पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४९

ब्राह्मण्युवाच-
एकदा तु महाभाग गता सा पर्वतोत्तमे ।
रमणीयं वनं दृष्ट्वा कदलीखंडमंडितम् १।
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः ।
पूगीफलैर्मातुलिगैर्नारंगैश्चारुजंबुकैः २।
चंपकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः ।
अशोकबकुलोपेतं नानावृक्षैरलंकृतम् ३।
पर्वतं पुण्यवंतं तं पुष्पितैश्च नगोत्तमैः ।
सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः ४।
तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम् ।
कमलैः पुष्पितैश्चान्यैः सुगंधैः कनकोत्पलैः ५।
श्वेतोत्पलैर्विभासंतं रक्तोत्पलसुपुष्पितैः ।
नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः ६।
पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः ।
तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् ७।
कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः ।
मधुराणां तथा शब्दैः सर्वत्र मधुरायते ८।
षट्पदानां सुनादेन सर्वत्र परिशोभते ।
एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् ९।
तडागं सर्वतोभद्रं ददृशे नृपनंदिनी ।
वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा १०।
समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् ।
चापल्येन प्रभावेण स्त्रीभावेन च लीलया ११।
पद्मावती सरस्तीरे सखीभिः सहिता तदा ।
जलक्रीडा समालीना हसते गायते पुनः १२।
रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी ।
एवं विप्र तदा सा तु सुखेन परिवर्तयेत् १३।
विष्णुरुवाच-
गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च ।
दिव्येनापि विमानेन सर्वभोगपरिप्लुतः १४।
याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः ।
तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा १५।
सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया ।
रूपेणाप्रतिमा लोके सर्वांगेषु विराजते १६।
रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया ।
किं वापि पार्वती देवी शची किं वा भविष्यति १७।
यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा ।
अन्यापि ईदृशी नास्ति द्वितीया क्षितिमंडले १८।
नक्षत्रेषु यथा चंद्रः संपूर्णो भाति शोभनः ।
गुणरूपकलाभिस्तु तथा भाति वरानना १९।
पुष्करेषु यथा हंसस्तथेयं चारुहासिनी ।
अहो रूपमहोभाव अस्यास्तु परिदृश्यते २०।
का कस्य शोभना बाला चारुवृत्तपयोधरा ।
व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम् २१।
चिंतयित्वा क्षणं विप्र का कस्यापि भविष्यति ।
ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः २२।
दयिता उग्रसेनस्य पतिव्रतपरायणा ।
आत्मबलेन तिष्ठंती दुष्प्राप्या पुरुषैरपि २३।
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा ।
पितुर्गेहमियं बाला स तु भाग्येन वर्जितः २४।
अनया विना स जीवेच्च कथं कूटमतिः सदा ।
किं वा नपुंसको राजा एनां यो हि परित्यजेत् २५।
तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि ।
इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि २६।
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत् ।
अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि २७।
अद्यैव हि न संदेहो यतः कामो महाबलः ।
इति चिंतापरो भूत्वा गोभिलो मनसैक्षत २८।
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः ।
यादृशस्तूग्रसेनश्च सांगोपांगो महानृपः २९।
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया ।
यथावस्त्रो यथावेशो वयसा च तथा पुनः ३०।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
सर्वाभरणशोभांगो यादृशो माथुरेश्वरः ३१।
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा ।
मायया परया युक्तो रूपलावण्यसंपदा ३२।
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः ।
शिलातलस्थो दुष्टात्मा वीणादंडेन वीरकः ३३।
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम् ।
तालमानक्रियोपेतं सप्तस्वरविभूषितम् ३४।
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः ।
पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः ३५।
सखीमध्यगता सा तु पद्मावती वरानना ।
शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम् ३६।
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् ।
गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम् ३७।
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा ।
अशोकच्छायामाश्रित्य विमले सुशिलातले ३८।
ददर्श भूपवेषेण गोभिलं दानवाधमम् ।
पुष्पमालांबरधरं दिव्यगंधानुलेपनम् ३९।
सर्वाभरणशोभांगं पद्मावती पतिव्रता ।
मथुरेशः समायातः कदा धर्मपरायणः ४०।
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः ।
यावद्धि चिंतयेत्सा च तावत्पापेन तेन सा ४१।
समाहूता तुरीभूय एहि त्वं हि प्रिये मम ।
चकिताशंकितासाचकथंभर्त्तासमागतः ४२।
लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम् ।
अहं पापा दुराचारा निःशंका परिवर्तिता ४३।
कोपमेवं महाभागः करिष्यति न संशयः ।
यावद्धि चिंतयेत्सा च तावत्तेनापि पापिना ४४।
समाहूता तुरीभूय एह्येहि त्वं मम प्रिये ।
त्वया विना कृतो देवि प्राणान्धर्तुं वरानने ४५।
न हि शक्नोम्यहं कांते जीवितं प्रियमेव च ।
तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ४६।
ब्राह्मण्युवाच-
एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता ।
समालिंग्य ततो दैत्यः सतीं पद्मावतीं तदा ४७।
एकांतं तु समानीता सुभुक्ता इच्छया ततः ।
दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ४८।
सुकलोवाच-
मुष्कस्थानेस्य संकेतं नाविंदत वरानना ।
स्ववस्त्रं सा परिगृह्य शंकिता दुःखिता ह्यभूत् ४९।
सा सक्रोधा वचः प्राह गोभिलं दानवाधमम् ।
कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः ५०।
शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा ।
वेपमाना तदा राजन्दुःखभारेण पीडिता ५१।
मम कांतच्छलेनैव त्वयागत्य दुरात्मवन् ।
नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम् ५२।
सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम् ।
पश्य मे बलमत्रैव शापं दास्ये सुदारुणम् ५३।
एवं संभाषमाणा तं शप्तुकामा तु गोभिलम् ५४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
एकोनपंचाशत्तमोऽध्यायः ४९।