← अध्यायः ७५ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७६
वेदव्यासः
अध्यायः ७७ →

संजय उवाच-
येऽसुराश्च मृता युद्धे संमुखे विमुखेऽपि वा
गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः१
असंख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे
अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो२
व्यास उवाच-
ये मृतास्संमुखे शूरा दैत्यानां प्रवरा रणे
स्वयं प्राप्य च देवत्वं भोग्यमश्नंति शाश्वतम्३
प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः
सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः४
पद्मोत्पलसुकल्हारैर्गंधाढ्यैरन्यपुष्पकैः
दधिदुग्धाज्यखंडैश्च युता पुष्करिणी शुभा५
अतीवरूपसंपन्नाः सदैव नवयौवनाः
तत्र राज्यं प्रकुर्वंति तथैव वसुधातले६
एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमंत्रिणः
अर्धसंमुखगात्रेण दिवमश्नंति शाश्वतम्७
विमुखाः कातरा भीता ये च मायाविनो रणे
ते यांति निरयं घोरं ये च देवद्विजद्विषः८
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे
हंतारो निरयं यांति ते च म्लेच्छाः कुवाचकाः९
परन्यासापहर्तारो विमुखास्संति तत्त्वतः
रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः१०
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः
कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः११
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते
नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्१२
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्
पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्१३
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते
मातरं भगिनीं चान्यां गृहिणीं कामयंति च१४
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः
तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्१५
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्
दुर्गतिं च मृता यांति द्विजस्त्रीशिशुघातिनः१६
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः
कीटयोनिं व्रजंत्येते तरवश्च पिपीलिकाः१७
न मंत्रेषु न देवेषु कल्पंते ते सुरद्विषः
अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः१८
लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि
साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्१९
मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः
सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः२०
वधबंधरतोद्वेगा द्यूतसंगीतसंप्रियाः
कुभृत्याः कुजनप्रीताः पूतिगंधरता नराः२१
न देवेषु न विज्ञेषु न धर्मश्रवणेषु च
स्तोत्रमंत्रादिके पुण्ये यथाकार्येष्वनिश्चयाः२२
बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः
नरजातिषु दैत्यानां चिह्नान्येतानि भूतले२३
न जानंति परं लोकं न गुरुं स्वं न चापरं
गर्भपूरणमिच्छंति नातिथिं न गुरून्द्विजान्२४
न देवं न सुतं गोत्रं न मित्रं न च बान्धवं
स्वप्ने दानं न जानंति भक्षणान्न परिच्छदं२५
गोपायंति धनं यस्मात्ते यक्षा नररूपिणः
प्राणांतेपि धनं किचिन्न दिशंति च राजनि२६
ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः
प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं२७
स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम
मलपंकधरा नित्यं सत्यशौचविवर्जिताः२८
दंतकुंतलवस्त्राणां वपुषो मलसंचयाः
गृहपीठादिपात्राणां सकृच्छौचं न रोचते२९
न पश्यंति सुखं स्त्रीणां विशंति कानने द्रुतं
विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि३०
अन्नपानं च शयनमन्धकारेषु रोचते
कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ३१
लक्षणं नरलोकेषु प्रेतानामीदृशं किल
हिताहितं न जानंति मित्रामित्रं गुणागुणम्३२
पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं
अरिमित्रमुदासीनं न विंदंति स्वभावतः३३
मर्त्यस्थाः पशवस्ते च ज्ञायंते बुद्धिसंमतैः
बुद्ध्या नानात्वभावाश्च भ्रमंति च मृषा भुवि३४
यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः
एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले३५
विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः
मलीमस भुविप्रस्थं नागरं छद्मरूपिणं३६
विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः
अभक्ष्ये निरतः पापः कुकुरः पूतिसंप्रियः३७
प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः
भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसंभवाः३८
शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः
विशेषात्सूकराणां च तथा च रणयोधिनां३९
पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु
पर्वतेकरणाद्वह्नेः काष्ठसंचयसंग्रहे४०
विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः
लोकानां नष्टधर्मे च सदा शौचविवर्जिते४१
कुलीनानां तदा म्लेच्छा भविष्यंति च दस्यवः
तेषां संसर्गतोन्ये च संबंधादन्नभोजनात्४२
मैथुनात्तस्य योषासु तद्भावं तु व्रजंति ते
तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः४३
दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः
तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः४४
न श्रूयंते जनैरेव पुराणागमसंहिताः
मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः४५
दारुणाचारनिरता नित्यं छलपरायणाः
न पुष्णंति सुतास्तातं प्रसुवं च गुरूनपि४६
न शुश्रूषंति वै भृत्याः स्वामिनं गुणशालिनम्
भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः४७
नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे
नृपा म्लेच्छाः सुरापाश्च तथा मंत्रिपुरोहिताः४८
मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः
पाषंडायासयोगेभ्यः प्रधाना गुणवार्तयोः४९
धनिकैः कोकिलैर्मंदैर्व्याप्तं तैस्तु महीतलम्
ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.50
भक्ष्याभक्ष्यं समश्नंति मत्स्यमांसादिकं नराः
वने द्विजातयश्चान्ये भुंजते चानुपापकम्५१
भक्तिमंतं पशुं चान्यत्सर्वे यांत्यपुनर्भवम्
पातयंति पितॄन्पापाः सर्वे ते पूर्वदेवकाः५२
पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्
एते चाविनयप्रीता न देवा न च मानुषाः५३
संजय उवाच-
कथं च मर्त्यभावेषु लक्षंजानंतितात्त्विकाः
एतं मे संशयं नाथ दूरीकुरु ततस्ततः५४
व्यास उवाच-
कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु
असुरा राक्षसाः प्रेताः स्वभावं न त्यजंति ते५५
जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः
कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि५६
जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि
उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जंति शाश्वतम्५७
जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्
एवमुर्व्यां तथा नाके नागलोके यमालये५८
उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि
वासुदेवं समाराध्य प्रह्लादः सुरपूजितः५९
हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्
तस्यैव गणमुख्यत्वं लेभे भृंगी महाबलः६०
एते चान्ये च बहवो बलिरिंद्रो भविष्यति
गच्छंति सद्गतिं तात इहामुत्र च सर्वदा६१
केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः
भावयंति पितॄन्सर्वान्शतशोथ सहस्रशः६२
एकेनापि सुपुत्रेण कुलत्राणं च धीमता
एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्६३
जितेंद्रियोपि धर्मात्मा द्विजदेवार्चने रतः
क्षये धर्मे कलौ शेषे पुरे जनपदेषु च६४
एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्
विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्६५
तत्र सर्वे द्विजाः शश्वत्संध्योपासनतत्पराः
वेदपाठरता धीरा देवातिथिद्विजार्चकाः६६
यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः
अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः६७
कुर्वंति सततं वीरा व्रतं यज्ञं सनातनम्
कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः६८
वह्नौ जुहोति विप्रर्षि राज्यं मंत्रेण मंत्रवित्
तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्६९
तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्
तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्७०
भिया तया ततः पात्रं स्वीयमूत्रेण संभृतम्
असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः७१
आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्
कूटं हेममयं साक्षात्स्वर्णं जांबूनदप्रभं७२
गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह
पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये७३
मुदा तत्र यथावृत्तं कथितं तु तया द्विज
ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते७४
समृद्धिरद्भुता गेहे लोकविस्मयकारिणी
ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे७५
कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः
गुरुलोभाच्च सुमहत्स्वांते पंकं विशत्यपि७६
पंकादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः
अथ किल्बिषकूटेन दग्धमेव पुरं च तत्७७
स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा
वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ७८
तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता
भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा७९
ब्राह्मण्युवाच-
कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्
ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि८०
ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्
यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्८१
स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्
एते विप्रा दुराचाराः सदारास्सपरिच्छदाः८२
अतिपातकयोगाच्च महापातकसंमताः
सह पापेन महता प्रयास्यंति रसातलम्८३
अंतेऽपुनर्भवं प्राप्यापराधांतो न विद्यते
अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्८४
ततस्सा तमुवाचेदं लोकहास्यवचस्तव
वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्८५
द्विज उवाच-
यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये
सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्८६
इत्युक्त्वा परमप्रीतः संगृह्य च धनं स्वकम्
क्षिप्रं स च तया सार्धं ययौ सीमांतरं द्विजः८७
स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्
सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति८८
विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः
किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः८९
विचार्य सा धवं प्राह मया भ्रांत्या उपानहौ
नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै९०
एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता
पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्९१
ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः
तिष्ठंति नरके घोरे दुःखिताश्चापुनर्भवे९२
कृच्छाद्यमपुरं यांति नास्ति तेषां च निष्कृतिः
पूतिगंधं ततो मेध्यं वर्जनीयं प्रकीर्तितम्९३
पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च
स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वंचकः९४
अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु
समयाचारहीनस्तु पशुरेव स बालिशः९५
एवमुष्ट्रादयस्संति भक्षादि नकुलादयः
हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः९६
विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः
चौर्यकर्मरतो नित्यं बहुमित्रप्रवंचकः९७
मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः
प्रकृत्या चपलो नित्यं सदा भोजनचंचलः९८
प्लवगः काननप्रीतो नरः शाखामृगो भुवि
सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च९९
उद्वेगजनकत्वाच्च स पुमानुरगः स्मृतः
बलवान्क्रांतशीलश्च सततं चानपत्रपः१०० 1.76.100
पूतिमांसप्रियो भोगी नृसिंहस्समुदाहृतः
तत्स्वनादेव सीदंति भीता अन्ये वृकादयः१०१
द्विरदादि नरा ये च ज्ञायंते दूरदर्शिनः
एवमादि क्रमेणैव विजानीयान्नरेषु च१०२
सुराणां लक्षणं ब्रूमो नररूपं व्यवस्थितम्
द्विजदेवातिथीनां च गुरुसाधुतपस्विनाम्१०३
पूजातपोरतोनित्यं धर्मशास्त्रेषु नीतिषु
क्षमाशीलो जितक्रोधः सत्यवादी जितेंद्रिंयः१०४
दयालुर्दयितो लोके रूपवान्मधुरस्वरः
वागीशः सर्वकार्येषु गुणी दक्षो महाबलः१०५
साक्षरश्चापि विद्वांश्च गीतनृत्यार्थतत्त्ववित्
आत्मविद्यादिकार्येषु सर्वतंत्रीस्वरेषु च१०६
हविष्येषु च सर्वेषु गव्येषु च निरामिषे
सद्योगास्वादद्रव्ये च प्रत्यग्रे चातिशोभने१०७
गंधमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च
संप्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु१०८
स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः
कालो गच्छति पाठैश्च न क्लीबं वासरं भवेत्१०९
अयमेव मनुष्याणां सदाचारो निरंतरम्
देववन्मानवाचारो गीयते मुनिसत्तमैः११०
किंतु सत्त्वाधिको देवो मनुष्यो भीत एव च
गंभीरः सर्वदा देवः सदैव मानवो मृदुः१११
द्वयोस्तुत्या च संप्रीतिर्न दैत्यादौ भवेत्किल
प्रीतिभावं परं सौख्यं सौहृदं सुकृतं शुभम्११२
दैवमानुषयोरेव दैत्यराक्षसयोस्तथा
प्रेतादीनां च प्रेतेषु पशौ प्रीतिः पशोरपि११३
काकादयः स्वजातौ च तथान्ये च स्वजातिषु
प्रीता भवंति चाप्रीता विद्या तेषां च लक्षणम्११४
एवं पुण्यविशेषेण सविशेषा सुजातिषु
प्रियाप्रियं विजानीयात्पुण्यापुण्यं गुणागुणम्११५
दंपत्योर्न सुखं किंचिज्जातिभेदान्नृणां भुवि
स्वजातिषु भवेत्प्रीतिर्मुक्तो वा निरयेपि वा११६
अतिपुण्याल्लभेदायुः शोभनाः पुण्यकारिणः
पापात्मानो लभंतेऽन्तं ये च दैत्यादयो नराः११७
कृते जाताः सुरा भूमौ न दैत्याश्चान्यजातयः
त्रेतायामेकपादं च द्विपदं द्वापरे युगे११८
संध्यायां च कलेरेव सर्वपादं च संकुलम्
देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम्११९
ये ते दुर्योधनस्यैव योधाः सैन्यादयस्तथा
ते च दैत्यादयः सर्वे ये च कर्णादयो भुवि१२०
गांगेयो वसुमुख्यश्च द्रोणो देवमुनिः प्रभुः
अश्वत्थामा हरः साक्षाद्धरिर्नंदकुलोद्भवः१२१
पंचेंद्राः पांडवा जाता विदुरो धर्म एव च
गांधारी द्रौपदी कुंती चैता देव्यो धरातले१२२
देवदैत्याः कलेर्मध्ये दैत्याश्शेषे च मानवाः
उत्पत्स्यंते सदा प्रेताः क्रव्यादाः पशुपक्षिणः१२३
तेषां च कुलटा दासी नित्यकष्टा यवीयसी
नित्यं द्वंद्वेषु संप्रीत्या तेषामाचारभाषिणी१२४
किल्बिषेषु च सर्वेषु कलहेऽन्यायकर्मणि
रता दैत्यादयो ये ते सर्वे निरयगामिनः१२५
वैशंपायन उवाच-
दैत्यादीनां मृषाभावात्सुरत्वं न सुरालयम्
कथं भोग्यं कथं सौख्यमारोग्यं बलसंचयम्१२६
राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलम्
नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम्१२७
दानाध्ययनकर्माणि यज्ञादि च कथं प्रभो
एतदाप्ताय शिष्याय मह्यं भो वक्तुमर्हसि१२८
व्यास उवाच-
दैत्यानां साहसादेव तपो भवति निश्चितम्
व्रतं यज्ञादिकं चैव संप्रीतिः स्वजनस्य च१२९
यो दांतो विगुणैर्मुक्तो नीतिशास्रार्थतत्त्वगः
एतैश्च विविधैः पूतः स भवेत्सुरलक्षणः१३०
पुराणागमकर्माणि नाकेष्वत्र च वै द्विज
स्वयमाचरते पुण्यं स धरोद्धरणक्षमः१३१
विशेषाद्वैष्णवं दृष्ट्वा प्रीयते पूजयेच्च यः
विमुक्तस्सर्वपापेभ्यस्स धरोद्धरणक्षमः१३२
षट्कर्मनिरतो विप्रस्सर्वयज्ञरतस्सदा
धर्माख्यानप्रियो नित्यं स धरोद्धरणक्षमः१३३
विश्वासघातिनो ये च कृतघ्ना व्रतलोपिनः
द्विजदेवेषु विद्विष्टाः शातयंति धरां नराः१३४
ये च मद्यरताः पापा द्यूतकर्मरतास्तथा
पाषंडपतितालापाः शातयंति धरां नराः१३५
सुकर्मरहिता ये च नित्योद्वेगाश्च निर्भयाः
स्मृतिशास्त्रार्थकोद्विग्नाश्शातयंति धरां नराः१३६
निजवृत्तिं परित्यज्य कुर्वंति चाधमां च ये
गुरुनिंदारता द्वेषाच्छातयंति धरां नराः१३७
दातारं ये रोधयंति पातके प्रेरयंति च
दीनानाथान्पीडयंति शातयंति धरां नराः१३८
एते चान्ये च बहवः पापकर्मकृतो नराः
पुरुषान्पातयित्वा तु शातयंति धरां नराः१३९
य इदं शृणुयाद्रम्यं गुह्याद्गुह्यं परं हितम्
न तस्य दुर्गतिर्दुःखं दौर्भाग्यं दीनता भुवि१४०
न दैत्यादौ भवेज्जन्म स्वर्लोके शाश्वतं सुखम्
नाकाले मरणं तस्य न च पापैः प्रलिप्यते१४१
इह सर्वजनाध्यक्षस्त्रिदिवे त्रिदिवेश्वरः
कल्पंकल्पं दिवं भुक्त्वा मोक्षमार्गं व्रजत्यसौ१४२
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुण्यव्यक्तिर्नाम षट्सप्ततितमोऽध्यायः७६