पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२६

सूत उवाच-
तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता ।
पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः १।
पुनरूचे महात्मानं कश्यपं मुनिपुंगवम् ।
इंद्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम २।
ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः ।
पुत्रैकं दीयतां कांत सुप्रियाहं यदा विभो ३।
कश्यप उवाच-
निहतौ बलवृत्रौ च मम पुत्रौ महाबलौ ।
अघमाश्रित्य देवेन इंद्रेणापि दुरात्मना ४।
तस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम् ।
वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनि ५।
एवमुक्त्वा स योगींद्रो हस्तं शिरसि वै तदा ।
दत्त्वादित्या सहैवासौ गतो मेरुं तपोवनम् ६।
तपस्तताप सा देवी तपोवननिवासिनी ।
शुचिष्मती सदा भूत्वा पुत्रार्था द्विजसत्तम ७।
ततो देवः सहस्राक्षो ज्ञात्वा उद्यममेव च ।
दित्याश्चैव महाभाग अंतरप्रेक्षकोऽभवत् ८।
पंचविंशाब्दिको भूत्वा देवराड्दैवतोपमः ।
ब्राह्मणस्य च रूपेण तस्याश्चांतिकमागतः ९।
स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम् ।
तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम १०।
तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने ।
ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि ११।
तपसस्तव साहाय्यं करिष्ये नात्र संशयः ।
शुश्रूषति स तां देवीं मातरं तपसान्विताम् १२।
तमिंद्रं सा न जानाति आगतं दुष्टकारिणम् ।
धर्मपुत्रं विजानाति शुश्रूषंतं दिने दिने १३।
अंगं संवाहयेद्देव्याः पादौ प्रक्षालयेत्ततः ।
पत्रं मूलं फलं तत्र वल्कलाजिनमेव च १४।
ददात्येवं स धर्मात्मा तस्यै दित्यै सदैव हि ।
भक्त्या संतोषिता तस्य संतुष्टा तमभाषत १५।
पुत्रे जाते महापुण्ये इंद्रे च निहते सति ।
कुरु राज्यं महाभाग पुत्रेण मम दैवकम् १६।
एवमस्तु महाभागे ते प्रसादाद्भविष्यति ।
तस्याश्चैवांतरं प्रेप्सुरभवत्पाकशासनः १७।
ऊने वर्षशते चास्या ददर्शांतरमच्युतः ।
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् १८।
शय्यांते सा शिरः कृत्वा मुक्तकेशातिविह्वला ।
निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह १९।
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृंतत ।
वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः २०।
स गर्भस्तत्र विप्रेंद्रा इंद्रहस्तगतेन वै ।
रोदमानं महागर्भं तमुवाच पुनः पुनः २१।
शतक्रतुर्महातेजा मा रोदीरित्यभाषत ।
सप्तधा कृतवाञ्छक्रस्तं गर्भं दितिजं पुनः २२।
एकैकं सप्तधा च्छित्त्वा रुदमानं स देवराट् ।
एवं वै मरुतो जातास्ते तु देवा महौजसः २३।
यथा इंद्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः ।
अतिवीर्य महाकायास्तीव्र तेजः पराक्रमाः २४।
एकोना वै बभूवुस्ते पंचाशन्मरुतस्ततः ।
मरुतो नाम ते ख्याता इंद्रमेव समाश्रिताः २५।
भूतानामेव सर्वेषां रोचयंति गणं महत् ।
निकायेषु निकायेषु हरिः प्रादात्प्रजापतिः २६।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै ।
स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः २७।
तपोजिष्णुर्महातेजाः सर्व एकः प्रजापतिः ।
पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि २८।
तस्य सर्वमिदं पुण्यं जगत्स्थावरजंगमम् ।
भूतसर्गमिमं सम्यग्जानतो द्विजसत्तम २९।
नावृत्तिभयमस्तीह परलोकभयं कुतः ।
इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम् ३०।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ।
स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः ३१।
यः शृणोति इमां सृष्टिं स याति परमां गतिम् ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ३२।
इति श्रीपद्मपुराणे भूमिखंडे मरुदुत्पत्तिर्नाम षड्विंशोऽध्यायः २६।