पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४५

पंचचत्वारिंशत्तमोऽध्यायः
सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे ।
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः १।
चतुरश्च ततो डिंभान्कृत्वा स्थित्वा च शूकरी ।
कुटुंबेन समं कांतं हतं दृष्ट्वा महाहवे २।
भर्तुर्मे चिंतितं प्राप्तमृषिदेवैश्च पूजितः ।
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ३।
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति ।
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिंतितम् ४।
यदा जीवंति मे बालाश्चत्वारो वंशधारकाः ।
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ५।
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम् ।
इति चिंतापरा भूत्वा दृष्ट्वा पर्वतसंकटम् ६।
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते ।
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिंतितम् ७।
तानुवाच महाराज पुत्रान्प्रति सुमोहितान् ।
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ८।
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम् ।
संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ९।
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून् ।
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकंदरम् १०।
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः ।
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ११।
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत ।
संयास्यामि महापापा त्रयो गच्छंतु मे सुताः १२।
कनीयसस्त्रयस्त्वेव गता गिरिवनांतरम् ।
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् १३।
तेजसा सुबलेनापि गर्जंतौ च पुनःपुनः ।
अथ ते लुब्धकाः शूराः संप्राप्ता वातरंहसः १४।
पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप ।
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ १५।
लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः ।
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः १६।
मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः ।
दंष्ट्रया निहताः केचित्केचित्तुंडेन घातिताः १७।
संजघान खुराग्रैश्च शूराश्च पतिता रणे ।
युयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना १८।
पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः ।
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् १९।
निशितेनापि बाणेन अर्द्धचंद्रानुकारिणा ।
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना २०।
ममार सहसा भूमौ पपात स हि शूकरः ।
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् २१।
तया च निहताः शूरास्तुंडघातैर्महीतले ।
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप २२।
द्रावयंती महत्सैन्यं दंष्ट्रया सूकरी ततः ।
यथा कृत्या समुद्भूता महाभयविधायिका २३।
तमुवाच ततो राज्ञी देवराजसुतोपमम् ।
अनया निहतं राजन्महत्सैन्यं तवैव हि २४।
कस्मादुपेक्षसे कांत तन्मे त्वं कारणं वद ।
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् २५।
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल ।
तस्मान्न घातयेन्नारीं प्रेषयेहं न कंचन २६।
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुंदरि ।
एवमुक्त्वा तदा राजा विरराम महीपतिः २७।
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम् ।
कुर्वंतीं कदनं तेषां दुःसहां सुभटैरपि २८।
आविव्याध सुवेगेन बाणेन निशितेन हि ।
संलग्नेन तु बाणेन शोणितेन परिप्लुता २९।
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला ।
तुंडेनापि हतः संख्ये झार्झरः स तया पुनः ३०।
पतमानेन तेनापि झार्झरेण तदा हता ।
खड्गेन निशितेनापि पपात विदलीकृता ३१।
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता ।
दुःखेन महताविष्टा जीवमाना महीतले ३२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचचत्वारिंशोऽध्यायः ४५।