पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४२

द्विचत्वारिंशत्तमोऽध्यायः
सख्य ऊचुः-
सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः ।
त्वया प्रोक्तं महाभागे वद नः सत्यमेव च १।
सुकलोवाच-
अयोध्यायां महाराजः स आसीद्धर्मकोविदः ।
मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः २।
इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः ।
तस्य भार्या सदा पुण्या पतिव्रतपरायणा ३।
तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि च ।
वेदराजस्य वीरस्य काशीशस्य महात्मनः ४।
सुदेवा नाम वै कन्या सत्याचारपरायणा ।
उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ५।
सुदेवा चारुसर्वांगी सत्यव्रतपरायणा ।
तया सार्द्धं स वै राजा जनानां पुण्यनायकः ६।
स रेमे नृपशार्दूलो नित्यं च प्रियया तया ।
एकदा तु महाराजस्तया सार्द्धं वनं ययौ ७।
गंगारण्यं समासाद्य मृगयां क्रीडते सदा ।
सिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा ८।
क्रीडमानस्य तस्याग्रे वराहश्च समागतः ।
बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ९।
एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठिता ।
वराहैः शूकरैस्तस्य तमेव परिवारिता १०।
दृष्ट्वा च राजराजेंद्रं दुर्जयं मृगयारतम् ।
पर्वताधारमाश्रित्य भार्यया सह शूकरः ११।
तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून् ।
ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् १२।
तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरः ।
कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः १३।
क्रीडते मृगयां कांते मृगान्संहरते बहून् ।
स मां दृष्ट्वा महाराज एष्यते नात्र संशयः १४।
अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम् ।
ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति १५।
हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः ।
श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः १६।
प्रिये करिष्यते घातं ममाप्येवं न संशयः १७।
शूकर्युवाच-
यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून् ।
एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः १८।
त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः ।
दृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम् १९।
तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम् ।
यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान् २०।
सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरे ।
सदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले २१।
तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम् ।
दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः २२।
अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः ।
युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण २३।
जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम् ।
तेनाहतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य २४।
ममांगभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथः ।
तृप्ता भविष्यंति सुलोकदेवता अस्मादयंचागतो वज्रपाणिः २५।
अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुंदरि कीर्तिरुत्तमा ।
तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य २६।
नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषु ।
पापाद्भीतो गतः कांतेधर्मं दृष्ट्वा स्थितोह्यहम् २७।
न जाने पातकं पूर्वमन्यजन्मनि चार्जितम् ।
येनाहं शौकरीं योनिं गतोऽहं पापसंचयात् २८।
क्षालयिष्याम्यहं घोरं पूर्वपातकसंचयम् ।
बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः २९।
पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुंबबालकम् ।
गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज ३०।
ममस्नेहं परित्यज्य हरिरेष समागतः ।
अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ३१।
दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम् ।
उद्घाटितकपाटं तु यास्यामि सुमहादिवम् ३२।
सुकलोवाच-
तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः ।
उवाच तत्प्रिया सख्यः सीदमानांतरा तदा ३३।
शूकर्युवाच-
यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतः ।
मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः ३४।
त्वयैवालंकृतो यूथो भवता परिशोभते ।
त्वां विनायं महाभाग कीदृग्यूथो भविष्यति ३५।
तवैव स्वबलेनापि गर्जमानाश्च शूकराः ।
विचरंति गिरौ कांत तनया मम बालकाः ३६।
कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसा ।
दुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च ३७।
न कुर्वंति भयं तीव्रं सिंहानामिह पर्वते ।
मनुष्याणां महाबाहो पालितास्तव तेजसा ३८।
त्वया त्यक्ता अमी सर्वे बालका मम दारकाः ।
दीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः ३९।
नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाः ।
पतिहीना यथा नारी शोभते नैव शोभना ४०।
अलंकृता यथा दिव्यैरलंकारैः सकांचनैः ।
परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः ४१।
श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा ।
चंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम् ४२।
दीपहीनं यथा गेहं नैव भाति कदाचन ।
त्वां विनायं तथा यूथो नैव शोभेत मानद ४३।
आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथा ।
मंत्रहीनो यथा राजा तथायं नैव शोभते ४४।
कैवर्तेन विना नौर्वा संपूर्णा परिसागरे ।
न भात्येवं यथा सार्थः सार्थवाहेन वै विना ४५।
सेनाध्यक्षेण च विना यथा सैन्यं न भाति च ।
त्वां विना वै तथा सैन्यं शूकराणां महामते ४६।
दीनो भविष्यति तथा वेदहीनो यथा द्विजः ।
मयि भारं कुटुंबस्य विनिवेश्य प्रगच्छसि ४७।
मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी ।
त्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर ४८।
त्वयैव सहिता स्वर्गं भूमिं वाथ महामते ।
नरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम् ४९।
त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम् ।
आवां व्रजाव यूथेश दुर्गमेवं सुकंदरम् ५०।
जीवितव्यं परित्यज्य रणाय परिगम्यते ।
तत्र को दृश्यते लाभो मरणे वद सांप्रतम् ५१।
वाराह उवाच-
वीराणां त्वं न जानासि सुधर्मं शृणु सांप्रतम् ।
युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम् ५२।
देहि मे योधनं संख्ये युद्धार्थ्यहं समागतः ।
परेण याचितं युद्धं न ददाति यदा नरः ५३।
कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभे ।
कुंभीपाके तु नरके वसेद्युगसहस्रकम् ५४।
क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः ।
तद्युद्धं दीयमानेन रणभूमिगतेन वै ५५।
निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुंजते ।
स वा हतो युध्यमानः पौरुषेणातिनिर्भयः ५६।
वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुंजते ।
यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु ५७।
वीरलोके वसेत्तावद्देवाचारैर्महीयते ।
मनुपुत्रः समायात अयं वीरो न संशयः ५८।
संग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम् ।
युद्धातिथिः समायातो विष्णुरूपः सनातनः ५९।
सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे ।
शूकर्युवाच-
यदा युद्धं त्वया देयं राज्ञे चैव महात्मने ६०।
ततोऽहं पौरुषं कांत पश्यामि तव कीदृशम् ।
एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता ६१।
उवाच पुत्रका यूयं शृणुध्वं वचनं मम ।
युद्धातिथिः समायातो विष्णुरूपः सनातनः ६२।
मया तत्र प्रगंतव्यं यत्रायं हि गमिष्यति ।
यावत्तिष्ठति वै नाथो भवतां प्रतिपालकः ६३।
यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम् ।
सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान् ६४।
मया तत्रैव गंतव्यं यत्रैष हि गमिष्यति ।
भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति ६५।
एते पितृव्यकाः सर्वे भवतां त्राणकारकाः ।
दूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः ६६।
पुत्रा ऊचुः-
अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः ।
भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ६७।
युवाभ्यां हि अकस्माद्वै इदमुक्तं भयंकरम् ।
तन्नो हि कारणं मातर्वद सत्यमिहैव हि ६८।
शूकर्युवाच-।
अयं राजा महारौद्रः कालरूपः समागतः ।
क्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने ६९।
इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः ।
संहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः ७०।
पुत्रा ऊचुः-।
मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः ।
महारौद्रं सुघोरं तु नरकं प्रतिपद्यते ७१।
मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणः ।
मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः ७२।
पूयं नरकमेतीह कृमिदुर्गंधसंकुलम् ।
मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च ७३।
एवं विषादः संजातस्तेषां धर्मार्थसंयुतः ।
व्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः ७४।
साहसोत्साहसंपन्नाः पश्यंति नृपनंदनम् ।
नदंतः पौरुषैर्युक्ताः क्रीडमाना वने तदा ७५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे द्विचत्वारिंशत्तमोऽध्यायः ४२।