पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०११

ऋषय ऊचुः-
सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम् ।
इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः १।
कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः ।
किं तपस्तस्य विप्रस्य कथमाराधितो हरिः २।
सूत उवाच-
कथा प्रज्ञाप्रभावेण पूर्वमेव यथा श्रुता ।
तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः ३।
चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम् ।
भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः ४।
पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने ।
रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके ५।
कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः ।
स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः ६।
दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः ।
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत् ७।
एकदा तु प्रिया तस्य सुमना नाम सुव्रता ।
भर्तारं चिंतयोपेतमधोमुखमलक्षयत् ८।
समालोक्य तदा कांतं तमुवाच तपस्विनी ।
दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम् ९।
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते ।
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज १०।
नास्ति चिंतासमं दुःखं कायशोषणमेव हि ।
यश्चिंतां त्यज्य वर्तेत स सुखेन प्रमोदते ११।
चिंतायाः कारणं विप्र कथयस्व ममाग्रतः ।
प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम् १२।
सोमशर्मोवाच-।
इच्छया चिंतितं भद्रे चिंता दुःखस्य कारणम् ।
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् १३।
न जाने केन पापेन धनहीनोस्मि सुव्रते ।
तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम् १४।
सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् ।
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् १५।
लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि ।
असत्यं तस्य वै स्कंधो माया शाखा सुविस्तरा १६ ।
दंभकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा ।
अनृतं तस्य सौगंधं फलमज्ञानमेव च १७।
छद्मपाखंडशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः ।
पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः १८।
अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि ।
तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय १९।
अधर्मः सुरसस्तस्य उत्कटो मधुरायते ।
यादृशैश्च फलैश्चैव सुफलो लोभपादपः २०।
अस्यच्छायां समाश्रित्य यो नरः परितुष्यते ।
फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने २१।
फलानां तु रसेनापि अधर्मेण तु पालितः ।
स संतुष्टो भवेन्मर्त्यः पतनायाभिगच्छति २२।
तस्माच्चिंतां परित्यज्य पुमाँल्लोभं न कारयेत् ।
धनपुत्रकलत्राणां चिंतामेकां न कारयेत् २३।
यो हि विद्वान्भवेत्कांत मूर्खाणां पथमेति हि ।
मूर्खश्चिंतयते नित्यं कथमर्थं ममैव हि २४।
सुभार्यामिह विंदामि कथं पुत्रानहं लभे ।
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः २५।
क्षणमेकं प्रपश्येत चिंतामध्ये महत्सुखम् ।
पुनश्चैतन्यमायाति महादुःखेन पीड्यते २६।
चिंतामोहौ परित्यज्य अनुवर्तस्व च द्विज ।
संसारे नास्ति संबंधः केन सार्धं महामते १७।
मित्राश्च बांधवाः पुत्राः पितृमातृसभृत्यकाः ।
संबंधिनो भवंत्येव कलत्राणि तथैव च २८।
सोमशर्मोवाच-
संबंधः कीदृशो भद्रे तथा विस्तरतो वद ।
येन संबंधिनः सर्वे धनपुत्रादिबांधवाः २९।
सुमनोवाच-
ऋणसंबंधिनः केचित्केचिन्न्यासापहारकाः ।
लाभप्रदा भवंत्येके उदासीनास्तथापरे ३०।
भेदैश्चतुर्भिर्जायंते पुत्रमित्रस्त्रियस्तथा ।
भार्या पिता च माता च भृत्याः स्वजनबांधवाः ३१।
स्वेनस्वेन हि जायंते संबंधेन महीतले ।
न्यासापहारभावेन यस्य येन कृतं भुवि ३२।
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ।
येनैवापह्रतं न्यासं तस्य गेहे न संशयः ३३।
न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः ।
न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च ३४।
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ।
भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिनेदिने ३५।
प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन् ।
स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम् ३६।
यथा येन प्रदत्तं स्यान्न्यासस्य हरणात्पुरा ।
दुःखमेव महाभाग दारुणं प्राणनाशनम् ३७।
तादृशं तस्य सौहृद्यात्पुत्रो भूत्वा महागुणैः ।
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति ३८।
दुःखं दत्वा प्रयात्येवं भूत्वाभूत्वा पुनःपुनः ।
यदा हा पुत्रपुत्रेति प्रलापं हि करोति सः ३९।
तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता ।
अनेनापहृतं न्यासं मदीयस्योपकारणम् ४०।
द्रव्यापहरणेनापि न मे प्राणा गताः किल ।
दुःखेन महता चैव असह्येन च वै पुरा ४१।
तथा दुःखं प्रदत्वाहं द्रव्यमुद्गृह्य चोत्तमम् ।
गंतास्मि सुभृशं चाद्य कस्याहं सुत ईदृशः ४२।
न चैष मे पिता पुत्रः पूर्वमेव न कस्यचित् ।
पिशाचत्वं मया दत्तमस्यैवेति दुरात्मनः ४३।
एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनःपुनः ।
प्रयात्यनेन मार्गेण दुःखं दत्वा सुदारुणम् ४४।
एवं न्यासं समुद्धर्तुः पुत्राः कांत भवंति वै ।
संसारे दुःखबहुला दृश्यंते यत्रतत्र च ४५।
ऋणसंबंधिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः ४६।

इति श्रीपद्मपुराणे भूमिखंडे सुव्रतोपाख्याने एकादशोऽध्यायः ११।