पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००५

शिवशर्मोवाच-
तपसा दमशौचाभ्यांगुरुशुश्रूषया तथा ।
भक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक १।
त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहि ।
एवमुक्वा सुतं विप्रो दर्शयामास तां तनुम् २।
यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरू ।
दीप्तिमंतौ महात्मानौ सूर्यबिंबोपमावुभौ ३।
ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोः ।
ततः सुतं समामंत्र्य हर्षेण महतान्वितः ४।
विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम् ।
जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः ५।
प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम् ।
नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् ६।
विष्णोस्तु चिंतनैर्न्यासध्यानज्ञानैः स्तवैस्तथा ।
न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः ७।
समाधिज्ञानयोगेन दृश्यते परमं पदम् ।
महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम् ८।
सूत उवाच-
ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः ।
अश्मलोष्टसमं मेने कांचनंभूषणं पुनः ९।
जिताहारः स धर्मात्मा निद्रया परिवर्जितः ।
स सर्वान्विषयांस्त्यक्त्वा एकांतमपि सेवते १०।
योगासनसमारूढो निराशो निःपरिग्रहः ।
तस्य वेला सुसंप्राप्ता मृत्युकालस्य वै तदा ११।
आगता दानवा विप्रं सोमशर्माणमंतिके ।
मृत्युकाले तु संप्राप्ते प्राणयात्रा प्रवर्तिनः १२।
शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धने ।
केचिद्वदंति वै दैत्याः केचिद्वदंति दानवाः १३।
एवंविधो महाशब्दः कर्णरंध्रं गतस्तदा ।
तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः १४।
ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम् ।
तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा १५।
सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनः ।
दैत्यभयेन संयुक्तः स हि मृत्युवशं गतः १६।
तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः ।
देवासुरे महायुद्धे निहतश्चक्रपाणिना १७।
युद्ध्यमानेन तेनापि प्रह्लादेन महात्मना ।
सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् १८।
योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः ।
सस्मार पूर्वकं सर्वं चरितं शिवशर्मणः १९।
प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम् ।
अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् २०।
प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम् ।
समरे म्रियमाणेन प्रह्लादेन महात्मना २१।
एवं चिंता कृता पूर्वं श्रूयतां द्विजसत्तमाः ।
एवं तु च समाख्यातं सर्वसंदेहनाशनम् २२।
सूत उवाच-
प्रह्लादे निहते संख्ये देवदेवेन चक्रिणा ।
रुरुदे कमला सा तु हतपुत्रा च कामिनी २३।
प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रिया ।
प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति २४।
पतिव्रता महाभागा कमला नाम तत्प्रिया ।
रोदमानां दिवारात्रौ नारदस्तामुवाच ह २५।
मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि ।
निहतो वासुदेवेन तव पुत्रः समेष्यति २६।
भूयः स्वलक्षणोपेतस्त्वत्सुतश्च महामतिः ।
प्रह्लादेति च वै नाम पुनरस्य भविष्यति २७।
विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितः ।
इंद्रत्वे मोदते भद्रे सर्वदेवैर्नमस्कृतः २८।
सुखीभवमहाभागेतेनपुत्रेणवैसदा ।
न प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचित् २९।
कर्त्तव्यमज्ञानभावैः सुगोप्यं कुरु त्वं सदा ।
एवमुक्त्वा गतो विप्रो नारदो मुनिसत्तमः ३०।
कमलायाश्चोदरे तु जन्मा स्यानुत्तमं पुनः ।
प्रह्लादेति च वै नाम तस्याख्यानं महात्मनः ३१।
बाल्यं भावं गतो विप्राः कृष्णमेव व्यचिंतयत् ।
नरसिंहप्रसादेन देवराजो भवेद्दिवि ३२।
देवत्वं लभ्य चैवासावैंद्रं पदमनुत्तमम् ।
मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् ३३।
असंख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः ।
मोह एवं न कर्त्तव्यो ज्ञानवद्भिर्महात्मभिः ३४।
एतद्वः सर्वमाख्यातं यथापृष्टं द्विजोत्तमाः ।
अन्यं पृच्छ महाभाग संदेहं ते भिनद्म्यहम् ३५।
विजयं देवतानां तु दानवानां महत्क्षयम् ।
कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ३६।
ऋषय ऊचुः-
इन्द्रत्वं कस्य संजातं देवानां शब्दधारकम् ।
केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम ३७।
सूत उवाच-
विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमः ।
प्राप्त एष महाभागो यथा पुण्यतमेन च ३८।
हतेषु तेषु दैत्येषु समस्तेषुमहाहवे ।
अतिनष्टेषु पापेषु गोविंदेन महात्मना ३९।
ततो देवाः सगंधर्वा नागा विद्याधरास्तथा ।
संप्रोचुर्माधवं सर्वे बद्धप्रांजलयस्ततः ४०।
भगवन्देवदेवेश हृषीकेश नमोस्तु ते ।
विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ४१।
शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव ।
राजानं पुण्यधर्माणं त्वमिंद्रं लोकशासनम् ४२।
त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत् ।
वासुदेव उवाच-
मम लोके महाभागा वैष्णवेन समन्वितः ४३।
तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः ।
तस्य कालः प्रपूर्णश्च मम लोके महात्मनः ४४।
वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः ।
तेजसा वैष्णवेनैव भवतां पालको हि सः ४५।
भविष्यति स धर्मात्मा स च धर्मानुरंजकः ।
पालको धारकश्चैव स च ब्राह्मणसत्तमः ४६।
भविष्यति स धर्मात्मा भवतां त्राणकारणात् ।
अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः ४७।
महाबलो महावीर्यः स व इंद्रो भविष्यति ।
सूत उवाच-
एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम् ४८।
देवा विजयिनः सर्वे विष्णुना सह सत्तमाः ।
कश्यपं पितरं दृष्टुं मातरं च ततो गताः ४९।
प्रणेमुस्ते महात्मान उभावेतौ सुखासनौ ।
ऊचुः प्रांजलयः सर्वे हर्षेण महतान्विताः ५०।
युवयोश्च प्रसादेन देवत्वं हि गता वयम् ।
हर्षेण महताविष्टो देवान्वाक्यमुवाच सः ५१।
कश्यप उवाच-
यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि ।
आवयोश्च प्रसादेन तपसश्च प्रभावतः ५२।
प्राप्तवंतो भवंतस्तु देवत्वं चाक्षयं पदम् ।
वरमेव ददाम्येषां बहुप्रीतिसमन्विताः ५३।
अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ ।
सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ५४।
देवा नागाश्च गंधर्वा मत्प्रसादान्महासुराः ।
विष्णुरुवाच-
वरं वरय भद्रं ते देवमातर्यशस्विनि ५५।
मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम् ।
अदितिरुवाच-
पूर्वं पुत्रवती भूता प्रसादात्तव माधव ५६।
अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाः ।
अमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन ५७।
सुतरां त्वं च गोविंद सर्वकामसमृद्धिदः ।
मम गर्भे वसंश्चैव भवांश्च मम नंदनः ५८।
त्वया पुत्रेण नित्यं च यथा नंदामि केशव ।
एवं महोदयं नाथ पूरयस्व मनोरथम् ५९।
वासुदेव उवाच-
भवत्या देवकार्यार्थं गंतव्यं मानुषीं तनुम् ।
तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् ६०।
युगे द्वादशके प्राप्ते भूभारहरणाय वै ।
जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ६१।
प्रतापतेजसायुक्तः सर्वक्षत्रवधाय च ।
तव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः ६२।
सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगे ।
रामो नाम भविष्यामि तव पुत्रः पतिव्रते ६३।
पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः ।
अष्टाविंशतिके प्राप्ते द्वापरांते युगे तदा ६४।
सर्वदैत्यविनाशार्थे भूभारहरणाय च ।
वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः ६५।
इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम् ।
सर्वलक्षणसंपन्नं सत्यधर्मसमन्वितम् ६६।
सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुंदरम् ।
इंद्रत्वं तस्य दास्यामि इंद्रः सोपि भविष्यति ६७।
एवं संभाषितं श्रुत्वा महाहर्षसमन्विता ।
देवदेवप्रसादेन इंद्रः पुत्रो भविष्यति ६८।
एवमस्तु महाभाग तव वाक्यं करोम्यहम् ।
ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ६९।
हरिणा सह ते सर्वे निरातंका मुदान्विताः ।
सूत उवाच-
अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी ७०।
भगवन्दीयतां पुत्रः सुरेंद्रपदभोजकः ।
चिंतयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् ७१।
एवमस्तु महाभागे तव पुत्रो भविष्यति ।
त्रैलोक्यस्यापि कर्ता स यज्ञभोक्ता स एव च ७२।
तस्याः शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमः ।
तपश्चचार तेजस्वी सत्यधर्मसमन्वितः ७३।
सुव्रतो नाम तेजस्वी विष्णुलोके वसेत्सदा ।
तस्य पुण्यक्षये जाते विष्णुलोकाद्द्विजोत्तमाः ७४।
पतनं कर्मवशतस्ततस्तस्य द्विजोत्तमाः ।
पुण्यगर्भं गतो विप्र अदित्यास्तु महातपाः ७५।
इंद्रत्वं भोक्तुकामार्थं सत्यपुण्येन कर्मणा ।
गर्भं दधार सा देवी पुण्येन तपसा किल ७६।
तपस्तेपे निरालस्या वनवासं गता सती।
दिव्यं वर्षशतं यातं तपंत्यां देवमातरि ७७।
तपंत्यथ तपस्तीव्रं दुष्करं देवतासुरैः ।
ततः सा तपसा तेन तेजसा च प्रभान्विता ७८।
सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करः ।
शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ७९।
रूपेणाधिकतां याता तपसस्तेजसा तदा ।
तपोध्यानपरा सा च वायुभक्षा तपस्विनी ८०।
अधिकं शुशुभे देवी दक्षस्य तनया तदा ।
सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः ८१।
स्तुवंति तां महाभागां रक्षंति च सुतत्पराः ।
पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः ८२।
तामुवाच महाभागामदितिं तपसान्विताम् ।
देवि गर्भः सुसंपूर्णः सूतिकालः प्रवर्तते ८३।
तवैव तपसा पुष्टस्तेजसा च प्रवर्द्धितः ।
अद्यैव गर्भमेतं त्वं मुंच मुंच यशस्विनि ८४।
एवमाभाष्य देवेशः स जगाम स्वकं गृहम् ।
असूत पुत्रं सा देवी काले प्राप्ते महोदये ८५।
सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् ।
सुभगं चारुसर्वांगं सर्वलक्षणसंयुतम् ८६।
चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम् ।
तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम् ८७।
चंद्रबिंबानुकारेण वदनेन महामतिः ।
राजमानं महाप्राज्ञं तेजसा वैष्णवेन च ८८।
अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलंकृतम् ।
सर्वलक्षणसंपूर्णं चंद्रास्यं कमलेक्षणम् ८९।
आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः ।
गंधर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा ९०।
ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसः ।
अन्ये च मुनयः पुण्याः पुण्यमंगलदायिनः ९१।
आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः ।
तस्मिञ्जाते महाभागे भगवंतो महौजसि ९२।
आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः ।
क्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः ९३।
प्रीतिमंतस्ततः सर्वे ये चान्ये हि चराचराः ।
मंगलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः ९४।
ननृतुश्चाप्सराः संघा गंधर्वा ललितं जगुः ।
वेदमंत्रैस्ततो देवा ब्राह्मणा वेदपारगाः ९५।
स्तुवंति तं महात्मानं सुतं वै कश्यपस्य च ।
ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः ९६।
सांगोपांगैश्च संयुक्तास्तस्मिञ्जाते महौजसि ।
त्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम ९७।
समागतानि तत्रैव तस्मिञ्जाते महौजसि ।
मंगलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः ९८।
हर्षेण निर्भराः सर्वे पूजयंतो महौजसः ।
ब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः ९९।
चक्रिरे नामकर्माणि तस्यैव हि महात्मनः ।
वसुदत्तेति विख्यातो वसुदेति पुनस्तव १००।
आखंडलेति तन्नाम मरुत्वान्नाम ते पुनः ।
मघवांश्च बिडौजास्त्वं पाकशासन इत्यपि १०१।
शक्रश्चैव हि विख्यात इंद्रश्चैवेति ते सुतः ।
इत्येतानि च नामानि तस्यैव च महात्मनः १०२।
चक्रुश्च देवताः सर्वाः संतुष्टा हृष्टमानसाः ।
स्नानं तु कारयामासुः संस्काराणि महासुरः १०३।
विश्वकर्माणमाहूय ददुराभरणानि च ।
तानि पुण्यानि दिव्यानि तस्मै ते तु महात्मने १०४।
जाते तस्मिन्महाभागे देवराजे महात्मनि ।
एवं मुदं ततः प्रापुः सर्वे देवा महौजसः १०५।
पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिः ।
इंद्रत्वे स्थापितो देवैरभिषिक्तः सुमंगलैः १०६।
प्राप्तमैंद्रपदं तेन प्रसादात्तस्य चक्रिणः ।
तपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः १०७।
उग्रेण तेजसा युक्तो वज्रपाशांकुशायुधः १०८।
सूत उवाच-
उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् ।
लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः १०९।
विष्णोः प्रसादान्न परो महात्मा संप्राप्तमैश्वर्यमिहैव दिव्यम् ११०।
अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः १११।
इति श्रीपद्मपुराणे भूमिखंडे देवासुरे इंद्राभिषेकोनाम पंचमोऽध्यायः ५।