ब्राह्मण्युवाच-
गते तस्मिन्दुराचारे गोभिले पापचेतसि
पद्मावती रुरोदाथ दुःखेन महतान्विता १
तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम
पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वराननाः २
कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम्
क्व गतोऽसौ महाराजो माथुराधिपतिस्तव ३
येन त्वं हि समाहूता प्रियेत्युक्त्वा वदस्व नः
ता उवाच सुदुःखेन रोदमाना पुनः पुनः ४
तया आवेदितं सर्वं यज्जातं दोषसंभवम्
ताभिर्नीता पितुर्गेहं वेपमाना सुदुःखिता ५
मातुः समक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः
समाकर्ण्य ततो देवी गता सा भर्तृमंदिरम् ६
भर्तारं श्रावयामास सुतावृत्तांतमेव हि
समाकर्ण्य ततो राजा महादुःखी अजायत ७
यानाच्छादनकं दत्वा परिवारसमन्विताम्
मथुरां प्रेषयामास गता सा प्रियमंदिरम् ८
सुतादोषं समाच्छाद्य पितामाता द्विजोत्तम
उग्रसेनस्तु धर्मात्मा पद्मावतीं समागताम् ९
स दृष्ट्वा मुमुदे चाशु उवाचेदं वचः पुनः
त्वया विना न शक्तोस्मि जीवितुं हि वरानने १०
बहुप्रभासि मे प्रीता गुणशीलैस्तु सर्वदा
भक्त्या सत्येन ते कांते पतिदैवत्यकैर्गुणैः ११
समाभाष्य प्रियां भार्यां पद्मावतीं नरेश्वरः
तया सार्धं स वै रेमे उग्रसेनो नृपोत्तमः १२
ववृधे दारुणो गर्भः सर्वलोकभयप्रदः
पद्मावती विजानाति तस्य गर्भस्य कारणम् १३
स्वोदरे वर्द्धमानस्य चिंतयंती दिवानिशम्
अनेन किमु जातेन लोकनाशकरेण वै १४
अनेनापि न मे कार्यं दुष्टपुत्रेण सांप्रतम्
औषधीं पृच्छते सा तु गर्भपातस्य सर्वतः १५
नारी महौषधीं सा हि विंदंती च दिने दिने
गर्भस्य पातनायैव उपाया बहुशः कृताः १६
ववृधे दारुणो गर्भः सर्वलोकभयंकरः
तामुवाच ततो गर्भः पद्मावतीं च मातरम् १७
कस्मात्त्वं व्यथसे मातरौषधीभिर्दिनेदिने
पुण्येन वर्द्धते चायुः पापेनाल्पं तु जीवितम् १८
आत्मकर्मविपाकेन जीवंति च म्रियंति च
आमगर्भाः प्रयांत्यन्ये अपक्वास्तु महीतले १९
जातमात्रा म्रियंतेऽन्ये कति ते यौवनान्विताः
बाला वृद्धाश्च तरुणा आयुषोवशतां गताः २०
सर्वे कर्मविपाकेन जीवंति च म्रियंति च
ओषध्यो मंत्रदेवाश्च निमित्ताः स्युर्न संशयः २१
मामेव हि न जानासि भवती यादृशो ह्यहम्
दृष्टः श्रुतस्त्वया पूर्वं कालनेमिर्महाबलः २२
दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः
देवासुरे महायुद्धे हतोहं विष्णुना पुरा २३
साधयितुं च तद्वैरमागतोऽस्मि तवोदरम्
साहसं च श्रमं मातर्मा कुरुष्व दिन दिने २४
एवमुक्त्वा द्विजश्रेष्ठ मातरं विरराम सः
मातोद्यमं परित्यज्य महादुःखादभूत्तदा २५
दशाब्दाश्च गता यावत्तावद्वृद्धिमवाप्तवान्
पश्चाज्जज्ञे महातेजाः कंसोभूत्स महाबलः २६
येन संत्रासिता लोकास्त्रैलोक्यस्य निवासिनः
यो हतो वासुदेवेन गतो मोक्षं न संशयः २७
एवं श्रुतं मया कांत भविष्यं तु भविष्यति
पुराणेष्वेव सर्वेषु निश्चितं कथितं तव २८
पितृगेहेस्थिता कन्या नाशमेवं प्रयाति सा
गृहावासाय मे कांत कन्या मोहं न कारयेत् २९
इमां दुष्टां महापापां परित्यज्य स्थिरो भव
प्राप्तव्यं तु महापापं दुःखं दारुणमेव च ३०
लोके श्रेयःकरं कांत तद्भुंक्ष्व त्वं मया सह
शूकर्युवाच-
एतद्वाक्यं सुमंत्रं तु श्रुत्वा स हि द्विजोत्तमः ३१
त्यागे मतिं चकारासौ समाहूता ह्यहं तदा
सकलं वस्त्रशृंगारं मम दत्तं शुभे शृणु ३२
तवैव दुर्नयैर्विप्रः शिवशर्मा द्विजोत्तमः
गतो वै मतिमान्दुष्टे कुलदुष्टप्रचारिणि ३३
यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः
तव यद्रोचते स्थानं यथादिष्टं तथा कुरु ३४
एवमुक्त्वा महाभागे पितृमातृकुटुंबकैः
परित्यक्ता गता शीघ्रं निर्लज्जाहं वरानने ३५
न लभाम्यहमेवापि वासस्थानं सुखं शुभे
भर्त्सयंति च मां लोकाः पुंश्चलीयं समागता ३६
अटमाना गता देशात्कुलमानेन वर्जिता
देशे गुर्जरके पुण्ये सौराष्ट्रे शिवमंदिरे ३७
वनस्थलेति विख्यातं नगरं वृद्धिसंकुलम्
अतीव पीडिता देवि क्षुधयाहं तदा शृणु ३८
कर्परं हि करे गृह्य भिक्षार्थमुपचक्रमे
गृहिणां द्वारदेशेषु प्रविशामि सुदुःखिता ३९
मम रूपं विपश्यंति लोकाः कुत्संति भामिनि
न ददंते च मे भिक्षां पापा चेयं समागता ४०
एवं दुःखसमाहारा दारिद्र्यपरिपीडिता
अटंत्या च मया दृष्टं गृहमेकमनुत्तमम् ४१
तुंगप्राकारसंवेष्टं वेदशालासमन्वितम्
वेदध्वनिसमाकीर्णं बहुविप्रसमाकुलम् ४२
धनधान्यसमाकीर्णं दासीदासैरलंकृतम्
प्रविवेश गृहं रम्यं लक्ष्मीमुदितमेव तत् ४३
तद्गृहं सर्वतोभद्रं तस्यैव शिवशर्मणः
भिक्षां देहीत्युवाचाथ सुदेवा दुःखपीडिता ४४
शिवशर्माथ शुश्राव भिक्षाशब्दं द्विजोत्तमः
मंगलां नाम वै भार्यां लक्ष्मीरूपां वराननाम् ४५
तां हसन्प्राह धर्मात्मा शिवशर्मा महामतिः
इयं हि दुर्बला प्राप्ता भिक्षार्थं द्वारमागता ४६
समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे
कृपया परयाविष्टा ज्ञात्वा मां तु समागताम् ४७
प्रोवाच मंगला कांतं दास्यामि प्रिय भोजनम्
एवमुक्त्वा च भर्तारं मंगला मंगलान्विता ४८
पुनर्मां भोजयामास मिष्टान्नेन सुदुर्बलाम्
मामुवाच स धर्मात्मा शिवशर्मा महामुनिः ४९
का त्वमत्र समायाता कस्य वा भ्रमसे जगत्
केन कार्येण सर्वत्र कथयस्व ममाग्रतः ५०
एवमाकर्ण्य तद्वाक्यं भर्तुश्चैव महात्मनः
स्वरेण लक्षितः कांतो मया वै पापया तदा ५१
व्रीडयाधोमुखीजाता दृष्टो भर्ता यदा मया
मंगला चारुसर्वांगी भर्तारमिदमब्रवीत् ५२
का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति
कथयस्व प्रसादेन का च एषा भविष्यति ५३
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
एकपंचाशत्तमोऽध्यायः ५१