पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००७

दितिरुवाच-
सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः ।
भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज १।
अभिमानेन दुःखेन मानभंगेन सत्तम ।
महादुःखेन संतप्ता करिष्ये प्राणमोचनम् २।
कश्यप उवाच-
श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति ।
न कः कस्य भवेत्पुत्रो न माता न पिता शुभे ३।
न भ्राता बांधवः कस्य न च स्वजनबांधवाः ।
एवं संसारसंबंधो मायामोहसमन्वितः ४।
स्वयमेव पिता देवि स्वयं माताथ बांधवाः ।
स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः ५।
आचारेण नरो देवि सुखित्वमुपजायते ।
अनाचारेण पापेन नाशं याति तथा ध्रुवम् ६।
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः ।
कर्मणा सत्यहीनेन महापापेन मोहतः ७।
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः ।
रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः ८।
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे ।
तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि ९।
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् ।
यादृशं तु भवत्येव तादृशं फलमश्नुते १०।
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह ।
कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम् ११।
तव पुत्रा महाभागे तपः शांति विवर्जिताः ।
तेन पापेन ते सर्वे पतिता वै महत्पदात् १२।
एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा ।
कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः १३।
आत्मकर्मानुसारेण सुखं जीवंति जंतवः ।
परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः १४।
न कुर्वंति महात्मानो व्यर्थमेव न संशयः ।
पंचभूतात्मकं कायं केवलं संधिजर्जरम् १५।
आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया ।
आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः १६।
सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः ।
एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः १७।
भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः ।
चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः १८।
पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च ।
अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा १९।
स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत् ।
ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम् २०।
एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह ।
ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः २१।
तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम् ।
तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा २२।
आत्मोवाच-
एते पंच महाभागा रूपवंतो मनस्विनः ।
गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम् २३।
भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान् ।
दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि २४।
ज्ञानमुवाच-
त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् ।
एतेषां संगतिस्तात कार्या नैव त्वया कदा २५।
पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता ।
भवतः संगतिं मोह इच्छत्येष महामते २६।
आत्मोवाच-
एतेषां संगतिं ज्ञान कस्माद्वारयते भवान् ।
तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित २७।
ज्ञानमुवाच-
एतेषां संगमात्रात्तु महद्दुःखं भविष्यति ।
दुःखमूला हि पंचैव शोकसंतापकारकाः २८।
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ।
ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः २९।
कश्यप उवाच-
ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम् ।
बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि ३०।
दूतत्वं कुरु कल्याणि अस्माकमात्मना सह ।
पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः ३१।
भवतो मैत्रमिच्छंति इत्याभाष्य महामतिम् ।
गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज ३२।
एवमस्तु महाभागा करिष्ये कार्यमुत्तमम् ।
एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम् ३३।
अहं बुद्धिर्महाभाग भवंतं समुपागता ।
दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु ३४।
भवन्मैत्रीं समिच्छंति अक्षयां पंच आत्मकाः ।
कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः ३५।
ध्यानमुवाच-
न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम् ।
एषां संसर्गमात्रेण महद्दुःखं भविष्यति ३६।
मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति ।
एवमेव न कर्तव्यं तेषां चैव समागमम् ३७।
गर्भवासं नयिष्यंति भवंतं नान्यथा विभो ।
ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम् ३८।
एवमुक्त्वा तमात्मानं विरराम महामतिम् ।
ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः ३९।
ज्ञानध्यानौ महात्मानौ मंत्रिणौ मम शोभनौ ।
तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम् ४०।
एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी ।
समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः ४१।
ततस्ते पंचकाः सर्वे आत्मानं प्रतिजग्मिरे ।
मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि ४२।
यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः ।
स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम् ४३।
आत्मोवाच-
यूयं पंचैव संप्राप्ता मम मैत्रं समिच्छथ ।
स्वीयं गुणं प्रभावं च कथयंतु ममाग्रतः ४४।
भूमिरुवाच-
सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम् ।
अस्थिमूलदृढत्वं मे नखलोमसमन्वितम् ४५।
प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि ।
नासिकागमनो गंधस्स मे भृत्यो महामनाः ४६।
आकाश उवाच-
अहमाकाशकः प्राप्तो मम काये प्रभावकम् ।
श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम् ४७।
बाह्यांतरावकाशश्च शून्यस्थाने वसाम्यहम् ।
तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ ४८।
वायुरुवाच-
पंचरूपेण तिष्ठामि करोम्येवं शुभाशुभम् ।
चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम् ४९।
तेज उवाच-
काये संस्थः सदा नित्यं पाकयोगं करोम्यहम् ।
सबाह्याभ्यंतरं सर्वं द्रव्याद्रव्यं प्रदर्शये ५०।
शुक्रं मज्जा तथा लाला एवं त्वक्संधिसंस्थितम् ।
रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम् ५१।
तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ ।
एवं मयात्मव्यापारस्तवाग्रे कथितः परः ५२।
जलमुवाचः-
सुतोषयाम्यहं नित्यममृतेन कलेवरम् ।
एवं मे तत्र व्यापारः कायपत्तनके प्रिये ५३।
अमात्यं रसनां विद्धि रसास्वादकरीं पराम् ।
नासिकोवाच-
सुगंधेन परां पुष्टिं कायस्यापि करोम्यहम् ५४।
दुर्गंधं तु परित्यज्य काये गंधं प्रदर्शये ।
बुद्धियुक्ता महाभाग तस्याभावेन भाविता ५५।
स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला ।
गंधं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ५६।
श्रवणावूचतुः-
कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम् ।
शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये ५७।
शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि ।
योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत् ५८।
त्वगुवाच-
पंचरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः ५९।
सबाह्याभ्यंतरे चेष्टां तेषां जानामि तत्त्वतः ।
शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च ६०।
सर्वं जानामि संस्पर्शं संगश्लेषादिकं नृणाम् ।
स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् ६१।
एवं हि ते समाख्यातो मया व्यापार एव हि ।
नेत्रे ऊचतुः-।
संसारे यानि रूपाणि भव्याभव्यानि सत्तम ६२।
यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा ।
वसावः कायमध्ये वै रूपं गुणमिहावयोः ६३।
एवं व्यापारसंबंधः कायमध्ये महामते ।
जिह्वोवाच-।
बुद्धियुक्ता अहं तात रसभेदान्विचारये ६४।
क्षारमम्लादिकं सर्वं नीरसं स्वादु चिंतये ।
व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम् ६५।
इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः ।
एवं पंच समायातानींद्रियाणि प्रिये शृणु ६६।
स्वीयानि यानि कर्माणि कथयंति पुनः पुनः ।
अथ बुद्धिः समायाता तमुवाच महामतिम् ६७।
मद्विहीनो यदा कायस्तदा नश्यति नान्यथा ।
तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते ६८।
अथ कर्म समायातमात्मानमिदमब्रवीत् ।
अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम् ६९।
त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि ।
एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति ७०।
यूयं पंचात्मकैर्युक्ताः सर्वसाधारणाः किल ।
कस्मान्मैत्रं समिच्छंति तत्र पंचात्मकं प्रति ७१।
ब्रुवंतु कारणं सर्वे ममाग्रे सर्वमेव तत् ।
पंचात्मका ऊचुः-।
अस्मत्संगप्रसंगेन पिंडमेव प्रजायते ७२।
तस्मिन्पिंडे महाबुद्धे भवान्वसति सुव्रतः ।
तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि ७३।
एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः ।
आत्मोवाच-
एवमस्तु महाभागा भवतां प्रियमेव च ७४।
करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् ।
वार्यमाणो महाभागो ज्ञानेनापि महात्मना ७५।
ध्यानेन च महात्मासौ तेषां संगतिमागतः ।
स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा ७६।
पंचतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः ।
यदा गर्भं समायातो विष्ठामूत्रसमाकुले ७७।
दुर्गंधे पिच्छिलावर्ते पतितस्तैः स संयुतः ।
अंगेन व्याकुलीभूतः पंचात्मकानुवाच सः ७८।
भोभोः पंचात्मकाः सर्वे शृणुध्वं वचनं मम ।
भवतां संप्रसंगेन महादुःखेन मोहितः ७९।
तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये ।
पंचात्मका ऊचुः-
तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत् ८०।
पश्चान्निर्गमनं ते वै भविष्यति न संशयः ।
अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः ८१।
राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति ।
तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः ८२।
गंतुमिच्छन्नसौ तस्मात्पलायनपरोभवत् ८३।

इति श्रीपद्मपुराणे भूमिखंडे देवासुरेशरीरकथनंनाम सप्तमोऽध्यायः ७।