पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७३

← अध्यायः ०७२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७३
अज्ञातलेखकः
अध्यायः ०७४ →

पिप्पल उवाच-
गते तस्मिन्महाभागे दूत इंद्रस्य वै पुनः ।
किं चकार स धर्मात्मा ययातिर्नहुषात्मजः १।
सुकर्मोवाच-
तस्मिन्गते देववरस्य दूते स चिंतयामास नरेंद्रसूनुः ।
आहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश २।
गच्छंतु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोके ।
कुर्वंतु वाक्यं मम धर्मयुक्तं व्रजंतु लोकाः सुपथा हरेश्च ३।
भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः ।
यज्ञैश्च दानैर्मधुसूदनैकमर्चंतु लोका विषयान्विहाय ४।
सर्वत्र पश्यंत्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु ।
अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम् ५।
देवं तमुद्दिश्य ददंतु दानमातिथ्यभावैः परिपैत्रिकैश्च ।
नारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ ६।
यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत् ।
स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः ७।
आकर्ण्य वाक्यं नृपतेश्च दूताःसंहृष्टभावाः सकलां च पृथ्वीम् ।
आचख्युरेवं नृपतेः प्रणीतमादेशभावं सकलं प्रजासु ८।
विप्रादिमर्त्या अमृतं सुपुण्यमानीतमेवं भुवि तेन राज्ञा ।
पिबंतु पुण्यं परिवैष्णवाख्यं दोषैर्विहीनं परिणाममिष्टम् ९।
श्रीकेशवं क्लेशहरं वरेण्यमानंदरूपं परमार्थमेवम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १०।
सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ११।
श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगतां महेशम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १२।
पापापहं व्याधिविनाशरूपमानंददं दानवदैत्यनाशनम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १३।
यज्ञांगरूपं चरथांगपाणिं पुण्याकरं सौख्यमनंतरूपम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १४।
विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १५।
आदित्यरूपं तमसां विनाशं बंधस्यनाशं मतिपंकजानाम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १६।
नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तः ।
प्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च १७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते त्रिसप्ततितमोऽध्यायः ७३।