पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००३

← अध्यायः २ पद्मपुराणम्
अध्यायः ३
वेदव्यासः
अध्यायः ४ →

सूत उवाच-
प्रस्थितस्तेन मार्गेण प्रविष्टो गगनांतरे ।
स दृष्टो देवदेवेन सहस्राक्षेण धीमता १।
उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्नं सुराधिराट् ।
मेनिकांतामुवाचेदं गच्छ त्वं मम शासनात् २।
समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे ।
अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः ३।
तथा कुरुष्व भद्रं ते यथा नायाति मे गृहम् ।
एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वरात् ४।
सूत उवाच-
रूपौदार्यगुणोपेता सर्वालंकारभूषिता ।
नंदनस्य वनस्यांते दोलायां समुपस्थिता ५।
सुस्वरेण प्रगायंती गीतं वीणास्वरोपमम् ।
तेन दृष्टा विशालाक्षी चतुरा चारुलोचना ६।
व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् ।
इंद्रेण प्रेषिता चैषा न च भद्रकरा भवेत् ७।
एवं ज्ञात्वा जगामाथ सत्वरेण द्विजोत्तमः ।
तया दृष्टस्तथा पृष्टः क्व यास्यसि महामते ८।
विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम् ।
इंद्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः ९।
मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः ।
कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गता १०।
रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि ।
यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा ११।
कामानलेन संदग्धा तावदेव न संशयः ।
संभ्रांता कामसंतप्ता प्रसादसुमुखो भव १२।
विष्णुशर्मोवाच-
चरित्रं देवदेवस्य विदितं मे वरानने ।
भवत्याश्चप्रजानामिनाहंचैतादृशःशुभे १३।
भवत्यास्तेजसा रूपैरन्ये मुह्यंति शोभने ।
विश्वामित्रादयो देवि पुत्रोहं शिवशर्मणः १४।
योगसिद्धिं गतस्यापि तपः सिद्धस्य चाबले ।
कामादयो महादोषा आदावेव विनिर्जिताः १५।
अन्यं भज विशालाक्षि इंद्रलोकं व्रजाम्यहम् ।
एवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः १६।
निष्फला मेनका जाता पृष्टा देवेन वज्रिणा ।
विभीषां दर्शयामास नानारूपां पुनः पुनः १७।
यथानलेन संदग्धास्तृणानां संचया द्विजाः ।
भस्मीभूता भवंत्येव तथा तास्ता विभीषिकाः १८।
विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः ।
प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजाः १९।
स विघ्नान्दर्शयामास सहस्राक्षः पुनः पुनः ।
तेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः २०।
एवं विघ्नान्बहूंस्तस्य इंद्रस्यापि महात्मनः ।
नाशयामास मेधावी तपसस्तेजसापि वा २१।
नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च ।
ज्ञात्वा तस्य कृतान्विघ्नान्दारुणान्भीषणाकृतीन् २२।
अथ क्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः ।
इंद्रं प्रति महाभागो रागरक्तांतलोचनः २३।
इंद्र लोकादहं चेंद्रं पातयिष्यामि नान्यथा ।
निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत् २४।
तस्य दंडं प्रदास्यामि यो वै हन्यात्स हन्यते ।
एवमन्यं करिष्यामि देवानां पालकं पुनः २५।
एवं समुद्यतो विप्र इंद्रनाशाय सत्तमः ।
तावदेव समायातो देवेंद्रः पाकशासनः २६।
भो भो विप्र महाप्राज्ञ तपसा नियमेन च ।
दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः २७।
अनया पितृभक्त्या ते जितोहं दैवतैः सह ।
ममापराधं त्वं सर्वं क्षंतुमर्हसि सत्तम २८।
वरं वरय भद्रं ते दुर्लभं च ददाम्यहम् ।
विष्णुशर्मा तदोवाच देवराजं तथागतम् २९।
विप्रतेजो महेंद्रेद्रं असह्यं देवदैवतैः ।
पितृभक्तस्य देवेश दुःसहं सर्वथा विभो ३०।
तेजोभंगो न कर्त्तव्यो ब्राह्मणानां महात्मनाम् ।
पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरान्पुनः ३१।
नाशयंते न संदेहो यदि रुष्टा द्विजोत्तमाः ।
नागच्छेद्यद्भवानद्य तदा राज्यमनुत्तमम् ३२।
आत्मतपः प्रभावेण अन्यस्मै त्वं महात्मने ।
दातुकामस्तु संजातो रोषपूर्णेन चक्षुषा ३३।
भवानद्य समायातो वरं दातुमिहेच्छसि ।
अमृतं देहि देवेंद्र पितृभक्तिं तथाचलाम् ३४।
एवंविधं वरं देहि यदि तुष्टोसि शत्रुहन् ।
एवं ददामि पुण्यं ते वरं चामृतसंयुतम् ३५।
एवमाभाष्य तं विप्रममृतं दत्तवान्स्वयम् ।
सकुंभं दत्तवांस्तस्मै प्रीयमाणेन चात्मना ३६।
अचला ते भवेद्विप्र भक्तिः पितरि सर्वदा ।
एवमाभाष्य तं विप्रं विसृज्य च सहस्रदृक् ३७।
प्रसन्नोभूच्च तद्दृष्ट्वा विप्रतेजः सुदुःसहम् ।
विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत् ३८।
तात इंद्रात्समानीतममृतं व्याधिनाशनम् ।
अनेनापि महाभाग नीरुजो भव सर्वदा ३९।
अमृतेन त्वमद्यैव परां तृप्तिमवाप्नुहि ।
एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि ४०।
सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा ।
पितृभक्ताः सुता यूयं मद्वाक्यपरिपालकाः ४१।
वरं वृणुध्वं सुप्रीताः पुत्रका दुर्लभं भुवि ।
एवमाभाषितं तस्य शुश्रुवुः सर्वसंमताः ४२।
ते सर्वे तु समालोच्य पितरं प्रत्यथाब्रुवन् ।
अस्माकं जीवताम्माता गता या यममंदिरम् ४३।
नीरुजा भवनाद्देवी प्रसादात्तव सुव्रता ।
भवान्पिता इयं माता जन्मजन्मांतरे पितः ४४।
वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा ।
शिवशर्मोवाच-
अद्यैवापि मृता माता भवतां पुत्रवत्सला ४५।
जीवमाना सुहृष्टा सा एष्यते नात्र संशयः ।
एवमुक्ते शुभे वाक्ये ऋषिणा शिवशर्मणा ४६।
तेषां माता समायाता प्रहृष्टा वाक्यमब्रवीत् ।
एतदर्थं समुत्पन्नं सुवीर्यं तनयं सुतम् ४७।
नराः सत्पुत्रमिच्छंति कुलवंशप्रभावकम् ।
स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः ४८।
सुतमिच्छंति सर्वत्र पुण्यांगं पुण्यसाधकम् ।
कुक्षिं यस्या गतो गर्भः सुपुण्यः परिवर्त्तते ४९।
पुण्यान्पुत्रान्प्रसूयेत सा नारी पुण्यभागिनी ।
कुलाचारं कुलाधारं पितृमातृप्रतारकम् ५०।
विना पुण्यैः कथं नारी संप्राप्नोति सुतोत्तमम् ।
न जाने कीदृशैः पुण्यैरेष भर्ता सुपुण्यभाक् ५१।
संजातो धर्मवीर्योपि धर्मात्मा धर्मवत्सलः ।
यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोधिकाः ५२।
एवं पुण्यप्रभावोयं भवंतः पुण्यवत्सलाः ।
मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः ५३।
अहो लोकेषु पुण्यैश्च सुपुत्रः परिलभ्यते ।
एकैकशोधिकाः पंच मया प्राप्ता महाशयाः ५४।
यज्वानः पुण्यशीलाश्च तपस्तेजः पराक्रमाः ।
एवं संवर्धितास्ते तु तया मात्रा पुनः पुनः ५५।
हर्षेण महताविष्टाः प्रणेमुर्मातरं सुताः ।
पुत्रा ऊचुः-
सुपुण्यैः प्राप्यते माता सन्माता सुपिता किल ५६।
भवती पुण्यकृन्माता नो भाग्यैस्तु प्रवर्तिता ।
यस्या गर्भोदरं प्राप्य सुपुण्यैश्च प्रवर्द्धिताः ५७।
जन्मजन्मनि त्वं माता पिता चैव भविष्यथः ।
पितोवाच-
शृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम् ५८।
मयि तुष्टे सुता भोगा ननु भुंजंतु चाक्षयान् ।
पुत्रा ऊचुः-
यदि तात प्रसन्नोसि वरं दातुमिहेच्छसि ५९।
अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम् ।
पितोवाच-
गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः ६०।
मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया ।
एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा ततः ६१।
शंखचक्रगदापाणिर्गरुडारूढ आगतः ।
सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः ६२।
सपुत्रेण त्वयाद्यैव जितो भक्त्यास्मि वै द्विज ।
पुत्रैः सार्द्धं समागच्छ चतुर्भिः पुण्यकारिभिः ६३।
अनया भार्यया सार्द्धं पुण्यया पतिकाम्यया ।
शिवशर्मोवाच-
अमी गच्छंतु पुत्रा मे वैष्णवं लोकमुत्तमम् ६४।
कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह ।
अनेनापि सुपुत्रेण अंत्येन सोमशर्मणा ६५।
एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा ।
तानुवाचाथ देवेशः सुपुत्राञ्छिवशर्मणः ६६।
गच्छंतु मोक्षदं लोकं दाहप्रलयवर्जितम् ।
एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः ६७।
विष्णुरूपधराः सर्वे बभूवुस्तत्क्षणादपि ।
इंद्रनीलसमावर्णैः शंखचक्रगदाधराः ६८।
सर्वाभरणसौभाग्या विष्णुरूपा महौजसः ।
हारकंकणशोभाढ्या रत्नमालाभिशोभिताः ६९।
सूर्यतेजःप्रतीकाशास्तेजोज्वालाभिरावृताः ।
प्रविष्टा वैष्णवं कायं पश्यतः शिवशर्मणः ७०।
दीपं दीपा यथा यांति तद्वल्लीना महामते ।
गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः ७१।
प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः ७२।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने तृतीयोऽध्यायः ३।