पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६०

कृकल उवाच-
कथं मे जायते सिद्धिः कथं पितृविमोचनम् ।
एतन्मे विस्तरेणापि धर्मराज वदाधुना १।
धर्म उवाच-
गच्छ गेहं महाभाग त्वां विना दुःखमाचरत् ।
संबोधय त्वं सुकलां स्वपत्नीं धर्मचारिणीम् २।
श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु ।
स्मृत्वा पुण्यानि तीर्थानि यजस्व त्वं सुरोत्तमान् ३।
तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति ।
भार्यां विना तु यो लोके धर्मं साधितुमिच्छति ४।
स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनम् ।
विफलो जायते लोके तं न मन्यंति देवताः ५।
यज्ञाः सिद्धिं तदायांति यदा स्याद्गृहिणी गृहे ।
एकाकी स समर्थो न धर्मार्थसाधनाय च ६।
विष्णुरुवाच-
एवमुक्त्वा च तं वैश्यं गतो धर्मो यथागतम् ।
कृकलोपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः ७।
स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम् ।
सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान् ८।
तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम् ।
कृतं सुमंगलं पुण्यं भर्तुरागमने तदा ९।
समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितम् ।
समाकर्ण्य महाभागा भर्तुर्वाक्यं मुदावहम् १०।
धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा ।
विष्णुरुवाच-
अथो स कृकलो वैश्यस्तया सार्धं सुपुण्यकम् ११।
चकार श्रद्धया श्राद्धं देवतागृहसंस्थितः ।
पितरो देव गंधर्वा विमानैश्च समागताः १२।
तुष्टुवुस्तौ महात्मानौ दंपती मुनयस्तथा ।
अहं चापि तथा ब्रह्मा देव्यायुक्तो महेश्वरः १३।
सर्वे देवाः सगंधर्वा विमानैश्च समागताः ।
अहमेव ततो ब्रह्मा देव्यायुक्तो महेश्वरः १४।
सर्वे देवाः सगंधर्वास्तस्याः सत्येन तोषिताः ।
ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपंडितौ १५।
भार्यया सह भद्रं ते वरं वरय सुव्रत ।
कृकल उवाच-
कस्य पुण्यप्रसंगेन तपसश्च सुरोत्तमाः १६।
सभार्याय वरं दातुं भवंतो हि समागताः ।
इंद्र उवाच-
एषा सती महाभागा सुकला चारुमंगला १७।
अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव ।
समासेन तु तत्प्रोक्तं पूर्ववृत्तांतमेव च १८।
तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः ।
तया सह स धर्मात्मा हर्षव्याकुललोचनः १९।
ननाम देवताः सर्वा उवाच च पुनः पुनः ।
यदि तुष्टा महाभागा त्रयो देवाः सनातनाः २०।
अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि ।
जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् २१।
धर्मसत्यरतिः स्यान्मे भवतां हि प्रसादतः ।
पश्चाद्धि वैष्णवं लोकं सभार्यश्च पितामहैः २२।
गंतुमिच्छाम्यहं देवा यदि तुष्टा महौजसः ।
देवा ऊचुः-
एवमस्तु महाभाग सर्वमेव भविष्यति २३।
पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते ।
जगुर्गीतं महापुण्यं ललितं सुस्वरं ततः २४।
गंधर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः ।
ततो देवाः सगंधर्वाः स्वंस्वं स्थानं नृपोत्तम २५।
वरं दत्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम् ।
नारीतीर्थं समाख्यातमन्यत्किंचिद्वदामि ते २६।
एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम् ।
यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते २७।
श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम् ।
सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते २८।
मोदते धनधान्येन सहभर्त्रा सुखी भवेत् ।
पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा २९।
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् ।
धनधान्यं भवेच्चैव वैश्यगेहे न संशयः ३०।
धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत् ।
शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते ३१।
विपुला जायते लक्ष्मीर्धनधान्यैरलंकृता ३२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षष्टितमोऽध्यायः ६० ।