदंति पाषण्डैर्हतचेतसः
ते यांति नरकं घोरं पुनरावृत्तिदुर्लभम्७४
दुस्थोवापि स्मरन्नित्यं गंगेति परिकीर्तयन्
पठन्स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः७५
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति७६
अंधाश्च पंगवस्ते च वृथाभव समुद्भवाः
गर्भपाताद्विपद्यंते ये गंगां न गता नराः७७
न कीर्तयंति ये गंगां जडतुल्या नराधमाः
परान्नोपदिशंति स्म वातूलाश्चित्तविभ्रमाः७८
न पठंति जना ये च तेषां शास्त्रं विनिष्फलम्
गंगापुण्यफलं विप्राः कुधियः पतिताधमाः७९
पाठयंति जना ये च श्रद्धया निपठंति च
गच्छंति ते दिवं धीरास्तारयंति पितॄन्गुरून्८०
पाथेयकं गच्छतां यो वसु शक्त्या प्रयच्छति
भागीरथ्या लभेत्स्नानं यः परान्नेन गच्छति८१
कर्तुः स्नानफलं विद्याद्द्विगुणं प्रेरकस्य च
इच्छयानिच्छया चापि प्रेरणेनान्यसेवया८२
जाह्नवीं यो गतः पुण्यां स गच्छेन्निर्जरालयम्
द्विजा ऊचुः-
गंगायाः कीर्तनं व्यास श्रुतं त्वत्तो विनिर्मलम्८३
गंगा कस्मात्किमाकारा कुतः सा ह्यतिपावनी
व्यास उवाच-
शृणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीं८४
यां श्रुत्वा मोक्षमार्गं च प्राप्नोति नरसत्तमः
ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुंगवः८५
नत्वा विधिं च पप्रच्छ पूतं त्रैलोक्यपावनम्
किं सृष्टं च त्वया तात संमतं शंभुकृष्णयोः८६
सर्वलोकहितार्थाय भुवःस्थाने समीहितम्
देवी वा देवता का वा सर्वासामुत्तमोत्तमा८७
यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः
अंडजाः स्वेदजा वृक्षा ये चान्य उद्भिज्जादयः८८
सर्वे यांति शिवं ब्रह्मन्समग्रं विभवं ध्रुवम्
ब्रह्मोवाच-
सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी८९
आद्या भव स्वलोकानां त्वत्तो भवं सृजाम्यहम्
एतच्छ्रुत्वा परा सा च सप्तधा चाभवत्तदा९०
गायत्रीवाक्च स्वर्लक्ष्मीस्सर्वसस्य वसुप्रदा
ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी९१
वर्णिका धर्मद्रवा च एतास्सप्त प्रकीर्तिताः
गायत्रीप्रभवा वेदा वेदात्सर्वं स्थितं जगत्९२
स्वस्ति स्वाहा स्वधा दीक्षा एता गायत्रिजा स्मृताः
उच्चारयेत्सदा यज्ञे गायत्रीं मातृकादिभिः९३
क्रतौ देवाः स्वधां प्राप्य भवेयुरजरामराः
ततस्सुधारसं देवा मुमुचुर्धरणीतले९४
अथ सस्यवती पृथ्वी ओषधीनां परा शुभा
फलमूलैरसैर्भक्ष्यैर्जनाः सुस्थतराभवन्९५
भारती सर्वलोकानां चानने मानसे स्थिता
तथैव सर्वशास्त्रेषु धर्मोद्देशं करोति सा९६
विज्ञानं कलहं शोकं मोहामोहं शिवाशिवम्
तया विना जगत्सर्वं यात्यतत्त्वमिति स्मृतम्९७
कमलासंभवश्चैव वस्त्रभूषणसंचयः
सुखं राज्यं त्रिलोके तु ततः सा हरिवल्लभा९८
उमया हेतुना शंभोर्ज्ञानं लोकेषु संततम्
ज्ञानमाता च सा ज्ञेया शंभोरर्धाङ्गवासिनी९९
वर्णिकाशक्तिरत्युग्रा सर्वलोकप्रमोहिनी
सर्वलोकेषु लोकानां स्थितिसंहारकारिणी१०० 1.62.100
देव्या च निहतौ पूर्वमसुरौ मधुकैटभौ
रुरुश्चापि हतो घोरः सर्वलोकपरिश्रुतः१०१
सर्वदेवैकजेतारं सा जघ्ने महिषासुरम्
निहता लीलया देव्या येऽसुरा दैत्यपुंगवाः१०२
एवं बलानि दैत्यानां निहत्य सर्वदा तया
पालितं मोदितं चैव कृत्स्नमेतज्जगत्त्रयम्१०३
धर्मद्रवस्वरूपा च सर्वधर्मप्रतिष्ठिता
महतीं तां समालोक्य मया कमंडलौ धृता१०४
विष्णुपादाब्जसम्भूता शंभुना शिरसा धृता
अस्माभिश्च त्रिभिर्युक्ता ब्रह्मविष्णुमहेश्वरैः१०५
धर्मद्रवा परिख्याता जलरूपा कमंडलौ
बलियज्ञेषु संभूता विष्णुना प्रभविष्णुना१०६
छद्मना छलितः पूर्वं बलिर्बलवतां वरः
ततः पादद्वयेनैव क्रांतं सर्वं महीतलम्१०७
नभः पादश्च ब्रह्माण्डं भित्वा मम पुरः स्थितः
मया संपूजितः पादः कमण्डलुजलेन वै१०८
प्रक्षाल्यैवार्चितात्पादाद्धेमकूटेऽपतज्जलम्
तत्कूटाच्छंकरं प्राप्य भ्रमते सा जटास्थिता१०९
ततो भगीरथेनैव समाराध्य शिवं भुवि
आनीयाराधितो नित्यं तपसा गजपुंगवः११०
तेन भित्वा नगं वीर्यात्त्रिभिर्दंतैः कृतं बिलम्
ततस्त्रिबिलगा यस्मात्त्रिस्रोता लोकविश्रुता१११
हरिब्रह्महरयोगात्पूता लोकस्य पावनी
समासाद्य च तां देवीं सर्वधर्मफलं लभेत्११२
पाठयज्ञपरैः सर्वैर्मंत्र होम सुरार्चनैः
सा गतिर्न भवेज्जंतोर्गंगा संसेवया च या११३
धर्मस्य साधनोपायो ह्यतः परो न विद्यते
त्रैलोक्यपुण्यसंयोगात्तस्मात्तां व्रज नारद११४
गंगातोयास्थिसंयोगात्सुतास्ते सगरस्य च
स्वर्गताः पितृभिश्चैव स्वपूर्वापरजैः सह११५
ततो ब्रह्ममुखाच्छ्रुत्वा नारदो मुनिपुंगवः
गंगाद्वारे तपः कृत्वा ब्रह्मणा सदृशोभवत्११६
सर्वत्र सुलभा गंगा त्रिषुस्थानेषु दुर्लभा
गंगाद्वारे प्रयागे च गंगासागरसंगमे११७
त्रिरात्रेणैकरात्रेण नरो याति परां गतिम्
तस्मात्सर्वप्रयत्नेन सद्यो मुक्तिं विचिंतयेत्११८
ततो गच्छत धर्मज्ञाः शिवां भागीरथीमिह
अचिरेणैव कालेन स्वर्गं मोक्षं प्रगच्छथ११९
विशेषात्कलिकाले च गंगा मोक्षप्रदा नृणां
कृच्छ्राच्च क्षीणसत्वानामनंतः पुण्यसंभवः१२०
ततस्ते ब्राह्मणा हृष्टाः श्रुत्वा व्यासाद्गिरं शुभाम्
गंगायां तु तपस्तप्त्वा मोक्षमार्गं ययुस्तदा१२१
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम्
सर्वं तरति दुःखौघ गंगास्नानफलं लभेत्१२२
सकृदुच्चारिते चैव सर्वयज्ञफलं लभेत्
दानं जप्यं तथा ध्यानं स्तोत्रं मंत्रं सुरार्चनम्१२३
तत्रैव कारयेद्यस्तु स चानंतफलं लभेत्
तस्मात्तत्रैव कर्त्तव्यं जपहोमादिकं नरैः१२४
अनंतं च फलं प्रोक्तं जन्मजन्मसु लभ्यते१२५
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गंगामाहात्म्यंनाम
द्विषष्टितमोऽध्यायः६२