पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५९

विष्णुरुवाच-
कृकलः सर्वतीर्थानि साधयित्वा गृहं प्रति ।
प्रस्थितः सार्थवाहेन महानंदसमन्वितः १।
एवं चिंतयते नित्यं संसारः सफलो मम ।
तृप्ताः स्वर्गं प्रयास्यंति पितरो मम नान्यथा २।
तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पितामहान् ।
पुरतस्तस्य संब्रूते नहि ते पुण्यमुत्तमम् ३।
दिव्यरूपो महाकायः कृकलं वाक्यमब्रवीत् ।
तव तीर्थफलं नास्ति श्रममेव वृथा कृथाः ४।
स्वयं संतोषमाप्नोषि नहि ते पुण्यमुत्तमम् ।
एवं श्रुत्वा ततो वैश्यः कृकलो दुःखपीडितः ५।
भवान्कः संवदस्येवं कस्माद्बद्धाः पितामहाः ।
केन दोषप्रभावेण तन्मेत्वं कारणं वद ६।
कस्मात्तीर्थफलं नास्ति मम यात्रा कथं नहि ।
सर्वमेव समाचक्ष्व यदि जानासि संस्फुटम् ७।
धर्म उवाच-
पूतां पुण्यतमां स्वीयां भार्यां त्यक्त्वा प्रयाति यः ।
तस्य पुण्यफलं सर्वं वृथा भवति नान्यथा ८।
धर्माचारपरां पुण्यां साधुव्रतपरायणाम् ।
पतिव्रतरतां भार्यां सुगुणां पुण्यवत्सलाम् ९।
तामेवापि परित्यज्य धर्मकार्यं प्रयाति यः ।
वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा १०।
सर्वाचारपरा भव्या धर्मसाधनतत्परा ।
पतिव्रतरता नित्यं सर्वदा ज्ञानवत्सला ११।
एवं गुणा भवेद्भार्या यस्य पुण्या महासती ।
तस्य गेहे सदा देवास्तिष्ठंति च महौजसः १२।
पितरो गेहमध्यस्थाः श्रेयो वांछंति तस्य च ।
गंगाद्याः पुण्यनद्यश्च सागरास्तत्र नान्यथा १३।
पुण्या सती यस्य गेहे वर्तते सत्यतत्परा ।
तत्र यज्ञाश्च गावश्च ऋषयस्तत्र नान्यथा १४।
तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च ।
भार्यायोगेन तिष्ठंति सर्वाण्येतानि नान्यथा १५।
पुण्यभार्याप्रयोगेण गार्हस्थ्यं संप्रजायते ।
गार्हस्थ्यात्परमो धर्मो द्वितीयो नास्ति भूतले १६।
गृहस्थस्य गृहः पुण्यः सत्यपुण्यसमन्वितः ।
सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः १७।
गार्हस्थ्यं च समाश्रित्य सर्वे जीवंति जंतवः ।
तादृशं नैव पश्यामि अन्यमाश्रममुत्तमम् १८।
मंत्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः ।
दानाचाराः प्रवर्तंते यस्य पुंसश्च वै गृहे १९।
एवं यो भार्यया हीनस्तस्यगेहं वनायते ।
यज्ञाश्च वै न सिध्यंति दानानि विविधानि च २०।
भार्याहीनस्य पुंसोपि न सिध्यति महाव्रतम् ।
धर्मकर्माणि सर्वाणि पुण्यानि विविधानि च २१।
नास्ति भार्यासमं तीर्थं धर्मसाधनहेतवे ।
शृणुष्व त्वं गृहस्थस्य नान्यो धर्मो जगत्त्रये २२।
यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा ।
ग्रामे वाप्यथवारण्ये सर्वधर्मस्य साधनम् २३।
नास्ति भार्यासमं तीर्थं नास्ति भार्यासमं सुखम् ।
नास्ति भार्यासमं पुण्यं तारणाय हिताय च २४।
धर्मयुक्तां सतीं भार्यां त्यक्त्वा यासि नराधम ।
गृहं धर्मं परित्यज्य क्वास्ते धर्मस्य ते फलम् २५।
तया विना यदा तीर्थे श्राद्धदानं कृतं त्वया ।
तेन दोषेण वै बद्धास्तव पूर्वपितामहाः २६।
भवांश्चौरो ह्यमी चौरा यैस्तु भुक्तं सुलोलुपैः ।
त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना २७।
सुपुत्रः श्रद्धया युक्तः श्राद्धदानं ददाति यः ।
भार्या दत्तेन पिंडेन तस्य पुण्यं वदाम्यहम् २८।
यथाऽमृतस्य पानेन नृणां तृप्तिर्हि जायते ।
तथा पितॄणां श्राद्धेन सत्यंसत्यं वदाम्यहम् २९।
गार्हस्थ्यस्य च धर्मस्य भार्या भवति स्वामिनी ।
त्वयैषा वंचिता मूढ चौरकर्मकृतं वृथा ३०।
अमी पितामहाश्चौरा यैर्भुक्तं तु तया विना ।
भार्या पचति चेदन्नं स्वहस्तेनामृतोपमम् ३१।
तदन्नमेवभुंजंति पितरो हृष्टमानसाः ।
तेनैव तृप्तिमायांति संतुष्टाश्च भवंति ते ३२।
तस्माद्भार्यां विना धर्मः पुरुषस्य न सिध्यति ।
नास्ति भार्यासमं तीर्थं पुंसां सुगतिदायकम् ३३।
भार्यां विना च यो धर्मः स एव विफलो भवेत् ३४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे एकोनषष्टितमोऽध्यायः ५९ ।