अष्टाविंशतितमोऽध्यायः

ऋषय ऊचुः-
विस्तरेण समाख्याहि जन्म तस्य महात्मनः
पृथोश्चैव महाभाग श्रोतुकामा वयं पुनः १
राज्ञा तेन यथा दुग्धा इयं धात्री महात्मना
पुनर्देवैश्च पितृभिर्मुनिभस्तत्त्ववेदिभिः २
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः
शैलैश्चैव पिशाचैश्च गंधर्वैः पुण्यकर्मभिः ३
ब्राह्मणैश्च तथा सिद्धै राक्षसैर्भीमविक्रमैः
पूर्वमेव यथा दुग्धा अन्यैश्च सुमहात्मभिः ४
तेषामेव हि सर्वेषां विशेषं पात्रधारणम्
क्षीरस्यापि विधिं ब्रूहि विशेषं च महामते ५
वेनस्यापि नृपस्यैव पाणिरेव महात्मनः
ऋषिभिर्मथितः पूर्वं स कस्मादिह कारणात् ६
क्रुद्धश्चैव महापुण्यैः सूतपुत्र वदस्व नः
विचित्रेयं कथा पुण्या सर्वपापप्रणाशिनी ७
श्रोतुकामा महाभाग तृप्तिर्नैव प्रजायते
सूत उवाच-
वैन्यस्य हि पृथोश्चैव तस्य विस्तरमेव च ८
जन्मवीर्यं तथा क्षेत्रं पौरुषं द्विजसत्तमाः
प्रवक्ष्यामि यथा सर्वं चरित्रं तस्य धीमतः ९
शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः
अभक्ताय न वक्तव्यमश्रद्धाय शठाय च १०
सुमूर्खाय सुमोहाय कुशिष्याय तथैव च
श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः ११
अन्यथा पठते यो हि निरयं च प्रयाति हि
भवंतो भावसंयुक्ताः सत्यधर्मपरायणाः १२
भवतामग्रतः सर्वं चरित्रं पापनाशनम्
संप्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः १३
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च संमितम्
रहस्यमृषिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः १४
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम्
ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम् १५
सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् १६
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्
एवं फलं समाप्नोति पठनाच्छ्रवणादपि १७
पृथोर्जन्मचरित्रं च पवित्रं पापनाशनम्
धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः १८
अत्रिवंशसमुत्पन्नः पूर्वमत्रिसमः प्रभुः
स्रष्टा सर्वस्य धर्मस्य अंगो नाम प्रजापतिः १९
य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः
धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते २०
मृत्योः कन्या महाभागा सुनीथा नाम नामतः
तां तु अंगो महाभागः सुनीथामुपयेमिवान् २१
तस्यामुत्पादयामास वेनं धर्मप्रणाशनम्
मातामहस्य दोषेण वेनः कालात्मजात्मजः २२
निजधर्मं परित्यज्य अधर्मनिरतोभवत्
कामाल्लोभान्महामोहात्पापमेव समाचरत् २३
वेदाचारमयं धर्मं परित्यज्य नराधिपः
अन्ववर्तत पापेन मदमत्सरमोहितः २४
वेदाध्यायं विना लोके प्रावर्तंत तदा जनाः
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ २५
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः
इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः २६
नाध्येतव्यं न होतव्यं न देयं दानमेव च
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः २७
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः २८
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि
इत्यब्रवीत्सदा वेनो ह्यहं विष्णुः सनातनः २९
अहं ब्रह्मा अहं रुद्रो मित्र इंद्रः सदागतिः
अहमेव प्रभोक्ता च हव्यं कव्यं न संशयः ३०
अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः
ऊचुस्ते संगताः सर्वे राजानं पापचेतनम् ३१
ऋषय ऊचुः-
राजा हि पृथिवीनाथः प्रजां पालयते सदा
धर्ममूर्तिः स राजेंद्र तस्माद्धर्मं हि रक्षयेत् ३२
वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम्
अधर्मं कुरु मा यागे नैष धर्मः सतां गतिः ३३
कुरु धर्मं महाराज सत्यं पुण्यं समाचर
प्रजाहं पालयिष्यामि इति ते समयः कृतः ३४
तांस्तथाब्रुवतः सर्वान्महर्षीनब्रवीत्तदा
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थकम् ३५
वेन उवाच-
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया
श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि ३६
प्रभवं सर्वभूतानां धर्माणां च विशेषतः
संमूढा न विदुर्नूनं भवंतो मां विचेतसः ३७
इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा
द्यां भुवं चैव रुंधेयं नात्र कार्या विचारणा ३८
यदा न शक्यते मोहादवलेपाच्च पार्थिव
अपनेतुं तदा वेनं ततः क्रुद्धा महर्षयः ३९
विस्फुरंतं तदा वेनं बलाद्गृह्य ततो रुषा
वेनस्य तस्य सव्योरुं ममंथुर्जातमन्यवः ४०
कृष्णांजनचयोपेतमतिह्रस्वं विलक्षणम्
दीर्घास्यं च विरूपाक्षं नीलकंचुकवर्चसम् ४१
लंबोदरं व्यूढकर्णमतिभीतं दुरोदरम्
ददृशुस्ते महात्मानो निषीदेत्यब्रुवंस्ततः ४२
तेषां तद्वचनं श्रुत्वा निषसाद भयातुरः
पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः ४३
निषादाश्च किराताश्च भिल्लानाहलकास्तथा
भ्रमराश्च पुलिंदाश्च ये चान्ये म्लेच्छजातयः ४४
पापाचारास्तु ते सर्वे तस्मादंगात्प्रजज्ञिरे
अथ ते ऋषयः सर्वे प्रसन्नमनसस्ततः ४५
गतकल्मषमेवं तं जातं वेनं नृपोत्तमम्
ममंथुर्दक्षिणं पाणिं तस्यैव च महात्मनः ४६
मथिते तस्य पाणौ तु संजातं स्वेदमेव हि
पुनर्ममंथुस्ते विप्रा दक्षिणं पाणिमेव च ४७
सुकरात्पुरुषो जज्ञे द्वादशादित्यसन्निभः
तप्तकांचनवर्णांगो दिव्यमाल्यांबरावृतः ४८
दिव्याभरणशोभांगो दिव्यगंधानुलेपनः
मुकुटेनार्कवर्णेन कुंडलाभ्यां विराजते ४९
महाकायो महाबाहू रूपेणाप्रतिमो भुवि
खड्गबाणधरो धन्वी कवची च महाप्रभुः ५०
सर्वलक्षणसंपन्नः सर्वालंकारभूषणः
तेजसा रूपभावेन सुवर्णैश्च महामतिः ५१
दिवि इंद्रो यथा भाति भुवि वेनात्मजस्तथा
तस्मिञ्जाते महाभागे देवाश्च ऋषयोमलाः ५२
उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्ज्वलः ५३
आद्यमाजगवं नाम धनुर्गृह्य महावरम्
शरान्दिव्यांश्च रक्षार्थे कवचं च महाप्रभम् ५४
जाते सति महाभागे पृथौ वीरे महात्मनि
संप्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम ५५
सर्वतीर्थानि तोयानि पुण्यानि विविधानि च
तस्याभिषेके विप्रेंद्राः सर्व एव प्रतस्थिरे ५६
पितामहाद्या देवास्तु भूतानि विविधानि च
स्थावराणि चराण्येव अभ्यषिंचन्नराधिपम् ५७
महावीरं प्रजापालं पृथुमेव द्विजोत्तम
पृथुर्वैन्यो राजराज्ये अभिगम्य चराचरैः ५८
देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः
राज्ञां समधिराज्ये वै पृथुर्वैन्यः प्रतापवान् ५९
तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरंजिताः
तेनानुरंजिताः सर्वा मुमुदिरे सुखेन वै ६०
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत
प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम ६१
आपस्तस्तंभिरे सर्वा भयात्तस्य महात्मनः
दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः ६२
ध्वजभंगं न चक्रुस्ते गिरयः सर्व एव ते
अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः ६३
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान्
कुर्वंति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे ६४
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ६५
सर्वे सुखेन जीवंति लोका धर्मपरायणाः
तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि ६६
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे
सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि ६७
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः
पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ६८
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः
शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः ६९
सर्वशास्त्रार्थवेत्तासावग्निहोत्रमुपासते
दानाध्ययनसंपन्नो ब्रह्माचारपरायणः ७०
देवानां ब्राह्मणानां च पूजनाभिरतः सदा
याचकस्तावकैः पुण्यैर्वेदमंत्रैर्यजेत्किल ७१
ब्रह्माचारपरो नित्यं संबंधं ब्राह्मणैः सह
एवं स मागधो जज्ञे वेदाध्ययनवर्जितः ७२
बंदिनश्चारणाः सर्वे ब्रह्माचारविवर्जिताः
ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवंति ते ७३
स्तवनार्थमुभौ सृष्टौ निपुणौ सूतमागधौ
तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ७४
कर्मैतदनुरूपं च यादृशोयं नराधिपः
तावूचतुस्तदा सर्वांस्तानृषीन्बंदिमागधौ ७५
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ७६
कर्मणा येन कुर्यावः स्तोत्रमस्य महात्मनः
जानीवस्तन्न विप्रेंद्रा अविज्ञातगुणस्य हि ७७
भविष्यैस्तैर्गुणैः पुण्यैः स्तोतव्योयं नरोत्तमः
कृतवान्यानि कर्माणि पृथुरेव महायशाः ७८
ऊचुस्ते मुनयः सर्वे गुणान्दिव्यान्महात्मनः
सत्यवाञ्ज्ञानसंपन्नो बुद्धिमान्ख्यातविक्रमः ७९
सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी
धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः ८०
प्रियवाक्सत्यवादी च धान्यवान्धनवान्गुणी
गुणज्ञः सगुणग्राही धर्मज्ञः सत्यवत्सलः ८१
सर्वगः सर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः
प्रज्ञावान्सुस्वरश्चैव वेदवेदांगपारगः ८२
धाता गोप्ता प्रजानां स विजयी समरांगणे
राजसूयादिकानां तु यज्ञानां राजसत्तमः ८३
आहर्ता भूतले चैकः सर्वधर्मसमन्वितः
एते गुणा अस्य चांगे भविष्यंति महात्मनः ८४
ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सूतमागधौ
गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः ८५
तदा प्रभृति वै लोकास्तवैस्तुष्टा महामते
पुरतश्च भविष्यंति दातारः स्तावनैर्गुणैः ८६
ततः प्रभृति लोकेस्मिन्स्तवेषु द्विजसत्तमाः
आशीर्वादाः प्रयुज्यंते तेषां द्रविणमुत्तमम् ८७
सूताय मागधायैव बंदिने च महोदयम्
चारणाय ततः प्रादात्तैलंगं देशमुत्तमम् ८८
पृथुः प्रसादाद्धर्मात्मा हैहयं देशमेव च
रेवातीरे पुरं कृत्वा स्वनाम्ना नृपनंदनः ८९
ब्राह्मणेभ्यो द्विजश्रेष्ठ यजन्दाता पृथुः पुरा
सर्वज्ञं सर्वदातारं धर्मवीर्यं नरोत्तमम् ९०
तं ददृशुः प्रजाः सर्वा मुनयश्च तपोमलाः
ऊचुः परस्परं पुण्या एष राजा महामतिः ९१
देवादीनां वृत्तिदाता अस्माकं च विशेषतः
प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति ९२
इयं धात्री महाप्राज्ञा उप्तं बीजं पुरा किल
जीवनार्थं प्रजाभिस्तु ग्रासयित्वा स्थिराभवत् ९३
ततः पृथुं द्विजश्रेष्ठ प्रजाः समभिदुद्रुवुः
विधत्स्वेति सुवृत्तिं नो मुनीनां वचनं तदा ९४
ग्रासयित्वा तदान्नानि पृथ्वी जाता सुनिश्चला
भयं प्रजानां सुमहत्स दृष्ट्वा राजसत्तमः ९५
महर्षिवचनात्सोपि प्रगृह्य सशरं धनुः
अभ्यधावत वेगेन पृथ्वीं क्रुद्धो नराधिपः ९६
कौंजरं रूपमास्थाय भयात्तस्य तु मेदिनी
वनेषु दुर्गदेशेषु गुप्ता भूत्वा चचार सा ९७
न पश्यति महाप्राज्ञः कुरूपं द्विजसत्तमाः
आचचक्षुर्महाप्राज्ञं कुंजरं रूपमास्थिता ९८
ततः कुंजररूपांतामभिदुद्राव पार्थिवः
ताड्यमाना च सा तेन निशितैर्मार्गणैस्ततः ९९
हरिरूपं समास्थाय पलायनपराभवत्
हरेरूपं समास्थाय अभिदुद्राव पार्थिवः १००
सोतिक्रुद्धो महाप्राज्ञो रोषारुणसुलोचनः
सुबाणैर्निशितैस्तीक्ष्णैराजघान स मेदिनीम् १०१
आकुलव्याकुला जाता बाणाघातहता तदा
माहिषं रूपमास्थाय पलायनपराभवत् १०२
अभ्यधावत वेगेन बाणपाणिर्धनुर्धरः
सा गौर्भूत्वा द्विजश्रेष्ठा स्वर्गमेव गता ध्रुवम् १०३
ब्रह्मणः शरणं प्राप्ता विष्णोश्चैव महात्मनः
रुद्रादीनां च देवानां त्राणस्थानं न विंदति १०४
अलभंती भृशं त्राणं वैन्यमेवान्वविंदत
तस्य पार्श्वं पुनः प्राप्ता बाणघातसमाकुला १०५
बद्धांजलिपुटाभूत्वा तं पृथुं वाक्यमब्रवीत्
त्राहित्राहीति राजेंद्र सा राजानमभाषत १०६
अहं धात्री महाभाग सर्वाधारा वसुंधरा
निहतायां मयि नृप निहतं लोकसप्तकम् १०७
कृतांजलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा
उवाच चैनं राजानमवध्या स्त्री सदा नृप १०८
स्त्रीणां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः
गवां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः १०९
मया विना महाराज कथं धारयसे प्रजाः
अहं यदास्थिरा राजंस्तदा लोकाश्चराचराः ११०
स्थिरत्वं यांति ते सर्वे स्थिरीभूता यदा ह्यहम्
मां विना तु इमे लोका विनश्येयुश्चराचराः १११
ततः प्रजा विनश्येयुर्मम नाशे समागते
कथं धारयिता चासि प्रजा राजन्मया विना ११२
मयि लोकाः स्थिरा राजन्मयेदं धार्यते जगत्
मद्विनाशे विनश्येयुः प्रजाः सर्वा न संशयः ११३
न मामर्हसि वै हंतुं श्रेयश्चेत्त्वं चिकीर्षसि
प्रजानां पृथिवीपाल शृणु देव वचो मम ११४
उपायैश्च महाभाग सुसिद्धिं यांत्युपक्रमाः
समालोक्य ह्युपायं त्वं प्रजा येन धरिष्यति ११५
मां हत्वा त्वं महाराज धारणे पालने सदा
पोषणे च महाप्राज्ञ मद्विना हि कथं नृप ११६
धरिष्यसि प्रजां चेमां कोपं यच्छ त्वमात्मनः
अन्नमयी भविष्यामि धरिष्यामि प्रजामिमाम् ११७
अहं नारी अवध्या च प्रायश्चित्ती भविष्यसि
अवध्यां तु स्त्रियं प्राहुस्तिर्यग्योनिगतामपि ११८
विचार्यैवं महाराज न धर्मं त्यक्तुमर्हसि
एवं नानाविधैर्वाक्यैरुक्तो धात्र्या नराधिपः ११९
कोपमेनं महाराज त्यज दारुणमेव हि
प्रसन्ने त्वयि राजेंद्र तदा स्वस्था भवाम्यहम् १२०
एवमुक्तस्तया राजा पृथुर्वैन्यः प्रजापतिः
तामुवाच महाभागां धरित्रीं द्विजसत्तमाः १२१

इति श्रीपद्मपुराणे भूमिखंडे पृथूपाख्यानेऽष्टाविंशोऽध्यायः २८