पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०९

← अध्यायः १०८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०९
अज्ञातलेखकः
अध्यायः ११० →

कुंजल उवाच-
प्रणिपत्य प्रसाद्यैव वशिष्ठं तपतां वरम् ।
आमंत्र्य निर्जगामाथ बाणपाणिर्धनुर्धरः १।
एणस्य मांसं सुविपाच्यभोजितं बालस्तया रक्षित एव बुद्ध्या ।
आयोः सुपुत्रः सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः २।
तेनैव मांसेन सुसंस्कृतेन मृष्टेन पक्वेन रसानुगेन ।
तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ३।
बुभुजे दानवो मांसं रसस्वादुसमन्वितम् ।
हर्षेणापि समाविष्टो जगामाशोकसुंदरीम् ४।
तामुवाच ततस्तूर्णं कामोपहतचेतनः ।
आयुपुत्रो मया भद्रे भक्षितः पतिरेव ते ५।
मामेव भज चार्वंगि भुंक्ष्व भोगान्मनोनुगान् ।
किं करिष्यसि तेन त्वं मानुषेण गतायुषा ६।
प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी ।
भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः ७।
तस्य मृत्युर्न वै दृष्टो देवैरपि महात्मभिः ।
एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः ८।
तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः ।
अद्यैव भक्षितं मांसमायुपुत्रस्य सुंदरि ९।
जातमात्रस्य बालस्य नहुषस्य दुरात्मनः ।
एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम् १०।
प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः ।
तप एव मया तप्तं मनसा नियमेन वै ।
आयुसुतश्चिरायुश्च सत्येनैव भविष्यति ११।
इतो गच्छ दुराचार यदि जीवितुमिच्छसि ।
अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः १२।
एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति ।
परित्यज्य महाराज एतामन्यां समाश्रय १३।
सूदेन प्रेषितो दैत्यः स हुंडः पापचेतनः ।
निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति १४।
चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम् ।
तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च १५।
सूत उवाच-
अशोकसुंदरी सा च महता तपसा किल ।
दुःखशोकेन संतप्ता कृशीभूता तपस्विनी १६।
चिंतयंती प्रियं कांतं तं ध्यायति पुनः पुनः ।
किं न कुर्वंति वै दैत्या उपायैर्विविधैरपि १७।
उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा ।
वर्तंते दनुजश्रेष्ठा नानाभावैश्च सर्वदा १८।
मायोपायेन योगेन हृताहं पापिना पुरा ।
तथा स घातितः पुत्र आयोश्चैव भविष्यति १९।
यं दृष्ट्वा दैवयोगेन भवितारमनामयम् ।
उद्यमेनापि पश्येत किं वा नश्यति वा न वा २०।
किं वा स उद्यमः श्रेष्ठः किं वा तत्कर्मजं फलम् ।
भाविभावः कथं नश्येत्ततो वेदः प्रतिष्ठति २१।
विशेषो भावितो देवैः स कथं चान्यथा भवेत् ।
एवमेवं महाभागा चिंतयंती पुनः पुनः २२।
किन्नरो विद्वरो नाम बृहद्वंशोमहातनुः ।
सनाभ्योर्धनरः कायः पक्षाभ्यां हि विवर्जितः २३।
द्विभुजो वंशहस्तस्तु हारकंकणशोभितः ।
दिव्यगंधानुलिप्तांगो भार्यया सह चागतः २४।
तामुवाच निरानंदां स सुतां शंकरस्यहि ।
किमर्थं चिंतसे देवि विद्वरं विद्धि चागतम् २५।
किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः ।
दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति २६।
हुंडेन पापचारेण वधार्थं तस्य धीमतः ।
कृतमेवाखिलं कर्म हृतश्चायुसुतः शुभे २७।
स तु वै रक्षितो देवैरुपायैर्विविधैरपि ।
हुंड एवं विजानाति आयुपुत्रो हृतो मया २८।
भक्षितस्तु विशालाक्षि इति जानाति वै शुभे ।
भवतां श्रावयित्वा हि गतोसौ दानवोऽधमः २९।
स्वेनकर्मविपाकेन पुण्यस्यापि महायशाः ।
पूर्वजन्मार्जितेनैव तव भर्त्ता स जीवति ३०।
पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम् ।
स्वर्जितस्य महाभागे नाशमिच्छंति घातकाः ३१।
दुष्टात्मानो महापापाः परतेजोविदूषकाः ।
तेषां यशोविनाशार्थं प्रपंचंति दिने दिने ३२।
नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः ।
हंतुमिच्छंति तं पुण्यं पुण्यकर्माभिरक्षितम् ३३।
पापिनश्चैव हुंडाद्या मोहनस्तंभनादिभिः ।
पीडयंति महापापा नानाभेदैर्बलाविलैः ३४।
सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि ।
पुण्यस्यापि महाभागे पुण्यवंतं सुरक्षितम् ३५।
वैफल्यं यांति तेषां वै उपायाः पापिनां शुभे ।
यंत्रतंत्राणि मंत्राश्च शस्त्राग्निविषबंधनाः ३६।
रक्षयंति महात्मानं देवपुण्यैः सुरक्षितम् ।
कर्तारो भस्मतां यांति स वै तिष्ठति पुण्यभाक् ३७।
आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे ।
पुण्यस्य संचयं सर्वे तपसां निधिमेव तु ३८।
तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः ।
सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः ३९।
मा कृथा दारुणं दुःखं मुंच शोकमकारणम् ।
स हि जीवति धर्मात्मा मात्रा पित्रा विना वने ४०।
तपोवनेव सत्येकस्तपस्वि परिपालितः ।
वेदवेदांगतत्त्वज्ञो धनुर्वेदस्य पारगः ४१।
यथा शशी विराजेत स्वकलाभिः स्वतेजसा ।
तथा विराजते सोऽपि स्वकलाभिः सुमध्यमे ४२।
विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा ।
राजते परवीरघ्नो रिपुहा सुरवल्लभः ४३।
हुंडं निहत्य दैत्येंद्रं त्वामेवं हि प्रलप्स्यते ।
त्वया सार्द्धं स्त्रिया चैव पृथिव्यामेकभूपतिः ४४।
भविष्यति महायोगी यथा स्वर्गे तु वासवः ।
त्वं तस्मात्प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम् ४५।
ययातिं नामधर्मज्ञं प्रजापालनतत्परम् ।
तथा कन्याशतं चापि रूपौदार्यगुणान्वितम् ४६।
यासां पुण्यैर्महाराज इंद्रलोकं प्रयास्यति ।
इंद्रत्वं भोक्ष्यते देवि नहुषः पुण्यविक्रमः ४७।
ययातिर्नाम धर्मात्मा आत्मजस्ते भविष्यति ।
प्रजापालो महाराजः सर्वजीवदयापरः ४८।
तस्य पुत्रास्तु चत्वारो भविष्यंति महौजसः ।
बलवीर्यसमोपेता धनुर्वेदस्य पारगाः ४९।
प्रथमश्च तुरुर्नाम पुरुर्नाम द्वितीयकः ।
उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः ५०।
एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः ।
भविष्यंति महात्मानः सर्वतेजः समन्विताः ५१।
यदोश्चैव सुता वीराः सिंहतुल्यपराक्रमाः ।
तेषां नामानि भद्रं ते गदतः शृणु सांप्रतम् ५२।
भोजश्च भीमकश्चापि अंधकः कुञ्जरस्तथा ।
वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति ५३।
षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः ।
कालदंष्ट्रो महावीर्यः समरे कालजिद्बली ५४।
यदोः पुत्रा महावीर्या यादवाख्या वरानने ।
तेषां तु पुत्राः पौत्रास्ते भविष्यंति सहस्रशः ५५।
एवं नहुषवंशो वै तव देवि भविष्यति ।
दुःखमेवं परित्यज्य सुखेनानुप्रवर्तय ५६।
समेष्यति महाप्राज्ञस्तव भर्ता शुभानने ।
निहत्य दानवं हुंडं त्वामेवं परिणेष्यति ५७।
दुःखजातानि सोष्णानि नेत्राभ्यां हि पतंति च ।
अश्रूणि चेंदुमत्याश्च संमार्जयति मानदः ५८।
आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति ।
सुखिनं पितरं कृत्वा प्रजापालो भविष्यति ५९।
एतत्ते सर्वमाख्यातं देवानां कथनं शुभे ।
दुःखं शोकं परित्यज्य सुखेन परिवर्त्तय ६०।
अशोकसुंदर्युवाच-
कदा ह्येष्यति मे भर्त्ता विहितो दैवतैर्यदि ।
सत्यं वद स्वधर्मज्ञ मम सौख्यं विवर्द्धय ६१।
विद्वर उवाच-
अचिराद्द्रक्ष्यसि भर्तारं त्वमेवं शृणु सुंदरि ।
एवमुक्त्वा जगामाथ गंधर्वो विबुधालयम् ६२।
अशोकसुंदरी सा च तपस्तेपे हि तत्र वै ।
कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा ६३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने नवाधिकशततमोऽध्यायः १०९।