पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१४

सोमशर्मोवाच-
एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम् ।
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् १।
सुमनोवाच-।
भार्गवाणां कुले जातः पिता मम महामते ।
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः २।
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा ।
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ३।
सभासु च मुनीनां तु देवतायतनेषु च ।
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ४।
कौशिकान्वयसंभूतो वेदशर्मा महामतिः ।
पितुर्मम सखा दैवादटमानः समागतः ५।
दुःखेन महताविष्टश्चिंतयानो मुहुर्मुहुः ।
समागतं महात्मानं तमुवाच पिता मम ६।
भवंतं दुःखसंतप्तमिति जानामि सुव्रत ।
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ७।
एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः ।
तमुवाच महात्मानं पितरं मम सुव्रतः ८।
वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम् ।
मम भार्या महासाध्वी पातिव्रत्यपरायणा ९।
अपुत्रा सा हि संजाता मम वंशो न विद्यते ।
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया १०।
एतस्मिन्नंतरे प्राप्तः कश्चित्सिद्धः समागतः ।
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ११।
द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः ।
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः १२।
द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया ।
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम १३।
धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल ।
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः १४।
ततस्तेन कृतं धर्मं संपूर्णं वेदशर्मणा ।
तस्माद्धर्मात्सुसंजातं महत्सौख्यं सपुत्रकम् १५।
तेन संगप्रसंगेन ममैष मतिनिश्चयः ।
यथा कांत तव प्रोक्तं मयैव च परं शुभम् १६।
तस्माच्छ्रुतं महासिद्धात्सर्वसंदेहनाशनम् ।
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा १७।
सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे ।
उभयोर्लक्षणं कांते तत्सर्वं हि वदस्व मे १८।
सुमनोवाच-
सत्य शौच क्षमा शांति तीर्थपुण्यादिकैस्तथा ।
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् १९।
रोगो न जायते तस्य न च पीडा कलेवरे ।
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा २०।
दिव्यरूपधरा भूत्वा गंधर्वा ब्राह्मणास्तथा ।
वेदपाठसमायुक्ता गीतज्ञानविशारदाः २१।
तस्य पार्श्वं समायांति स्तुतिं कुर्वंति चातुलाम् ।
स्वस्थो हि आसने युक्तो देवपूजारतः किल २२।
तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः ।
अग्न्यागारे च गोस्थाने देवतायतनेषु च २३।
आरामे च तडागे च यत्राश्वत्थो वटस्तथा ।
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः २४।
अश्वस्थानं समाश्रित्य गजस्थानगतो नरः ।
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः २५।
संनिधौ ब्राह्मणानां च राजवेश्मगतोथवा ।
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् २६।
मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम् ।
गोग्रहं तु सुसंप्राप्य तथा चामरकंटकम् २७।
शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः ।
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः २८।
मातरं पश्यते पुण्यं पितरं च नरोत्तमः ।
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबांधवम् २९।
बंदीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः ।
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ३०।
गीतं गायंति गंधर्वाः स्तुवंतिस्तावकाः स्तवैः ।
मंत्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ३१।
पितास्वजनवर्गाश्च धर्मात्मानं महामतिम् ।
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ३२।
प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान् ।
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ३३।
धर्मराजो महाप्राज्ञो भवंतं तु समाह्वयेत् ।
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ३४।
तस्य मोहो न च भ्रांतिर्न ग्लानिः स्मृतिविभ्रमः ।
जायते नात्र संदेहः प्रसन्नात्मा स तिष्ठति ३५।
ज्ञानविज्ञानसंपन्नः स्मरन्देवं जनार्दनम् ।
तैः सार्द्धं तु प्रयात्येवं संतुष्टो हृष्टमानसः ३६।
एकत्वं जायते तत्र त्यजतः स्वंकलेवरम् ।
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ३७।
शिबिका तस्य आयाति हंसयानं मनोहरम् ।
विमानमेव चायाति हयो वा गज उत्तमः ३८।
छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा ।
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समंततः ३९।
गीयमानस्तु धर्मात्मा स्तूयमानस्तु पंडितैः ।
बंदिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ४०।
साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः ।
यथादानप्रभावेण फलमाप्नोति तत्र सः ४१।
आरामवाटिकामध्ये स प्रयाति सुखेन वै ।
अप्सरोभिः समाकीर्णो दिव्याभिर्मंगलैर्युतः ४२।
देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति ।
देवाश्च धर्मसंयुक्ता जग्मुः संमुखमेव तम् ४३।
एह्येहि वै महाभाग भुंक्ष्व भोगान्मनोनुगान् ।
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ४४।
स्वस्य पुण्यप्रभावेण भुंक्ते च स्वर्गमेव सः ।
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ४५।
निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै ।
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ४६।
धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते ।
धर्मेण मोदते तत्र पुनः पुण्यं करोति सः ४७।

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने चतुर्दशोऽध्यायः १४।