पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५३

सुकलोवाच-
एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया ।
पतिहीना कथं भोगं करिष्ये पापनिश्चया १।
कांतेन तु विना तेन जीवं काये न धारये ।
विष्णुरुवाच-
एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमम् २।
तास्तु सख्यो वरा नार्यो हर्षेण महतान्विताः ।
श्रुत्वा धर्मं परं पुण्यं नारीणां गतिदायकम् ३।
स्तुवंति तां महाभागां सुकलां धर्मवत्सलाम् ।
ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तम ४।
तस्या ध्यानं प्रकुर्वंति पतिकामप्रभावतः ।
अत्यर्थं दृढतामिंद्र सुःविचिंत्य सुरेश्वरः ५।
सुकलायाः परं भावं सुविचार्यामरेश्वरः ।
चालये धैर्यमस्याश्च पतिस्नेहं न संशयः ६।
सस्मार मन्मथं देवं त्वरमाणः सुराधिपः ।
पुष्पचापं स संगृह्य मीनकेतुः समागतः ७।
प्रियया च तया युक्तो रत्या दृष्टमहाबलः ।
बद्धांजलिपुटो भूत्वा सहस्राक्षमुवाच सः ८।
कस्मादहं त्वया नाथ अधुना संस्मृतो विभो ।
आदेशो दीयतां मेद्य सर्वभावेन मानद ९।
इंद्र उवाच-
सुकलेयं महाभागा पतिव्रतपरायणा ।
शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम् १०।
निष्कर्षय महाभागां सुकलां पुण्यमंगलाम् ।
तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत् ११।
एवमस्तु सहस्राक्ष करिष्यामि न संशयः ।
साहाय्यं देवदेवेश तव कौतुककारणात् १२।
एवमुक्त्वा महातेजाः कंदर्पो मुनिदुर्जयः ।
देवाञ्जेतुं समर्थोऽहं समुनीनृषिसत्तमान् १३।
किं पुनः कामिनीं देव यस्या अंगे न वै बलम् ।
कामिनीनामहं देव अंगेषु निवसाम्यहम् १४।
भाले कुचेषु नेत्रेषु कचाग्रेषु च सर्वदा ।
नाभौ कट्यां पृष्ठदेशे जघने योनिमंडले १५।
अधरे दंतभागेषु कक्षायां हि न संशयः ।
अंगेष्वेवं प्रत्यंगेषु सर्वत्र निवसाम्यहम् १६।
नारी मम गृहं देव सदा तत्र वसाम्यहम् ।
तत्रस्थः पुरुषान्सर्वान्मारयामि न संशयः १७।
स्वभावेनाबलादेव संतप्ता मम मार्गणैः ।
पितरं मातरं दृष्ट्वा अन्यं स्वजनबांधवम् १८।
सुरूपं सगुणं देव मम बाणा हता सती ।
चलते नात्र संदेहो विपाकं नैव चिंतयेत् १९।
योनिः स्पंदेत नारीणां स्तनाग्रौ च सुरेश्वर ।
नास्ति धैर्यं सुरेशान सुकलां नाशयाम्यहम् २०।
इंद्र उवाच-
पुरुषोहं भविष्यामि रूपवान्गुणवान्धनी ।
कौतुकार्थमिमां नारीं चालयामि मनोभव २१।
नैव कामान्न संत्रासान्न वा लोभान्न कारणात् ।
न वै मोहान्न वै क्रोधात्सत्यं सत्यं रतिप्रिय २२।
कथं मे दृश्यते तस्या महत्सत्यं पतिव्रतम् ।
निष्कर्षिष्य इतो गत्वा भवन्मोहोत्र कारणम् २३।
एवं कामं च संदिश्य जगाम सुरराट्स्वयम् ।
आत्मविकृतिसंभूतो रूपवान्गुणवान्स्वयम् २४।
सर्वाभरणशोभांगः सर्वभोगसमन्वितः ।
भोगलीलासमाकीर्णः सर्वदौदार्यसंयुतः २५।
यत्र सा तिष्ठते देवी कृकलस्य प्रिया नृप ।
आत्मलीलां स्वरूपं च गुणं भावं प्रदर्शयेत् २६।
नैव पश्यति सा तं तु पुरुषं रूपसंपदम् ।
यत्रयत्र व्रजेत्सा हि तत्र तां पश्यते नृप २७।
साभिलाषेण मनसा तामेवं परिपश्यति ।
कामचेष्टां सहस्राक्षोऽदर्शयत्सर्वभावकैः २८।
चतुष्पथे पथे तीर्थे यत्र देवी प्रयाति सा ।
तत्रतत्र सहस्राक्षस्तामेव परिपश्यति २९।
इंद्रेण प्रेषिता दूती सुकलां प्रति सा गता ।
सुकलां सुमहाभागां प्रत्युवाच प्रहस्य वै ३०।
अहो सत्यमहोधैर्यमहो कांतिरहो क्षमा ।
अस्या रूपेण संसारे नास्ति नारी वरानना ३१।
का त्वं भवसि कल्याणि कस्य भार्या भविष्यसि ।
यस्य त्वं सगुणा भार्या स धन्यः पुण्यभाग्भुवि ३२।
तस्यास्तु वचनं श्रुत्वा तामुवाच मनस्विनी ।
वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः ३३।
तस्याहं हि प्रिया भार्या सत्यसंधस्य धीमतः ।
कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते ३४।
मम भर्ता स धर्मात्मा तीर्थयात्रां गतः सुधीः ।
तस्मिन्गते महाभागे मम भर्तरि संप्रति ३५।
अतिक्रांताः शृणुष्व त्वं त्रयश्चैवापि वत्सराः ।
ततोहं दुःखिता जाता विना तेन महात्मना ३६।
एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव ते ।
भवती पृच्छते मां का भविष्यति वदस्व मे ३७।
सुकलाया वचः श्रुत्वा दूत्या आभाषितं पुनः ।
मामेवं पृच्छसे भद्रे तत्ते सर्वं वदाम्यहम् ३८।
अहं तवांतिकं प्राप्ता कार्यार्थं वरवर्णिनि ।
श्रूयतामभिधास्यामि श्रुत्वा चैवाव धार्यताम् ३९।
गतस्ते निर्घृणो भर्ता त्वां त्यक्त्वा तु वरानने ।
किं करिष्यसि तेनापि प्रियाघातकरेण च ४०।
यस्त्वां त्यक्त्वा गतः पापी साध्व्याचारसमन्विताम् ।
किं वा स ते गतो बाले तत्र जीवति वै मृतः ४१।
किं करिष्यति तेनैवं भवती खिद्यते वृथा ।
कस्मान्नाशयते चांगं दिव्यं हेमसमप्रभम् ४२।
बाल्ये वयसि संप्राप्ते मानवो न च विंदति ।
एकं सुखं महाभागे बालक्रीडां विना शुभे ४३।
वार्द्धके दुःखसंप्राप्तिर्जरा कायं प्रहिंसयेत् ।
तारुण्ये भुज्यते भोगः सुखात्सर्वो वरानने ४४।
यावत्तिष्ठति तारुण्यं तावद्भुंजंति मानवाः ।
सुखभोगादिकं सर्वं स्वेच्छया रमते नरः ४५।
यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुंजते ।
वयस्यपि गते भद्रे तारुण्ये किं करिष्यति ४६।
संप्राप्ते वार्द्धके देवि किंचित्कार्यं न सिध्यति ।
स्थविरश्चिंतयेन्नित्यं सुखकार्यं न गच्छति ४७।
वयस्यपि गते बाले क्रियते सेतुबंधनम् ।
तादृशोयं भवेत्कायस्तारुण्ये तु गते शुभे ४८।
तस्माद्भुंक्ष्व सुखेनापि पिबस्व मधुमाधवीम् ।
कामाबाणा दहंत्यंगं तवेमे चारुलोचने ४९।
अयमेकः समायातः पुरुषो रूपवान्गुणी ।
अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी ५०।
तवार्थे नित्यसंयुक्तः स्नेहेन वरवर्णिनि ।
सुकलोवाच-
बाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीविते ५१।
वृद्धत्वं नास्ति चैवास्य स्वयंसिद्धः सुसिद्धिदः ।
अमरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः ५२।
अकामः कामदो लोके आत्मरूपेण वर्तते ।
यथा गेहस्य संस्थानं तथा कायस्य दृश्यते ५३।
यथा वार्द्धकिना कायस्तथा सूत्रेण मंदिरम् ।
अनेककाष्ठसंघातैर्नाना दारुसमुच्चयैः ५४।
मृत्तिकयोदकेनापि समंतात्परिणामयेत् ।
लिपितं लेपकैः काष्ठं चित्रं भवति चित्रकैः ५५।
प्रथमं रूपमायाति गृहं सूत्रेण सूत्रितम् ।
पुष्णंति च स्वयं तत्तु लेपनाद्वै दिने दिने ५६।
वायुनांदोलितं नित्यं गृहं च मलिनायते ।
मध्यमो वर्तुतः कालो गृहस्य परिकथ्यते ५७।
रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत् ।
स्वेच्छया च गृहस्वामी रूपवत्त्वं नयेद्गृहम् ५८।
तारुण्यं तस्य गेहस्य दूतिके परिकथ्यते ।
काष्ठसंघैश्च जीर्णत्वं बहुकालैः प्रयाति सः ५९।
स्थानभ्रष्टाः प्रजायंते मूलाग्रे प्रचलंति ते ।
न सहेल्लेपनाभारमाधारेण प्रतिष्ठति ६०।
एतद्गृहस्य वार्द्धक्यं कथितं शृणु दूतिके ।
पतमानं गृहं दृष्ट्वा गृहस्वामी परित्यजेत् ६१।
गृहमन्यं प्रवेशाय प्रयात्येव हि सत्वरम् ।
तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च ६२।
स बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत् ।
चित्रयेत्कायमेवापि वस्त्रालंकारभूषणैः ६३।
लेपनैश्चंदनैश्चान्यैस्तांबूलप्रभवादिभिः ।
कायस्तरुणतां याति अतिरूपो विजायते ६४।
बाह्याभ्यंतरमेवापि रसैः सर्वैः प्रपोषयेत् ।
तेन पोषणभावेन परिपुष्टः प्रजायते ६५।
जायते मांसवृद्धिस्तु रसैश्चापि नवोत्तमा ।
यांति विस्तरतां राजन्नंगान्याप्यायितान्यपि ६६।
प्रत्यंगानि रसैश्चैव स्वंस्वं रूपं प्रयांति वै ।
दंताधरौ स्तनौ बाहू कटिपृष्ठमुरू उभे ६७।
हस्तपादतलौ तद्वद्वृद्धित्वं प्रतिपेदिरे ।
उभाभ्यामपि तान्येव वृद्धिमायांति तानि वै ६८।
अंगानि रसमांसाभ्यां सुरूपाणि भवंति ते ।
तैः स्वरूपैर्भवेन्मर्त्यो रसबद्धश्च दूतिके ६९।
सुरूपः कथ्यते मर्त्यो लोके केन प्रियो भवेत् ।
विष्ठामूत्रस्य वै कोशः काय एष च दूतिके ७०।
अपवित्रशरीरोयं सदा स्रवति निर्घृणः ।
तस्य किं वर्ण्यते रूपं जलबुद्बुदवच्छुभे ७१।
यावत्पंचाशद्वर्षाणि तावत्तिष्ठति वै दृढः ।
पश्चाच्च जायते हानिस्तस्यैवापि दिनेदिने ७२।
दंताः शिथिलतां यांति तथा लालायते मुखम् ।
चक्षुर्भ्यामपि पश्येन्न कर्णाभ्यां न शृणोति च ७३।
गतिं कर्तुं न शक्नोति हस्तपादैश्च दूतिके ।
अक्षमो जायते कायो जराकालेन पीडितः ७४।
तद्रसः शोषमायाति जराग्नितापशोषितः ।
अक्षमो जायते दूति केन रूपत्वमिष्यते ७५।
यथा जीर्णं गृहं याति क्षयमेवं न संशयः ।
तथा संक्षयमायाति वार्द्धके तु कलेवरम् ७६।
ममरूपं समायातं वर्णस्येवं दिने दिने ।
केनाहं रूपसंयुक्ता केन रूपत्वमिष्यते ७७।
यथा जीर्णं गृहं याति केनासौ पुरुषो बली ।
यस्यार्थमागता दूति भवती केन शंसति ७८।
किमु चैव त्वया दृष्टं ममांगे वद सांप्रतम् ।
तस्यांगादिह हीनं च दूति नास्त्यधिकं तथा ७९।
यथा त्वं च तथासौवै तथाहं नात्र संशयः ।
कस्य रूपं न विद्येत रूपवान्नास्ति भूतले ८०।
उच्छ्रायाः पतनांताश्च नगास्तु गिरयः शुभे ।
कालेन पीडिता यांति तद्वद्भूताश्च नान्यथा ८१।
अरूपो रूपवान्दिव्य आत्मा सर्वगतः शुचिः ।
स्थावरेष्वेव सर्वेषु जंगमेषु च दूतिके ८२।
एको निवसते शुद्धो घटेष्वेकं यथोदकम् ।
घटनाशात्प्रयात्येकमेकत्वं त्वं न बुध्यसे ८३।
पिंडनाशादयं चात्मा एकरूपो विजायते ।
एकं रूपं मया दृष्टं संसारे वसता सदा ८४।
एवं वद स्वतं ज्ञात्वा यस्यार्थमिह चागता ।
दर्शयस्व अपूर्वं मे यदि भोक्तुमिहेच्छसि ८५।
व्याधिना पीड्यमानस्य कफेनापि वृतस्य च ।
अंगाद्विचलते शोणः स्थानभ्रष्टोभिजायते ८६।
अंगसंधिषु सर्वासु पलत्वं चांतरं गतः ।
एकतो नाशमायाति स्वं हि रूपं परित्यजेत् ८७।
विष्ठात्वं जायते शीघ्रं कृमिभिश्च भवेत्किल ।
तद्वद्दुःखकरं वापि निजरूपं परित्यजेत् ८८।
श्रूयतां जायते पश्चात्कृमिदुर्गंधसंकुलम् ।
जायंते तत्र वै यूकाः कृमयो वा न संशयः ८९।
सकृमिः कुरुते स्फोटं कंडूं च परिदारुणाम् ।
व्यथामुत्पादयेद्यूका सर्वांगं परिचालयेत् ९०।
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते ।
तद्वत्तैश्च शृणुष्वैव सुरतस्य न संशयः ९१।
भुंजत्येव रसान्मर्त्यः सुभिक्षान्पिबते पुनः ।
वायुना तेन प्राणेन पाकस्थानं प्रणीयते ९२।
यद्भक्तं प्राणिभिर्दूति पाकस्थानं गतं पुनः ।
सर्वं तत्पिहितं तत्र वायुर्वै पातयेन्मलम् ९३।
सारभूतो रसस्तत्र तद्रक्तश्च प्रजायते ।
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ९४।
आकृष्टः स समानेन नीतस्तेनापि वायुना ।
स्थानं न लभते वीर्यं चंचलत्वेन वर्तते ९५।
प्राणिनां हि कपालेषु कृमयः संति पंच वै ।
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः ९६।
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च दूतिके ।
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः ९७।
तेषां नामापि भद्रे त्वं मत्तो निगदितं शृणु ।
पिंगली शृंखली नाम द्वौ कृमी कर्णमूलयोः ९८।
चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः ।
शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ ९९।
कृमीणां शतपंचाशत्तादृग्भूता न संशयः ।
भालांतेवस्थिताः सर्वे राजिकायाः प्रमाणतः १००।
कपालरोगिणः सर्वे विकुर्वंति न संशयः ।
केशद्वयं मुखे तस्य विद्यते शृणु दूतिके १०१।
प्राणिनां संक्षयं विद्धि तत्क्षणे हि न संशयः ।
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे १०२।
तद्वीर्यं रसरूपेण पतते नात्र संशयः ।
मुखेन पिबते वीर्यं तेन मत्तः प्रजायते १०३।
तालुमध्यप्रदेशे च चंचलत्वेन वर्तते ।
इडा च पिंगला नाडी सुषुम्णाख्या च संस्थिता १०४।
सुबलेनापि तस्यैव नाडिका जालपंजरे ।
कामकंडूर्भवेद्दूति सर्वेषां प्राणिनां किल १०५।
पुंसश्च स्फुरते लिंगं नार्या योनिश्च दूतिके ।
स्त्रीपुंसौ संप्रमत्तौ तु व्रजतः संगमं ततः १०६।
कायेन कायसंघृष्टिर्मैथुनेन हि जायते ।
क्षणमात्रं सुखं काये पुनः कंडूश्च तादृशी १०७।
सर्वत्र दृश्यते दूति भाव एवंविधः किल ।
व्रज त्वमात्मनः स्थानं नैवास्त्यत्र अपूर्वता १०८।
अपूर्वं नास्ति मे किंचित्करोम्येव न संशयः १०९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
त्रिपंचाशत्तमोऽध्यायः ५३।