पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५६

विष्णुरुवाच-
तस्याः सत्यविनाशाय मन्मथः ससुराधिपः ।
प्रस्थितः सुकलां तर्हि सत्यो धर्ममथाब्रवीत् १।
पश्य धर्म महाप्राज्ञ मन्मथस्य विचेष्टितम् ।
तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः २।
विसृजामि महास्थानं वास्तुरूपं सुखोदयम् ।
सत्याख्यं च सुप्रियाख्यं सुदेवाख्यं गृहोत्तमम् ३।
तमेव नाशयेद्गत्वा काम एष प्रमत्तधीः ।
रिपुरूपः सुदुष्टात्मा अस्माकं हि न संशयः ४।
पतिस्तपोधनो विप्रः सुसती या पतिव्रता ।
सुसत्यो भूपतिर्धर्मममगेहानसंशयः ५।
यत्राहं वृद्धिसंपुष्टस्तत्र वासो हि ते भवेत् ।
तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ६।
क्षमा शांत्या समायुक्ता आयाति मम मंदिरम् ।
यथा सत्यो दमश्चैव दया सौहृदमेव च ७।
प्रज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः ।
शुचिः स्वभावस्तत्रैव अमी च मम बांधवाः ८।
अस्तेयमप्यहिंसा च तितिक्षा वृद्धिरेव च ।
मम गेहे समायाता धन्यतां शृणु धर्मराट् ९।
गुरूणां चापि शुश्रूषा विष्णुर्लक्ष्म्या समावृतः ।
मद्गेहं तु समायांति देवाश्चाग्निपुरोगमाः १०।
मोक्षमार्गं प्रकाशेद्यो ज्ञानोदीप्त्या समन्वितः ।
एतैः सार्धं वसाम्येव सतीषु धर्मवत्सु च ११।
साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा ।
उक्तेनापि कुटुंबेन वसाम्येव त्वया सह १२।
ससत्वाः साधुरूपास्ते वेधसा मे गृहीकृताः ।
संचरामि महाभाग स्वच्छंदेन च लीलया १३।
ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः ।
मम गेहे स्वरूपेण वर्तते शिवया युतः १४।
तदिदं संसृतेः सारं गृहरूपं महेश्वरम् ।
सदनं शंकरेत्याख्यं नाशितं मन्मथेन वै १५।
विश्वामित्रं महात्मानं तपंतं तप उत्तमम् ।
मेनकां हि समाश्रित्य कामोयं जितवान्पुरा १६।
सती पतिव्रताहल्या गौतमस्य प्रिया शुभा ।
सुसत्याच्चालिता तेन मन्मथेन दुरात्मना १७।
मुनयः सत्यधर्मज्ञा नानास्त्रियः पतिव्रताः ।
मद्गृहास्ता इमाः सर्वा दीपिताः कामवह्निना १८।
दुर्धरो दुःसहो व्यापी योतिसत्येषु निष्ठुरः ।
मामेवं पश्यते नित्यं क्व सत्यः परितिष्ठति १९।
समां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः ।
नाशयेन्मद्गृहं पापो वीतिहोत्रैश्च नामकैः २०।
पापलेशाश्च ये क्रूरा अन्ये पाखंडसंश्रयाः ।
ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशंति हि २१।
सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः ।
पातयेदर्दयेद्गेहं पापः शस्त्रैर्दुरात्मभिः २२।
मामेवं ताडयेत्पापो महाबल मनोभवः ।
अस्य धाम्ना प्रदग्धोहं शून्यतां हि व्रजामि वै २३।
नूतनं गृहमिच्छामि स्त्रियाख्यं पतिभूपतिम् ।
कृकलस्यापि पुण्यस्य प्रियेयं शिवमंगला २४।
तद्गृहं सुकलाख्यं मे दग्धुं पापः समुद्यतः ।
अयमेष सहस्राक्षः कामेन सहितो बली २५।
कामस्य कारणात्कस्मात्पूर्ववृत्तं न विंदति ।
अहल्यायाः प्रसंगेन मेषोपस्थो व्यजायत २६।
पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रधषर्णात् ।
नष्टः कामस्य दोषेण सुरराट्तत्र संस्थितः २७।
भुक्तवान्दारुणं शापं दुःखेन महतान्वितः ।
कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीम् २८।
एष हंतुं सहस्राक्ष उद्यतः कामसंयुतः ।
यथा चेंद्रेण नायाति काम एष तथा कुरु २९।
धर्मराज महाप्राज्ञ भवान्मतिमतां वरः ।
धर्मराज उवाच-
ऊनं तेजः करिष्यामि कामस्य मरणं तथा ३०।
एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु ।
प्रज्ञा चैषा महाप्राज्ञा शकुनीरूपचारिणी ३१।
भर्तुरागमनं पुण्यं शब्देनाख्यातु खे यतः ।
शकुनस्य प्रभावेण भर्तुश्चागमनेन च ३२।
दुष्टैर्नष्टा न भूयेत स्वस्थचित्ता न संशयः ।
प्रज्ञा संप्रेषिता तेन गता सा सुकलागृहम् ३३।
प्रकुर्वती महच्छब्दं दृष्टदेवेव सा बभौ ।
पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा ३४।
ब्राह्मणं सुकलापृच्छत्किमेषा च वदेन्मम ।
ब्राह्मण उवाच-
भर्तुश्चागमनं ब्रूते तवैव सुभगे स्थिरा ३५।
दिनसप्तकमध्ये स आगमिष्यति नान्यथा ३६।
इत्येवमाकर्ण्यसुमंगलं वचः प्रहर्षयुक्ता सहसा बभूव ।
धर्मज्ञमेकं सगुणं हि कांतं शकुनात्प्रदिष्टं हि समागतं तम् ३७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षट्पंचाशत्तमोऽध्यायः ५६।