पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८०

← अध्यायः ०७९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ८०
अज्ञातलेखकः
अध्यायः ०८१ →

पिप्पल उवाच-
कामकन्यां यदा राजा उपयेमे द्विजोत्तम ।
किं चक्राते तदा ते द्वे पूर्वभार्ये सुपुण्यके १।
देवयानी महाभागा शर्मिष्ठा वार्षपर्वणी ।
तयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रतः २।
सुकर्मोवाच-
यदानीता कामकन्या स्वगृहं तेन भूभुजा ।
अत्यर्थं स्पर्धते सा तु देवयानी मनस्विनी ३।
तस्यार्थे तु सुतौ शप्तौ क्रोधेनाकुलितात्मना ।
शर्मिष्ठां च समाहूय शब्दं चक्रे यशस्विनी ४।
रूपेण तेजसा दानैः सत्यपुण्यव्रतैस्तथा ।
शर्मिष्ठा देवयानी च स्पर्धेते स्म तया सह ५।
दुष्टभावं तयोश्चापि साऽज्ञासीत्कामजा तदा ।
राज्ञे सर्वं तया विप्र कथितं तत्क्षणादिह ६।
अथ क्रुद्धो महाराजः समाहूयाब्रवीद्यदुम् ।
शर्मिष्ठा वध्यतां गत्वा शुक्रपुत्री तथा पुनः ७।
सुप्रियं कुरु मे वत्स यदि श्रेयो हि मन्यसे ।
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं यदुस्तदा ८।
प्रत्युवाच नृपेंद्रं तं पितरं प्रति मानद ।
नाहं तु घातये तात मातरौ दोषवर्जिते ९।
मातृघाते महादोषः कथितो वेदपंडितैः ।
तस्माद्घातं महाराज एतयोर्न करोम्यहम् १०।
दोषाणां तु सहस्रेण माता लिप्ता यदा भवेत् ।
भगिनी च महाराज दुहिता च तथा पुनः ११।
पुत्रैर्वा भ्रातृभिश्चैव नैव वध्या भवेत्कदा ।
एवं ज्ञात्वा महाराज मातरौ नैव घातये १२।
यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूव ह ।
शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः १३।
यस्मादाज्ञाहता त्वद्य त्वया पापि समोपि हि ।
मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः १४।
एवमुक्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः ।
पुत्रं शप्त्वा महाराजस्तया सार्द्धं महायशाः १५।
रमते सुखभोगेन विष्णोर्ध्यानेन तत्परः ।
अश्रुबिंदुमतीसा च तेन सार्द्धं सुलोचना १६।
बुभुजे चारुसर्वांगी पुण्यान्भोगान्मनोनुगान् ।
एवं कालो गतस्तस्य ययातेस्तु महात्मनः १७।
अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथा ।
सर्वे लोका महाभाग विष्णुध्यानपरायणाः १८।
तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल ।
सर्वे लोका महाभाग सुखिनः साधुसेवकाः १९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रेऽशीतितमोऽध्यायः ८०।