सप्तचत्वारिंशोऽध्यायः
सुकलोवाच-
सुदेवा चारुसर्वांगी तामुवाचाथ सूकरीम्
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् १
एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे २
शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि
निहता खड्गबाणैश्च पतिता रणमूर्धनि ३
मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुंदरि ४
पुण्योदकेन शीतेन तव हस्तगतेन वै
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ५
यथा विनाशं तेजोभिरंधकारः प्रयाति सः
तथा तवाभिषेकेण मम पापं गतं शुभे ६
प्रसादात्तव चार्वंगि लब्धं ज्ञानं पुरातनम्
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ७
श्रूयतामभिधास्यामि पूर्वं वृत्तांतमात्मनः
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ८
कलिंगाख्ये महादेशे श्रीपुरंनाम पत्तनम्
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ९
वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः १०
वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी
धनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः ११
तस्याहं तनया भद्रे सोदरैः स्वजनबांधवैः
अलंकारैस्तु शृंगारैर्भूषितास्मि वरानने १२
सुदेवानाम मे तातश्चकार स महामतिः
तस्याहं दयिता नित्यं पितुश्चापि महामते १३
रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी
रूपयौवनगर्वेण मत्ताहं चारुहासिनी १४
अहं कन्या सुरूपा वै सर्वालंकारशोभिता
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः १५
मामेवं याचमानास्ते विवाहार्थे वरानने
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम १६
स्नेहाच्चैव महाभागे मुमोह स महामतिः
न दत्ताहं तदा तेन पित्रा चैव महात्मना १७
संप्राप्तं यौवनं बाले मयि भावसमन्वितम्
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता १८
पितरं मे उवाचाथ कस्मात्कन्या न दीयते
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने १९
देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम्
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः २०
मातरं मे महाभागे श्रूयतां वचनं मम
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि २१
यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः २२
मम प्राणप्रिया चैषा सुदेवा नात्र संशयः
एवमूचे मदर्थे स वसुदत्तः पिता मम २३
कौशिकस्य कुले जातः सर्वविद्याविशारदः
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः २४
वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम्
भिक्षार्थं द्वारमायांतं पितृमातृविवर्जितम् २५
तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः
तं प्रोवाच पिता एवं को भवान्वै भविष्यति २६
किं ते नाम कुलं गोत्रमाचारं वद सांप्रतम्
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः २७
कौशिकस्यान्वये जातो वेदवेदांगपारगः
शिवशर्मेति मे नाम पितृमातृविवर्जितः २८
संति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः
एवं कुलं समाख्यातमाचारः कुलसंभवः २९
एवं सर्वं समाख्यातं पितरं शिवशर्मणा
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ३०
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा
पितृगेहे वसाम्येका तेन सार्धं महात्मना ३१
नैव शुश्रूषितो भर्ता मया स पापया तदा
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ३२
अंगसंवाहनं तस्य न कृतं हि मया कदा
रतिभावेन स्नेहेन वचनेन मया शुभे ३३
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया
पुंश्चलीनां प्रसंगेन तद्भावं हि गता शुभे ३४
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ३५
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ३६
न किंचिद्वक्ति मां सोपि क्षमते दुष्कृतं मम
वार्यमाणा कुटुंबेन अहमेवं सुपापिनी ३७
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः
पितामाता च मे सर्वे मम पापेन दुःखिताः ३८
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ३९
गते भर्तरि मे तातः संजातश्चिंतयान्वितः
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ४०
मम माता उवाचैनं भर्तारं दुःखपीडितम्
कस्माच्चिंतयसे कांत वद दुःखं ममाग्रतः ४१
वसुदत्त उवाचैनां मातरं मम नंदने
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ४२
इयं पापसमाचारा निर्घृणा पापचारिणी
अनया हि परित्यक्तः शिवशर्मा महामतिः ४३
समस्तस्य कुटुंबस्य दाक्षिण्येन महामतिः
ममायं स द्विजः कांते सुदेवां नैव भाषते ४४
वसते सौम्यभावेन नैव निंदति कुत्सति
सुदेवां पापसंचारां स वै पंडितबुद्धिमान् ४५
भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी
अहमेनां परित्यज्य व्रजामि गृहवासिनि ४६
ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कांत सुताया गुणदूषणम्
तव मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम् ४७
तावद्विलाडयेत्पुत्रं यावत्स्यात्पंचवार्षिकः
शिक्षाबुद्ध्या सदा कांत पुनर्मोहेन पोषयेत् ४८
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः
गुणेषु योजयेत्कांत सद्विद्यासु च तं सुतम् ४९
गुणशिक्षार्थंनिर्मोहः पिता भवति सर्वदा
पालने पोषणे कांत संमोहः परिजायते ५०
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ५१
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ५२
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ५३
गुरुश्च ताडयेच्छिष्यं ततः सिध्यंति नान्यथा
भार्यां च ताडयेत्कांत अमात्यं नृपतिस्तथा ५४
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने
शिक्षाबुद्ध्या प्रसिध्यंति ताडनात्पालनाद्विभो ५५
त्वयेयं नाशिता नाथ सर्वदैव न संशयः
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ५६
निरंकुशा कृता गेहे तेन नष्टा महामते
तावद्धि धारयेत्कन्यां गृहे कांतवचः शृणु ५७
अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत्
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ५८
उभाभ्यामपि तत्पापं पितृभ्यामपि विंदति
तस्मान्न धार्यते कन्या समर्था निजमंदिरे ५९
यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत्
तत्रस्था साधयेत्कांतं सगुणं भक्तिपूर्वकम् ६०
कुलस्य जायते कीर्तिः पिता सुखेन जीवति
तत्रस्था कुरुते पापं तत्पापं भुंजते पतिः ६१
तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ६२
तस्मान्न धारयेत्कांत गेहे पुत्रीं सभर्तृकाम्
इत्यर्थे श्रूयते कांत इतिहासो भविष्यति ६३
अष्टविंशतिके प्राप्ते युगे द्वापरके महान्
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ६४
चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ६५
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
सप्तचत्वारिंशोऽध्यायः ४७