पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०१

← अध्यायः १०० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०१
अज्ञातलेखकः
अध्यायः १०२ →

सूत उवाच-
देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम् ।
समाचष्ट महाश्रेय आख्यानं पापनाशनम् १।
श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् ।
द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः २।
विष्णुरुवाच-
कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च ।
समाहूय मुदायुक्त उवाचैनं कपिंजलम् ३।
किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे ।
भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम ४।
तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम् ।
कपिंजल उवाच-
यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम् ५।
यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया ।
तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ६।
शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् ।
कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः ७।
नानाधातुसमाकीर्णो नानावृक्षोपशोभितः ।
गंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः ८।
नदीनां तु सहस्राणि दिव्यानि विविधानि च ।
यस्मात्तात प्रसूतानि जलानि विविधानि च ९।
तडागानि सहस्राणि सोदकानि महागिरौ ।
नद्यः संति विशालिन्यो हंससारससेविताः १०।
तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः ।
वनानि विविधान्येव पुष्पितानि फलानि च ११।
नानावृक्षोपयुक्तानि हरितानि शुभानि च ।
किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः १२।
गंधर्वचारणैः सिद्धैर्देववृंदैः सुशोभितः ।
दिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः १३।
दिव्यगंधैः सुशोभाढ्यैर्नानारत्नसमन्वितः ।
शिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः १४।
सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलः ।
चंदनैश्चारुगंधैश्च बकुलैर्नीलपुष्पकैः १५।
नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः ।
पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते १६।
षट्पदानां निनादैश्च वृक्षौघैर्मधुरायते ।
रुतैश्च कोकिलानां तु शोभते स वनो गिरिः १७।
गणकोटिसमाकीर्णं तत्रास्ति शिवमंदिरम् ।
अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम् १८।
सिंहैश्च गर्जमानैश्च सैरिभैः कुंजरैस्ततः ।
दिग्गजानां सुघोषैश्च शब्दितं च समंततः १९।
नानामृगैः समाकीर्णं शाखामृगगणाकुलम् ।
मयूरकेकाघोषैश्च गुहासु च विनादितम् २०।
कंदरैर्लेपनैः कूटैः सानुभिश्च विराजितम् ।
नानाप्रस्रवणोपेतमोषधीभिर्विराजितम् २१।
दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम् ।
सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् २२।
पुलिंदभिल्लकोलैश्च सेवितं पर्वतोत्तमम् ।
विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते २३।
अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मंगलैः शुभैः ।
गंगोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे २४।
शंकरस्य गृहं तत्र कैलासं गतवानहम् ।
तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम् २५।
श्रूयतामभिधास्यामि तात सर्वं मयोदितम् ।
शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात् २६।
हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुवि ।
गंगायाश्च महाभाग रंहसा घोषभूषितः २७।
कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतः ।
दशयोजनमानेन तत्र गंगा ह्रदो महान् २८।
महातोयेन पुण्येन विमलेन विराजते ।
सर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते २९।
सामोच्चारेण पुण्येन दिव्येन मधुरेण च ।
हंसास्तत्र प्रकूजंति सरस्तेन विराजते ३०।
तस्य तीरे शिलायां वै हिमकन्या महामते ।
आसीना मुक्तकेशांता रूपद्रविणशालिनी ३१।
दिव्यरूपसुसंपन्ना सगुणा दिव्यलक्षणा ।
दिव्यालंकारभूषा च तस्यास्तीरे विराजते ३२।
न जाने गिरिराजस्य तनया वा महोदधेः ।
नो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति ३३।
इंद्राणी वा महाभागा रोहिणी वा भविष्यति ।
ईदृशी रूपसंपत्तिर्युवतीनां न दृश्यते ३४।
अन्यासां च सुदिव्यानां नारीणां तात सर्वथा ।
यादृशं रूपसंभावं गुणशीलं प्रदृश्यते ३५।
अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् ।
यादृशं तु मया दृष्टं तदंगं विश्वमोहनम् ३६।
शिलापदे समासीना दुःखेनापि समाकुला ।
रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना ३७।
अश्रूणि मुंचमाना सा मुक्ताभानि बहूनि च ।
निर्मलानि सरस्यत्र पतंत्येव महामते ३८।
बिंदवो मौक्तिकाभास्ते निपतंति महोदके ।
तेभ्यो भवंति पद्मानि हृद्यानि सुरभीणि तु ३९।
पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते ।
गंगांभसि तरंत्येव असंख्यातानि तानि तु ४०।
पतितानि सुहृद्यानि रंहसा यानि तानि तु ।
गंगाप्रवाहमध्ये तु हंसवृंदैः सुसेविते ४१।
भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः ।
कैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम् ४२।
वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः ।
हंसवृंदसमाकीर्णो जलपक्षि समाकुलः ४३।
नानावर्णविशेषाणि संति पद्मानि तत्र च ।
प्रवाहे निर्मले तात मुनिवृंदनिषेविते ४४।
अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु ।
गंगोदकप्लुतान्येव सौरभाणि महांति च ४५।
प्रतरंति प्रवाहे तु निर्मले जलपूरिते ।
मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते ४६।
सूत उवाच-
रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः ।
देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा ४७।
तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः ।
जटाभारसमाक्रांतो निर्वासा दंडधारकः ४८।
निराधारो निराहारस्तपसातीव दुर्बलः ।
कृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः ४९।
भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनः ।
शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ५०।
शिवभक्तिसमासीनो दुराधारो महातपाः ।
अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च ५१।
गंगातोयात्समानीय देवदेवं प्रपूजयेत् ।
रत्नेश्वरं महाभागो गीतनृत्यविशारदः ५२।
गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः ।
मठमागत्य धर्मात्मा रोदते सुस्वरैरपि ५३।
एतद्दृष्टं मया तात अपूर्वं वदतांवर ।
कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम् ५४।
सा का नारी महाभागा कस्मात्तात प्ररोदिति ।
कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम् ५५।
तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम् ।
एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि ५६।
कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः ५७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे एकाधिकशततमोऽध्यायः १०१।