षट्चत्वारिंशोऽध्यायः
सुकलोवाच-
श्वसंतीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम्
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति १
अभिषिच्य मुखं तस्याः शीतलेनोदकेन च
पुनः सर्वांगमेवापि दुःखितां रणशालिनीम् २
पुण्येन शीततोयेन सा उवाचाभिषिंचतीम्
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ३
सुखं भवतु ते देवि अभिषिक्ता त्वया यदि
संपर्काद्दर्शनात्तेद्य गतो मे पापसंचयः ४
तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम्
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ५
पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम्
स्वरव्यंजनसंपन्नं संस्कृतमुत्तमं मम ६
हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ७
पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत्
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ८
तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ९
तामुवाच ततो राजा सुदेवां सुप्रियां तदा
पृच्छ चैनां शुभां कांते का चेयं तु भविष्यति १०
श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम्
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ११
पशुयोनिगता त्वं वै भाषसे मानुषं वचः
सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम् १२
भर्तुश्चापि महाराज भटस्यास्य महात्मनः
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः १३
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद
एवमुक्त्वा महाभागा विरराम नृपप्रिया १४
शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् १५
अयमेष महाप्राज्ञो गंधर्वो गीतपंडितः
रंगविद्याधरो नाम सर्वशास्त्रार्थकोविदः १६
मेरुं गिरिवरश्रेष्ठं चारुकंदरनिर्झरम्
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः १७
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो १८
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा
स्वरतालसमोपेतं सुस्वरं चारुहासिनि १९
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः
गायंतं तमुवाचेदं गीतविद्याधरं प्रति २०
भवद्गीतेन दिव्येन देवा मुह्यंति नान्यथा
सुस्वरेण सुपुण्येन तालमानेन पंडित २१
लययुक्तेन भावेन मूर्च्छना सहितेन च
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत २२
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत्
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् २३
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा
गीतेनानेन दिव्येन सर्वास्तुष्यंति देवताः २४
शंभुश्चापि समानीतो गीतध्वनिरतो द्विज
गीतं सर्वरसं प्रोक्तं गीतमानंददायकम् २५
शृंगाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः
शोभामायांति गीतेन वेदाश्चत्वार उत्तमाः २६
गीतेन देवताः सर्वास्तोषमायांति नान्यथा
तदेवं निन्दसे गीतं मामेवं परिचालयेः २७
अन्यायोऽयं महाभाग तवैव इह दृश्यते
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् २८
शृणु त्वं मामकं वाक्यं मानं त्यज महामते
नाहं गीतं प्रकुत्सामि गीतं वंदामि नान्यथा २९
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः
प्राणिनां सिद्धिमायांति मनसा निश्चलेन च ३०
तपश्च तद्वन्मंत्राश्च सुसिद्ध्यंत्येकचिंतया
हृषीकाणां महावर्गश्चपलो मम संमतः ३१
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ३२
यत्र शब्दं न रूपं च युवती नैव तिष्ठति
मुनयस्तत्र गच्छंति तपःसिद्ध्यर्थमेव हि ३३
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ३४
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे
गीतविधाधर उवाच-
इंद्रियाणां बलं वर्गं जितं येन महात्मना ३५
स जयी कथ्यते योगी स च वीरः ससाधकः
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ३६
चलते नैव यो ध्यानात्स धीरस्तपसाधकः
भवांस्तु तेजसा हीन इंद्रियैर्विजितो यतः ३७
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे
वर्जयंति वनं सर्वे हीनवीर्या न संशयः ३८
अयं साधारणो विप्र वनदेशो न संशयः
देवानां सर्वजीवानां यथा मम तथा तव ३९
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्
यूयं गच्छंतु तिष्ठंतु यद्भव्यं तत्तु नान्यथा ४०
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ४१
चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत्
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ४२
तपश्चचार धर्मात्मा योगासनगतः सदा
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ४३
सर्वेन्द्रियाणि संयम्य मनसा सममेव च
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ४४
सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुंगवे
कालादिष्टेन तेनापि गीतविद्याधरेण च ४५
चिंतितं सुचिरं कालं न दृष्टोयं भयान्मम
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ४६
ज्ञात्वा पद्मात्मजसुतमेकांतवनशालिनम्
गतो वराहरूपेण तस्याश्रममनुत्तमम् ४७
आसनस्थं महात्मानं तेजोज्वालासमाविलम्
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ४८
धर्षयेन्नियतं विप्रं तुंडाग्रेण कुचेष्टया
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ४९
मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ५०
पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते
एकदा तु तथायाते तेन रूपेण वै पुनः ५१
अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ५२
तथा तमागतं विप्रो गीतविद्याधरं नृप
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ५३
ज्ञात्वा तस्य तु वृत्तांतं मामेवं परिचालयेत्
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ५४
एवं ज्ञात्वा महात्मानं गंधर्वाधममेव हि
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ५५
यस्माच्छूकररूपेण मामेवं परिचालयेः
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ५६
शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम्
तमुवाच महात्मानं कंपमानो वरानने ५७
शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया
तप एव हि कुर्वन्सन्दारुणं मुनिपुंगवः ५८
तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ५९
पशुयोनिं गतं शक्र मामेवं परिरक्षय
ज्ञात्वा तस्य स वृत्तांतं गीतविद्याधरस्य च ६०
तेन सार्धंगतश्चेंद्रस्तं मुनिं पर्यभाषत
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ६१
क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम्
इति संप्रार्थितो विप्रो महेंद्रेणाह हृष्टधीः ६२
पुलस्त्य उवाच-
वचनात्तव देवेश क्षंतव्यं च मयापि हि
भविष्यति महाराज मनुपुत्रो महाबलः ६३
इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ६४
तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः
एतत्ते सर्ववृत्तांतं शूकरस्य निवेदितम् ६५
आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि
मया च पातकं घोरं कृतं यत्पापया पुरा ६६
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
षट्चत्वारिंशोऽध्यायः ४६


वराहोपरि टिप्पणी