पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१७

सोमशर्मोवाच-
सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम् ।
कथं पुत्रमहं विंद्यां सर्वज्ञं गुणसंयुतम् १।
वद त्वं मे महाभागे यदि जानासि सुव्रते ।
दानधर्मादिकं भद्रे परत्रेह न संशयः २।
सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् ।
तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम् ३।
सूत उवाच-
एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः ।
एवं करिष्ये कल्याणि तव वाक्यं न संशयः ४।
एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः ।
वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम् ५।
गंगातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् ।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ६।
राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् ।
भक्त्या प्रणम्य विप्रेशं दंडवच्च पुनः पुनः ७।
तमुवाच महातेजा ब्रह्मसूनुरकल्मषः ।
उपाविशासने पुण्ये सुखेन सुमहामते ८।
एवमुक्त्वा स योगींद्रः पुनः प्राह तपोधनम् ।
गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा ९।
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु ।
निरामयोसि चांगेषु धर्मं पालयसे सदा १०।
एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम् ।
किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम ११।
एवं संभाषितं विप्रं विरराम स कुंभजः ।
तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुंगवे १२।
स होवाच महात्मानं वसिष्ठं तपतां वरम् ।
भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा १३।
यदि मे सुप्रियं कार्यं त्वयैव मुनिपुंगव ।
मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम १४।
दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि ।
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे १५।
महामोहेन संमुग्धः प्रियया बोधितो द्विज ।
तयाहं प्रेषितस्तात तव पार्श्वं समातुरः १६।
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् ।
मुक्तिदाता भवस्व त्वं ममसंसारबंधनात् १७।
वसिष्ठ उवाच-
पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबांधवाः ।
पंचभेदास्तु संभेदात्पुरुषस्य भवंति ते १८।
ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः ।
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम १९।
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा २०।
शुद्धिविज्ञानसंपन्नस्तपस्वी वाग्विदां वरः ।
सर्वकर्मसुसंधीरो वेदाध्ययनतत्परः २१।
स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः ।
याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः २२।
विष्णुध्यानपरो नित्यं शांतो दांतः सुहृत्सदा ।
पितृमातृपरोनित्यं सर्वस्वजनवत्सलः २३।
कुलस्य तारको विद्वान्कुलस्य परिपोषकः ।
एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः २४।
अन्ये संबंधसंयुक्ताः शोकसंतापदायकाः ।
एतादृशेन किं कार्यं फलहीनेन तेन च २५।
आयांति यांति ते सर्वे तापं दत्वा सुदारुणम् ।
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम २६।
पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम् ।
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः २७।
वसिष्ठ उवाच-
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा ।
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः २८।
एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान् ।
धर्मं नैव विजानासि सत्यं नैव परिश्रुतम् २९।
दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम् ।
कृता नैव त्वया तीर्थे यात्रा चैव महामते ३०।
एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः ।
पशूनां पालनं सर्व गवां चैव द्विजोत्तम ३१।
महिषीणां तथाऽश्वानां पालनं च पुनः पुनः ।
एवं पू र्वंकृतं कर्म त्वयैव द्विजसत्तम ३२।
विपुलं च धनं तद्वल्लोभेन परिसंचितम् ।
तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा ३३।
पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च ।
कृपां कृत्वा न दत्तं तु भवता धनमेव च ३४।
गोमहिष्यादिकं सर्वं पशूनां संचितं त्वया ।
विक्रीय च धनं विप्र संचितं विपुलं त्वया ३५।
तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि ।
दुष्कालं चिंतितं विप्र मोहितो विष्णुमायया ३६।
कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम ।
निर्दयेन त्वया दानं न दत्तं तु कदाचन ३७।
देवानां पूजनं विप्र भवता न कृतं कदा ।
प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम् ३८।
श्राद्धंकालंतुसंप्राप्यश्रद्धयानकृतंत्वया ।
भार्या वदति ते साध्वी दिनमेनं समागतम् ३९।
श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते ।
त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे ४०।
धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया ।
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः ४१।
पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि ।
तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः ४२।
दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते ।
यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा ४३।
तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया ।
रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिंतसि ४४।
दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि ।
सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च ४५।
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे ।
एवं सहस्रं लक्षं च कोटिरर्बुदमेव च ४६।
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति ।
तव कायं परित्यज्य वृद्धिमायाति सर्वदा ४७।
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया ।
खनितं भूमिमध्ये तु क्षिप्तं पुत्रानजानते ४८।
अन्यमेवमुपायं तु द्रव्यागमनकारणात् ।
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ४९।
खनित्रमंजनं वादं धातुवादमतः परम् ।
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ५०।
स्पर्शंचिंतयसेनित्यंकल्पान्सिद्धिप्रदायकान् ।
प्रवेशं विवराणां तु चिंतमानः सु पृच्छसि ५१।
तृष्णानलेन दग्धेन सुखं नैव प्रगच्छसि ।
तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः ५२।
एवं मुग्धोसि विप्रेंद्र गतस्त्वं कालवश्यताम् ।
दारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ५३।
कथितं नैव वृत्तांतं प्राणांस्त्यक्त्वा गतो यमम् ।
एवं सर्वं मया ख्यातं वृत्तांतं तव पूर्वकम् ५४।
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् ।
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि ५५।
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा ।
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति ५६।
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् ।
स भुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ५७।
विना विष्णोः प्रसादेन दारापुत्रान्न चाप्नुयात् ।
सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम् ५८।
इति श्रीपद्मपुराणेभूमिखंडेएंद्रे सुमनोपाख्यानेसप्तदशोऽध्यायः १७।