पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५४
विष्णुरुवाच-
एवमुक्ता गता दूती तया सुकलया तदा ।
समासेन सुसंप्रोक्तमवधार्य पुरंदरः १।
तदर्थं भाषितं तस्याः सत्यधर्मसमन्वितम् ।
आलोच्य साहसं धैर्यं ज्ञानमेव पुरंदरः २।
ईदृशं हि वदेत्का हि नारी भूत्वा महीतले ।
योगरूपं सुसंशिष्टं न्यायोदैः क्षालितं वचः ३।
पवित्रेयं महाभागा सत्यरूपा न संशयः ।
त्रैलोक्यस्य समस्तस्य धुरं धर्तुं भवेत्क्षमा ४।
एतदर्थं विचार्यैव जिष्णुः कंदर्पमब्रवीत् ।
त्वया सह गमिष्यामि द्रष्टुं तां कृकलप्रियाम् ५।
प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः ।
गम्यतां तत्र देवेश यत्रास्ते सा पतिव्रता ६।
मानं वीर्यं बलं धैर्यं तस्याः सत्यं पतिव्रतम् ।
गत्वाहं नाशयिष्यामि कियन्मात्रा सुरेश्वर ७।
समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च ।
भो भोनंग शृणुष्व त्वमधिकं भाषितं मुधा ८।
सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः ।
सुकलेयमजेया वै तत्र ते पौरुषं नहि ९।
इत्याकर्ण्य ततः क्रुद्धो मन्मथस्त्विन्द्रमब्रवीत् ।
ऋषीणां देवतानां च बलं मया प्रणाशितम् १०।
अस्या बलं कियन्मात्रं भवता मम कथ्यते ।
पश्यतस्तव देवेश नाशयिष्यामि तां स्त्रियम् ११।
नवनीतं यथा चाग्नेस्तेजो दृष्ट्वा द्रवं व्रजेत् ।
तथेमां द्रावयिष्यामि स्वेन रूपेण तेजसा १२।
गच्छ तत्र महत्कार्यमुपस्थं सांप्रतं ध्रुवम् ।
कस्मात्कुत्ससि मे तेजस्त्रैलोक्यस्य विनाशनम् १३।
विष्णुरुवाच-
आकर्ण्य वाक्यं तु मनोभवस्य एतामसाध्यां तव कामजाने ।
धैर्यं समुद्यम्य च पुण्यदेहां पुण्येन पुण्यां बहुपुण्यचाराम् १४।
पश्यामि ते पौरुषमुग्रवीर्यमितो हि गत्वा तु धनुष्मता वै ।
तेनापि सार्धं प्रजगाम भूयो रत्या च दूत्या च पतिव्रतां ताम् १५।
एकां सुपुण्यां स्वगृहस्थितां तां ध्यानेन पत्युश्चरणे नियुक्ताम् ।
यथा सुयोगी प्रविधाय चित्तं विकल्पहीनं न च कल्पयेत १६।
अत्यद्भुतं रूपमनंततेजोयुतं चकाराथ सतीप्रमोहम् ।
नीलांचितं भोगयुतं महात्मा झषध्वजश्चैव पुरंदरश्च १७।
दृष्ट्वा सुलीलं पुरुषं महांतं चरंतमेवं परिकामभावम् ।
जाया हि वैश्यस्य महात्मनस्तु मेने न सा रूपयुतं गुणज्ञम् १८।
अंभो यथा पद्मदले गतं वै प्रयाति मुक्ताफलकस्य कीर्तिम् ।
तद्वत्स्वभावः परिसत्ययुक्तो जज्ञे च तस्यास्तु पतिव्रतायाः १९।
अनेन दूती परिप्रेषिता पुरा यामां युवत्या ह गुणज्ञमेनम् ।
लीलास्वरूपं बहुधात्मभावं ममैष सर्वं परिदर्शयेच्च २०।
ममैव कालं प्रबलं विचिंत्यागतो हि मे कांतगुणैश्च सत्खलः ।
रत्यासमेतस्तु कथं च जीवेत्सत्याश्मभारेण प्रमर्दितश्च २१।
ममापि भावं परिगृह्य कांतो जीवेत्कियान्वापि सुबुद्धियुक्तः ।
शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव २२।
कायस्य ग्रामस्य प्रजाः प्रनष्टाः सुविक्रियाख्यं परिगृह्य कर्म ।
ममाधिकेनापि समं सुकांतं स ऊर्द्ध्वशोभामनयच्च कामः २३।
यदामृतो बलवान्हर्षयुक्तः स्वयंदृशा वै परिनृत्यमानः ।
तथा अनेनापि प्रभाषयेद्भुतं यो मां हि वाञ्छत्यपि भोक्तुकामः २४।
एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वा दृढबद्धचेतना ।
गृहं स्वकीयं प्रविवेश सा तदा तत्तस्यभावं नियमेन वेत्तुम् २५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे- चतुःपंचाशत्तमोऽध्यायः ५४।