पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००८

कश्यप उवाच-
स गर्भे व्याकुलो जातः खिद्यमानो दिने दिने ।
दुःखाक्रांतो हि धर्मात्मा सर्वपीडाभिपीडितः १।
अधोमुखस्तु गर्भस्थो मोहजालेन बंधितः ।
आधिव्याधिसमाक्रांतो हाहाभूतो विचेतनः २।
दुःखेन महताविष्टो ज्ञानमाह प्रपीडितः ।
आत्मोवाच-
तव वाक्यं महाप्राज्ञ न कृतं तु मया तदा ३।
ध्यानेन वार्यमाणोपि पतितो मोहसंकटे ।
तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात् ४।
ज्ञानमुवाच-
मया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे ।
पंचात्मकैर्महाक्रूरैः पातितो गर्भसंकटे ५।
इदानीं गच्छ त्वं ध्यानं तस्मात्संप्राप्स्यसे सुखम् ।
गर्भवासाद्भविष्यस्ते मोक्ष एव न संशयः ६।
तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम् ।
ध्यानमाहूय प्रोवाच श्रूयतां वचनं मम ७।
त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः ।
एवमस्तु महाप्राज्ञ ध्यानमाह महामतिम् ८।
एतद्वाक्यं ततः श्रुत्वा आत्मा वै ध्यानमागतः ।
ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः ९।
यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भजं भयम् ।
स द्वाभ्यां सहितस्तत्र आत्मा मोह विना कृतः १०।
चिंतयन्नेव वै नित्यमात्मकं सुखमेव हि ।
इतो निष्क्रांतमात्रस्तु त्यजे पंचात्मकं वपुः ११।
एवं चिंतयते नित्यं गर्भवासगतः प्रभुः ।
सूतिकाले तु संप्राप्ते प्राजापत्ये वरानने १२।
वायुना चलितो गर्भः प्राणेनापि बलीयसा ।
[१]योनिर्विकासमायाति चतुर्विंशांगुलं तदा १३।
पंचविंशांगुलो गर्भस्तेन पीडा विजायते ।
एवं संपीड्यमानस्तु मूर्च्छया मूर्च्छितः प्रिये १४।
पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः ।
प्राजापत्येन दिव्येन वायुना स पृथक्कृतः १५।
भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते ।
संसारबंधसंदिग्ध आत्मा प्रियतया स्थितः १६।
गुणदोषसमाक्रांतो महामोहसमन्वितः ।
खाद्यं पानादिकं सर्वमिच्छत्येव दिनेदिने १७।
एवं संपुष्यमाणस्तु आत्मा पंचात्मकैः सह ।
व्यापितो हींद्रियैः सर्वैर्विषयैः पापकारिभिः १८।
बांधवानां समोहेन भार्यादीनां तथैव च ।
आकुलव्याकुलो देवि जायते च दिनेदिने १९।
महामोहेन संदिग्धो मोहजालगतः प्रभुः ।
कैवर्तेन यथा बद्धः शकुलो जालबंधनैः २०।
चलितुं नैव शक्तोस्ति तथात्मासीत्प्रबंधितः ।
मोहजालैस्तु तैः सर्वैर्दृढबंधैस्तु बंधितः २१।
एवमादिप्रपंचेन व्यापितो व्यापकेन हि ।
ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः २२।
कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा ।
प्रकृत्या कर्मणाबद्धो महामूढो व्यजायत २३।
सूत उवाच-
एवं मूढो यदात्मासौ कामक्रोधवशंगतः ।
लोभरागादिभिः सर्वैर्व्यापृतस्तैर्दुरात्मभिः २४।
इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम् ।
एवं संसारजालेन महामोहेन बंधितः २५।
पुत्रशोकादिभिर्दुःखैर्विविधैराकुलस्तदा ।
जरयाव्याधिभिश्चैव संग्रस्तश्चाधिभिस्तथा २६।
एवमात्मा संप्रतप्तो दुःखमोहैः सुदारुणैः ।
अभिमानैर्मानभंगैर्नानादुःखैश्च खंडितः २७।
वृद्धत्वेन तथा देवि शबलत्वेन पीडितः ।
दुःखं चिंतयते नित्यं हाहाभूतो विचेतनः २८।
रात्रौ स्वप्नान्प्रपश्येत दिवा चैतन्यवर्जितः ।
वैकल्येन तथांगानां व्याप्तो देवि दिनेदिने २९।
संसारे भ्रममाणेन वैराग्यं तत्र दर्शितम् ।
निःशंकं बंधुहीनं च प्रशांतं तुष्टमेव च ३०।
तमुवाच तदात्मा वै कामक्रोधविवर्जितम् ।
को भवान्नग्नरूपेण कथं मित्रैर्न लज्जसे ३१।
यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा ।
एतासां हि गतो मध्ये न बिभेषि अनावृतः ३२।
वीतराग उवाच-
को ह्यत्र नग्नो दृश्येत न नग्नोस्मीति वै कदा ।
सुसंबद्धस्त्वमेवापि परिधान समन्वितः ३३।
न नग्नोस्मि कदा दिव्यभवान्नग्नः प्रदृश्यते ।
इंद्रियार्थवशेवर्ती मर्यादापरिवर्जितः ३४।
आत्मोवाच-
पुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत ।
विस्तरेण महाप्राज्ञ यदि जानासि निश्चितम् ३५।
वीतरागो महाप्राज्ञस्तमुवाच महामतिः ।
सुस्थैर्यं भजते चित्तं सुखदुःखेषु नित्यदा ३६।
क्लेशितं सर्वभावैश्च तेषुतेषु परित्यजेत् ।
अथ लज्जां प्रवक्ष्यामि मनो या निर्विशत्यलम् ३७।
मयाद्यैवं न कर्तव्यं नग्नः स्थानविवर्जितः ।
पश्चात्तापे सुसंलीनः सा लज्जा परिकथ्यते ३८।
कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा ।
एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयेत् ३९।
अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः ।
यथा कुलालकश्चक्रे मृत्पिंडं च निधापयेत् ४०।
भ्रामयित्वा तु सूत्रेण नानाभेदान्प्रकाशयेत् ।
भांडानां तु सहस्राणि स्वेच्छया मतिसंस्थितः ४१।
तथायं सृजते धाता नानारूपाणि नान्यथा ।
पश्चाद्विनाशमायांति येनकेनापि हेतुना ४२।
सर्वदैव स्थिता ये च ये लोकाश्च सनातनाः ।
तेषां लज्जा प्रकर्तव्या नावर्तंते हि ते भुवि ४३।
आकाशवायुतेजांसि पृथ्वी चापश्च पंचमः ।
अमी लोकाः प्रकाशंते ये च सर्वत्र संस्थिताः ४४।
सत्त्वानामंगदेशेषु पंचैतेषु सुसंस्थिताः ।
सर्वत्रैव च वर्तंते कस्य लज्जा विधीयते ४५।
स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम् ।
यथाघटसहस्रेषुसोदकेषुविराजते ४६।
एकश्चंद्रो हि सर्वत्र भवांस्तद्वद्विराजते ।
गतो जंतुसहस्रेषु मोहचक्रे महात्मवान् ४७।
स्थावरेषु च सर्वेषु जंगमेषु तथा भवान् ।
योनिद्वारेण पापेन मायामोहमयेन वै ४८।
कुचाभ्यां च नितंबाभ्यां वयसा च विराजते ।
हृन्मांसस्याधिका वृद्धिर्दृष्टा चात्र न संशयः ४९।
पतनाय च लोकानां मोहरूपं विदर्शितम् ।
नभवत्येव सा नारी या त्वया परिकीर्तिता ५०।
लीलया कुरुते धाता विनोदाय सदात्मनः ।
यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः ५१।
कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि ।
नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते ५२।
रमते तेन वै सार्द्धं न मुक्ता हि कदाचन ।
भवान्प्रकृतिसंयुक्तः पुरुषेषु प्रदृश्यते ५३।
कः कस्य कुरुते लज्जामेवं ज्ञात्वा सुखं व्रज ।
वृद्धां स्त्रियं प्रवक्ष्यामि सदावृद्धां वरानने ५४।
त्वचा जर्जरतां याता यस्याप्यंगे वरानने ।
श्वेतैश्चैव तथाकेशैः पलितैश्च समाकुला ५५।
बलहीनाथ दीनापि व्यापिता वलिना तदा ।
नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते ५६।
एतस्या लक्षणं प्रोक्तं युवतीं प्रवदाम्यहम् ।
ज्ञानेन वर्द्धते नित्यं जीवपार्श्वे समाश्रिता ५७।
सुमतिर्नाम संप्रोक्ता सा वृद्धा युवतीति च ।
नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता ५८।
लज्जा तस्याः प्रकर्तव्या अन्यच्चैव वदाम्यहम् ।
मातरं वै प्रवक्ष्यामि या त्वया परिकीर्तिता ५९।
प्राणिनामंगदेशेषु सदैव चेतना स्थिता ।
परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते ६०।
प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा ।
संस्थिता सर्वलोकेषु पोषणाय हिताय वा ६१।
सुमतिर्नाम या प्रोक्ता सा माता परिकथ्यते ।
संसारद्वारमार्गाणि यानि रूपाणि नित्यशः ६२।
भवंति मातरो ह्येता बहुदुःखप्रदर्शिकाः ।
मातृरूपं समाख्यातमन्यत्किं ते वदाम्यहम् ६३।
आत्मोवाच-
भवान्को हि समायातो मम संतापनाशकः ।
विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम् ६४।
वीतराग उवाच-
यस्मात्कामानि वर्तंते निराशाः सर्व एव ते ।
यं दुष्टत्वान्न पश्यंति कर्माण्येतानि नान्यथा ६५।
यत्समीपं हि नायाति आशा चैव कदाचन ।
क्रोधो लोभस्तथा मोहो यद्भयात्प्रलयं गताः ६६।
वीतरागोस्मि भद्रं ते विवेको मम बांधवः ।
आत्मोवाच-
कीदृशोऽसौ तव भ्राता विवेको नाम नामतः ६७।
तस्य त्वं लक्षणं ब्रूहि भ्रातुरात्मन एव च ।
वीतराग उवाच-
तस्यैव लक्षणं रूपं न वदामि तवाग्रतः ६८।
भ्रातुस्तस्य महाभाग आह्वानं च करोम्यहम् ।
भोभो विवेक मे भ्रातरावयोस्त्वं वचः शृणु ६९।
एह्येहि सुमहाभाग मम स्नेहान्महामते ।
कश्यप उवाच-
शांतिक्षमाभ्यां संयुक्तो भार्याभ्यां च समागतः ७०।
सर्वदृक्सर्वगो व्यापी सर्वतत्त्वपरायणः ।
संदेहानां च सर्वेषां यो रिपुर्ज्ञानवत्सलः ७१।
धारणा धीश्च द्वे पुत्र्यौ तस्यैव हि महात्मनः ।
तस्य योगः सुतो ज्येष्ठो मोक्षो यस्य महागुरुः ७२।
निर्मलो निरहंकारो निराशो निष्परिग्रहः ।
सर्ववेलाप्रसन्नात्मा गतद्वंद्वो महामतिः ७३।
स विवेकः समायातो गुणरत्नैर्विभूषितः ।
यस्यामात्यौ महात्मानौ धर्मसत्यौ महामती ७४।
क्षमाशांतिसमायुक्तः स विवेकः समागतः ।
वीतरागमुवाचेदमाहूतोहं समागतः ७५।
तद्भ्रातः कारणं सर्वं कथ्यतां हि ममाग्रतः ।
यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे ७६।
वीतराग उवाच-
पुमान्स्थितो यः पुरतो महापाशैर्नियंत्रितः ।
मोहस्य बाणैः संभ्रांतः संसारस्य च बंधनैः ७७।
सर्वस्य व्यापकः स्वामी अयमात्मा ममैव च ।
पंचतत्त्वैः समाविष्टो ज्ञानध्यानविवर्जितः ७८।
पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पंडितः ।
वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत् ७९।
विवेक उवाच-
सुखेन स्थीयते देव भवता विश्वनायक ।
आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम् ८०।
आत्मोवाच-
गर्भवासो महद्दुःखमसह्यं दारुणं मया ।
भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा ८१।
देहेपि ज्ञानविभ्रष्टः सोहं जातो ह्यनेकधा ।
बाल्यावस्थां गतेनाथ कृत्याकृत्यं कृतं मया ८२।
तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः ।
वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा ८३।
भार्यादीनां वियोगैस्तु दग्धोस्म्यहमहर्निशम् ।
दुःखैरनेकसंवर्णैः संतप्तोस्मि दिनेदिने ८४।
दिवारात्रौ महाप्राज्ञ न विंदामि सुखं क्वचित् ।
एवं दुःखै सुसंतप्तः किं करोमि महामते ८५।
तमुपायं वदस्वैव सुखं विंदामि येन वै ।
अस्मात्संसारजालौघान्मोचयाद्य सुबंधनात् ८६।
विवेक उवाच-
भवाञ्छुद्धोसि निर्द्वन्द्वो ह्यपापोसि जगत्पते ।
एनं गच्छ महात्मानं वीतरागं सुखप्रदम् ८७।
निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितम् ।
सुखप्रदर्शको ह्येष सर्वसंतापनाशकः ८८।
एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः ।
तमुवाच श्वसन्दीनः श्रूयतां वचनं मम ८९।
सुखं विंदामि येनाहं तं मार्गं मम दर्शय ।
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ९०।
पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया ।
सुखमार्गस्य वै वक्ता तव एष भविष्यति ९१।
वीतरागेण पुण्येन प्रेषितो गतवान्प्रभुः ।
तमुवाच महात्मानं विवेकं शुद्धसत्तमम् ९२।
सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः ।
भवच्छरणमापन्नो रक्ष संसारदारुणात् ९३।
विवेक उवाच-
ज्ञानं गच्छमहाप्राज्ञ स ते सर्वं वदिष्यति ।
आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम् ९४।
भोभो ज्ञान महातेजः सर्वभावप्रदर्शक ।
शरणं त्वामहं प्राप्तः सुखमार्गं प्रदर्शय ९५।
ज्ञानमुवाच-
भृत्योहं तव लोकेश त्वं मां वेत्सि न सुव्रत ।
मया ध्यानेन वै पूर्वं वारितस्त्वं पुनःपुनः ९६।
पंचात्मकानां संगेन आपदं प्राप्तवान्भवान् ।
ध्यानं गच्छ महाप्राज्ञ स ते दाता सुखस्य च ९७।
ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः ।
सुखमत्यंतसिद्धं च ध्यानं मे दर्शयस्व ह ९८।
भवच्छरणमायातं मामेवं परिरक्षय ।
एवं संभाषितं तस्य ध्यानमाकर्ण्य तद्वचः ९९।
समुवाच पुनश्चापि तमात्मानं प्रहृष्टवान् ।
नैव त्याज्योस्म्यहं तात सर्वकर्मसुनिश्चितः १००।
त्वयैव वीतरागेण विवेकेन सदैव हि ।
ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय १०१।
आत्मवांस्त्वं स्थिरो भूत्वा निरातंको विकल्पितः ।
यथा दीपो निवातस्थः कज्जलं वमते स्थिरः १०२।
तथा दोषान्प्रज्वलित्वा निर्वाणं हि प्रयास्यति ।
एकांतस्थो निराहारो मिताशी भव सर्वदा १०३।
निर्द्वंद्वः शब्दसंहीनो निश्चलो ह्यासने स्थितः ।
आत्मानमात्मना ध्यायन्ममैव स्थिरबुद्धिना १०४।
प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् १०५।

इति श्रीपद्मपुराणे भूमिखंडेऽध्यात्मवर्णनेऽष्टमोऽध्यायः ८।

  1. द्र. गर्भोपरि संदर्भाः, शतपथब्राह्मणम् ८, ४, १, १९