पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ७२

← अध्यायः ७१ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७२
वेदव्यासः
अध्यायः ७३ →

व्यास उवाच-
दिव्यं रथं समास्थाय धनुर्हस्तो बलैर्युतः।
गत्वा च माधवं संख्ये देवासुरगणाग्रतः१।
क्रोधेन महताविष्टो मधुर्निर्जरमर्दनः।
अब्रवीत्परुषं वाक्यमव्ययं हरिमीश्वरम्२।
नारायण न जानासि युद्धधर्ममितः कथम्।
अन्यायाद्दुर्वधोपायं कृत्वा नष्टो न शोचसि३।
अनेन पंकयोगेन व्यवहारा कृतस्य च।
सुरत्वं चोपनष्टं स्यादन्यसृष्टिं करोम्यहम्४।
त्वामेव निहनिष्यामि सह देवगणैरिह।
इत्युक्त्वा धनुरादाय जघान विशिखैर्विभुम्५।
माधवस्तान्बिभेदाथ शरैर्वज्रसमप्रभैः।
बहुभिस्सर्वगात्रेषु जघान च मधुं ततः६।
मायया छादितः सोभूद्दैत्यस्तं सुरसत्तमाः।
ये वै शूराश्च रुद्राद्यास्त्रिदशास्सत्त्वधारिणः७।
देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः।
सेनान्यो गणपा देवा लोकेश हरविष्णवः८।
अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति संगताः।
विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम्९।
संमुखे विमुखे चैव शरशक्त्यृष्टिवृष्टिभिः।
पतंति सहसा देवा भूमौ शस्त्राभिपीडिताः१०।
एतस्मिन्नंतरे विष्णुर्गृहीत्वा च सुदर्शनम्।
असुरान्मायया देवान्जघान रणमूर्धनि११।
अथ तेषां शिरांस्येष छित्वा चैव सहस्रशः।
पातयामास देवेशो दैत्यानां च सुरात्मनाम्१२।
एवमन्यान्विभुर्दैत्यान्द्रावयामास संगरात्।
तं दृष्ट्वा मुनयो देवाः सर्वे विस्मयमाययुः१३।
कर्णे कर्णे प्रजल्पंते देवा मुनिगणास्तथा।
सदा देवैकगोप्ता च हरिरव्यय ईश्वरः१४।
सर्वसाक्षी त्वयं देवो दैत्यजिष्णुर्युगे युगे।
कथं हंति सुरान्सर्वान्कल्पांत इह जायते१५।
एतस्मिन्नंतरे दूरे मधुर्मायां प्रयोजिता।
हररूपधरो भूत्वा अब्रवीद्धरिमव्ययम्१६।
दैत्यानामग्रतः पाप रणे देवान्समंततः।
हत्वा किं ते शिवं चाद्य धर्मकीर्ति यशो गुणाः१७।
महतोन्मत्तभावेन न जानासि परान्स्वकान्।
अतस्त्वां निशितैर्बाणैर्नयामि यमसादनम्१८।
एवमुक्त्वा शरैरुग्रैर्जघान केशवं रणे।
निचकर्त शरांस्तांस्तु माधवो वाक्यमब्रवीत्१९।
जानामि त्वां रणे दैत्यं हररूपधरं प्रियम्।
शूरं शूरविकर्माणं मधुं मायानियोजितम्२०।
मिथ्यालोकं प्रदास्यामि पातयित्वा रणाजिरे।
एतस्मिन्नंतरे तीक्ष्णैः शरैर्विव्याध संयुगे२१।
जटिलं वृषकेतुं च वृषभस्थं महेश्वरम्।
तयोर्युद्धमतीवासीद्देवदानवयोस्तदा२२।
परस्परं भिंदतोश्च प्राप्तान्प्राप्तान्शरान्शरैः।
क्षुरप्रेण धनुस्तस्य चिच्छेद हरिरव्ययः२३।
ततश्च पातयामास घोटकं वृषरूपिणम्।
स दैत्यश्शूलहस्तोथ प्रदुद्राव जगत्पतिम्२४।
भ्रामयित्वा ततः शूलं जघान परमेश्वरम्।
त्रिभिश्चिच्छेद बाणैश्च शूलं कालानलप्रभम्२५।
ततः क्रूरो महाबाहुर्मधुर्मायातिमायिकः।
देवीरूपं समास्थाय सिंहस्थः प्रययौ हरिः२६।
शरैर्बहुविधैर्विष्णुं जघानैवाब्रवीद्वचः।
स्वामी तु मे सुरश्रेष्ठ त्वयैव पातितो युधि२७।
अहं त्वां च हनिष्यामि सुतौ स्कंदविनायकौ।
उक्तवंतं च दैतेयं जघान बहुमार्गणैः२८।
स पपात महीपृष्ठे गतासुर्लोहितोद्गिरः।
पितरौ निहतौ दृष्ट्वा मायाबद्धो महाबलः२९।
स्कंदः शक्तिं समादाय प्रायाद्योधयितुं हरिम्।
ततो धाताऽब्रवीद्वाक्यं स्कंदं मोहप्रपीडितम्३०।
पश्य ते पितरौ दूरे पश्यंतौ युद्धमीदृशम्।
अंतरिक्षे भ्रमंतौ च संस्थितौ लोकसाक्षिणौ३१।
एतच्छ्रुत्वा ततो दृष्ट्वा तत्रैवांतरधीयत।
ततो धुंधुश्च सुंधुश्च भ्रातरावतिदर्पितौ३२।
वधं प्रति हरेर्युद्धे पेततुर्गरुडोपरि।
खड्गहस्तं च धुंधुं च सगदं सुंधुमेव च३३।
चिच्छेद नंदकेनैकं गदया सादयत्परम्।
पेततुस्तौ धरापृष्ठे प्रवीरौ क्षतविक्षतौ३४।
मधुस्तदागतस्तूर्णमंतर्धानं तमोवृतः।
पातयामास विष्णौ च मायया शतपर्वतान्३५।
ततस्तान्पर्वतांश्छित्वा तमसोऽन्तर्गतो युधि।
क्रोधात्सुदर्शनेनैव शिरश्छित्वा निपातितः३६।
ततो ब्रह्मादिभिर्देवैश्शंभुना त्रिदशैरपि।
मधुसूदन इतिख्यातिर्विष्णोर्लोकेषु कारिता३७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मधुवधोनामद्विसप्ततितमोऽध्यायः७२।