पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१२

सुमनोवाच-
ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः ।
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल १।
अर्थदाता सुतो भूत्वा भ्राता चाथ पिता प्रिया ।
मित्ररूपेण वर्त्तेत अतिदुष्टः सदैव सः २।
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः ।
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ३।
मिष्टंमिष्टं समश्नाति भोगान्भुंजति नित्यशः ।
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ४।
गृहद्रव्यं बलाद्भुंक्ते वार्यमाणः स कुप्यति ।
पितरं मातरं चैव कुत्सते च दिनेदिने ५।
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः ।
एवं भुक्त्वाथ तद्द्रव्यं सुखेन परितिष्ठति ६।
जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः ।
पुनर्विवाहसंबंधान्नानाभेदैरनेकधा ७।
एवं संजायते द्रव्यमेवमेतद्ददात्यपि ।
गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः ८।
पितरं मातरं चैव हिनस्त्येव दिनेदिने ।
सुखंडैर्मुशलैश्चैव सर्वघातैः सुदारुणैः ९।
मृते तु तस्मिन्पितरि मातर्येवातिनिष्ठुरः ।
निःस्नेहो निष्ठुरश्चश्चैव जायते नात्र संशयः १०।
श्राद्धकर्माणि दानानि न करोति कदैव सः ।
एवंविधाश्च वै पुत्राः प्रभवंति महीतले ११।
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजपुंगव ।
बाल्ये वयसि संप्राप्ते रिपुत्वे वर्तते सदा १२।
पितरं मातरं चैव क्रीडमानो हि ताडयेत् ।
ताडयित्वा प्रयात्येव प्रहस्यैव पुनःपुनः १३।
पुनरायाति संत्रस्तः पितरं मातरं प्रति ।
सक्रोधो वर्तते नित्यं कुत्सते च पुनःपुनः १४।
एवं संवर्तते नित्यं वैरकर्मणि सर्वदा ।
पितरं मारयित्वा च मातरं च ततः पुनः १५।
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः ।
अथातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् १६।
जातमात्रः प्रियं कुर्याद्बाल्ये लालनक्रीडनैः ।
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरम् १७।
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत् ।
स्नेहेन वचसा चैव प्रियसंभाषणेन च १८।
मृते गुरौ समाज्ञाय स्नेहेन रुदते पुनः ।
श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् १९।
करोत्येव सुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति ।
ऋणत्रयान्वितः स्नेहाद्भुंजापयति नित्यशः २०।
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः ।
पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल २१।
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम् ।
उदासीनेन भावेन सदैव परिवर्तते २२।
ददाति नैव गृह्णाति न च कुप्यति तुष्यति ।
नो वा ददाति संत्यज्य उदासीनो द्विजोत्तम २३।
तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी ।
यथा पुत्रस्तथा भार्या पिता माताथ बांधवाः २४।
भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा ।
गजा महिष्यो दासाश्च ऋणसंबंधिनस्त्वमी २५।
गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित् ।
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि २६।
धारयावो न कस्यापि ऋणं कांत शृणुष्वहि ।
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् २७।
आवाभ्यां हि न विप्रेंद्र न त्यक्तं हि तथापते ।
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थकीम् २८।
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः ।
हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः २९।
कथं हि धनमायाति विस्मयं व्रज माधव ।
प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम ३०।
अनायासेन हस्ते हि तस्यैव परिजायते ।
यत्नेन महता चैव द्रव्यं रक्षति मानवः ३१।
व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति ।
एवं ज्ञात्वा शमं गच्छ जहि चिंतामनर्थकीम् ३२।
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः ।
कः कस्य नास्ति संसारे असंबंधाद्द्विजोत्तम ३३।
महामोहेन संमूढा मानवाः पापचेतसः ।
इदं गृहमयं पुत्र इमा नार्यो ममैव हि ३४।
अनृतं दृश्यते कांत संसारस्य हि बंधनम् ।
एवं संबोधितो देव्या भार्यया प्रियया तदा ३५।
पुनः प्राह प्रियां भार्यां सुमनां ज्ञानवादिनीम् ।
सोमशर्मोवाच-
सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् ३६।
तथापि वंशमिच्छंति साधवः सत्यपंडिताः ।
यथा पुत्रस्य मे चिंता धनस्य च तथा प्रिये ३७।
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् ।
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ३८।
सत्पुत्रेण महाभाग पिता माता च जंतवः ।
एकः पुत्रो वरो विद्वान्बहुभिर्निर्गुणैस्तु किम् ३९।
एकस्तारयते वंशमन्ये संतापकारकाः ।
पूर्वमेव मया प्रोक्तमन्ये संबंधगामिनः ४०।
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ।
सुगर्भः प्राप्यते पुण्यैस्तस्मात्पुण्यं समाचर ४१।
जातस्य मृतिरेवास्ति जन्म एव मृतस्य च ।
सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च ४२।
सुखं धनचयः कांत भुज्यते पुण्यकर्मभिः ।
सोमशर्मोवाच-
पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये ४३।
सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम् ।
सुमनोवाच-
आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया ४४।
पुरुषो वाथवा नारी यथा नित्यं च वर्तते ।
यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान्प्रियान्धनम् ४५।
पुण्यस्य लक्षणं कांत सर्वमेव वदाम्यहम् ।
ब्रह्मचर्येण सत्येन मखपंचकवर्तनैः ४६।
दानेन नियमैश्चापि क्षमाशौचेन वल्लभ ।
अहिंसया सुशक्त्या च अस्तेयेनापि वर्तनैः ४७।
एतैर्दशभिरंगैस्तु धर्ममेवं प्रपूरयेत् ।
संपूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे ४८।
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा ।
तस्य धर्मः प्रसन्नात्मा पुण्यमेवं तु प्रापयेत् ४९।
यं यं चिंतयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम् ।
सोमशर्मोवाच-
कीदृङ्मूर्तिस्तु धर्मस्य कान्यंगानि च भामिनि ५०।
प्रीत्या कथय मे कांते श्रोतुं श्रद्धा प्रवर्तते ।
सुमनोवाच-
लोके धर्मस्य वै मूर्तिः कैर्दृष्टा न द्विजोत्तम ५१।
अदृश्यवर्त्मा सत्यात्मा न दृष्टो देवदानवैः ।
अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः ५२।
तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा ।
द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमम् ५३।
धर्मेण वर्तमानौ तौ तपसा च बलेन च ।
इंद्राधिकेन रूपेण प्रशस्तेन भविष्यतः ५४।
दशवर्षसहस्रं तौ यावत्तु वनसंस्थितौ ।
वायुभक्षौ निराहारौ संजातौ शुभदर्शनौ ५५।
दशवर्षसहस्रं तु तावत्कालं तपोर्जितम् ।
सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते ५६।
पंचाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम ।
त्रिकालं साधितं तावन्निराहारं कृतं तथा ५७।
जलमध्ये स्थितौ तावद्दत्तात्रेयो यतिस्तथा ।
दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः ५८।
धर्मं प्रति स धर्मात्मा चुक्रोध मुनिपुंगवः ।
क्रुद्धे सति महाभाग तस्मिन्मुनिवरे तदा ५९।
अथ धर्मः समायातः स्वरूपेण च वै तदा ।
ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान् ६०।
सत्यं ब्राह्मणरूपेण ब्रह्मचर्यं तथैव च ।
तपस्तु द्विजवर्योस्ति दमः प्राज्ञो द्विजोत्तमः ६१।
नियमस्तु महाप्राज्ञो दानमेव तथैव च ।
अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागताः ६२।
क्षमा शांतिस्तथा लज्जा चाहिंसा च ह्यकल्पना ।
एताः सर्वाः समायाताः स्त्रीरूपास्तु द्विजोत्तम ६३।
बुद्धिः प्रज्ञा दया श्रद्धा मेधा सत्कृति शांतयः ।
पंचयज्ञास्तथा पुण्याः सांगा वेदास्तु ते तदा ६४।
स्वस्वरूपधराश्चैव ते सर्वे सिद्धिमागताः ।
अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा ६५।
रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः ।
दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ६६।
किरीटकुंडलोपेता दिव्याभरणभूषिताः ।
दीप्तिमंतः सुरूपास्ते तेजोज्वालाभिरावृताः ६७।
एवं धर्मः समायातः परिवारसमन्वितः ।
यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ६८।
धर्म उवाच-
कस्मात्कोपः कृतो विप्र भवांस्तपस्समन्वितः ।
क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः ६९।
सर्वनाशकरस्तस्मात्क्रोधं तत्र विवर्जयेत् ।
स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टं तपसः फलम् ७०।
दुर्वासा उवाच-
भवान्को हि समायात एतैर्द्विजवरैः सह ।
सप्त नार्यः प्रतिष्ठंति सुरूपाः समलंकृताः ७१।
कथयस्व ममाग्रे त्वं विस्तरेण महामते ।
धर्म उवाच-
अयं ब्राह्मणरूपेण सर्वतेजः समन्वितः ७२।
दंडहस्तः सुप्रसन्नः कमंडलुधरस्तथा ।
तवाग्रे ब्रह्मचर्योयं सोयं पश्य समागतः ७३।
अन्यं पश्यस्व वै त्वं च दीप्तिमंतं द्विजोत्तम ।
कपिलं पिंगलाक्षं च सत्यमेनं द्विजोत्तम ७४।
तादृशं पश्य धर्मात्मन्वैश्वदेवसमप्रभम् ।
यत्तपो हि त्वया विप्र सर्वदेवसमाश्रितम् ७५।
एतं पश्य महाभाग तव पार्श्वसमागतम् ।
प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः ७६।
दम एव तथायं ते यः पोषयति सर्वदा ।
जटिलः कर्कशः पिंगो ह्यतितीव्रो महाप्रभुः ७७।
नाशको हि स पापानां खड्गहस्तो द्विजोत्तम ।
अभिशांतो महापुण्यो नित्यक्रियासमन्वितः ७८।
नियमस्तु समायातस्तव पार्श्वे द्विजोत्तम ।
अनिर्मुक्तो महादीप्तः शुद्धस्फटिकसन्निभः ७९।
पयःकमंडलुकरो दंतकाष्ठधरो द्विजः ।
शौच एष समायातो भवतः सन्निधाविह ८०।
अतिसाध्वी महाभागा सत्यभूषणभूषिता ।
सर्वभूषणशोभांगी शुश्रूषेयं समागता ८१।
अतिधीरा प्रसन्नांगी गौरी प्रहसितानना ।
पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ८२।
दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम ।
अतिशांता सुप्रतिष्ठा बहुमंगलसंयुता ८३।
दिव्यरत्नकृता शोभा दिव्याभरणभूषिता ।
तव शांतिर्महाप्राज्ञ ज्ञानरूपा समागता ८४।
परोपकारकरणा बहुसत्यसमाकुला ।
मितभाषा सदैवासौ अकल्पा ते समागता ८५।
प्रसन्ना सा क्षमायुक्ता सर्वाभरणभूषिता ।
पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ८६।
अहिंसेयं महाभागा भवंतं तु समागता ।
तप्तकांचनवर्णांगी रक्तांबरविलासिनी ८७।
सुप्रसन्ना सुमंत्रा च यत्र तत्र न पश्यति ।
ज्ञानभावसमाक्रांता पुण्यहस्ता तपस्विनी ८८।
मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी ।
इयं श्रद्धा महाभाग पश्य पश्य समागता ८९।
बहुबुद्धिसमाक्रांता बहुज्ञानसमाकुला ।
सुभोगासक्तरूपा सा सुस्थिता चारुमंगला ९०।
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी ।
सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा ९१।
गौरवर्णा समायाता माल्यवस्त्रविभूषिता ।
इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता ९२।
हंसचंद्रप्रतीकाशा मुक्ताहारविलंबिनी ।
सर्वाभरणसंभूषा सुप्रसन्ना मनस्विनी ९३।
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम् ।
पुस्तककरा पंकजस्था राजमाना सदैव हि ९४।
एषा प्रज्ञा महाभाग भाग्यवंतं समागता ।
लाक्षारससमावर्णा सुप्रसन्ना सदैव हि ९५।
पीतपुष्पकृतामाला हारकेयूरभूषणा ।
मुद्रिका कंकणोपेता कर्णकुंडलमंडिता ९६।
पीतेन वाससा देवी सदैव परिराजते ।
त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका ९७।
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम् ।
सेयं दया सु संप्राप्ता तव पार्श्वे द्विजोत्तम ९८।
इयं वृद्धा महाप्राज्ञ भावभार्या तपस्विनी ।
मम माता द्विजश्रेष्ठ धर्मोहं तव सुव्रत ९९।
इति ज्ञात्वा शमं गच्छ मामेवं परिपालय ।
दुर्वासा उवाच-
यदि धर्मः समायातो मत्समीपं तु सांप्रतम् १००।
एतन्मे कारणं ब्रूहि किं ते धर्म करोम्यहम् ।
धर्म उवाच-
कस्मात्क्रुद्धोसि विप्रेन्द्र किमेतैर्विप्रियं कृतम् १०१।
तन्मे त्वं कारणं ब्रूहि दुर्वासो यदि मन्यसे ।
दुर्वासा उवाच-
येनाहं कुपितो देव तदिदं कारणं शृणु १०२।
दमशौचैः सुसंक्लेशैः शोधितं कायमात्मनः ।
लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता १०३।
एवं पश्यसि मामेवं दया तेन प्रवर्तते ।
तस्मात्क्रुद्धोस्मि तेद्यैव शापमेवं ददाम्यहम् १०४।
एवं श्रुत्वा तदा तस्य तमुवाच महामतिः ।
धर्म उवाच-
मयि नष्टे महाप्राज्ञ लोको नाशं समेष्यति १०५।
दुःखमूलमहं तात निकर्शामि भृशं द्विज ।
सौख्यं पश्चादहं दद्मि यदि सत्यं न मुंचति १०६।
पापोयं सुखमूलस्तु पुण्यं दुःखेन लभ्यते ।
पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुंचति १०७।
महत्सौख्यं ददाम्येवं परत्र च न संशयः ।
दुर्वासा उवाच-
सुखं येनाप्यते तेन परं दुःखं प्रपद्यते १०८।
तत्तु मर्त्यः परित्यज्य अन्येनापि प्रभुज्यते ।
तत्सुखं को विजानाति निश्चयं नैव पश्यति १०९।
तच्छ्रेयो नैव पश्यामि अन्याय्यं हि कृतं तव ।
येन कायेन क्रियते भुज्यते नैव तत्सुखम् ११०।
अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते ।
तत्सुखं को विजानाति चान्यायं धर्ममेव वा १११।
अन्येन क्रियते क्लेशमन्येनापि सुखं पुनः ।
भुनक्ति पुरुषो धर्म तत्सर्वं श्रेयसा युतम् ११२।
पुण्यं चैव अनेनापि अनेन फलमश्नुते ।
क्रियमाणं पुनः पुण्यमन्येन परिभुज्यते ११३।
तत्सर्वं हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम् ।
धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा ११४।
येन कायेन कुर्वंति तेन दुःखं सहन्ति ते ।
परत्र तेन भुंजंति अनेनापि तथैव च ११५।
इति ज्ञात्वा स धर्मात्मा भवान्समवलोकयेत् ।
यथा चौरा महापापाः स्वकायेन सहंति ते ११६।
दुःखेन दारुणं तीव्रं तथा सुखं कथं नहि ।
धर्म उवाच-
येन कायेन पापाश्च संचरन्ति हि पातकम् ११७।
तेन पीडां सहंत्येव पातकस्य हि तत्फलम् ।
दंडमेकं परं दृष्टं धर्मशास्त्रेषु पंडितैः ११८।
तं धर्मपूर्वकं विद्धि एतैर्न्यायैस्त्वमेव हि ।
दुर्वासा उवाच-
एवं न्यायं न मन्येहं तथैव शृणु धर्मराट् ११९।
शापत्रयं प्रदास्यामि क्रुद्धोहं तव नान्यथा ।
धर्म उवाच-
यदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च १२०।
नैव क्षमसि विप्रेंद्र दासीपुत्रं हि मां कुरु ।
राजानं तु प्रकर्तव्यं चांडालं च महामुने १२१।
प्रसादसुमुखो विप्र प्रणतस्य सदैव हि ।
दुर्वासाश्च ततः क्रुद्धो धर्मं चैव शशाप ह १२२।
दुर्वासा उवाच-।
राजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा ।
गच्छ चांडालयोनिं च धर्म त्वं स्वेच्छया व्रज १२३।
एवं शापत्रयं दत्त्वा गतोसौ द्विजसत्तमः ।
अनेनापि प्रसंगेन दृष्टो धर्मः पुरा किल १२४।
सोमशर्मोवाच-।
धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना ।
तद्रूपं तस्य मे ब्रूहि यदि जानासि भामिनि १२५।
सुमनोवाच-।
भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः ।
विदुरो दासीपुत्रस्तु अन्यं चैव वदाम्यहम् १२६।
यदा राजा हरिश्चंद्रो विश्वामित्रेण कर्षितः ।
तदा चांडालतां प्राप्तः स हि धर्मो महामतिः १२७।
एवं कर्मफलं भुक्तं धर्मेणापि महात्मना ।
दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः १२८।

इति श्रीपद्मपुराणे भूमिखंडे सोमशर्माख्याने सोमशर्म-सुमनासंवादे द्वादशोऽध्यायः १२।