पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ६४

व्यास उवाच-
पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च।
सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं१।
एकदंतं महाकायं तप्तकांचनसन्निभम्।
लंबोदरं विशालाक्षं वंदेहं गणनायकं २।
मुंजकृष्णाजिनधरं नागयज्ञोपवीतकम्।
बालेंदुकलिकामौलिं वंदेहं गणनायकं३।
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्।
मूषकोत्तममारुह्य देवासुरमहाहवे४।
योद्धुकामं महाबाहुं वंदेहं गणनायकम्।
अंबिकाहृदयानंदं मातृकापरिवेष्टितम्५।
भक्तिप्रियं मदोन्मत्तं वंदेहं गणनायकम्।
चित्ररत्नविचित्रांगं चित्रमालाविभूषणम्६।
कामरूपधरं देवं वंदेहं गणनायकम्।
गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्७।
पाशांकुशधरं देवं वंदेहं गणनायकम्।
यक्षकिन्नरगंधर्वैः सिद्धविद्याधरैस्सदा८।
स्तूयमानं महादेहं वंदेहं गणनायकम्।
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः९।
सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते।
न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः१०।
य इदं पठते नित्यं महाराजो भवेन्नरः।
वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि।
स्तोत्रं परं महापुण्यं गणपस्य महात्मनः११।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गणपतिस्तोत्रं नाम-चतुष्षष्टितमोऽध्यायः६४।